निरुक्तम्
Nirukta
श्लोक 1.1
समाम्नायः समाम्नातः । स व्याख्यातव्यः । तमिमं समाम्नायं निघण्टव इत्याचक्षते । निघण्टवः कस्मात् । निगमा इमे भवन्ति । छन्दोभ्यः समाहृत्य समाहृत्य समाम्नाताः । ते निगन्तव एव सन्तो निगमनान्निघण्टव उच्यन्त इत्यौपमन्यवः । अपि वा हननादेव स्युः । समाहता भवन्ति । यद्वा समाहृता भवन्ति । तद् यानि चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च तानीमानि भवन्ति । तत्रैतन्नामाख्यातयोर्लक्षणं प्रदिशन्ति । भावप्रधानमाख्यातम् । सत्त्वप्रधानानि नामानि । तद् यत्रोभे भावप्रधाने भवतः पूर्वापरीभूतं भावमाख्यातेनाचष्टे । व्रजति पचतीति । उपक्रमप्रभृत्यपवर्गपर्यन्तं मूर्तं सत्त्वभूतं सत्त्वनामभिः । व्रज्या पक्तिरिति । अद इति सत्त्वानामुपदेशः । गौरश्वः पुरुषो हस्तीति । भवतीति भावस्य । आस्ते शेते व्रजति तिष्ठतीति । इन्द्रियनित्यं वचनमौदुम्बरायणः
samāmnāyaḥ samāmnātaḥ | sa vyākhyātavyaḥ | tamimaṁ samāmnāyaṁ nighaṇṭava ityācakṣate | nighaṇṭavaḥ kasmāt | nigamā ime bhavanti | chandobhyaḥ samāhṛtya samāhṛtya samāmnātāḥ | te nigantava eva santo nigamanānnighaṇṭava ucyanta ityaupamanyavaḥ | api vā hananādeva syuḥ | samāhatā bhavanti | yadvā samāhṛtā bhavanti | tad yāni catvāri padajātāni nāmākhyāte copasarganipātāśca tānīmāni bhavanti | tatraitannāmākhyātayorlakṣaṇaṁ pradiśanti | bhāvapradhānamākhyātam | sattvapradhānāni nāmāni | tad yatrobhe bhāvapradhāne bhavataḥ pūrvāparībhūtaṁ bhāvamākhyātenācaṣṭe | vrajati pacatīti | upakramaprabhṛtyapavargaparyantaṁ mūrtaṁ sattvabhūtaṁ sattvanāmabhiḥ | vrajyā paktiriti | ada iti sattvānāmupadeśaḥ | gauraśvaḥ puruṣo hastīti | bhavatīti bhāvasya | āste śete vrajati tiṣṭhatīti | indriyanityaṁ vacanamaudumbarāyaṇaḥ
समाम्नाय (परम्परा से पठित शब्द-सूची) को निघण्टु कहते हैं। औपमन्यव के मत में यह नाम निगम-वचनों के संकलन (नि-गम) से बना है, अथवा 'हनन' अर्थात् संचय-धातु से। तदनन्तर यास्क चार पदजातियाँ बताते हैं — नाम, आख्यात, उपसर्ग और निपात। आख्यात में भाव (होने की प्रक्रिया) प्रधान है, नाम में सत्त्व (वस्तु) प्रधान है — जैसे 'व्रजति, पचति' क्रिया को आदि से अन्त तक दिखाते हैं, जबकि 'व्रज्या, पक्तिः' उसी को सिद्ध वस्तु-रूप में नाम देते हैं। औदुम्बरायण के अनुसार 'आस्ते, शेते, व्रजति, तिष्ठति' का वचन सदा इन्द्रियों से सम्बद्ध रहता है।
श्लोक 1.2
तत्र चतुष्ट्वं नोपपद्यते । अयुगपदुत्पन्नानां वा शब्दानामितरेतरोपदेशः । शास्त्रकृतो योगश्च । व्याप्तिमत्त्वात्तु शब्दस्याणीयस्त्वाच्च शब्देन संज्ञाकरणं व्यवहारार्थं लोके । तेषां मनुष्यवद् देवताभिधानम् । पुरुषविद्यानित्यत्वात् कर्मसंपत्तिर्मन्त्रो वेदे । षड्भावविकारा भवन्तीति वार्ष्यायणिः । जायतेऽस्ति विपरिणमते वर्धतेऽपक्षीयते विनश्यतीति । जायत इति पूर्वभावस्यादिमाचष्टे । नापरभावमाचष्टे न प्रतिषेधति । अस्तीत्युत्पन्नस्य सत्त्वस्यावधारणम् । विपरिणमत इत्यप्रच्यवमानस्य तत्त्वाद् विकारम् । वर्धत इति स्वाङ्गाभ्युच्चयम् । सांयौगिकानां वार्थानाम् । वर्धते विजयेनेति वा । वर्धते शरीरेणेति वा । अपक्षीयत इत्येतेनैव व्याख्यातः प्रतिलोमम् । विनश्यतीत्यपरभावस्यादिमाचष्टे । न पूर्वभावमाचष्टे न प्रतिषेधति
tatra catuṣṭvaṁ nopapadyate | ayugapadutpannānāṁ vā śabdānāmitaretaropadeśaḥ | śāstrakṛto yogaśca | vyāptimattvāttu śabdasyāṇīyastvācca śabdena saṁjñākaraṇaṁ vyavahārārthaṁ loke | teṣāṁ manuṣyavad devatābhidhānam | puruṣavidyānityatvāt karmasaṁpattirmantro vede | ṣaḍbhāvavikārā bhavantīti vārṣyāyaṇiḥ | jāyate'sti vipariṇamate vardhate'pakṣīyate vinaśyatīti | jāyata iti pūrvabhāvasyādimācaṣṭe | nāparabhāvamācaṣṭe na pratiṣedhati | astītyutpannasya sattvasyāvadhāraṇam | vipariṇamata ityapracyavamānasya tattvād vikāram | vardhata iti svāṅgābhyuccayam | sāṁyaugikānāṁ vārthānām | vardhate vijayeneti vā | vardhate śarīreṇeti vā | apakṣīyata ityetenaiva vyākhyātaḥ pratilomam | vinaśyatītyaparabhāvasyādimācaṣṭe | na pūrvabhāvamācaṣṭe na pratiṣedhati
यहाँ प्रश्न है कि चार पदजातियाँ ही क्यों मानी जाएँ। वार्ष्यायणि के अनुसार सत्त्व के छह भाव-विकार होते हैं — उत्पन्न होना, रहना, परिणत होना, बढ़ना, क्षीण होना और नष्ट होना। यास्क प्रत्येक का विश्लेषण करते हैं: 'जायते' पूर्वभाव का आरम्भ बताता है, न कि उत्तरभाव का निषेध; 'अस्ति' उत्पन्न सत्त्व का अवधारण है; 'विपरिणमते' तत्त्व-अच्युत रहते हुए विकार है; 'वर्धते' अपने अंगों की वृद्धि है; 'अपक्षीयते' इसका ही विलोम है; और 'विनश्यति' उत्तरभाव का आरम्भ बताता है, पूर्वभाव का निषेध नहीं करता।
श्लोक 1.3
अतोऽन्ये भावविकारा एतेषामेव विकारा भवन्तीति ह स्माह । ते यथावचनमभ्यूहितव्याः । न निर्बद्धा उपसर्गा अर्थान्निराहुरिति शाकटायनः । नामाख्यातयोस्तु कर्मोपसंयोगद्योतका भवन्ति । उच्चावचाः पदार्था भवन्तीति गार्ग्यः । तद् य एषु पदार्थः प्राहुरिमे तं नामाख्यातयोरर्थविकरणम् । आ इत्यर्वागर्थे । प्र परा इत्येतस्य प्रातिलोम्यम् । अभि इत्याभिमुख्यम् । प्रति इत्येतस्य प्रातिलोम्यम् । अति सु इत्यभिपूजितार्थे । निर् दुर् इत्येतयोः प्रातिलोम्यम् । नि अव इति विनिग्रहार्थीया । उद् इत्येतयोः प्रातिलोम्यम् । सम् इत्येकीभावम् । वि अप इत्येतस्य प्रातिलोम्यम् । अनु इति सादृश्यापरभावम् । अपि इति संसर्गम् । उप इत्युपजनम् । परि इति सर्वतोभावम् । अधि इत्युपरिभावमैश्वर्यं वा । एवमुच्चावचानर्थान्प्राहुः । त उपेक्षितव्याः
ato'nye bhāvavikārā eteṣāmeva vikārā bhavantīti ha smāha | te yathāvacanamabhyūhitavyāḥ | na nirbaddhā upasargā arthānnirāhuriti śākaṭāyanaḥ | nāmākhyātayostu karmopasaṁyogadyotakā bhavanti | uccāvacāḥ padārthā bhavantīti gārgyaḥ | tad ya eṣu padārthaḥ prāhurime taṁ nāmākhyātayorarthavikaraṇam | ā ityarvāgarthe | pra parā ityetasya prātilomyam | abhi ityābhimukhyam | prati ityetasya prātilomyam | ati su ityabhipūjitārthe | nir dur ityetayoḥ prātilomyam | ni ava iti vinigrahārthīyā | ud ityetayoḥ prātilomyam | sam ityekībhāvam | vi apa ityetasya prātilomyam | anu iti sādṛśyāparabhāvam | api iti saṁsargam | upa ityupajanam | pari iti sarvatobhāvam | adhi ityuparibhāvamaiśvaryaṁ vā | evamuccāvacānarthānprāhuḥ | ta upekṣitavyāḥ
अन्य भाव-विकार इन्हीं छह के उपभेद माने जाते हैं, और उन्हें अपने-अपने प्रयोग के अनुसार समझना चाहिए। शाकटायन का मत है कि उपसर्ग अकेले निश्चित अर्थ नहीं बताते; गार्ग्य कहते हैं कि नाम-आख्यात में वे केवल कर्म के संयोग को द्योतित करने वाले होते हैं, और भिन्न-भिन्न शब्दार्थ बताते हैं। इसके बाद बीस उपसर्गों — आ, प्र-परा, अभि, प्रति, अति-सु, निर्-दुर्, नि-अव, उद्, सम्, वि-अप, अनु, अपि, उप, परि, अधि — का संक्षिप्त अर्थ-निरूपण दिया गया है, जिनकी उपेक्षा (स्वतन्त्र विवेचना) आवश्यक नहीं समझी जाती।
श्लोक 1.4
अथ निपाता उच्चावचेष्वर्थेषु निपतन्ति । अप्युपमार्थे । अपि कर्मोपसंग्रहार्थे । अपि पदपूरणाः । तेषामेते चत्वार उपमार्थे भवन्ति । इवेति भाषायां च । अन्वध्यायं च । अग्निरिव । इन्द्र इव । इति । नेति प्रतिषेधार्थीयो भाषायाम् । उभयमन्वध्यायम् । नेन्द्रं देवममंसत । इति प्रतिषेधार्थीयः । पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति । दुर्मदासो न सुरायाम् । इत्युपमार्थीयः । उपरिष्टादुपाचारस्तस्य येनोपमिमीते । चिदित्येषोऽनेककर्मा । आचार्यश्चिदिदं ब्रूयात् । इति पूजायाम् । आचार्यः कस्मादाचार्य आचारं ग्राहयति । आचिनोत्यर्थान् । आचिनोति बुद्धिमिति वा । दधिचित् । इत्युपमार्थे । कुल्माषांश्चिदाहर । इत्यवकुत्सिते । कुल्माषाः कुलेषु सीदन्ति। नु इत्येषोऽनेककर्मा । इदं नु करिष्यति । इति हेत्वपदेशे । कथं नु करिष्यति । इत्यनुपृष्टे। नन्वेतदकार्षीत् । इति च । अथाप्युपमार्थे भवति । वृक्षस्य॒ नु ते पुरुहूत वयाः । वृक्षस्येव ते पुरुहूत शाखाः । वयाः शाखा वेतेः । वातायना भवन्ति । शाखाः खशयाः । शक्नोतेर्वा । अथ यस्यागमादर्थपृथक्त्वमह विज्ञायते न त्वौद्देशिकमिव विर्ग्रहेण पृथक्त्वात्स कर्मोपसंग्रहः । चेति समुच्चयार्थ उभाभ्यां संप्रयुज्यते । अहं च त्वं च वृत्रहन् । इति । एतस्मिन्नेवार्थे । देवेभ्यश्च पितृभ्य आ । इत्याकारः । वेति विचारणार्थे । हन्ताहं पृथिवीमिमां न दधानीह वेह वा । इति । अथापि समुच्चयार्थे भवति
atha nipātā uccāvaceṣvartheṣu nipatanti | apyupamārthe | api karmopasaṁgrahārthe | api padapūraṇāḥ | teṣāmete catvāra upamārthe bhavanti | iveti bhāṣāyāṁ ca | anvadhyāyaṁ ca | agniriva | indra iva | iti | neti pratiṣedhārthīyo bhāṣāyām | ubhayamanvadhyāyam | nendraṁ devamamaṁsata | iti pratiṣedhārthīyaḥ | purastādupācārastasya yatpratiṣedhati | durmadāso na surāyām | ityupamārthīyaḥ | upariṣṭādupācārastasya yenopamimīte | cidityeṣo'nekakarmā | ācāryaścididaṁ brūyāt | iti pūjāyām | ācāryaḥ kasmādācārya ācāraṁ grāhayati | ācinotyarthān | ācinoti buddhimiti vā | dadhicit | ityupamārthe | kulmāṣāṁścidāhara | ityavakutsite | kulmāṣāḥ kuleṣu sīdanti| nu ityeṣo'nekakarmā | idaṁ nu kariṣyati | iti hetvapadeśe | kathaṁ nu kariṣyati | ityanupṛṣṭe| nanvetadakārṣīt | iti ca | athāpyupamārthe bhavati | vṛkṣasya nu te puruhūta vayāḥ | vṛkṣasyeva te puruhūta śākhāḥ | vayāḥ śākhā veteḥ | vātāyanā bhavanti | śākhāḥ khaśayāḥ | śaknotervā | atha yasyāgamādarthapṛthaktvamaha vijñāyate na tvauddeśikamiva virgraheṇa pṛthaktvātsa karmopasaṁgrahaḥ | ceti samuccayārtha ubhābhyāṁ saṁprayujyate | ahaṁ ca tvaṁ ca vṛtrahan | iti | etasminnevārthe | devebhyaśca pitṛbhya ā | ityākāraḥ | veti vicāraṇārthe | hantāhaṁ pṛthivīmimāṁ na dadhānīha veha vā | iti | athāpi samuccayārthe bhavati
अब निपातों (अव्ययों) का वर्णन है, जो विविध अर्थों में प्रयुक्त होते हैं। 'इव' उपमा के लिए है ('अग्निरिव', 'इन्द्र इव'); 'न' प्रतिषेध के लिए है, पर उदाहरण में उपमा भी सिद्ध होती है। 'चित्' अनेक अर्थों में — पूजा, उपमा, अवकुत्सा — प्रयुक्त होता है। 'नु' हेतु, अनुप्रश्न और उपमा के अर्थ में आता है, जैसा वृक्ष-शाखा के दृष्टान्त से दिखाया गया है। इसी प्रकार 'च' समुच्चय के लिए और 'वा' विचारणा (विकल्प) के अर्थ में प्रयुक्त होते हैं, जिनके अनेक ऋग्वेदीय उदाहरण दिए गए हैं।
श्लोक 1.5
वायुर्वा त्वा मनुर्वा त्वा । इति । अह इति च ह इति च विनिग्रहार्थीया । पूर्वेण संप्रयुज्येते । अयमहेदं करोत्वयमिदम् । इदं ह करिष्यतीदं न करिष्यतीति । अथाप्युकार एतस्मिन्नेवार्थ उत्तरेण । मृषेमे वदन्ति सत्यमु ते वदन्तीति । अथापि पदपूरणः । इदमु । तदु । हीत्येषोऽनेककर्मा । इदं हि करिष्यति । इति हेत्वपदेशे । कथं हि करिष्यति । इत्यनुपृष्टे । कथं हि व्याकरिष्यति । इत्यसूयायाम् । किलेति विद्याप्रकर्षे । एवं किलेति । अथापि न ननु इत्येताभ्यां संप्रयुज्यतेऽनुपृष्टे । न किलैवम् । ननु किलैवम् । मेति प्रतिषेधे । मा कार्षीः । मा हार्षीरिति च । खल्विति च । खलु कृत्वा । खलु कृतम् । अथापि पदपूरणः । एवं खलु तद् बभूवेति । शश्वदिति विचिकित्सार्थीयो भाषायाम् । शश्वदेवम् । इत्यनुपृष्टे । एवं शश्वत् । इत्यस्वयं पृष्टे । नूनमिति विचिकित्सार्थीयो भाषायाम् । उभयमन्वध्यायं विचिकित्सार्थीयश्च पदपूरणश्च । अगस्त्य इन्द्राय हविर्निरूप्य मरुद्भ्यः संप्रदित्सांचकार । स इन्द्र एत्य परिदेवयांचक्रे
vāyurvā tvā manurvā tvā | iti | aha iti ca ha iti ca vinigrahārthīyā | pūrveṇa saṁprayujyete | ayamahedaṁ karotvayamidam | idaṁ ha kariṣyatīdaṁ na kariṣyatīti | athāpyukāra etasminnevārtha uttareṇa | mṛṣeme vadanti satyamu te vadantīti | athāpi padapūraṇaḥ | idamu | tadu | hītyeṣo'nekakarmā | idaṁ hi kariṣyati | iti hetvapadeśe | kathaṁ hi kariṣyati | ityanupṛṣṭe | kathaṁ hi vyākariṣyati | ityasūyāyām | kileti vidyāprakarṣe | evaṁ kileti | athāpi na nanu ityetābhyāṁ saṁprayujyate'nupṛṣṭe | na kilaivam | nanu kilaivam | meti pratiṣedhe | mā kārṣīḥ | mā hārṣīriti ca | khalviti ca | khalu kṛtvā | khalu kṛtam | athāpi padapūraṇaḥ | evaṁ khalu tad babhūveti | śaśvaditi vicikitsārthīyo bhāṣāyām | śaśvadevam | ityanupṛṣṭe | evaṁ śaśvat | ityasvayaṁ pṛṣṭe | nūnamiti vicikitsārthīyo bhāṣāyām | ubhayamanvadhyāyaṁ vicikitsārthīyaśca padapūraṇaśca | agastya indrāya havirnirūpya marudbhyaḥ saṁpraditsāṁcakāra | sa indra etya paridevayāṁcakre
यहाँ और निपातों की व्याख्या जारी है। 'अह' और 'ह' विनिग्रह (निश्चय) के अर्थ में पूर्व शब्द से जुड़ते हैं; 'उ' भी इसी अर्थ में तथा पदपूरण के रूप में आता है। 'हि' हेतु-कथन, अनुप्रश्न और असूया के लिए है; 'किल' विद्या के प्राकर्ष्य (निश्चय) में; 'मा' प्रतिषेध में; 'खलु' भी और पदपूरण के रूप में; 'शश्वत्' और 'नूनम्' विचिकित्सा (संदेह) के अर्थ में भाषा में प्रयुक्त होते हैं। अन्त में अगस्त्य का आख्यान संक्षेप में दिया गया है, जिसमें वे इन्द्र के लिए हवि तैयार कर मरुतों को भी देना चाहते हैं।
श्लोक 1.6
न नूनमस्ति नो श्वः कस्तद्वेद् यदद्भुतम् । अन्यस्य॑ चित्तम॒भि संचरेण्यमुताधीतं विनश्यति ॥ न नूनमस्त्यद्यतनम् । नो एव श्वस्तनम् । अद्यास्मिन् द्यवि । धुरित्यह्नो नामधेयम् । द्योतत इति सतः । श्व उपाशंसनीयः कालः । ह्यो हीनः कालः । कस्तद्वेद यदद्भुतम् । कस्तद्वेद यदभूतम् । इदमपीतरदद्भुतमभूतमिव । अन्यस्य चित्तम् । अभिसंचरेण्यमभिसंचारि । अन्यो नानेयः । चित्तं चेततेः । उताधीतं विनश्यतीति । अप्याध्यातं विनश्यति आध्यातमभिप्रेतम् । अथापि पदपूरणः
na nūnamasti no śvaḥ kastadved yadadbhutam | anyasya cittamabhi saṁcareṇyamutādhītaṁ vinaśyati || na nūnamastyadyatanam | no eva śvastanam | adyāsmin dyavi | dhurityahno nāmadheyam | dyotata iti sataḥ | śva upāśaṁsanīyaḥ kālaḥ | hyo hīnaḥ kālaḥ | kastadveda yadadbhutam | kastadveda yadabhūtam | idamapītaradadbhutamabhūtamiva | anyasya cittam | abhisaṁcareṇyamabhisaṁcāri | anyo nāneyaḥ | cittaṁ cetateḥ | utādhītaṁ vinaśyatīti | apyādhyātaṁ vinaśyati ādhyātamabhipretam | athāpi padapūraṇaḥ
उद्धृत ऋचा में कहा गया है: 'सचमुच कोई नहीं जानता कि कल क्या अद्भुत घटित होगा; दूसरे का चित्त हमसे भिन्न है, और जो सोचा गया है वह भी नष्ट हो जाता है।' यास्क शब्द-शब्द व्याख्या करते हैं — 'श्वः' प्रतीक्षणीय काल है, 'ह्यः' बीता हुआ काल; 'अद्भुतम्' और 'अभूतम्' निकट-अर्थी हैं; 'चित्तम्' चेतना-धातु से; और 'आध्यातम्' अभिप्रेत (सोचा गया) अर्थ में है। यहाँ कुछ शब्द केवल पदपूर्ति के लिए भी माने गए हैं।
श्लोक 1.7
नूनं सा ते प्रति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी । शिक्षा स्तोतृभ्यो माति धग्भगो नो बृहद्वदेम विदथे सुवीराः ॥ सा ते प्रतिदुग्धां वरं जरित्रे । वरो वरयितव्यो भवति । जरिता गरिता । दक्षिणा मघोनी मघवती । मघमिति धननामधेयम् । मंहतेर्दानकर्मणः । दक्षिणा दक्षतेः समर्धयतिकर्मणः । व्यृद्धं समर्धयतीति । अपि वा प्रदक्षिणागमनात् । दिशमभिप्रेत्य । दिग्घस्तप्रकृतिर्दक्षिणो हस्तः । दक्षतेरुत्साहकर्मणः । दाशतेर्वा स्याद् दानकर्मणः । हस्तो हन्तेः । प्राशुर्हनने । देहि स्तोतृभ्यः कामान् । मास्मानतिदंहीः । मास्मानतिहाय दाः । भगो नोऽस्तु । बृहद्वदेम स्वे वेदने । भगो भजतेः । बृहदिति महतो नामधेयम् । परिवृह्ळं भवति । वीरवन्तः कल्याणवीरा वा । वीरो वीरयत्यमित्रान् । वेतेर्वा स्याद्गतिकर्मणः वीरयतेर्वा । सीमिति परिग्रहार्थीयो वा पदपूरणो वा । प्र सीमादित्यो असृजत् । प्रासृजदिति वा । प्रासृजत् सर्वत इति वा । वि सीमतः सुरुचो वेन आवः । इति च । व्यवृणोत् सर्वत आदित्यः । सुरुच आदित्यरश्मयः । सुरोचनात् । अपि वा सीमेत्येतदनर्थकमुपबन्धमाददीत पंचमीकर्माणम् । सीम्नः सीमतः सीमातो मर्यादातः । सीमा मर्यादा । विषीव्यति देशाविति । त्व इति विनिग्रहार्थीयम् । सर्वनामानुदात्तम् । अर्धनामेत्येके
nūnaṁ sā te prati varaṁ jaritre duhīyadindra dakṣiṇā maghonī | śikṣā stotṛbhyo māti dhagbhago no bṛhadvadema vidathe suvīrāḥ || sā te pratidugdhāṁ varaṁ jaritre | varo varayitavyo bhavati | jaritā garitā | dakṣiṇā maghonī maghavatī | maghamiti dhananāmadheyam | maṁhaterdānakarmaṇaḥ | dakṣiṇā dakṣateḥ samardhayatikarmaṇaḥ | vyṛddhaṁ samardhayatīti | api vā pradakṣiṇāgamanāt | diśamabhipretya | digghastaprakṛtirdakṣiṇo hastaḥ | dakṣaterutsāhakarmaṇaḥ | dāśatervā syād dānakarmaṇaḥ | hasto hanteḥ | prāśurhanane | dehi stotṛbhyaḥ kāmān | māsmānatidaṁhīḥ | māsmānatihāya dāḥ | bhago no'stu | bṛhadvadema sve vedane | bhago bhajateḥ | bṛhaditi mahato nāmadheyam | parivṛhḷaṁ bhavati | vīravantaḥ kalyāṇavīrā vā | vīro vīrayatyamitrān | vetervā syādgatikarmaṇaḥ vīrayatervā | sīmiti parigrahārthīyo vā padapūraṇo vā | pra sīmādityo asṛjat | prāsṛjaditi vā | prāsṛjat sarvata iti vā | vi sīmataḥ suruco vena āvaḥ | iti ca | vyavṛṇot sarvata ādityaḥ | suruca ādityaraśmayaḥ | surocanāt | api vā sīmetyetadanarthakamupabandhamādadīta paṁcamīkarmāṇam | sīmnaḥ sīmataḥ sīmāto maryādātaḥ | sīmā maryādā | viṣīvyati deśāviti | tva iti vinigrahārthīyam | sarvanāmānudāttam | ardhanāmetyeke
इस ऋचा में स्तोता इन्द्र की उदार दक्षिणा की कामना करता है — 'वह श्रेष्ठ दक्षिणा हमें प्राप्त हो, हमें भाग्य और वीर सन्तति मिले।' यास्क 'दक्षिणा' के कई सम्भावित मूल बताते हैं — समर्थ करने (समर्धयति) की धातु से, प्रदक्षिण-गमन से, अथवा उत्साह-कर्म की धातु से। 'बृहत्' महत् का पर्याय है, 'वीर' शत्रुओं को पराभूत करने वाला कहा गया है। अन्त में 'सीम' और 'त्व' जैसे अव्ययों की भी संक्षिप्त व्याख्या दी गई है, जो परिग्रह अथवा पदपूरण के अर्थ में प्रयुक्त होते हैं।
श्लोक 1.8
ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां य॒ज्ञस्य मात्रां वि मिमीत उ त्वः ॥ इत्यृत्विक्कर्मणां विनियोगमाचष्टे । ऋचामेकः पोषमास्ते पुपुष्वान् । होता । ऋगर्चनी । गायत्रमेको गायति शक्वरीषु । उद्गाता । गायत्रं गायतेः स्तुतिकर्मणः । शक्वर्य ऋचः । शक्नोतेः । तद् यदाभिर्वृत्रमशकद्धन्तुं तच्छक्वरीणां शक्वरीत्वम् । इति विज्ञायते । ब्रह्मैको जाते जाते विद्यां वदति । ब्रह्मा । सर्वविद्यः । सर्वं वेदितुमर्हति । ब्रह्मा परिवृह्ळः श्रुततः । ब्रह्म परिवृह्ळं सर्वतः । यज्ञस्य मात्रां विमिमीत एकः । अध्वर्युः । अध्वर्युरध्वरयुः । अध्वरं युनक्ति । अध्वरस्य नेता । अध्वरं कामयत इति वा । अपि वाधीयाने युरुपबन्धः । अध्वर इति यज्ञनाम । ध्वरतिर्हिँसाकर्मा । तत्प्रतिषेधः । निपात इत्येके । तत्कथमनुदात्तप्रकृति नाम स्यात् । दृष्टव्ययं तु भवति । उत त्वं सख्ये स्थिरपीतमाहुः । इति द्वितीयायाम् । उतो त्वस्मै तन्वं १ वि सस्रे । इति चतुर्थ्याम् । अथापि प्रथमाबहुवचने
ṛcāṁ tvaḥ poṣamāste pupuṣvāngāyatraṁ tvo gāyati śakvarīṣu | brahmā tvo vadati jātavidyāṁ yajñasya mātrāṁ vi mimīta u tvaḥ || ityṛtvikkarmaṇāṁ viniyogamācaṣṭe | ṛcāmekaḥ poṣamāste pupuṣvān | hotā | ṛgarcanī | gāyatrameko gāyati śakvarīṣu | udgātā | gāyatraṁ gāyateḥ stutikarmaṇaḥ | śakvarya ṛcaḥ | śaknoteḥ | tad yadābhirvṛtramaśakaddhantuṁ tacchakvarīṇāṁ śakvarītvam | iti vijñāyate | brahmaiko jāte jāte vidyāṁ vadati | brahmā | sarvavidyaḥ | sarvaṁ veditumarhati | brahmā parivṛhḷaḥ śrutataḥ | brahma parivṛhḷaṁ sarvataḥ | yajñasya mātrāṁ vimimīta ekaḥ | adhvaryuḥ | adhvaryuradhvarayuḥ | adhvaraṁ yunakti | adhvarasya netā | adhvaraṁ kāmayata iti vā | api vādhīyāne yurupabandhaḥ | adhvara iti yajñanāma | dhvaratirhim̐sākarmā | tatpratiṣedhaḥ | nipāta ityeke | tatkathamanudāttaprakṛti nāma syāt | dṛṣṭavyayaṁ tu bhavati | uta tvaṁ sakhye sthirapītamāhuḥ | iti dvitīyāyām | uto tvasmai tanvaṁ 1 vi sasre | iti caturthyām | athāpi prathamābahuvacane
यह ऋचा यज्ञ के चार ऋत्विजों के कार्य-विभाजन का वर्णन करती है — होता ऋचाओं का पोषण करता है, उद्गाता गायत्र गान गाता है, ब्रह्मा सम्पूर्ण विद्या जानकर वाणी देता है, और अध्वर्यु यज्ञ की मात्रा निश्चित करता है। यास्क प्रत्येक पद की निरुक्ति देते हैं — 'होता' ऋचा-अर्चन से, 'उद्गाता' गायत्र-स्तुति से, 'ब्रह्मा' सर्वज्ञता से, 'अध्वर्यु' यज्ञ को जोड़ने (युनक्ति) या यज्ञ चाहने की धातु से। शक्वरी छन्द का नाम वृत्र-वध-सामर्थ्य से जोड़ा गया है।
श्लोक 1.9
अक्षण्वन्तः कर्णवन्तः सखायो मनोजवेष्वसमा बभूवुः । आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥ अक्षिमन्तः कर्णवन्तः सखायः । अक्षि चष्टेः । अनक्तेरित्याग्रायणः । तस्मादेते व्यक्ततरे इव भवतः । इति ह विज्ञायते । कर्णः कृन्ततेः । निकृत्तद्वारो भवति । ऋच्छतेरित्याग्रायणः । ऋच्छन्तीव खे उदगन्ताम् । इति ह विज्ञायते । मनसां प्रजवेष्वसमा बभूवुः । आस्यदघ्ना अपरे । उपकक्षदघ्ना अपरे । आस्यमस्यतेः । आस्यन्दत एनदन्नमिति वा । दघ्नं दघ्यतेः स्रवतिकर्मणः । दस्यतेर्वा स्यात् । विदस्ततरं भवति । प्रस्नेया हृदा इवैके ददृशिरे । प्रस्नेया स्नानार्हाः । ह्रदो ह्रादतेः शब्दकर्मणः । ह्लादतेर्वा स्याच्छीतीभावकर्मणः । अथापि समुच्चयार्थे भवति । पर्याया इव त्वदाश्विनम् । आश्विनं च पर्यायाश्चेति । अथ ये प्रवृत्तेऽर्थेऽमिताक्षरेषु ग्रन्थेषु वाक्यपूरणा आगच्छन्ति पदपूरणास्ते मिताक्षरेष्वनर्थकाः । कमीमिद्विति
akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ | ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre || akṣimantaḥ karṇavantaḥ sakhāyaḥ | akṣi caṣṭeḥ | anakterityāgrāyaṇaḥ | tasmādete vyaktatare iva bhavataḥ | iti ha vijñāyate | karṇaḥ kṛntateḥ | nikṛttadvāro bhavati | ṛcchaterityāgrāyaṇaḥ | ṛcchantīva khe udagantām | iti ha vijñāyate | manasāṁ prajaveṣvasamā babhūvuḥ | āsyadaghnā apare | upakakṣadaghnā apare | āsyamasyateḥ | āsyandata enadannamiti vā | daghnaṁ daghyateḥ sravatikarmaṇaḥ | dasyatervā syāt | vidastataraṁ bhavati | prasneyā hṛdā ivaike dadṛśire | prasneyā snānārhāḥ | hrado hrādateḥ śabdakarmaṇaḥ | hlādatervā syācchītībhāvakarmaṇaḥ | athāpi samuccayārthe bhavati | paryāyā iva tvadāśvinam | āśvinaṁ ca paryāyāśceti | atha ye pravṛtte'rthe'mitākṣareṣu grantheṣu vākyapūraṇā āgacchanti padapūraṇāste mitākṣareṣvanarthakāḥ | kamīmidviti
इस ऋचा में कहा गया है कि सब सखा आँख-कान वाले होते हुए भी मनोवेग में असमान हैं — कुछ जल में स्नान किए हुए-से दीखते हैं तो कुछ नहीं। यास्क 'अक्षि' को देखने की धातु से और आग्रायण के मत से 'चेष्टा से न देखने' (अनक्ति) से भी सिद्ध करते हैं; 'कर्ण' काटने की धातु से (जिससे शरीर में द्वार कटा हुआ प्रतीत हो)। 'ह्रद' शब्दकर्मा अथवा शीतीभाव-कर्मा धातु से बताया गया है। अन्त में 'इव' के समुच्चय-अर्थ में प्रयोग का भी एक उदाहरण दिया गया है।
श्लोक 1.10
निष्ट्वक्त्रासश्चिदिन्नरो भूरितोका वृकादिव । बिभ्यस्यन्तो ववाशिरे शिशिरं जीवनाय कम् ॥ शिशिरं जीवनाय । शिशिरं शृणातेः शम्नातेर्वा । एमेनं सृजता सुते । आसृजतैनं सुते । तमिद्वर्धन्तु नो गिरः । तं वर्धयन्तु नो गिरः स्तुतयः । गिरो गृणातेः । अयमु ते सम॑तसि । अयं ते समतसि । इवोऽपि दृश्यते । सु विदुरिव । सु विज्ञायेते इव । अथापि नेत्येष इदित्येतेन संप्रयुज्यते परिभये
niṣṭvaktrāsaścidinnaro bhūritokā vṛkādiva | bibhyasyanto vavāśire śiśiraṁ jīvanāya kam || śiśiraṁ jīvanāya | śiśiraṁ śṛṇāteḥ śamnātervā | emenaṁ sṛjatā sute | āsṛjatainaṁ sute | tamidvardhantu no giraḥ | taṁ vardhayantu no giraḥ stutayaḥ | giro gṛṇāteḥ | ayamu te samatasi | ayaṁ te samatasi | ivo'pi dṛśyate | su viduriva | su vijñāyete iva | athāpi netyeṣa idityetena saṁprayujyate paribhaye
इस ऋचा में वर्णित है कि भेड़िये से डरे हुए बहुसन्तति नर जीवन के लिए शिशिर (शीतल जल) की याचना करते हैं। यास्क 'शिशिर' को शीतलता अथवा शमन की धातु से बताते हैं, 'गिरः' (स्तुतियाँ) को गान-धातु से। 'इव' के अतिरिक्त-प्रयोग का उदाहरण भी दिया गया है। अन्त में 'न' और 'इद्' के भय-सूचक संयुक्त प्रयोग की व्याख्या है।
श्लोक 1.11
हविर्भिरेके स्वरितः सचन्ते सुन्वन्त एके सवनेषु सोमा॑न् । शचीर्मदन्त उत दक्षिणाभिर्नेज्जिह्माय॑न्त्यो नरकं पताम । इति नरकं न्यरकं नीचैर्गमनम् । नास्मिन् रमणं स्थानमल्पमप्यस्तीति वा । अथापि न चेत्येष इदित्येतेन संप्रयुज्यतेऽनुपृष्टे । न चेत् सुरां पिबन्तीति । सुरा सुनोतेः । एवमुच्चावचेष्वर्थेषु निपतन्ति । त उपेक्षितव्याः
havirbhireke svaritaḥ sacante sunvanta eke savaneṣu somān | śacīrmadanta uta dakṣiṇābhirnejjihmāyantyo narakaṁ patāma | iti narakaṁ nyarakaṁ nīcairgamanam | nāsmin ramaṇaṁ sthānamalpamapyastīti vā | athāpi na cetyeṣa idityetena saṁprayujyate'nupṛṣṭe | na cet surāṁ pibantīti | surā sunoteḥ | evamuccāvaceṣvartheṣu nipatanti | ta upekṣitavyāḥ
इस ऋचा में दो प्रकार के यजमानों का वर्णन है — कुछ हविष्य से, कुछ सवन में सोमपान से इन्द्र को प्रसन्न करते हैं; जो टेढ़े मार्ग से नहीं चलते वे नरक में नहीं गिरते। यास्क 'नरक' को नीचे गमन के अर्थ में बताते हैं — जहाँ रमण-स्थान भी नहीं होता। इसके बाद 'न चेत्' के अनुप्रश्न-सूचक प्रयोग का उदाहरण है — 'सुरा न पीते तो?' 'सुरा' शब्द अभिषव (निचोड़ने) की धातु से बताया गया है। इस प्रकार निपातों के विविध प्रयोगों का वर्णन पूर्ण होता है — इनकी पृथक् विवेचना आवश्यक नहीं मानी जाती।
श्लोक 1.12
इतीमानि चत्वारि पदजातान्यनुक्रान्तानि । नामाख्याते चोपसर्गनिपाताश्च । तत्र नामान्याख्यातजानीति शाकटायनो नैरुक्तसमयश्च । न सर्वाणीति गार्ग्यो वैयाकरणानां चैके तद् यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्याताम् । संविज्ञातानि तानि यथा गौरश्वः पुरुषो हस्तीति । अथ चेत् सर्वाण्याख्यातजानि नामानि स्युर्यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन् । यः कश्चाध्वानमश्नुवीताश्वः स वचनीयः स्यात् । यत् किञ्चित्तृंद्यात् तृणं तत् । अथापि चेत् सर्वाण्याख्यातजानि नामानि स्युर्यावद्भिर्भावैः संप्रयुज्येत तावद्भ्यो नामधेयप्रतिलम्भः स्यात् । तत्रैवं स्थूणा दरशया वा सञ्जनी च स्यात्
itīmāni catvāri padajātānyanukrāntāni | nāmākhyāte copasarganipātāśca | tatra nāmānyākhyātajānīti śākaṭāyano nairuktasamayaśca | na sarvāṇīti gārgyo vaiyākaraṇānāṁ caike tad yatra svarasaṁskārau samarthau prādeśikena vikāreṇānvitau syātām | saṁvijñātāni tāni yathā gauraśvaḥ puruṣo hastīti | atha cet sarvāṇyākhyātajāni nāmāni syuryaḥ kaśca tatkarma kuryāt sarvaṁ tat sattvaṁ tathācakṣīran | yaḥ kaścādhvānamaśnuvītāśvaḥ sa vacanīyaḥ syāt | yat kiñcittṛṁdyāt tṛṇaṁ tat | athāpi cet sarvāṇyākhyātajāni nāmāni syuryāvadbhirbhāvaiḥ saṁprayujyeta tāvadbhyo nāmadheyapratilambhaḥ syāt | tatraivaṁ sthūṇā daraśayā vā sañjanī ca syāt
यहाँ चार पदजातियों — नाम, आख्यात, उपसर्ग, निपात — के अनुक्रम का उपसंहार है। शाकटायन और नैरुक्त-सम्प्रदाय का मत है कि सभी नाम आख्यात से ही उत्पन्न होते हैं; गार्ग्य और कुछ वैयाकरण इससे असहमत हैं और कहते हैं कि केवल वे नाम जिनमें स्वर-संस्कार क्रिया के अनुरूप हों, आख्यातज माने जा सकते हैं — जैसे 'गौः, अश्वः, पुरुषः, हस्ती' सर्वसम्मत नाम हैं। यदि सभी नाम आख्यातज मान लिए जाएँ तो जो भी कर्म करे उसे उसी सत्त्व-नाम से पुकारना होगा — यह अव्यावहारिक होगा।
श्लोक 1.13
अथापि य एषां न्यायवान् कार्मनामिकः संस्कारो यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन् । पुरुषं पुरिशय इत्याचक्षीरन् । अष्टेत्यश्वम् । तर्दनमिति तृणम् । अथापि निष्पन्नेऽभिव्याहारेऽभिविचारयन्ति । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् । किमाधारश्चेति । अथानन्वितेऽर्थेऽप्रादेशिके विकारे पदेभ्यः पदेतरार्धान्त्संचस्कार शाकटायनः । एतेः कारितं च यकारादिं चान्तकरणमस्तेः शुद्धं च सकारादिं च । अथापि सत्त्वपूर्वो भाव इत्याहुः । अपरस्माद्भावात् पूर्वस्य प्रदेशो नोपपद्यत इति । तदेतन्नोपपद्यते
athāpi ya eṣāṁ nyāyavān kārmanāmikaḥ saṁskāro yathā cāpi pratītārthāni syustathainānyācakṣīran | puruṣaṁ puriśaya ityācakṣīran | aṣṭetyaśvam | tardanamiti tṛṇam | athāpi niṣpanne'bhivyāhāre'bhivicārayanti | prathanātpṛthivītyāhuḥ | ka enāmaprathayiṣyat | kimādhāraśceti | athānanvite'rthe'prādeśike vikāre padebhyaḥ padetarārdhāntsaṁcaskāra śākaṭāyanaḥ | eteḥ kāritaṁ ca yakārādiṁ cāntakaraṇamasteḥ śuddhaṁ ca sakārādiṁ ca | athāpi sattvapūrvo bhāva ityāhuḥ | aparasmādbhāvāt pūrvasya pradeśo nopapadyata iti | tadetannopapadyate
जिन नामों का सांकेतिक संस्कार युक्तिसंगत हो, उन्हें ही उनके प्रतीत अर्थ के अनुसार व्याख्यायित करना चाहिए — जैसे 'पुरुष' को 'पुरिशय' (नगर में शयन करने वाला) कहा जाता है। किन्तु 'अश्व' या 'तृण' जैसे शब्दों के लिए कोई भी यादृच्छिक धातु जोड़ना उचित नहीं। शाकटायन का मत है कि जहाँ अन्वित (सुसंगत) अर्थ न मिले, वहाँ पद के एक अंश को दूसरे से पृथक् कर व्याख्या की जाती है — जैसे 'एति' से कारित रूप और 'अस्ति' से शुद्ध रूप। कुछ लोग कहते हैं सत्त्व भाव से पहले होता है, पर यह असिद्ध है।
श्लोक 1.14
यथो हि नु वा एतत् तद् यत्र स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्यातां सर्वं प्रादेशिकमित्येवं सत्यनुपालम्भ एष भवति । यथो एतद् यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथाचक्षीरन्निति पश्यामः समानकर्मणां नामधेयप्रतिलम्भमेकेषां नैकेषां यथा तक्षा परिव्राजको जीवनो भूमिज इति । एतेनैवोत्तरः प्रत्युक्तः । यथो एतद् यथा चापि प्रतीतार्थानि स्युस्तथैनान्याचक्षीरन्निति सन्त्यल्पप्रयोगाः कृतोऽप्यैकपदिका यथा व्रततिर्दमूना जाट्य आट्णारो जागरूको दर्विहोमीति ।। यथो एतन्निष्पन्नेऽभिव्याहारेऽभिविचारयन्तीति भवति हि निष्पन्नेऽभिव्याहारे योगपरीष्टिः । प्रथनात्पृथिवीत्याहुः । क एनामप्रथयिष्यत् किमाधारश्चेति । अथ वै दर्शनेन पृथुः । अप्रथिता चेदप्यन्यैः । अथाप्येवं सर्व एव दृष्टप्रवादा उपालभ्यन्ते । यथो एतत्पदेभ्यः पदेतरार्धान्त्संचस्कारेति योऽनन्वितेऽर्थे संचस्कार स तेन गर्यःत् । सैषा पुरुषगर्हा न शास्त्रगर्हा इति । यथो एतदपरस्माद् भावात्पूर्वस्य प्रदेशो नोपपद्यत इति पश्यामः पूर्वोत्पन्नानां सत्त्वानामपरस्माद्भावान्नामधेयप्रतिलम्भमेकेषां नैकेषां यथा बिल्वादो लम्बचूडक इति । बिल्वं भरणाद्वा भेदनाद्वा
yatho hi nu vā etat tad yatra svarasaṁskārau samarthau prādeśikena vikāreṇānvitau syātāṁ sarvaṁ prādeśikamityevaṁ satyanupālambha eṣa bhavati | yatho etad yaḥ kaśca tatkarma kuryāt sarvaṁ tat sattvaṁ tathācakṣīranniti paśyāmaḥ samānakarmaṇāṁ nāmadheyapratilambhamekeṣāṁ naikeṣāṁ yathā takṣā parivrājako jīvano bhūmija iti | etenaivottaraḥ pratyuktaḥ | yatho etad yathā cāpi pratītārthāni syustathainānyācakṣīranniti santyalpaprayogāḥ kṛto'pyaikapadikā yathā vratatirdamūnā jāṭya āṭṇāro jāgarūko darvihomīti || yatho etanniṣpanne'bhivyāhāre'bhivicārayantīti bhavati hi niṣpanne'bhivyāhāre yogaparīṣṭiḥ | prathanātpṛthivītyāhuḥ | ka enāmaprathayiṣyat kimādhāraśceti | atha vai darśanena pṛthuḥ | aprathitā cedapyanyaiḥ | athāpyevaṁ sarva eva dṛṣṭapravādā upālabhyante | yatho etatpadebhyaḥ padetarārdhāntsaṁcaskāreti yo'nanvite'rthe saṁcaskāra sa tena garyaḥt | saiṣā puruṣagarhā na śāstragarhā iti | yatho etadaparasmād bhāvātpūrvasya pradeśo nopapadyata iti paśyāmaḥ pūrvotpannānāṁ sattvānāmaparasmādbhāvānnāmadheyapratilambhamekeṣāṁ naikeṣāṁ yathā bilvādo lambacūḍaka iti | bilvaṁ bharaṇādvā bhedanādvā
यास्क पूर्वोक्त आपत्तियों का समाधान क्रमशः देते हैं। जहाँ स्वर-संस्कार क्रिया के अनुरूप हों, वहाँ आपत्ति नहीं — सब कुछ आख्यातज मानने से यह दोष नहीं आता। समान कर्म करने वालों के भी भिन्न-भिन्न नाम देखे जाते हैं — जैसे तक्षा, परिव्राजक, जीवन, भूमिज — इसी से उत्तर दिया गया समझना चाहिए। कुछ शब्द प्रयोग में अल्प होकर भी एकपदिक (स्वतःसिद्ध) माने जाते हैं — जैसे व्रततिः, दमूना आदि। पूर्वोत्पन्न सत्त्वों के भी बाद के भाव से नामकरण होता देखा जाता है, जैसे बिल्व से 'लम्बचूडक'।
श्लोक 1.15
अथापीदमन्तरेण मन्त्रेष्वर्थप्रत्ययो न विद्यते । अर्थमप्रतियतो नात्यन्तं स्वरसंस्कारोद्देशः । तदिदं विद्यास्थानं व्याकरणस्य कार्त्स्न्यम् । स्वार्थसाधकं च । यदि मन्त्रार्थप्रत्ययायानर्थकं भवतीति कौत्सः । अनर्थका हि मन्त्राः । तदेतेनोपेक्षितव्यम् । नियतवाचो युक्तयो नियतानुपूर्व्या भवन्ति । अथापि ब्राह्मणेन रूपसंपन्ना विधीयन्ते । उरु प्रथस्व । इति प्रथयति । प्रोहाणि । इति प्रोहति । अथाप्यनुपपन्नार्था भवन्ति । ओषधे त्राय॑स्वैनम् । स्वधिते मैनं हिंसीः । इत्याह हिंसन् । अथापि विप्रतिषिद्धार्था भवन्ति । एक एव रुद्रोऽवतस्थे न द्वितीयः । असंख्याता सहस्राणि ये रुद्रा अधि भूम्या॑म् । अशत्रुरिन्द्र जज्ञिषे । शतं सेना अजयत् साकमिन्द्रः । इति । अथापि जानन्तं संप्रेष्यति । अग्नये समिध्यमानायानुब्रूहि । इति । अथाप्याहादितिः सर्वमिति । अदितिर्द्यौरदितिरन्तरिक्षम् । इति । तदुपरिष्टाद् व्याख्यास्यामः । अथाप्यविस्पष्टार्था भवन्ति । अम्य॑क् । यादृश्मिन् । जारयायि । काणुका । इति
athāpīdamantareṇa mantreṣvarthapratyayo na vidyate | arthamapratiyato nātyantaṁ svarasaṁskāroddeśaḥ | tadidaṁ vidyāsthānaṁ vyākaraṇasya kārtsnyam | svārthasādhakaṁ ca | yadi mantrārthapratyayāyānarthakaṁ bhavatīti kautsaḥ | anarthakā hi mantrāḥ | tadetenopekṣitavyam | niyatavāco yuktayo niyatānupūrvyā bhavanti | athāpi brāhmaṇena rūpasaṁpannā vidhīyante | uru prathasva | iti prathayati | prohāṇi | iti prohati | athāpyanupapannārthā bhavanti | oṣadhe trāyasvainam | svadhite mainaṁ hiṁsīḥ | ityāha hiṁsan | athāpi vipratiṣiddhārthā bhavanti | eka eva rudro'vatasthe na dvitīyaḥ | asaṁkhyātā sahasrāṇi ye rudrā adhi bhūmyām | aśatrurindra jajñiṣe | śataṁ senā ajayat sākamindraḥ | iti | athāpi jānantaṁ saṁpreṣyati | agnaye samidhyamānāyānubrūhi | iti | athāpyāhāditiḥ sarvamiti | aditirdyauraditirantarikṣam | iti | tadupariṣṭād vyākhyāsyāmaḥ | athāpyavispaṣṭārthā bhavanti | amyak | yādṛśmin | jārayāyi | kāṇukā | iti
यास्क कहते हैं कि अर्थ-बोध के बिना मन्त्रों में अर्थ-प्रतीति नहीं होती, इसलिए केवल स्वर-संस्कार (उच्चारण) सीखना पर्याप्त नहीं — व्याकरण का सम्पूर्ण ज्ञान आवश्यक है। कौत्स का विरोधी मत है कि मन्त्र अर्थहीन हैं, क्योंकि उनमें नियत-वाक्य क्रम, विप्रतिषिद्ध (परस्पर-विरोधी) कथन, अनुपपन्न अर्थ, और अज्ञात को भी ज्ञात मानकर सम्बोधन जैसी विसंगतियाँ मिलती हैं — जैसे 'एक ही रुद्र' और 'असंख्य रुद्र' दोनों कहे जाना। यास्क आगे इन सबका समाधान देंगे, यह संकेत यहीं मिलता है।
श्लोक 1.16
अर्थवन्तः शब्दसामान्यात् । एतद्वै यज्ञस्य समृद्धं यद्रूपसमृद्धं यत्कर्म क्रियमाणमृग्यजुर्वाभिवदति । इति च ब्राह्मणम् । क्रीळन्तौ पुत्रैर्नप्तृभिः । इति । यथो एतन्नियतवाचो युक्तयो नियतानुपूर्व्या भवन्तीति लौकिकेष्वप्येतत् । यथा । इन्द्राग्नी । पितापुत्रौ । इति । यथो एतद् ब्राह्मणेन रूपसंपन्ना विधीयन्त इत्युदितानुवादः स भवति । यथो एतदनुपपन्नार्था भवन्तीत्याम्नायवचनादहिंसा प्रतीयेत । यथो एतद् विप्रतिषिद्धार्था भवन्तीति लौकिकेष्वप्येतत् । यथा । असपत्नोऽयं ब्राह्मणः । अनमित्रो राजा । इति । यथो एतज्जानन्तं संप्रेष्यतीति जानन्तमभिवादयते । जानते मधुपर्कं प्राह इति । यथो एतददितिः सर्वमिति लौकिकेष्वप्येतत् । यथा । सर्वरसा अनुप्राप्ताः पानीयम् । इति । यथो एतदविस्पष्टार्था भवन्तीति नैष स्थाणोरपराधो यदेनमन्धो न पश्यति । पुरुषापराधः स भवति । यथा जानपदीषु विद्यातः पुरुषविशेषो भवति पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवति
arthavantaḥ śabdasāmānyāt | etadvai yajñasya samṛddhaṁ yadrūpasamṛddhaṁ yatkarma kriyamāṇamṛgyajurvābhivadati | iti ca brāhmaṇam | krīḷantau putrairnaptṛbhiḥ | iti | yatho etanniyatavāco yuktayo niyatānupūrvyā bhavantīti laukikeṣvapyetat | yathā | indrāgnī | pitāputrau | iti | yatho etad brāhmaṇena rūpasaṁpannā vidhīyanta ityuditānuvādaḥ sa bhavati | yatho etadanupapannārthā bhavantītyāmnāyavacanādahiṁsā pratīyeta | yatho etad vipratiṣiddhārthā bhavantīti laukikeṣvapyetat | yathā | asapatno'yaṁ brāhmaṇaḥ | anamitro rājā | iti | yatho etajjānantaṁ saṁpreṣyatīti jānantamabhivādayate | jānate madhuparkaṁ prāha iti | yatho etadaditiḥ sarvamiti laukikeṣvapyetat | yathā | sarvarasā anuprāptāḥ pānīyam | iti | yatho etadavispaṣṭārthā bhavantīti naiṣa sthāṇoraparādho yadenamandho na paśyati | puruṣāparādhaḥ sa bhavati | yathā jānapadīṣu vidyātaḥ puruṣaviśeṣo bhavati pārovaryavitsu tu khalu veditṛṣu bhūyovidyaḥ praśasyo bhavati
यास्क कौत्स की प्रत्येक आपत्ति का उत्तर देते हैं। नियत-वाक्य-क्रम लौकिक भाषा में भी मिलता है, जैसे 'इन्द्राग्नी', 'पिता-पुत्रौ'। ब्राह्मण द्वारा रूपसम्पन्न विधान भी केवल अनुवाद हैं। हिंसा प्रतीत होने वाले वचन वस्तुतः आम्नाय के अनुसार अहिंसा ही सूचित करते हैं। विप्रतिषिद्ध प्रतीत होने वाले कथन भी लोक-व्यवहार में मिलते हैं (जैसे 'यह ब्राह्मण निःशत्रु है')। ज्ञात को सम्बोधित करना भी लौकिक प्रथा है, जैसे अभिवादन। अन्त में कहा गया है कि यदि किसी को अर्थ न समझ आए तो यह मन्त्र का नहीं, पुरुष (अध्येता) का ही दोष है।
श्लोक 1.17
अथापीदमन्तरेण पदविभागो न विद्यते । अवसाय पद्वते रुद्र मृळ । इति । पद्वदवसं गावः पथ्यदनम् । अवतर्गत्यर्थस्यासो नामकरणः । तस्मान्नावगृह्णन्ति । अवसायाश्वान् । इति । स्यतिरुपसृष्टो विमोचने । तस्मादवगृह्णन्ति । दूतो निर्ऋत्या इदमा जगाम । इति । पंचम्यर्थप्रेक्षा वा । षष्ठ्यर्थप्रेक्षा वा । आःकारान्तम् । परो निर्ऋत्या आ चक्ष्व । इति । चतुर्थ्यर्थप्रेक्षा । ऐकारान्तम् । परः सन्निकर्षः संहिता । पदप्रकृतिः संहिता । पदप्रकृतीनि सर्वचरणानां पार्षदानि । अथापि याज्ञे दैवतेन बहवः प्रदेशा भवन्ति । तदेतेनोपेक्षितव्यम् । ते चेद् ब्रूयुर्लिङ्गज्ञा अत्र स्म इति । इन्द्रं न त्वा शव॑सा देवता वायुं पृणन्ति । इति । वायुलिङ्गं चेन्द्रलिङ्गं चाग्नेये मन्त्रे । अग्निरिव मन्यो त्विषितः सहस्व । इति । तथाग्निर्मान्यवे मन्त्रे । त्विषितो ज्वलितः । त्विषिरित्यप्यस्य दीप्तिनाम भवति । अथापि ज्ञानप्रशंसा भवति । अज्ञाननिन्दा च
athāpīdamantareṇa padavibhāgo na vidyate | avasāya padvate rudra mṛḷa | iti | padvadavasaṁ gāvaḥ pathyadanam | avatargatyarthasyāso nāmakaraṇaḥ | tasmānnāvagṛhṇanti | avasāyāśvān | iti | syatirupasṛṣṭo vimocane | tasmādavagṛhṇanti | dūto nirṛtyā idamā jagāma | iti | paṁcamyarthaprekṣā vā | ṣaṣṭhyarthaprekṣā vā | āḥkārāntam | paro nirṛtyā ā cakṣva | iti | caturthyarthaprekṣā | aikārāntam | paraḥ sannikarṣaḥ saṁhitā | padaprakṛtiḥ saṁhitā | padaprakṛtīni sarvacaraṇānāṁ pārṣadāni | athāpi yājñe daivatena bahavaḥ pradeśā bhavanti | tadetenopekṣitavyam | te ced brūyurliṅgajñā atra sma iti | indraṁ na tvā śavasā devatā vāyuṁ pṛṇanti | iti | vāyuliṅgaṁ cendraliṅgaṁ cāgneye mantre | agniriva manyo tviṣitaḥ sahasva | iti | tathāgnirmānyave mantre | tviṣito jvalitaḥ | tviṣirityapyasya dīptināma bhavati | athāpi jñānapraśaṁsā bhavati | ajñānanindā ca
यहाँ बिना सही पद-विभाग (शब्द-विच्छेद) के मन्त्रार्थ स्पष्ट नहीं होता, यह दिखाया गया है। 'अवसाय पद्वते' में 'अवसाय' को नहीं तोड़ना चाहिए (गति-अर्थक होने से), पर 'अवसायाश्वान्' में 'अव-साय' को तोड़ना चाहिए (विमोचन-अर्थक होने से)। इसी प्रकार विभक्ति-प्रत्ययों (पंचमी/षष्ठी/चतुर्थी) के अनुसार अर्थ बदलता है। यज्ञ में देवता-निर्णय हेतु 'लिङ्ग' (चिह्न) का सहारा लिया जाता है — जैसे इन्द्र और वायु दोनों के लिंग वाले मन्त्र में सन्दर्भ से निर्णय होता है। अन्त में कहा गया है कि यह ज्ञान की प्रशंसा और अज्ञान की निन्दा दोनों को दर्शाता है।
श्लोक 1.18
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥ यद् गृहीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् ॥ स्थाणुस्तिष्ठतेः । अर्थोऽर्तेः । अरणस्थो वा
sthāṇurayaṁ bhārahāraḥ kilābhūdadhītya vedaṁ na vijānāti yo'rtham | yo'rthajña itsakalaṁ bhadramaśnute nākameti jñānavidhūtapāpmā || yad gṛhītamavijñātaṁ nigadenaiva śabdyate | anagnāviva śuṣkaidho na tajjvalati karhicit || sthāṇustiṣṭhateḥ | artho'rteḥ | araṇastho vā
यह प्रसिद्ध ऋचा कहती है: 'वेद पढ़कर भी जो अर्थ नहीं जानता, वह मानो भार ढोने वाला काठ का खम्भा ही है; जो अर्थ जानता है वही सम्पूर्ण कल्याण पाता है और ज्ञान से पापरहित होकर स्वर्ग को प्राप्त होता है। जो बिना समझे केवल रटा जाता है वह सूखी लकड़ी के समान है, जो अग्नि के बिना कभी नहीं जलती।' यास्क 'स्थाणु' को खड़े रहने की धातु से और 'अर्थ' को गति/प्राप्ति की धातु से व्युत्पन्न करते हैं।
श्लोक 1.19
उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम् । उतो त्वस्मै तन्वं१ वि सस्रे जायेव पत्य उशती सुवासाः ॥ अप्येकः पश्यन्न पश्यति वाचम् । अपि च शृण्वन्न शृणोत्येनाम् । इत्यविद्वांसमाहार्धम् । अप्येकस्मै तन्वं विसस्र इति स्वमात्मानं विवृणुते । ज्ञानं प्रकाशनमर्थस्याह । अनया वाचा । उपमोत्तमया वाचा । जायेव पत्ये कामयमाना सुवासाः ऋतुकालेषु सुवासाः कल्याणवासाः कामयमानाः । ऋतुकालेषु यथा स एनां पश्यति स शृणोति । इत्यर्थज्ञप्रशंसा । तस्योत्तरा भूयसे निर्वचनाय
uta tvaḥ paśyanna dadarśa vācamuta tvaḥ śṛṇvanna śṛṇotyenām | uto tvasmai tanvaṁ1 vi sasre jāyeva patya uśatī suvāsāḥ || apyekaḥ paśyanna paśyati vācam | api ca śṛṇvanna śṛṇotyenām | ityavidvāṁsamāhārdham | apyekasmai tanvaṁ visasra iti svamātmānaṁ vivṛṇute | jñānaṁ prakāśanamarthasyāha | anayā vācā | upamottamayā vācā | jāyeva patye kāmayamānā suvāsāḥ ṛtukāleṣu suvāsāḥ kalyāṇavāsāḥ kāmayamānāḥ | ṛtukāleṣu yathā sa enāṁ paśyati sa śṛṇoti | ityarthajñapraśaṁsā | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है कि कोई देखते हुए भी वाणी को नहीं देखता, सुनते हुए भी नहीं सुनता — यह अज्ञानी की अर्धाधिक निन्दा है। पर जिसके लिए वाणी अपने-आप को खोल देती है वह मानो पति को चाहने वाली, सुवस्त्रा पत्नी के समान वाणी से लाभान्वित होता है — यह अर्थज्ञ (अर्थ जानने वाले) की प्रशंसा है। यास्क कहते हैं इसके उत्तरार्ध की विस्तृत निर्वचन आगे किया जाएगा।
श्लोक 1.20
उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वन्त्यपि वाजिनेषु । अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पाम् ॥ अप्येकं वाक्सख्ये । स्थिरपीतमाहू रममाणं विपीतार्थम् । देवसख्ये । रमणीये स्थान इति वा । विज्ञातार्थम् । यं नाप्नुवन्ति वाग्ज्ञेयेषु बलवत्स्वपि । अधेन्वा ह्येष चरति मायया । वाक्प्रतिरूपया । नास्मै कामान्दुग्धे वाग्दोह्यान् देवमनुष्यस्थानेषु यो वाचं श्रुतवान् भवत्यफलामपुष्पामिति । अफलास्मा अपुष्पा वाग्भवतीति वा । किंचित्पुष्पफलेति वा । अर्थं वाचः पुष्पफलमाह । याज्ञदैवते पुष्पफले । देवताध्यात्मे वा । साक्षात्कृतधर्माण ऋषयो बभूवुः । तेऽवरेभ्योऽसाक्षात्कृतधर्मभ्य उपदेशेन मन्त्रान्संप्रादुः । उपदेशाय ग्लायन्तोऽवरे बिल्मग्रहणायेमं ग्रन्थं समाम्नासिषुः । वेदं च वेदाङ्गानि च । विल्मं भिल्मं भासनमिति वा । एतावन्तः समानकर्माणो धातवः । धातुर्दधातेः । एतावन्त्यस्य सत्त्वस्य नामधेयानि । एतावतामर्थानामिदमभिधानम् । नैघंटुकमिदं देवतानाम् । प्राधान्येनेदमिति । तद् यदन्यदैवते मन्त्रे निपतति नैघंटुकं तत् । अश्वं न त्वा वारवन्तम् । अश्वमिव त्वा वालवन्तम् । वाला दंशवारणार्था भवन्ति । दंशो दशतेः । मृगो न भीमः कुचरो गिरिष्ठाः । मृग इव भीमः कुचरो गिरिष्ठाः । मृगो मार्ष्टेर्गतिकर्मणः । भीमो बिभ्यत्यस्मात् ।। भीष्मोऽप्येतस्मादेव । कुचर इति चरति कर्म कुत्सितम् । अथ चेद् देवताभिधानम् । क्वायं न चरतीति । गिरिष्ठा गिरिस्थायी । गिरिः पर्वतः । समुद्गीर्णो भवति । पर्ववान् पर्वतः । पर्व पुनः पृणातेः प्रीणातेर्वा । अर्धमासपर्व । देवानस्मिन्प्रीणन्तीति । तत् प्रकृतीतरत्सन्धिसामान्यात् । मेघस्थायि । मेघोऽपि गिरिरेतस्मादेव । तद् यानि नामानि प्राधान्यस्तुतीनां देवतानां तद् दैवतमित्याचक्षते । तदुपरिष्टाद् व्याख्यास्यामः । नैघण्टुकानि नैगमानीहेह
uta tvaṁ sakhye sthirapītamāhurnainaṁ hinvantyapi vājineṣu | adhenvā carati māyayaiṣa vācaṁ śuśruvām̐ aphalāmapuṣpām || apyekaṁ vāksakhye | sthirapītamāhū ramamāṇaṁ vipītārtham | devasakhye | ramaṇīye sthāna iti vā | vijñātārtham | yaṁ nāpnuvanti vāgjñeyeṣu balavatsvapi | adhenvā hyeṣa carati māyayā | vākpratirūpayā | nāsmai kāmāndugdhe vāgdohyān devamanuṣyasthāneṣu yo vācaṁ śrutavān bhavatyaphalāmapuṣpāmiti | aphalāsmā apuṣpā vāgbhavatīti vā | kiṁcitpuṣpaphaleti vā | arthaṁ vācaḥ puṣpaphalamāha | yājñadaivate puṣpaphale | devatādhyātme vā | sākṣātkṛtadharmāṇa ṛṣayo babhūvuḥ | te'varebhyo'sākṣātkṛtadharmabhya upadeśena mantrānsaṁprāduḥ | upadeśāya glāyanto'vare bilmagrahaṇāyemaṁ granthaṁ samāmnāsiṣuḥ | vedaṁ ca vedāṅgāni ca | vilmaṁ bhilmaṁ bhāsanamiti vā | etāvantaḥ samānakarmāṇo dhātavaḥ | dhāturdadhāteḥ | etāvantyasya sattvasya nāmadheyāni | etāvatāmarthānāmidamabhidhānam | naighaṁṭukamidaṁ devatānām | prādhānyenedamiti | tad yadanyadaivate mantre nipatati naighaṁṭukaṁ tat | aśvaṁ na tvā vāravantam | aśvamiva tvā vālavantam | vālā daṁśavāraṇārthā bhavanti | daṁśo daśateḥ | mṛgo na bhīmaḥ kucaro giriṣṭhāḥ | mṛga iva bhīmaḥ kucaro giriṣṭhāḥ | mṛgo mārṣṭergatikarmaṇaḥ | bhīmo bibhyatyasmāt || bhīṣmo'pyetasmādeva | kucara iti carati karma kutsitam | atha ced devatābhidhānam | kvāyaṁ na caratīti | giriṣṭhā giristhāyī | giriḥ parvataḥ | samudgīrṇo bhavati | parvavān parvataḥ | parva punaḥ pṛṇāteḥ prīṇātervā | ardhamāsaparva | devānasminprīṇantīti | tat prakṛtītaratsandhisāmānyāt | meghasthāyi | megho'pi giriretasmādeva | tad yāni nāmāni prādhānyastutīnāṁ devatānāṁ tad daivatamityācakṣate | tadupariṣṭād vyākhyāsyāmaḥ | naighaṇṭukāni naigamānīheha
इस ऋचा में कहा गया है कि जो वाणी को केवल मित्रता के लिए स्थिर-आस्वादित जानते हैं, उन्हें प्रतियोगिता में सफलता नहीं मिलती — वे मायया वाणी के समीप ऐसे विचरते हैं मानो बन्ध्या गाय के पास, और उनकी सुनी हुई वाणी फल-पुष्प-रहित रहती है। यास्क कहते हैं कि साक्षात्कृतधर्मा ऋषियों ने अवर (परवर्ती, असाक्षात्कारी) जनों के उपदेशार्थ मन्त्रों को समाम्नात किया — वेद और वेदांगों को। अन्त में एतावत् (इतने) धातुओं और उनके नामों को ही निघण्टु का देवता-प्रधान विषय बताकर, तथा अश्व, मृग, गिरि आदि दृष्टान्तों से नैघण्टुक-दैवत विभाग का संकेत देकर प्रथम अध्याय समाप्त होता है।
श्लोक 2.1
अथ निर्वचनम् । तद्येषु पदेषु स्वरसंस्कारौ समर्थौ प्रादेशिकेन विकारेणान्वितौ स्यातां तथा तानि निर्ब्रूयात् । अथानन्वितेऽर्थेऽप्रादेशिके विकारेऽर्थनित्यः परीक्षेत केनचिद्वृत्तिसामान्येन । अविद्यमाने सामान्येऽप्यक्षरवर्णसामान्यान्निर्ब्रूयात् । न त्वेव न निर्ब्रूयात् । न संस्कारमाद्रियेत । विशयवत्यो हि वृत्तयो भवन्ति । यथार्थं विभक्तीः सन्नमयेत् ।। प्रत्तमवत्तमिति धात्वादी एव शिष्येते । अथाप्यस्तोर्निवृत्तिस्थानेष्वादिलोपो भवति । स्तः । सन्तीति । अथाप्यन्तलोपो भवति । गत्वा । गतमिति । अथाप्युपधालोपो भवति । जग्मतुः । जग्मुरिति । अथाप्युपधाविकारो भवति । राजा । दण्डीति । अथापि वर्णलोपो भवति । तत्त्वा यामि । इति । अथापि द्विवर्णलोपः । तृच इति । अथाप्यादिविपर्ययो भवति । ज्योतिः । घनः । बिन्दुः । वाट्य इति । अथाप्याद्यन्तविपर्ययो भवति । स्तोकाः । रज्जुः । सिकताः । तर्क्विति । अथाप्यन्तव्यापत्तिर्भवति
atha nirvacanam | tadyeṣu padeṣu svarasaṁskārau samarthau prādeśikena vikāreṇānvitau syātāṁ tathā tāni nirbrūyāt | athānanvite'rthe'prādeśike vikāre'rthanityaḥ parīkṣeta kenacidvṛttisāmānyena | avidyamāne sāmānye'pyakṣaravarṇasāmānyānnirbrūyāt | na tveva na nirbrūyāt | na saṁskāramādriyeta | viśayavatyo hi vṛttayo bhavanti | yathārthaṁ vibhaktīḥ sannamayet || prattamavattamiti dhātvādī eva śiṣyete | athāpyastornivṛttisthāneṣvādilopo bhavati | staḥ | santīti | athāpyantalopo bhavati | gatvā | gatamiti | athāpyupadhālopo bhavati | jagmatuḥ | jagmuriti | athāpyupadhāvikāro bhavati | rājā | daṇḍīti | athāpi varṇalopo bhavati | tattvā yāmi | iti | athāpi dvivarṇalopaḥ | tṛca iti | athāpyādiviparyayo bhavati | jyotiḥ | ghanaḥ | binduḥ | vāṭya iti | athāpyādyantaviparyayo bhavati | stokāḥ | rajjuḥ | sikatāḥ | tarkviti | athāpyantavyāpattirbhavati
अब निर्वचन (व्युत्पत्ति) की विधि बताई जाती है। जहाँ स्वर-संस्कार क्रिया के अनुरूप हों, वहाँ शब्द सरलता से समझाए जा सकते हैं; जहाँ न हों, वहाँ भी अर्थ-निष्ठ रहकर किसी वृत्ति-सामान्य के आधार पर, या कम-से-कम वर्ण-साम्य के आधार पर व्याख्या करनी चाहिए — बिना व्याख्या किए छोड़ना उचित नहीं। इसके बाद ध्वनि-परिवर्तन के प्रकार गिनाए गए हैं — आदि-लोप (स्तः->सन्ति), अन्त्य-लोप (गत्वा->गतम्), उपधा-लोप, उपधा-विकार, वर्ण-लोप, द्विवर्ण-लोप, आदि-विपर्यय और आद्यन्त-विपर्यय — प्रत्येक के उदाहरण सहित।
श्लोक 2.2
ओघः । मेघः । नाधः । गाधः । वधूः । मध्विति । अथापि वर्णोपजनः । आस्थत् । द्वारः । भरूजेति । तद् यत्र स्वरादनन्तरान्तस्थान्तर्धातुर्भवति तद् द्विप्रकृतीनां स्थानमिति प्रदिशन्ति । तत्र सिद्धायामनुपपद्यमानायामितरयोपपिपादयिषेत् । तत्राप्येकेऽल्पनिष्पत्तयो भवन्ति । तद्यथैतत् । ऊतिः । मृदुः । पृथुः । पृषतः । कुणारुमिति । अथापि भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते । दमूनाः । क्षेत्रसाधा इति । अथापि नैगमेभ्यो भाषिकाः । उष्णम् । घृतमिति । अथापि प्रकृतय एवैकेषु भाष्यन्ते । विकृतय एकेषु । शवतिर्गतिकर्मा कंबोजेष्वेव भाष्यते । कंबोजाः कंबलभोजाः । कमनीयभोजा वा । कंबलः कमनीयो भवति । विकारमस्यार्येषु भाषन्ते । शव इति । दातिर्लवनार्थे प्राच्येषु । दात्रमुदीच्येषु । एवमेकपदानि निर्ब्रूयात् । अथ तद्धितसमासेष्वेकपर्वसु वानेकपर्वसु च पूर्वं पूर्वमपरमपरं प्रविभज्य निर्ब्रूयात् । दण्ड्यः पुरुषः । दण्डमर्हतीति वा । दण्डेन संपद्यत इति वा । दण्डो ददातेर्धारयतिकर्मणः । अक्रूरो ददते मणिमित्यभिभाषन्ते । दमनादित्यौपमन्यवः । दण्डमस्याकर्षतीति गर्हायाम् । कक्ष्यारज्जुरश्वस्य । कक्षं सेवते । कक्षो गाहतेः । क्स इति नामकरणः । ख्यातेर्वानर्थकोऽभ्यासः । किमस्मिन् ख्यानमिति । कषतेर्वा । तत्सामान्यान्मनुष्यकक्षः । बाहुमूलसामान्यादश्वस्य
oghaḥ | meghaḥ | nādhaḥ | gādhaḥ | vadhūḥ | madhviti | athāpi varṇopajanaḥ | āsthat | dvāraḥ | bharūjeti | tad yatra svarādanantarāntasthāntardhāturbhavati tad dviprakṛtīnāṁ sthānamiti pradiśanti | tatra siddhāyāmanupapadyamānāyāmitarayopapipādayiṣet | tatrāpyeke'lpaniṣpattayo bhavanti | tadyathaitat | ūtiḥ | mṛduḥ | pṛthuḥ | pṛṣataḥ | kuṇārumiti | athāpi bhāṣikebhyo dhātubhyo naigamāḥ kṛto bhāṣyante | damūnāḥ | kṣetrasādhā iti | athāpi naigamebhyo bhāṣikāḥ | uṣṇam | ghṛtamiti | athāpi prakṛtaya evaikeṣu bhāṣyante | vikṛtaya ekeṣu | śavatirgatikarmā kaṁbojeṣveva bhāṣyate | kaṁbojāḥ kaṁbalabhojāḥ | kamanīyabhojā vā | kaṁbalaḥ kamanīyo bhavati | vikāramasyāryeṣu bhāṣante | śava iti | dātirlavanārthe prācyeṣu | dātramudīcyeṣu | evamekapadāni nirbrūyāt | atha taddhitasamāseṣvekaparvasu vānekaparvasu ca pūrvaṁ pūrvamaparamaparaṁ pravibhajya nirbrūyāt | daṇḍyaḥ puruṣaḥ | daṇḍamarhatīti vā | daṇḍena saṁpadyata iti vā | daṇḍo dadāterdhārayatikarmaṇaḥ | akrūro dadate maṇimityabhibhāṣante | damanādityaupamanyavaḥ | daṇḍamasyākarṣatīti garhāyām | kakṣyārajjuraśvasya | kakṣaṁ sevate | kakṣo gāhateḥ | ksa iti nāmakaraṇaḥ | khyātervānarthako'bhyāsaḥ | kimasmin khyānamiti | kaṣatervā | tatsāmānyānmanuṣyakakṣaḥ | bāhumūlasāmānyādaśvasya
और उदाहरण दिए गए हैं (ओघः, मेघः आदि), तथा वर्ण-प्रक्षेप (जैसे द्वारः) का वर्णन है। जहाँ स्वर के ठीक बाद अन्तःस्थ वर्ण आता है वहाँ दो सम्भव मूल-धातुएँ मानी जाती हैं, और जो अधिक उपयुक्त सिद्ध हो उसी को अपनाना चाहिए। कुछ शब्द भाषा (लौकिक बोली) की धातुओं से नैगम (वैदिक) रूप में प्रयुक्त होते हैं और कुछ इसके विपरीत; कुछ शब्द अपने मूल रूप में तो कुछ विकृत रूप में विभिन्न प्रदेशों में बोले जाते हैं — जैसे कम्बोज में 'शव' गति-अर्थ में, आर्यों में विकार-अर्थ में। इसी प्रकार तद्धित समासों में भी क्रमशः विभाजन कर व्याख्या करनी चाहिए, जैसे 'दण्ड्यः' और 'कक्ष्या' के उदाहरणों से दिखाया गया है — किन्तु यह व्याख्या केवल जिज्ञासु और अदूषक शिष्य के लिए ही की जाए, ईर्ष्यालु के लिए नहीं।
श्लोक 2.3
राज्ञः पुरुषो राजपुरुषः । राजा राजतेः । पुरुषः पुरि षादः । पुरि शयः । पूरयतेर्वा । पूरयत्यन्तरित्यन्तरपुरुषमभिप्रेत्य । यस्मात्परं नापरमस्ति किंचिद्यस्मान्नाणीयो न ज्यायोऽस्ति कश्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येक़स्तेनेदं पूर्णं पुरुषेण सर्वम्
rājñaḥ puruṣo rājapuruṣaḥ | rājā rājateḥ | puruṣaḥ puri ṣādaḥ | puri śayaḥ | pūrayatervā | pūrayatyantarityantarapuruṣamabhipretya | yasmātparaṁ nāparamasti kiṁcidyasmānnāṇīyo na jyāyo'sti kaścit | vṛkṣa iva stabdho divi tiṣṭhatyekastenedaṁ pūrṇaṁ puruṣeṇa sarvam
'राजपुरुष' का अर्थ है राजा का पुरुष; 'राजा' राजतेः (चमकने/शासन करने की धातु) से, 'पुरुष' 'पुरि शयः' (नगर में शयन करने वाला) या 'पूरयति' (भरने वाला) से व्युत्पन्न होता है। इसके बाद प्रसिद्ध वेदान्तिक ऋचा उद्धृत है: 'जिससे परे कुछ नहीं, जिससे सूक्ष्मतर या महत्तर कुछ नहीं, वह वृक्ष के समान अचल स्वर्ग में स्थित है — इस पुरुष से ही यह सब पूर्ण है।'
श्लोक 2.4
इत्यपि निगमो भवति । विश्वकद्द्राकर्षः । वीति चकद्र इति श्वगतौ भाष्यते । द्रातीति गतिकुत्सना । कद्रातीति द्रातिकुत्सना । चकद्राति कद्रातीति सतोऽनर्थकोऽभ्यासः । तदस्मिन्नस्तीति विश्वकद्रः । कल्याणवर्णरूपः । कल्याणवर्णस्येवास्य रूपम् । कल्याणं कमनीयं भवति । वर्णो वृणोतेः । रूपं रोचतेः । एवं तद्धितसमासान्निर्ब्रूयात् । नैकपदानि निर्ब्रूयात् । नावैयाकरणाय । नानुपसन्नाय । अनिदंविदे वा । नित्यं ह्यविज्ञातुर्विज्ञानेऽसूया । उपसन्नाय तु निर्ब्रूयात् । यो वालं विज्ञातुं स्यात् । मेधाविने । तपस्विने वा
ityapi nigamo bhavati | viśvakaddrākarṣaḥ | vīti cakadra iti śvagatau bhāṣyate | drātīti gatikutsanā | kadrātīti drātikutsanā | cakadrāti kadrātīti sato'narthako'bhyāsaḥ | tadasminnastīti viśvakadraḥ | kalyāṇavarṇarūpaḥ | kalyāṇavarṇasyevāsya rūpam | kalyāṇaṁ kamanīyaṁ bhavati | varṇo vṛṇoteḥ | rūpaṁ rocateḥ | evaṁ taddhitasamāsānnirbrūyāt | naikapadāni nirbrūyāt | nāvaiyākaraṇāya | nānupasannāya | anidaṁvide vā | nityaṁ hyavijñāturvijñāne'sūyā | upasannāya tu nirbrūyāt | yo vālaṁ vijñātuṁ syāt | medhāvine | tapasvine vā
यह भी एक निगम (वैदिक उद्धरण) है। 'विश्वकद्रु' शब्द को श्वगति ('जाना') की कुत्सित (निन्दित) पुनरावृत्ति से समझाया गया है। 'कल्याणवर्णरूपः' का अर्थ है 'सुन्दर वर्ण और रूप वाला' — 'वर्ण' वृणोति (चुनना/ढकना) से और 'रूप' रोचते (चमकना) से। इस प्रकार तद्धित-समासों की व्याख्या करनी चाहिए, किन्तु एकपदिक (मूल, अविभाज्य) शब्दों को तोड़कर व्याख्या नहीं करनी चाहिए, और यह शिक्षा केवल व्याकरण-ज्ञाता, विनम्र, बुद्धिमान् या तपस्वी शिष्य को ही देनी चाहिए — अज्ञ के प्रति ईर्ष्या स्वाभाविक होती है।
श्लोक 2.5
विद्या ह वै ब्राह्मणमा जगाम गोपाय मा शेवधिष्टेऽहमस्मि । असूयकायानृजवेऽय॒ताय॒ न मा ब्रूया वीर्यवती तथा स्याम् ॥ य आतृणत्यवितथेन कर्णावदुःखं कुर्वन्नमृतं सं प्रयच्छन् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत् कतम॑च्चनाह ॥ अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा । यथैव ते न गुरोर्भोजनीयास्तथैव तान्न भुनक्ति श्रुतं तत् ॥ यमेव विद्याः शुचिमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् । यस्ते न द्रुह्येत् कतम॑च्चनाह तस्मै मा ब्रूया निधिपाय॒ ब्रह्मन् ॥ इति निधिः शेवधिरिति
vidyā ha vai brāhmaṇamā jagāma gopāya mā śevadhiṣṭe'hamasmi | asūyakāyānṛjave'yatāya na mā brūyā vīryavatī tathā syām || ya ātṛṇatyavitathena karṇāvaduḥkhaṁ kurvannamṛtaṁ saṁ prayacchan | taṁ manyeta pitaraṁ mātaraṁ ca tasmai na druhyet katamaccanāha || adhyāpitā ye guruṁ nādriyante viprā vācā manasā karmaṇā vā | yathaiva te na gurorbhojanīyāstathaiva tānna bhunakti śrutaṁ tat || yameva vidyāḥ śucimapramattaṁ medhāvinaṁ brahmacaryopapannam | yaste na druhyet katamaccanāha tasmai mā brūyā nidhipāya brahman || iti nidhiḥ śevadhiriti
इस दीर्घ उद्धरण में विद्या स्वयं ब्राह्मण के पास आकर कहती है: 'मेरी रक्षा करो, मैं तुम्हारा निधि हूँ। मुझे ईर्ष्यालु, कुटिल और अयत (असंयमी) को मत बताना, तभी मैं वीर्यवती रहूँगी। जो सत्य से (कान खोलकर) सुनाता, कष्ट नहीं देता, अमृत प्रदान करता है, उसे ही माता-पिता के समान मानो और उसका कभी द्रोह मत करो। जो शिष्य गुरु का वाणी, मन या कर्म से आदर नहीं करते, वे गुरु के भोजन के योग्य नहीं, वैसे ही श्रुत-ज्ञान भी उन्हें फल नहीं देता। जिसे तुम शुचि, सावधान, मेधावी और ब्रह्मचर्य-सम्पन्न जानो और जो कभी द्रोह न करे, हे ब्रह्मन्, उसी निधि-रक्षक को यह विद्या बताना।' 'निधि' और 'शेवधि' पर्यायवाची हैं।
श्लोक 2.6
अथातोऽनुक्रमिष्यामः । गौरिति पृथिव्या नामधेयम् । यद्दूरं गता भवति । यच्चास्यां भूतानि गच्छन्ति । गातेर्वौकारो नामकरणः । अथापि पशुनामेह भवत्येतस्मादेव । अथाप्यस्यां ताद्धितेन कृत्स्नवन्निगमा भवन्ति । गोभिः श्रीणीत मत्स॒रम् । इति पयसः । मत्सरः सोमः । मन्दतेस्तृप्तिकर्मणः । मत्सर इति लोभनाम । अभिमत्त एनेन धनं भवति । पयः पिबतेर्वा प्यायतेर्वा । क्षीरं क्षरतेः । घसेर्वेरो नामकरणः । उशीरमिति यथा । अंशुं दुहन्तो अध्या॑सते गवि । इत्यधिषवणचर्मणः । अंशुः शमष्टमात्रो भवति । अननाय शं भवतीति वा । चर्म चरतेर्वा । उच्चृतं भवतीति वा । अथापि चर्म च श्लेष्मा च । गोभिः सन्नद्धो असि वीळय॑स्व । इति रथस्तुतौ । अथापि स्नाव च श्लेष्मा च । गोभिः सन्नद्धा पतति प्रसूता । इतीषुस्तुतौ । ज्यापि गौरुच्यते । गव्या चेत् ताद्धितम् । अथ चेन्न । गव्या गमयतीषूनिति
athāto'nukramiṣyāmaḥ | gauriti pṛthivyā nāmadheyam | yaddūraṁ gatā bhavati | yaccāsyāṁ bhūtāni gacchanti | gātervaukāro nāmakaraṇaḥ | athāpi paśunāmeha bhavatyetasmādeva | athāpyasyāṁ tāddhitena kṛtsnavannigamā bhavanti | gobhiḥ śrīṇīta matsaram | iti payasaḥ | matsaraḥ somaḥ | mandatestṛptikarmaṇaḥ | matsara iti lobhanāma | abhimatta enena dhanaṁ bhavati | payaḥ pibatervā pyāyatervā | kṣīraṁ kṣarateḥ | ghaservero nāmakaraṇaḥ | uśīramiti yathā | aṁśuṁ duhanto adhyāsate gavi | ityadhiṣavaṇacarmaṇaḥ | aṁśuḥ śamaṣṭamātro bhavati | ananāya śaṁ bhavatīti vā | carma caratervā | uccṛtaṁ bhavatīti vā | athāpi carma ca śleṣmā ca | gobhiḥ sannaddho asi vīḷayasva | iti rathastutau | athāpi snāva ca śleṣmā ca | gobhiḥ sannaddhā patati prasūtā | itīṣustutau | jyāpi gaurucyate | gavyā cet tāddhitam | atha cenna | gavyā gamayatīṣūniti
अब क्रमशः निघण्टु-शब्दों की व्याख्या आरम्भ होती है। 'गौः' पृथिवी का नाम है, क्योंकि वह दूर तक गई हुई है और उसमें प्राणी गमन करते हैं — 'गा' (जाना) धातु से 'औ' प्रत्यय द्वारा। यही शब्द पशु के अर्थ में भी प्रयुक्त होता है, और इससे कई वैदिक उद्धरण भी जुड़े हैं — जैसे 'गोभिः श्रीणीत मत्सरम्' (गायों के दूध से सोम को मिलाओ), जहाँ 'मत्सर' सोम का नाम है (तृप्ति देने वाला)। 'अंशु' सोम-लता का नाम है, 'चर्म' चरतेः (चलने) या रगड़ खाने की धातु से रथ-आच्छादन के अर्थ में, और 'ज्या' (धनुष की डोरी) भी कभी-कभी 'गौः' कहलाती है।
श्लोक 2.7
वृक्षवृक्षे वियता मीमय॒द् गौस्ततो वयः प्र प॑तान्पूरुषादः । वृक्षवृक्षे धनुषिधनुषि । वृत्वा क्षां तिष्ठतीति वा । क्षा क्षियतेः । निवासकर्मणेः नियता मीमयद् गौः शब्दं करोति । मीमयतिः शब्दकर्मा । ततो वयः प्रपतन्ति । पुरुषानदनाय । विरिति शकुनिनाम । वेतेर्गतिकर्मणः । अथापीषुनामेह भवत्येतस्मादेव । आदित्योऽपि गौरुच्यते । उतादः परुषे गवि । पर्ववति भास्वतीत्यौपमन्यवः । अथाप्यस्यैको रश्मिश्चंद्रमसं प्रति दीप्यते तदेतेनोपेक्षितव्यम् । आदित्यतोऽस्य दीप्तिर्भवति । सुषुम्णः सूर्यरश्मिश्चन्द्रमा गन्धर्वः । इत्यपि निगमो भवति । सोऽपि गौरुच्यते । अत्राह गोरमन्वत । इति । तदुपरिष्टाद् व्याख्यास्यामः । सर्वेऽपि रश्मयो गाव उच्यन्ते
vṛkṣavṛkṣe viyatā mīmayad gaustato vayaḥ pra patānpūruṣādaḥ | vṛkṣavṛkṣe dhanuṣidhanuṣi | vṛtvā kṣāṁ tiṣṭhatīti vā | kṣā kṣiyateḥ | nivāsakarmaṇeḥ niyatā mīmayad gauḥ śabdaṁ karoti | mīmayatiḥ śabdakarmā | tato vayaḥ prapatanti | puruṣānadanāya | viriti śakunināma | vetergatikarmaṇaḥ | athāpīṣunāmeha bhavatyetasmādeva | ādityo'pi gaurucyate | utādaḥ paruṣe gavi | parvavati bhāsvatītyaupamanyavaḥ | athāpyasyaiko raśmiścaṁdramasaṁ prati dīpyate tadetenopekṣitavyam | ādityato'sya dīptirbhavati | suṣumṇaḥ sūryaraśmiścandramā gandharvaḥ | ityapi nigamo bhavati | so'pi gaurucyate | atrāha goramanvata | iti | tadupariṣṭād vyākhyāsyāmaḥ | sarve'pi raśmayo gāva ucyante
इस ऋचा में कहा गया है कि गाय प्रत्येक वृक्ष के पास शब्द करती है, तब पक्षी मनुष्य-भक्षी वृक्षों से उड़ जाते हैं — यास्क इसे मेघ-गर्जन का रूपक मानते हैं, जहाँ 'गौः' मेघ के लिए और 'वयः' पक्षियों के लिए प्रयुक्त है। आदित्य भी 'गौः' कहा जाता है — औपमन्यव के अनुसार पर्ववान् (कलाओं वाला) और भास्वान् होने से। चन्द्रमा भी 'गौः' कहलाता है, क्योंकि इसकी एक किरण (सुषुम्ण) सूर्य से प्रकाश पाती है; इस प्रकार सभी किरणें भी 'गावः' कही जाती हैं।
श्लोक 2.8
ता वां वास्तून्युश्मसि गमध्यै यत्र गावो भूरिशृंगा अयासः । अत्राह तदुरुगायस्य॒ वृष्णः परमं पदमव भाति भूरि ॥ तानि वां वास्तूनि कामयामहे गमनाय यत्र गावो भूरिशृंगा बहुश्रृंगाः । भूरीति बहुनो नामधेयम् । प्रभवतीति सतः । शृंगं श्रयतेर्वा । शृणातेर्वा । शम्नातेर्वा । शरणायोद्गतमिति वा । शिरसो निर्गतमिति वा । अयासोऽयनाः । तत्र तदुरुगायस्य विष्णोर्महागतेः परमं पदं परार्ध्यस्थमवभाति भूरि । पादः पद्यते । तन्निधानात् पदम् । पशुपादप्रकृतिः प्रभागपादः । प्रभागपादसामान्यादितराणि पदानि । एवमन्येषामपि सत्त्वानां संदेहा विद्यन्ते । तानि चेत् समानकर्माणि समाननिर्वचनानि । नानाकर्माणि चेन्नानानिर्वचनानि । यथार्थं निर्वक्तव्यानि । इतीमान्येकविंशतिः पृथिवीनामधेयान्यनुक्रान्तानि । तत्र निर्ऋतिर्निरमणात् । ऋच्छतेः कृच्छ्रापत्तिरितरा। सा पृथिव्या संदिह्यते । तयोर्विभागः । तस्या एषा भवति
tā vāṁ vāstūnyuśmasi gamadhyai yatra gāvo bhūriśṛṁgā ayāsaḥ | atrāha tadurugāyasya vṛṣṇaḥ paramaṁ padamava bhāti bhūri || tāni vāṁ vāstūni kāmayāmahe gamanāya yatra gāvo bhūriśṛṁgā bahuśrṛṁgāḥ | bhūrīti bahuno nāmadheyam | prabhavatīti sataḥ | śṛṁgaṁ śrayatervā | śṛṇātervā | śamnātervā | śaraṇāyodgatamiti vā | śiraso nirgatamiti vā | ayāso'yanāḥ | tatra tadurugāyasya viṣṇormahāgateḥ paramaṁ padaṁ parārdhyasthamavabhāti bhūri | pādaḥ padyate | tannidhānāt padam | paśupādaprakṛtiḥ prabhāgapādaḥ | prabhāgapādasāmānyāditarāṇi padāni | evamanyeṣāmapi sattvānāṁ saṁdehā vidyante | tāni cet samānakarmāṇi samānanirvacanāni | nānākarmāṇi cennānānirvacanāni | yathārthaṁ nirvaktavyāni | itīmānyekaviṁśatiḥ pṛthivīnāmadheyānyanukrāntāni | tatra nirṛtirniramaṇāt | ṛcchateḥ kṛcchrāpattiritarā| sā pṛthivyā saṁdihyate | tayorvibhāgaḥ | tasyā eṣā bhavati
इस ऋचा में स्तोता विष्णु के उस परम पद की कामना करते हैं जहाँ बहुसींग वाली गौएँ (किरणें/नक्षत्र) विचरती हैं — विष्णु का वह महागति-सम्पन्न परम पद प्रकाशमान है। 'पद' शब्द को 'पद्यते' (गति करना) से और पशु के पैर से सम्बद्ध बताया गया है। यहाँ पृथ्वी के इक्कीस नामों की सूची पूर्ण होती है, और यह नियम दिया गया है कि जिन वस्तुओं के कर्म समान हों उनका निर्वचन भी समान होना चाहिए, भिन्न कर्म वालों का भिन्न — यथार्थतः ही निर्वचन करना चाहिए। अन्त में 'निर्ऋति' को पृथिवी से भिन्न, 'कृच्छ्र-प्राप्ति' के अर्थ में समझाया गया है।
श्लोक 2.9
य ईं चकार न सो अस्य वेद य ईं ददर्श हिरुगिन्नु तस्मा॑त् । स मातुर्योना परिवीतो अन्तर्बहुप्रजा निर्ऋतिमा विवेश ॥ बहुप्रजाः कृच्छ्रमापद्यत इति परिव्राजकाः । वर्षकर्मेति नैरुक्ताः । य ईं चकारेति करोतिकिरती संदिग्धौ वर्षकर्मणा । न सो अस्य वेद मध्यमः । स एवास्य वेद मध्यमो यो ददर्शादित्योपहितम् । स मातुर्योनौ । मातान्तरिक्षम् । निर्मीयन्तेऽस्मिन् भूतानि । योनिरन्तरिक्षम् । महानवयवः । परिवीतो वायुना । अयमपीतरो योनिरेतस्मादेव । परियुतो भवति । बहुप्रजा भूमिमापद्यते वर्षकर्मणा । शाकपूणिः संकल्पयाञ्चक्रे सर्वा देवता जानानीति । तस्मै देवतोभयलिङ्गा प्रादुर्बभूव । तां न जज्ञे । तां पप्रच्छ । विविदिषाणि त्वेति । सास्मा एतामृचमादिदेश । एषा मद्देवतेति
ya īṁ cakāra na so asya veda ya īṁ dadarśa hiruginnu tasmāt | sa māturyonā parivīto antarbahuprajā nirṛtimā viveśa || bahuprajāḥ kṛcchramāpadyata iti parivrājakāḥ | varṣakarmeti nairuktāḥ | ya īṁ cakāreti karotikiratī saṁdigdhau varṣakarmaṇā | na so asya veda madhyamaḥ | sa evāsya veda madhyamo yo dadarśādityopahitam | sa māturyonau | mātāntarikṣam | nirmīyante'smin bhūtāni | yonirantarikṣam | mahānavayavaḥ | parivīto vāyunā | ayamapītaro yoniretasmādeva | pariyuto bhavati | bahuprajā bhūmimāpadyate varṣakarmaṇā | śākapūṇiḥ saṁkalpayāñcakre sarvā devatā jānānīti | tasmai devatobhayaliṅgā prādurbabhūva | tāṁ na jajñe | tāṁ papraccha | vividiṣāṇi tveti | sāsmā etāmṛcamādideśa | eṣā maddevateti
इस कठिन ऋचा में मध्यम (अन्तरिक्ष) देवता का वर्णन है — 'जिसने इसे बनाया वह इसे नहीं जानता, जिसने इसे देखा है वही जानता है; वह माता की योनि में लिपटा हुआ, बहुप्रजा होकर निर्ऋति में प्रवेश करता है।' यास्क बताते हैं कि यह वर्षा-कर्म का रूपक है — 'माता' अन्तरिक्ष है, 'योनि' वही अन्तरिक्ष जिसमें प्राणी उत्पन्न होते हैं, 'परिवीत' वायु से घिरा हुआ। अन्त में शाकपूणि का आख्यान है, जो सभी देवताओं को जानने का संकल्प लेकर एक उभयलिंगी देवता से मिलते हैं, जो स्वयं को 'मेरी ही देवता' कहकर एक ऋचा बताती है।
श्लोक 2.10
अयं स शिंक्ते येन गौरभीवृता मिमाति मायुं ध्वसनावधि श्रिता । सा चित्तिभिर्नि हि चकार मर्त्यं विद्युद्भवन्ती प्रति वव्रिमौहत ॥ अयं स शब्दायते येन गौरभिप्रवृत्ता मिमाति । मायुं शब्दं करोति । मायुमिवादित्यमिति वा । वागेषा माध्यमिका । ध्वंसने मेघेऽधिश्रिता । सा चित्तिभिः कर्मभिर्नीचैः निकरोति मर्त्यम् । विद्युद्भवन्ती प्रत्यूहते वव्रिम् । वव्रिरिति रूपनाम । वृणोतीति सतः । वर्षेण प्रच्छाद्य पृथिवीं तत्पुनरादत्ते
ayaṁ sa śiṁkte yena gaurabhīvṛtā mimāti māyuṁ dhvasanāvadhi śritā | sā cittibhirni hi cakāra martyaṁ vidyudbhavantī prati vavrimauhata || ayaṁ sa śabdāyate yena gaurabhipravṛttā mimāti | māyuṁ śabdaṁ karoti | māyumivādityamiti vā | vāgeṣā mādhyamikā | dhvaṁsane meghe'dhiśritā | sā cittibhiḥ karmabhirnīcaiḥ nikaroti martyam | vidyudbhavantī pratyūhate vavrim | vavririti rūpanāma | vṛṇotīti sataḥ | varṣeṇa pracchādya pṛthivīṁ tatpunarādatte
इस ऋचा में मेघ-गर्जन (वाणी) का वर्णन है — 'जिसके द्वारा घिरी हुई गौ (मेघ) शब्द करती है और विनाश तक पहुँचती है, वह चित्त-कर्मों से मरणशील को दबाती है और बिजली बनकर आवरण को हटा देती है।' यह मध्यम (वायु-सम्बन्धी) वाणी है। बिजली वर्षा के द्वारा पृथिवी को ढककर पुनः उसे खोल देती है — 'वव्रि' रूप का नाम है, वृणोति (ढकना) धातु से।
श्लोक 2.11
हिरण्यनामान्युत्तराणि पंचदश । हिरण्यं कस्मात् । ह्रियत आयम्यमानमिति वा । ह्रियते जनाज्जनमिति वा । हितरमणं भवतीति वा । हर्यतेर्वा स्यात् प्रेप्साकर्मणः । अन्तरिक्षनामान्युत्तराणि षोडश । अन्तरिक्षं कस्मात् । अन्तरा क्षान्तं भवति । अन्तरेमे इति वा । शरीरेष्वन्तरक्षयमिति वा । तत्र समुद्र इत्येतत् पार्थिवेन समुद्रेण संदिह्यते । समुद्रः कस्मात् । समुद्द्रवन्त्यस्मादापः । समभिद्रवन्त्येनमापः । संमोदन्तेऽस्मिन्भूतानि । समुदको भवति । समुनत्तीति वा । तयोर्विभागः । तत्रेतिहासमाचक्षते । देवापिश्चार्ष्टिषेणः शंतनुश्च कौरव्यौ भ्रातरौ बभूवतुः । स शंतनुः कनीयानभिषेचयांचक्रे । देवापिस्तपः प्रतिपेदे । ततः शंतनो राज्ये द्वादश वर्षाणि देवो न ववर्ष । तमूचुर्ब्राह्मणाः । अधर्मस्त्वया चरितः । ज्येष्ठं भ्रातरमन्तरित्याभिषेचितम् । तस्मात्ते देवो न वर्षतीति । स शंतनुर्देवापिं शिशिक्ष राज्येन । तमुवाच देवापिः । पुरोहितस्तेऽसानि । याजयानि च त्वेति । तस्यैतद् वर्षकामसूक्तम् । तस्यैषा भवति
hiraṇyanāmānyuttarāṇi paṁcadaśa | hiraṇyaṁ kasmāt | hriyata āyamyamānamiti vā | hriyate janājjanamiti vā | hitaramaṇaṁ bhavatīti vā | haryatervā syāt prepsākarmaṇaḥ | antarikṣanāmānyuttarāṇi ṣoḍaśa | antarikṣaṁ kasmāt | antarā kṣāntaṁ bhavati | antareme iti vā | śarīreṣvantarakṣayamiti vā | tatra samudra ityetat pārthivena samudreṇa saṁdihyate | samudraḥ kasmāt | samuddravantyasmādāpaḥ | samabhidravantyenamāpaḥ | saṁmodante'sminbhūtāni | samudako bhavati | samunattīti vā | tayorvibhāgaḥ | tatretihāsamācakṣate | devāpiścārṣṭiṣeṇaḥ śaṁtanuśca kauravyau bhrātarau babhūvatuḥ | sa śaṁtanuḥ kanīyānabhiṣecayāṁcakre | devāpistapaḥ pratipede | tataḥ śaṁtano rājye dvādaśa varṣāṇi devo na vavarṣa | tamūcurbrāhmaṇāḥ | adharmastvayā caritaḥ | jyeṣṭhaṁ bhrātaramantarityābhiṣecitam | tasmātte devo na varṣatīti | sa śaṁtanurdevāpiṁ śiśikṣa rājyena | tamuvāca devāpiḥ | purohitaste'sāni | yājayāni ca tveti | tasyaitad varṣakāmasūktam | tasyaiṣā bhavati
यहाँ हिरण्य (स्वर्ण) के पन्द्रह और अन्तरिक्ष के सोलह नामों की सूची का प्रारम्भ है। 'हिरण्य' को 'ह्रियते' (खींचा जाना/वांछित होना) से और 'अन्तरिक्ष' को 'अन्तरा क्षान्तं' (बीच में स्थित) से व्युत्पन्न किया गया है। 'समुद्र' पृथिवी और अन्तरिक्ष दोनों के लिए संदिग्ध है, इसे 'समुद्द्रवन्ति आपः' (जिससे जल दौड़ता है) से समझाया गया है। अन्त में देवापि-शन्तनु का प्रसिद्ध इतिहास दिया गया है — शन्तनु के राज्य में बारह वर्ष वर्षा न होने पर ज्येष्ठ भ्राता देवापि तपस्वी को पुरोहित बनाकर वर्षा-प्रार्थना सूक्त रचा गया।
श्लोक 2.12
आर्ष्टिषेणो होत्रमृषिर्नि षीदन्देवापिर्देवसुमतिं चिकित्वान् । स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥ आर्ष्टिषेण ऋष्टिषेणस्य पुत्रः । इषितसेनस्येति वा । सेना सेश्वरा । समानगतिर्वा । पुत्रः पुरु त्रायते । निपरणाद्वा । पुन्नरकं ततस्त्रायत इति वा । होत्रमृषिर्निषीदन् । ऋषिर्दर्शनात् । स्तोमान्ददर्शेत्यौपमन्यवः । तद्यदेनांस्तपस्यमानान् ब्रह्म स्वयंभ्वभ्यानर्षत् तदृषीणामृषित्वम् । इति विज्ञायते । देवापिर्देवानामाप्त्या स्तुत्या च प्रदानेन च देवसुमतिं देवानां कल्याणी मतिं चिकित्वांश्चेतनावान् । स उत्तरस्मादधरं समुद्रम् । उत्तर उद्धततरो भवति । अधरोऽधोऽरः । अधो न धावतीत्यूर्ध्वगतिः प्रतिषिद्धा । तस्योत्तरा भूयसे निर्वचनाय
ārṣṭiṣeṇo hotramṛṣirni ṣīdandevāpirdevasumatiṁ cikitvān | sa uttarasmādadharaṁ samudramapo divyā asṛjadvarṣyā abhi || ārṣṭiṣeṇa ṛṣṭiṣeṇasya putraḥ | iṣitasenasyeti vā | senā seśvarā | samānagatirvā | putraḥ puru trāyate | niparaṇādvā | punnarakaṁ tatastrāyata iti vā | hotramṛṣirniṣīdan | ṛṣirdarśanāt | stomāndadarśetyaupamanyavaḥ | tadyadenāṁstapasyamānān brahma svayaṁbhvabhyānarṣat tadṛṣīṇāmṛṣitvam | iti vijñāyate | devāpirdevānāmāptyā stutyā ca pradānena ca devasumatiṁ devānāṁ kalyāṇī matiṁ cikitvāṁścetanāvān | sa uttarasmādadharaṁ samudram | uttara uddhatataro bhavati | adharo'dho'raḥ | adho na dhāvatītyūrdhvagatiḥ pratiṣiddhā | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'आर्ष्टिषेण ऋषि देवापि, होत्र-पद पर बैठकर, देवताओं की कल्याणी बुद्धि को जानते हुए, ऊपरी समुद्र से नीचे के समुद्र में दिव्य वर्षा-जल छोड़ते हैं।' यास्क 'आर्ष्टिषेण' को ऋष्टिषेण के पुत्र के रूप में, और ऋषि को 'दर्शन' धातु से — जिसने स्तोत्र देखे — व्युत्पन्न करते हैं। वे बताते हैं कि तपस्वियों के प्रति स्वयंभू ब्रह्म का जो साक्षात्कार होता है, वही ऋषित्व है।
श्लोक 2.13
यद्देवापिः शन्तनवे पुरोहितो होत्राय॑ वृतः कृपयन्नदीधेत् । देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥ शन्तनुः शं तनोऽस्त्विति वा । शमस्मै तन्वा अस्त्विति वा । पुरोहितः पुर एनं दधति । होत्राय वृतः कृपायमाणोऽन्वध्यायत् । देवश्रुतं देवा एनं शृण्वन्ति वृष्टियाचिनम् । रराणो रातिरभ्यस्तः । बृहस्पतिर्ब्रह्मासीत् । सोऽस्मै वाचमयच्छत् । बृहदुपव्याख्यातम्
yaddevāpiḥ śantanave purohito hotrāya vṛtaḥ kṛpayannadīdhet | devaśrutaṁ vṛṣṭivaniṁ rarāṇo bṛhaspatirvācamasmā ayacchat || śantanuḥ śaṁ tano'stviti vā | śamasmai tanvā astviti vā | purohitaḥ pura enaṁ dadhati | hotrāya vṛtaḥ kṛpāyamāṇo'nvadhyāyat | devaśrutaṁ devā enaṁ śṛṇvanti vṛṣṭiyācinam | rarāṇo rātirabhyastaḥ | bṛhaspatirbrahmāsīt | so'smai vācamayacchat | bṛhadupavyākhyātam
इस ऋचा में कहा गया है: 'जब देवापि शन्तनु के लिए पुरोहित चुने जाकर करुणापूर्वक ध्यान करते हैं, तब देवताओं द्वारा श्रुत और वृष्टि चाहने वाले उन्हें बृहस्पति वाणी प्रदान करते हैं।' 'शन्तनु' का अर्थ है 'जिसके शरीर को शान्ति प्राप्त हो'; 'पुरोहित' वह जिसे आगे रखा जाता है। 'बृहस्पति' यहाँ ब्रह्मा (यज्ञ के ऋत्विज़) के रूप में समझाया गया है, जिन्होंने देवापि को वाणी (मन्त्र) प्रदान की — यह विषय आगे विस्तार से समझाया जाएगा।
श्लोक 2.14
साधारणान्युत्तराणि षड् दिवश्चादित्यस्य च । यानि त्वस्य प्राधान्येनोपरिष्टात्तानि व्याख्यास्यामः । आदित्यः कस्मात् । आदत्ते रसान् । आदत्ते भासं ज्योतिषाम् । आदीप्तो भासेति वा । अदितेः पुत्र इति वा । अल्पप्रयोगं त्वस्यैतदार्चाभ्याम्नाये सूक्तभाक् । सूर्यमादितेयम् । अदितेः पुत्रम् । एवमन्यासामपि देवतानामादित्यप्रवादाः स्तुतयो भवन्ति । तद्यथैतन्मित्रस्य वरुणस्यार्यम्णो दक्षस्य भगस्यांशस्येति । अथापि मित्रावरुणयोः । आदित्या दानुनस्पती । दानपती । अथापि मित्रस्यैकस्य । प्र स मित्र मर्तो अस्तु प्रय॑स्वान्यस्त आदित्य शिक्षति व्रतेन । इत्यपि निगमो भवति । अथापि वरुणस्यैकस्य अथा वयमादित्य व्रते तव॑ । व्रतमिति कर्मनाम । निवृत्तिकर्म वारयतीति सतः । इदमपीतरद्व्रतमेतस्मादेव वृणोतीति सतः । अन्नमपि व्रतमुच्यते । यदावृणोति शरीरम्
sādhāraṇānyuttarāṇi ṣaḍ divaścādityasya ca | yāni tvasya prādhānyenopariṣṭāttāni vyākhyāsyāmaḥ | ādityaḥ kasmāt | ādatte rasān | ādatte bhāsaṁ jyotiṣām | ādīpto bhāseti vā | aditeḥ putra iti vā | alpaprayogaṁ tvasyaitadārcābhyāmnāye sūktabhāk | sūryamāditeyam | aditeḥ putram | evamanyāsāmapi devatānāmādityapravādāḥ stutayo bhavanti | tadyathaitanmitrasya varuṇasyāryamṇo dakṣasya bhagasyāṁśasyeti | athāpi mitrāvaruṇayoḥ | ādityā dānunaspatī | dānapatī | athāpi mitrasyaikasya | pra sa mitra marto astu prayasvānyasta āditya śikṣati vratena | ityapi nigamo bhavati | athāpi varuṇasyaikasya athā vayamāditya vrate tava | vratamiti karmanāma | nivṛttikarma vārayatīti sataḥ | idamapītaradvratametasmādeva vṛṇotīti sataḥ | annamapi vratamucyate | yadāvṛṇoti śarīram
यहाँ द्यौः (आकाश) और आदित्य दोनों के छह साझा नाम बताए गए हैं, जिनकी मुख्य व्याख्या आगे की जाएगी। 'आदित्य' रसों और ज्योतियों की कान्ति ग्रहण करने से, या अदिति के पुत्र होने से कहलाता है। मित्र, वरुण, अर्यमा, दक्ष, भग और अंश — इन सभी देवताओं की स्तुतियों में भी आदित्य-सम्बन्धी सन्दर्भ मिलते हैं, जैसा उद्धृत उदाहरणों से दिखाया गया है। 'व्रत' कर्म का नाम है — निवृत्ति-कर्म को रोकने से, या अन्न को भी 'व्रत' कहा जाता है क्योंकि वह शरीर को ढक लेता है (पुष्ट करता है)।
श्लोक 2.15
स्वरादित्यो भवति । सु अरणः । सु ईरणः । स्वृतो रसान् । स्वृतो भासं ज्योतिषाम् । स्वृतो भासेति वा । एतेन द्यौर्व्याख्याता । पृश्निरादित्यो भवति । प्राश्नुत एनं वर्ण इति नैरुक्ताः । संस्पृष्टो रसान् । संस्प्रष्टा भासं ज्योतिषाम् । संस्प्रष्टो भासेति वा । अथ द्यौः । संस्पृष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नाक आदित्यो भवति नेता भासाम् । ज्योतिषां प्रणयः । अथ द्यौः । कमिति सुखनाम । प्रतिषिद्धं प्रतिषिध्येत । न वा अमुं लोकं जग्मुषे किं च नाकम् । न वा अमुं लोकं जग्मुषे किं च नासुखम् । पुण्यकृतो ह्येव तत्र गच्छन्ति । गौरादित्यो भवति । गमयति रसान् । गच्छत्यन्तरिक्षे । अथ द्यौः । यत्पृथिव्या अधिदूरं गता भवति । यच्चास्यां ज्योतींषि गच्छन्ति । विष्टबादित्यो भवति । आविष्टो रसान् । आविष्टो भासं ज्योतिषां । आविष्टो भासेति वा । अथ द्यौः । आविष्टा ज्योतिर्भिः पुण्यकृद्भिश्च । नभ आदित्यो भवति । नेता भासाम् । ज्योतिषां प्रणयः । अपि वा भन एव स्याद्विपरीतः । न न भातीति वा । एतेन द्यौर्व्याख्याता
svarādityo bhavati | su araṇaḥ | su īraṇaḥ | svṛto rasān | svṛto bhāsaṁ jyotiṣām | svṛto bhāseti vā | etena dyaurvyākhyātā | pṛśnirādityo bhavati | prāśnuta enaṁ varṇa iti nairuktāḥ | saṁspṛṣṭo rasān | saṁspraṣṭā bhāsaṁ jyotiṣām | saṁspraṣṭo bhāseti vā | atha dyauḥ | saṁspṛṣṭā jyotirbhiḥ puṇyakṛdbhiśca | nāka ādityo bhavati netā bhāsām | jyotiṣāṁ praṇayaḥ | atha dyauḥ | kamiti sukhanāma | pratiṣiddhaṁ pratiṣidhyeta | na vā amuṁ lokaṁ jagmuṣe kiṁ ca nākam | na vā amuṁ lokaṁ jagmuṣe kiṁ ca nāsukham | puṇyakṛto hyeva tatra gacchanti | gaurādityo bhavati | gamayati rasān | gacchatyantarikṣe | atha dyauḥ | yatpṛthivyā adhidūraṁ gatā bhavati | yaccāsyāṁ jyotīṁṣi gacchanti | viṣṭabādityo bhavati | āviṣṭo rasān | āviṣṭo bhāsaṁ jyotiṣāṁ | āviṣṭo bhāseti vā | atha dyauḥ | āviṣṭā jyotirbhiḥ puṇyakṛdbhiśca | nabha ādityo bhavati | netā bhāsām | jyotiṣāṁ praṇayaḥ | api vā bhana eva syādviparītaḥ | na na bhātīti vā | etena dyaurvyākhyātā
यहाँ आदित्य और द्यौः के अनेक साझा नामों की व्युत्पत्ति दी गई है — 'स्वः' (सु+ईरण, गतिशील, रसों और ज्योतियों को ग्रहण करने वाला); 'पृश्नि' (वर्ण से स्पृष्ट); 'नाक' (ज्योतियों का नेता, जहाँ दुःख निषिद्ध है — पुण्यकर्मी ही वहाँ जाते हैं); 'गौः' (रसों को गति देने वाला, अन्तरिक्ष में गमन करने वाला); 'विष्टब्ध' (आविष्ट); और 'नभ' (ज्योतियों का नेता, अथवा विपरीत क्रम में 'भन' से, अथवा 'न भाति' — जो नहीं चमकता)। इस प्रकार द्यौः की व्याख्या पूर्ण हुई।
श्लोक 2.16
रश्मिनामान्युत्तराणि पंचदश । रश्मिर्यमनात् । तेषामादितः साधारणानि पञ्चाश्वरश्मिभिः । दिङ्नामान्युत्तराण्यष्टौ । दिशः कस्मात् । दिशतेः । आसदनात् । अपि वाभ्यशनात् । तत्र काष्ठा इत्येतदनेकस्यापि सत्त्वस्य भवति । काष्ठा दिशो भवन्ति । क्रान्त्वा स्थिता भवन्ति । काष्ठा उपदिशो भवन्ति । इतरेतरं क्रान्त्वा स्थिता भवन्ति । आदित्योऽपि काष्ठोच्यते । क्रान्त्वा स्थितो भवति । आज्यन्तोऽपि काष्ठोच्यते । क्रान्त्वा स्थितो भवति । आपोऽपि काष्ठा उच्यन्ते । क्रान्त्वा स्थिता भवन्तीति स्थावराणाम्
raśmināmānyuttarāṇi paṁcadaśa | raśmiryamanāt | teṣāmāditaḥ sādhāraṇāni pañcāśvaraśmibhiḥ | diṅnāmānyuttarāṇyaṣṭau | diśaḥ kasmāt | diśateḥ | āsadanāt | api vābhyaśanāt | tatra kāṣṭhā ityetadanekasyāpi sattvasya bhavati | kāṣṭhā diśo bhavanti | krāntvā sthitā bhavanti | kāṣṭhā upadiśo bhavanti | itaretaraṁ krāntvā sthitā bhavanti | ādityo'pi kāṣṭhocyate | krāntvā sthito bhavati | ājyanto'pi kāṣṭhocyate | krāntvā sthito bhavati | āpo'pi kāṣṭhā ucyante | krāntvā sthitā bhavantīti sthāvarāṇām
यहाँ रश्मि (किरण) के पन्द्रह और दिशा के आठ नामों की सूची है। 'रश्मि' नियन्त्रण (यमन) की धातु से, 'दिशा' 'दिशति' (इंगित करना/बैठना/समीप जाना) से व्युत्पन्न है। 'काष्ठा' शब्द अनेक वस्तुओं के लिए प्रयुक्त होता है — दिशाएँ, उपदिशाएँ (कोण), आदित्य, अग्नि-ज्वाला और जल भी — सबमें यह अर्थ समान है कि वे एक-दूसरे को पार कर स्थिर हो जाती हैं।
श्लोक 2.17
अतिष्ठन्तीनामनिवेशनानां काष्ठानां मध्ये निहितं शरीरम् । वृत्रस्य निण्यं वि चरन्त्यापो दीर्घं तम आशयदिन्द्रशत्रुः । अतिष्ठन्तीनामनिविशमानानामित्यस्थावराणां काष्ठानां मध्ये निहितं शरीरं मेघः । शरीरं शृणातेः । शम्नातेर्वा । वृत्रस्य निर्णामं विचरन्ति विजानन्त्याप इति । दीर्घं द्राघतेः । तमस्तनोतेः । आशयदाशेतेः । इन्द्रशत्रुरिन्द्रोऽस्य शमयिता वा शातयिता वा । तस्मादिन्द्रशत्रुः । तत्को वृत्रः । मेघ इति नैरुक्ताः । त्वाष्ट्रोऽसुर इत्यैतिहासिकाः । अपां च ज्योतिषश्च मिश्रीभावकर्मणो वर्षकर्म जायते । तत्रोपमार्थेन युद्धवर्णा भवन्ति । अहिवत्तु खलु मन्त्रवर्णा ब्राह्मणवादाश्च । विवृद्ध्या शरीरस्य स्रोतांसि निवारयाञ्चकार । तस्मिन् हते प्रसस्यन्दिर आपः । तदभिवादिन्येषर्ग्भवति
atiṣṭhantīnāmaniveśanānāṁ kāṣṭhānāṁ madhye nihitaṁ śarīram | vṛtrasya niṇyaṁ vi carantyāpo dīrghaṁ tama āśayadindraśatruḥ | atiṣṭhantīnāmaniviśamānānāmityasthāvarāṇāṁ kāṣṭhānāṁ madhye nihitaṁ śarīraṁ meghaḥ | śarīraṁ śṛṇāteḥ | śamnātervā | vṛtrasya nirṇāmaṁ vicaranti vijānantyāpa iti | dīrghaṁ drāghateḥ | tamastanoteḥ | āśayadāśeteḥ | indraśatrurindro'sya śamayitā vā śātayitā vā | tasmādindraśatruḥ | tatko vṛtraḥ | megha iti nairuktāḥ | tvāṣṭro'sura ityaitihāsikāḥ | apāṁ ca jyotiṣaśca miśrībhāvakarmaṇo varṣakarma jāyate | tatropamārthena yuddhavarṇā bhavanti | ahivattu khalu mantravarṇā brāhmaṇavādāśca | vivṛddhyā śarīrasya srotāṁsi nivārayāñcakāra | tasmin hate prasasyandira āpaḥ | tadabhivādinyeṣargbhavati
इस ऋचा में कहा गया है: 'अस्थिर, अस्थावर दिशाओं के मध्य मेघ का शरीर छिपा हुआ है; जल वृत्र के गुप्त रहस्य को जानकर विचरण करते हैं, और दीर्घ अन्धकार इन्द्र के शत्रु (वृत्र) को घेर लेता है।' 'वृत्र' को नैरुक्त मेघ मानते हैं, जबकि ऐतिहासिक इसे त्वष्टा-पुत्र असुर मानते हैं — यास्क दोनों मतों को साथ रखते हैं, जल और ज्योति के मिश्रण से वर्षा उत्पन्न होने की व्याख्या करते हुए, इसे युद्ध और सर्प के रूपकों से भी जोड़ते हैं।
श्लोक 2.18
दासपत्नीरहिगोपा अतिष्ठन्निरुद्धा आपः पणिनेव गावः । अपां बिलमपिहितं यदासीद्वृत्रं जघन्वाँ अप तद्ववार ॥ दासपत्नीर्दासाधिपत्नयः । दासो दस्यतेः । उपदासयति कर्माणि । अहिगोपा अतिष्ठन् । अहिना गुप्ताः । अहिरयनात् । एत्यन्तरिक्षे । अयमपीतरोऽहिरेतस्मादेव । निर्ह्रसितोपसर्गः । आहन्तीति । निरुद्धा आपः पणिनेव गावः । पणिर्वणिग्भवति । पणिः पणनात् । वणिक् पण्यं नेनेक्ति । अपां बिलमपिहितं यदासीत् । बिलं भरं भवति बिभर्तेः । वृत्रं जघ्निवान् । अपववार तत् । वृत्रो वृणोतेर्वा । वर्ततेर्वा । वर्धतेर्वा । यदवृणोत्तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते । यदवर्तत तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते । यदवर्धत तदु वृत्रस्य वृत्रत्वम् । इति विज्ञायते
dāsapatnīrahigopā atiṣṭhanniruddhā āpaḥ paṇineva gāvaḥ | apāṁ bilamapihitaṁ yadāsīdvṛtraṁ jaghanvām̐ apa tadvavāra || dāsapatnīrdāsādhipatnayaḥ | dāso dasyateḥ | upadāsayati karmāṇi | ahigopā atiṣṭhan | ahinā guptāḥ | ahirayanāt | etyantarikṣe | ayamapītaro'hiretasmādeva | nirhrasitopasargaḥ | āhantīti | niruddhā āpaḥ paṇineva gāvaḥ | paṇirvaṇigbhavati | paṇiḥ paṇanāt | vaṇik paṇyaṁ nenekti | apāṁ bilamapihitaṁ yadāsīt | bilaṁ bharaṁ bhavati bibharteḥ | vṛtraṁ jaghnivān | apavavāra tat | vṛtro vṛṇotervā | vartatervā | vardhatervā | yadavṛṇottadu vṛtrasya vṛtratvam | iti vijñāyate | yadavartata tadu vṛtrasya vṛtratvam | iti vijñāyate | yadavardhata tadu vṛtrasya vṛtratvam | iti vijñāyate
इस ऋचा में कहा गया है: 'सर्प द्वारा रक्षित होकर जल दासपत्नी के समान रुका हुआ था, जैसे पणि द्वारा रोकी गई गौएँ; जब वृत्र मारा गया तब जल का वह छिपा हुआ द्वार खोल दिया गया।' यास्क 'दास' को दस्यति (नष्ट करने वाला) धातु से, 'अहि' (सर्प) को गति-धातु से, 'पणि' को व्यापारी के अर्थ में समझाते हैं। 'वृत्र' शब्द तीन धातुओं से सिद्ध हो सकता है — वृणोति (ढकना), वर्तते (होना) या वर्धते (बढ़ना) — तीनों ही अर्थों में उसकी 'वृत्रता' समझी जाती है।
श्लोक 2.19
रात्रिनामान्युत्तराणि त्रयोविंशतिः । रात्रिः कस्मात् । प्ररमयति भूतानि नक्तञ्चारीणि । उपरमयतीतराणि ध्रुवीकरोति । रातेर्वा स्याद्दानकर्मणः । प्रदीयन्तेऽस्यामवश्यायाः । उषोनामान्युत्तराणि षोडश । उषाः कस्मात् । उच्छतीति सत्याः । रात्रेरपरः कालः । तस्या एषा भवति
rātrināmānyuttarāṇi trayoviṁśatiḥ | rātriḥ kasmāt | praramayati bhūtāni naktañcārīṇi | uparamayatītarāṇi dhruvīkaroti | rātervā syāddānakarmaṇaḥ | pradīyante'syāmavaśyāyāḥ | uṣonāmānyuttarāṇi ṣoḍaśa | uṣāḥ kasmāt | ucchatīti satyāḥ | rātreraparaḥ kālaḥ | tasyā eṣā bhavati
यहाँ रात्रि के तेईस और उषा के सोलह नामों की सूची आरम्भ होती है। 'रात्रि' को इस अर्थ में समझाया गया है कि वह रात्रिचर प्राणियों को क्रीड़ा देती है और अन्य को स्थिर करती है — अथवा 'दान' की धातु से, क्योंकि इसमें ओस दी जाती है। 'उषा' 'उच्छति' (प्रकाशित होना) से व्युत्पन्न है, और रात्रि के पश्चात् का काल है।
श्लोक 2.20
इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायँ एवा रात्र्युषसे योनिमारैक् ॥ इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत् । चित्रं प्रकेतनं प्रज्ञाततममजनिष्ट विभूततमम् । यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्यैवं रात्र्युषसे योनिमरिचत् स्थानम् । स्त्रीयोनिरभियुत एनां गर्भः । तस्या एषापरा भवति
idaṁ śreṣṭhaṁ jyotiṣāṁ jyotirāgāccitraḥ praketo ajaniṣṭa vibhvā | yathā prasūtā savituḥ savāyam̐ evā rātryuṣase yonimāraik || idaṁ śreṣṭhaṁ jyotiṣāṁ jyotirāgamat | citraṁ praketanaṁ prajñātatamamajaniṣṭa vibhūtatamam | yathā prasūtā savituḥ prasavāya rātrirādityasyaivaṁ rātryuṣase yonimaricat sthānam | strīyonirabhiyuta enāṁ garbhaḥ | tasyā eṣāparā bhavati
इस ऋचा में कहा गया है: 'यह ज्योतियों में श्रेष्ठ ज्योति आई है, विचित्र और सर्वाधिक प्रसिद्ध प्रकट हुई है; जैसे सविता के प्रसव के लिए रात्रि उत्पन्न होती है, वैसे ही रात्रि ने उषा के लिए अपना स्थान छोड़ दिया।' यास्क इसे रात्रि और उषा के बीच स्त्री-योनि के समान सम्बन्ध के रूपक में समझाते हैं, जहाँ रात्रि गर्भ के समान उषा को जन्म देने का स्थान बनाती है।
श्लोक 2.21
रुशद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः । समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ रुशद्वत्सा सूर्यवत्सा । रुशदिति वर्णनाम । रोचतेर्ज्वलतिकर्मणः । सूर्यमस्या वत्समाह । साहचर्यात् । रसहरणाद्वा । रुशती श्वेत्यागात् । श्वेत्या श्वेततेः । अरिचत् कृष्णा सदनान्यस्याः कृष्णवर्णा रात्रिः । कृष्णं कृष्यतेः । निकृष्टो वर्णः । अथैने संस्तौति । समानबन्धू समानबन्धने । अमृते अमरणधर्माणौ । अनूची । इतीतरेतरमभिप्रेत्य । द्यावा वर्णं चरतः । ते एव द्यावौ । द्योतनात् । अपि वा द्यावा चरतस्तया चरत इति स्यात् । अमिनाने । अन्योन्यस्याध्यात्मं कुर्वाणे । अहर्नामान्युत्तराणि द्वादश । अहः कस्मात् । उपाहरन्त्यस्मिन् कर्माणि । तस्यैष निपातो भवति वैश्वानरीयायामृचि
ruśadvatsā ruśatī śvetyāgādāraigu kṛṣṇā sadanānyasyāḥ | samānabandhū amṛte anūcī dyāvā varṇaṁ carata āmināne || ruśadvatsā sūryavatsā | ruśaditi varṇanāma | rocaterjvalatikarmaṇaḥ | sūryamasyā vatsamāha | sāhacaryāt | rasaharaṇādvā | ruśatī śvetyāgāt | śvetyā śvetateḥ | aricat kṛṣṇā sadanānyasyāḥ kṛṣṇavarṇā rātriḥ | kṛṣṇaṁ kṛṣyateḥ | nikṛṣṭo varṇaḥ | athaine saṁstauti | samānabandhū samānabandhane | amṛte amaraṇadharmāṇau | anūcī | itītaretaramabhipretya | dyāvā varṇaṁ carataḥ | te eva dyāvau | dyotanāt | api vā dyāvā caratastayā carata iti syāt | amināne | anyonyasyādhyātmaṁ kurvāṇe | aharnāmānyuttarāṇi dvādaśa | ahaḥ kasmāt | upāharantyasmin karmāṇi | tasyaiṣa nipāto bhavati vaiśvānarīyāyāmṛci
इस ऋचा में कहा गया है: 'सूर्य-वत्सा (रुशद्वत्सा) श्वेत उषा आई, काली रात्रि ने अपने स्थान छोड़ दिए; दोनों अमर बहनें, एक-दूसरे का अनुसरण करती हुई, अपना-अपना वर्ण धारण करते हुए विचरती हैं।' 'रुशत्' (श्वेत) रोचते (चमकना) से, 'कृष्ण' कृष्यते (खींचना/निकृष्ट) से व्युत्पन्न है। दोनों को 'समानबन्धु' (समान बन्धन वाली) और 'अनूची' (एक-दूसरे का अनुसरण करने वाली) कहा गया है। यहाँ अहः (दिन) के बारह नामों की सूची भी आरम्भ होती है।
श्लोक 2.22
अहश्च कृष्णमहरर्जुनं च वि वर्तेते रज॑सी वेद्याभिः । वैश्वानरो जायमानो न राजावातिरज्योेततिषाग्निस्तमांसि ॥ अहश्च कृष्णं रात्रिः शुक्लं चाहरर्जुनम् । विवर्तेते रजसी वेद्याभिर्वेदितव्याभिः प्रवृत्तिभिः । वैश्वानरो जायमान इव । उद्यन्नादित्यः । सर्वेषां ज्योतिषां राजा । अवाहन्नग्निर्ज्योतिषा तमांसि । मेघनामान्युत्तराणि त्रिंशत् । मेघः कस्मात् । मेहतीति सतः । आ उपर उपल इत्येताभ्यां साधारणानि पर्वतनामभिः । उपर उपलो मेघो भवति । उपरमन्तेऽस्मिन्नभ्राणि । उपरता आप इति वा । तेषामेषा भवति
ahaśca kṛṣṇamahararjunaṁ ca vi vartete rajasī vedyābhiḥ | vaiśvānaro jāyamāno na rājāvātirajyotatiṣāgnistamāṁsi || ahaśca kṛṣṇaṁ rātriḥ śuklaṁ cāhararjunam | vivartete rajasī vedyābhirveditavyābhiḥ pravṛttibhiḥ | vaiśvānaro jāyamāna iva | udyannādityaḥ | sarveṣāṁ jyotiṣāṁ rājā | avāhannagnirjyotiṣā tamāṁsi | meghanāmānyuttarāṇi triṁśat | meghaḥ kasmāt | mehatīti sataḥ | ā upara upala ityetābhyāṁ sādhāraṇāni parvatanāmabhiḥ | upara upalo megho bhavati | uparamante'sminnabhrāṇi | uparatā āpa iti vā | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'दिन काला (रात्रि) और उजला (दिन) है, दोनों लोक ज्ञातव्य प्रवृत्तियों से बदलते रहते हैं; वैश्वानर अग्नि उगते हुए राजा के समान समस्त अन्धकार को दूर करता है।' यास्क 'रजः' को इन दोनों लोकों (दिन-रात) के अर्थ में समझाते हैं। यहाँ मेघ के तीस नामों की सूची भी शुरू होती है — 'मेघ' 'मेहति' (बरसाना) से, तथा 'उपर/उपल' पर्वत-नामों से साझा किए गए हैं।
श्लोक 2.23
देवानां माने प्रथमा अतिष्ठन्कृन्तत्रादेषामुप॑रा उदायन् । त्रय॑स्तपन्ति पृथिवीमनूपा द्वा बृबूकं वहतः पुरीषम् ॥ देवानां निर्माणे प्रथमा अतिष्ठन्माध्यमिका देवगणाः । प्रथम इति मुख्यनाम । प्रतमो भवति । कृन्तत्रमन्तरिक्षम् । विकर्तनं मेघानाम् । विकर्तनेन मेघानामुदकं जायते । त्रयस्तपन्ति पृथिवीमनूपाः । पर्जन्यो वायुरादित्यः शीतोष्णवर्षैरोषधीः पाचयन्ति । अनूपा अनुवपन्ति लोकान्त्स्वेन स्वेन कर्मणा । अयमपीतरोऽनूप एतस्मादेव । अनूप्यत उदकेन । अपि वान्वाबिति स्यात् । यथा प्रागिति । तस्यानूप इति स्यात् । यथा प्राचीनमिति । द्वा बृबूकं वहतः पुरीषं । वाय्वादित्या उदकम् । बृबूकमित्युदकनाम । ब्रवीतेः शब्दकर्मणः । भ्रंशतेर्वा । पुरीषं पृणातेः । पूरयतेर्वा
devānāṁ māne prathamā atiṣṭhankṛntatrādeṣāmuparā udāyan | trayastapanti pṛthivīmanūpā dvā bṛbūkaṁ vahataḥ purīṣam || devānāṁ nirmāṇe prathamā atiṣṭhanmādhyamikā devagaṇāḥ | prathama iti mukhyanāma | pratamo bhavati | kṛntatramantarikṣam | vikartanaṁ meghānām | vikartanena meghānāmudakaṁ jāyate | trayastapanti pṛthivīmanūpāḥ | parjanyo vāyurādityaḥ śītoṣṇavarṣairoṣadhīḥ pācayanti | anūpā anuvapanti lokāntsvena svena karmaṇā | ayamapītaro'nūpa etasmādeva | anūpyata udakena | api vānvābiti syāt | yathā prāgiti | tasyānūpa iti syāt | yathā prācīnamiti | dvā bṛbūkaṁ vahataḥ purīṣaṁ | vāyvādityā udakam | bṛbūkamityudakanāma | bravīteḥ śabdakarmaṇaḥ | bhraṁśatervā | purīṣaṁ pṛṇāteḥ | pūrayatervā
इस ऋचा में कहा गया है: 'देवताओं की सृष्टि में मध्यम देवगण सबसे पहले स्थित हुए; मेघों को विदीर्ण करने वाले अन्तरिक्ष से ऊपरी देवता उठ आए; तीन देवता (पर्जन्य, वायु, आदित्य) शीत-उष्ण-वर्षा से पृथिवी को जलनिकट वनस्पतियों सहित पकाते हैं; वायु और आदित्य दो मिलकर जल-सार वहन करते हैं।' 'कृन्तत्र' अन्तरिक्ष का नाम है — मेघों को काटने (विदीर्ण करने) से।
श्लोक 2.24
वाङ्नामान्युत्तराणि सप्तपञ्चाशत् । वाक् कस्मात् । वचेः । तत्र सरस्वतीत्येतस्य नदीवद्देवतावच्च निगमा भवन्ति । तद्यद्देवतावदुपरिष्टात्तद्व्याख्यास्यामः । अथैतन्नदीवत्
vāṅnāmānyuttarāṇi saptapañcāśat | vāk kasmāt | vaceḥ | tatra sarasvatītyetasya nadīvaddevatāvacca nigamā bhavanti | tadyaddevatāvadupariṣṭāttadvyākhyāsyāmaḥ | athaitannadīvat
यहाँ वाक् (वाणी) के सत्तावन नामों की सूची आरम्भ होती है — 'वाक्' 'वचेः' (बोलने की धातु) से व्युत्पन्न है। सरस्वती नाम के दो पक्ष हैं — नदी के रूप में और देवता के रूप में; देवता-सम्बन्धी व्याख्या आगे दी जाएगी, यहाँ नदी-सम्बन्धी व्याख्या दी जा रही है।
श्लोक 2.25
इयं शुष्मेभिर्बिसखा ईवारुजत्सानु गिरीणां तविषेभिरूर्मिभिः । पारावतघ्नीमव॑से सुवृक्तिभिः सरस्वतीमा विवासेम धीतिभिः । इयं शुष्मैः शोषणैः । शुष्ममिति बलनाम । शोषयतीति सतः । बिसं बिस्यतेर्भेदनकर्मणः । वृद्धिकर्मणो वा । सानु समुच्छ्रितं भवति । समुन्नुन्नमिति वा । महद्भिरूर्मिभिः । पारावतघ्नीं पारावारघातिनीम् । पारं परं भवति । अवारमवरम् । अवनाय सुप्रवृत्ताभिः शोभनाभिः स्तुतिभिः सरस्वती नदी कर्मभिः परिचरेम । उदकनामान्युत्तराण्येकशतम् । उदकं कस्मात् । उनत्तीति सतः। नदीनामान्युत्तराणि सप्तत्रिंशत् । नद्यः कस्मात् । नदना भवन्ति । शब्दवत्यः । बहुलमासां नैघण्टुकं वृत्तम् । आश्चर्यमिव प्राधान्येन । तत्रेतिहासमाचक्षते । विश्वामित्र ऋषिः सुदासः पैजवनस्य पुरोहितो बभूव । विश्वामित्रः सर्वमित्रः । सर्वं संसृतम् । सुदाः कल्याणदानः । पैजवनः पिजवनस्य पुत्रः । पिजवनः पुनः स्पर्धनीयजवो वा । अमिश्रीभावगतिर्वा । स वित्तं गृहीत्वा विपाट्छुतुद्र्योः सम्भेदमाययौ । अनुययुरितरे । स विश्वामित्रो नदीस्तुष्टाव । गाधा भवतेति । अपि द्विवत् । अपि बहुवत् । तद् यद् द्विवदुपरिष्टात्तद्व्याख्यास्यामः । अथैतद्बहुवत्
iyaṁ śuṣmebhirbisakhā īvārujatsānu girīṇāṁ taviṣebhirūrmibhiḥ | pārāvataghnīmavase suvṛktibhiḥ sarasvatīmā vivāsema dhītibhiḥ | iyaṁ śuṣmaiḥ śoṣaṇaiḥ | śuṣmamiti balanāma | śoṣayatīti sataḥ | bisaṁ bisyaterbhedanakarmaṇaḥ | vṛddhikarmaṇo vā | sānu samucchritaṁ bhavati | samunnunnamiti vā | mahadbhirūrmibhiḥ | pārāvataghnīṁ pārāvāraghātinīm | pāraṁ paraṁ bhavati | avāramavaram | avanāya supravṛttābhiḥ śobhanābhiḥ stutibhiḥ sarasvatī nadī karmabhiḥ paricarema | udakanāmānyuttarāṇyekaśatam | udakaṁ kasmāt | unattīti sataḥ| nadīnāmānyuttarāṇi saptatriṁśat | nadyaḥ kasmāt | nadanā bhavanti | śabdavatyaḥ | bahulamāsāṁ naighaṇṭukaṁ vṛttam | āścaryamiva prādhānyena | tatretihāsamācakṣate | viśvāmitra ṛṣiḥ sudāsaḥ paijavanasya purohito babhūva | viśvāmitraḥ sarvamitraḥ | sarvaṁ saṁsṛtam | sudāḥ kalyāṇadānaḥ | paijavanaḥ pijavanasya putraḥ | pijavanaḥ punaḥ spardhanīyajavo vā | amiśrībhāvagatirvā | sa vittaṁ gṛhītvā vipāṭchutudryoḥ sambhedamāyayau | anuyayuritare | sa viśvāmitro nadīstuṣṭāva | gādhā bhavateti | api dvivat | api bahuvat | tad yad dvivadupariṣṭāttadvyākhyāsyāmaḥ | athaitadbahuvat
इस ऋचा में सरस्वती नदी की स्तुति है: 'यह अपने बल से पर्वतों के शिखर को तोड़ती है, अपनी प्रबल तरंगों से; दूरगामी को नष्ट करने वाली इस सरस्वती को हम सुन्दर स्तुतियों और कर्मों से रक्षा हेतु सेवा करें।' इसके बाद जल के 101 नामों और नदी के 37 नामों की सूची, और विश्वामित्र का प्रसिद्ध आख्यान है — सुदास पैजवन के पुरोहित विश्वामित्र, विपाशा और शुतुद्री के संगम पर नदियों की स्तुति करते हैं ताकि वे उथली (गाधा) होकर सेना को पार जाने दें।
श्लोक 2.26
रमध्वं मे वचसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरह्वे कुशिकस्य॑ सूनुः । उपरमध्वं मे वचसे सोम्याय सोमसम्पादिने । ऋतावरीर्ऋतवत्यः । ऋतमित्युदकनाम । प्रत्यृतं भवति । मुहूर्तमेवैरयनैरवनैर्वा । मुहूर्तो मुहुर्ऋतुः । ऋतुरर्तेर्गतिकर्मणः । मुहुर्मूह्ळ इव कालः । यावदभीक्ष्णं चेति । अभीक्ष्णमभिक्षणं भवति । क्षणः क्षणोतेः । प्रक्ष्णुतः कालः । कालः कालयतेर्गतिकर्मणः । प्राभिह्वयामि सिन्धुं बृहत्या महत्या मनीषया मनस ईषया स्तुत्या प्रज्ञया वावनाय । कुशिकस्य सूनुः । कुशिको राजा बभूव । क्रोशतेः शब्दकर्मणः । क्रंशतेर्वा स्यात्प्रकाशयति कर्मणः । साधु विक्रोशयिताऽर्थानामिति वा । नद्यः प्रत्यूचुः
ramadhvaṁ me vacase somyāya ṛtāvarīrupa muhūrtamevaiḥ | pra sindhumacchā bṛhatī manīṣāvasyurahve kuśikasya sūnuḥ | uparamadhvaṁ me vacase somyāya somasampādine | ṛtāvarīrṛtavatyaḥ | ṛtamityudakanāma | pratyṛtaṁ bhavati | muhūrtamevairayanairavanairvā | muhūrto muhurṛtuḥ | ṛturartergatikarmaṇaḥ | muhurmūhḷa iva kālaḥ | yāvadabhīkṣṇaṁ ceti | abhīkṣṇamabhikṣaṇaṁ bhavati | kṣaṇaḥ kṣaṇoteḥ | prakṣṇutaḥ kālaḥ | kālaḥ kālayatergatikarmaṇaḥ | prābhihvayāmi sindhuṁ bṛhatyā mahatyā manīṣayā manasa īṣayā stutyā prajñayā vāvanāya | kuśikasya sūnuḥ | kuśiko rājā babhūva | krośateḥ śabdakarmaṇaḥ | kraṁśatervā syātprakāśayati karmaṇaḥ | sādhu vikrośayitā'rthānāmiti vā | nadyaḥ pratyūcuḥ
इस ऋचा में विश्वामित्र नदियों से कहते हैं: 'मेरे सोम्य वचन के लिए, हे ऋतवती नदियो, एक मुहूर्त के लिए ठहर जाओ; कुशिक-पुत्र मैं, रक्षा चाहता हुआ, सिन्धु को अपनी बड़ी स्तुति-बुद्धि से पुकारता हूँ।' 'मुहूर्त' को 'मुहुः ऋतुः' (बार-बार का काल-खण्ड) से समझाया गया है, 'कुशिक' राजा को क्रोश (पुकार) धातु से। इसके बाद नदियों का उत्तर आरम्भ होता है।
श्लोक 2.27
इन्द्रो अस्माँ अरदद्वज्रबाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोऽनयत्सविता सुपाणिस्तस्य॑ वयं प्रसवे याम उर्वीः ॥ इन्द्रोऽस्मानरदद्वज्रबाहुः । रदतिः खनतिकर्मा । अपाहन् वृत्रं परिधिं नदीनामिति व्याख्यातम् । देवोऽनयत्सविता । सुपाणिः कल्याणपाणिः । पाणिः पणायतेः पूजाकर्मणः । प्रगृह्य पाणी देवान् पूजयन्ति । तस्य वयं प्रसवे याम उर्वीः । उर्व्य ऊर्णोतेः । वृणोतेरित्यौर्णवाभः । प्रत्याख्यायान्तत आशुश्रुवुः
indro asmām̐ aradadvajrabāhurapāhanvṛtraṁ paridhiṁ nadīnām | devo'nayatsavitā supāṇistasya vayaṁ prasave yāma urvīḥ || indro'smānaradadvajrabāhuḥ | radatiḥ khanatikarmā | apāhan vṛtraṁ paridhiṁ nadīnāmiti vyākhyātam | devo'nayatsavitā | supāṇiḥ kalyāṇapāṇiḥ | pāṇiḥ paṇāyateḥ pūjākarmaṇaḥ | pragṛhya pāṇī devān pūjayanti | tasya vayaṁ prasave yāma urvīḥ | urvya ūrṇoteḥ | vṛṇoterityaurṇavābhaḥ | pratyākhyāyāntata āśuśruvuḥ
इस ऋचा में नदियाँ उत्तर देती हैं: 'वज्रबाहु इन्द्र ने हमारे लिए मार्ग खोदा, वृत्र नामक नदियों के अवरोध को मार गिराया; कल्याण-हस्त सविता देव ने हमें आगे बढ़ाया, उन्हीं के आदेश से हम विस्तृत होकर बहते हैं।' 'रदति' खोदने के अर्थ में और 'पाणि' पूजा-कर्म की धातु से समझाया गया है — देवता हाथ उठाकर पूजा करते हैं।
श्लोक 2.28
आ ते कारो शृणवामा वचांसि ययाथ दूरादनसा रथेन । नि ते नंसै पीप्यानेव योषा मर्यायेव कन्या शश्वचै ते ॥ आशृणवाम ते कारो वचनानि । याहि दूरादनसा च रथेन च निनमाम ते पाययमानेव योषा पुत्रम् । मर्यायेव कन्या परिष्वजनाय । निनमा इति वा । अश्वनामान्युत्तराणि षड्विंशतिः । तेषामष्टा उत्तराणि बहुवत् । अश्वः कस्मात् । अश्नुतेऽध्वानम् । महाशनो भवतीति वा । तत्र दधिक्रा इत्येतद् दधत् क्रामतीति वा । दधत् क्रन्दतीति वा । दधदाकारी भवतीति वा । तस्याश्ववद्देवतावच्च निगमा भवन्ति । तद्यद् देवतावदुपरिष्टात्तद्व्याख्यास्यामः । अथैतदश्ववत्
ā te kāro śṛṇavāmā vacāṁsi yayātha dūrādanasā rathena | ni te naṁsai pīpyāneva yoṣā maryāyeva kanyā śaśvacai te || āśṛṇavāma te kāro vacanāni | yāhi dūrādanasā ca rathena ca ninamāma te pāyayamāneva yoṣā putram | maryāyeva kanyā pariṣvajanāya | ninamā iti vā | aśvanāmānyuttarāṇi ṣaḍviṁśatiḥ | teṣāmaṣṭā uttarāṇi bahuvat | aśvaḥ kasmāt | aśnute'dhvānam | mahāśano bhavatīti vā | tatra dadhikrā ityetad dadhat krāmatīti vā | dadhat krandatīti vā | dadhadākārī bhavatīti vā | tasyāśvavaddevatāvacca nigamā bhavanti | tadyad devatāvadupariṣṭāttadvyākhyāsyāmaḥ | athaitadaśvavat
इस ऋचा में कवि कहते हैं: 'हे स्तुतिकार, तुम्हारे वचन हम सुनते हैं; दूर से गाड़ी और रथ द्वारा आओ; हम तुम्हें वैसे ही झुकाएँ जैसे दूध पिलाती हुई स्त्री अपने पुत्र को, अथवा युवती कन्या अपने प्रियतम को आलिंगन के लिए।' इसके बाद अश्व के छब्बीस नामों की सूची, और 'दधिक्रा' (एक अश्व-देवता) का नाम है — 'धारण करते हुए गति करने वाला' या 'धारण करते हुए हिनहिनाने वाला' के अर्थ में।
श्लोक 2.29
उत स्य वाजी क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपि कक्ष आसनि। क्रतुं दधिक्रा अनु संतवीत्वत्पथामङ्काँस्यन्वापनीफणत् ॥ अपि स वाजी वेजनवान् । क्षेपणमनु तूर्णमश्नुतेऽध्वानम् । ग्रीवायां बद्धः । ग्रीवा गिरतेर्वा । गृणातेर्वा । गृह्णातेर्वा । अपि कक्ष आसनीति व्याख्यातम् । क्रतुं दधिक्राः कर्म वा प्रज्ञां वा । अनुसंतवीत्वत् । तनोतेः पूर्वया प्रकृत्या निगमः । पथामङ्कॉसि पथां कुटिलानि । पन्थाः पततेर्वा । पद्यतेर्वा । पन्थतेर्वा । अङ्कोऽञ्चतेः । आपनीफणदिति फणतेश्चर्करीतवृत्तम् ॥ दशोत्तराण्यादिष्टोपयोजनानीत्याचक्षते साहचर्यज्ञानाय । ज्वलतिकर्माण उत्तरे धातव एकादश । तावन्त्येवोत्तराणि ज्वलतो नामधेयानि नामधेयानि
uta sya vājī kṣipaṇiṁ turaṇyati grīvāyāṁ baddho api kakṣa āsani| kratuṁ dadhikrā anu saṁtavītvatpathāmaṅkām̐syanvāpanīphaṇat || api sa vājī vejanavān | kṣepaṇamanu tūrṇamaśnute'dhvānam | grīvāyāṁ baddhaḥ | grīvā giratervā | gṛṇātervā | gṛhṇātervā | api kakṣa āsanīti vyākhyātam | kratuṁ dadhikrāḥ karma vā prajñāṁ vā | anusaṁtavītvat | tanoteḥ pūrvayā prakṛtyā nigamaḥ | pathāmaṅkasi pathāṁ kuṭilāni | panthāḥ patatervā | padyatervā | panthatervā | aṅko'ñcateḥ | āpanīphaṇaditi phaṇateścarkarītavṛttam || daśottarāṇyādiṣṭopayojanānītyācakṣate sāhacaryajñānāya | jvalatikarmāṇa uttare dhātava ekādaśa | tāvantyevottarāṇi jvalato nāmadheyāni nāmadheyāni
इस ऋचा में अश्व-देव दधिक्रा का वर्णन है: 'वह वाजी (वेगवान्) गले में बाँधा जाकर भी शीघ्रता से लक्ष्य तक पहुँचता है; दधिक्रा कर्म अथवा प्रज्ञा का अनुसरण करते हुए मार्गों के कुटिल मोड़ों को फुफकारते हुए पार करता है।' 'ग्रीवा' (गर्दन) और 'पथ' (मार्ग) की व्युत्पत्तियाँ दी गई हैं। अन्त में ज्वलन-अर्थक ग्यारह धातुओं और उतने ही 'ज्वलत्' (अग्नि) के नामों का उल्लेख कर अध्याय का यह भाग समाप्त होता है।
श्लोक 3.1
कर्मनामान्युत्तराणि षड्विंशतिः । कर्म कस्मात् । क्रियत इति सतः । अपत्यनामान्युत्तराणि पञ्चदश । अपत्यं कस्मात् । अपततं भवति । नानेन पततीति वा । तद्यथा जनयितुः प्रजा । एवमर्थीये ऋचा उदाहरिष्यामः
karmanāmānyuttarāṇi ṣaḍviṁśatiḥ | karma kasmāt | kriyata iti sataḥ | apatyanāmānyuttarāṇi pañcadaśa | apatyaṁ kasmāt | apatataṁ bhavati | nānena patatīti vā | tadyathā janayituḥ prajā | evamarthīye ṛcā udāhariṣyāmaḥ
यहाँ कर्म (क्रिया-सम्बन्धी) के छब्बीस और अपत्य (सन्तान) के पन्द्रह नामों की सूची आरम्भ होती है। 'कर्म' 'क्रियते' (किया जाना) से, 'अपत्य' 'अपततं' (जो गिरता/उत्पन्न होता है) या माता-पिता के माध्यम से 'न पतति' (नहीं गिरता) से व्युत्पन्न है — जैसे जनक की सन्तान। इसके बाद अर्थ-सम्बन्धी ऋचाओं के उदाहरण दिए जाएँगे।
श्लोक 3.2
परिषद्यं ह्यरणस्य रेक्णो नित्य॑स्य रायः पतयः स्याम । न शेषो अग्ने अन्यजातमस्त्यचेतानस्य मा पथो वि दुक्षः ॥ परिहर्तव्यं हि नोपसर्तव्यम् । अरणस्य रेक्णः । अरणोऽपार्णो भवति । रेक्ण इति धननाम । रिच्यते प्रयतः । नित्यस्य रायः पतयः स्याम । पित्र्यस्येव धनस्य । न शेषोऽग्ने अन्यजातमस्ति । शेष इत्यपत्यनाम । शिष्यते प्रयतः । अचेतयमानस्य तत्प्रमत्तस्य भवति । मा नः पथो विदूदुष इति । तस्योत्तरा भूयसे निर्वचनाय
pariṣadyaṁ hyaraṇasya rekṇo nityasya rāyaḥ patayaḥ syāma | na śeṣo agne anyajātamastyacetānasya mā patho vi dukṣaḥ || parihartavyaṁ hi nopasartavyam | araṇasya rekṇaḥ | araṇo'pārṇo bhavati | rekṇa iti dhananāma | ricyate prayataḥ | nityasya rāyaḥ patayaḥ syāma | pitryasyeva dhanasya | na śeṣo'gne anyajātamasti | śeṣa ityapatyanāma | śiṣyate prayataḥ | acetayamānasya tatpramattasya bhavati | mā naḥ patho vidūduṣa iti | tasyottarā bhūyase nirvacanāya
इस ऋचा में स्तोता कहते हैं: 'हे अग्नि, हम अरण (अपरिचित) के नित्य धन के रक्षक बनें, कोई अन्य सन्तान शेष न रहे; हमें असावधान के मार्ग से विचलित मत करो।' 'रेक्ण' धन का नाम है (रिच्यते — जो छोड़ा जाता है); 'शेष' सन्तान का नाम है (शिष्यते — जो बचा रहता है)। इस मन्त्र का आगे विस्तृत निर्वचन किया जाएगा।
श्लोक 3.3
न हि ग्रभायारणः सुशेवोऽन्योदर्यो मनसा मन्तवा उ । अधा चिदोकः पुनरित्स एत्या नो वाज्यभीषाळेतु नव्यः ॥ न हि ग्रहीतव्यो अरणः सुसुखतमोऽपि । अन्योदर्यो मनसापि न मन्तव्यः । ममायं पुत्रः इति । अथ स ओकः पुनरेव तदेति यत आगतो भवति । ओक इति निवासनामोच्यते । एतु नो वाजी वेजनवान् । अभिषहमाणः सपत्नान् । नवजातः स एव पुत्र इति । अथैतां दुहितृदायाद्य उदाहरन्ति । पुत्रदायाद्य इत्येके
na hi grabhāyāraṇaḥ suśevo'nyodaryo manasā mantavā u | adhā cidokaḥ punaritsa etyā no vājyabhīṣāḷetu navyaḥ || na hi grahītavyo araṇaḥ susukhatamo'pi | anyodaryo manasāpi na mantavyaḥ | mamāyaṁ putraḥ iti | atha sa okaḥ punareva tadeti yata āgato bhavati | oka iti nivāsanāmocyate | etu no vājī vejanavān | abhiṣahamāṇaḥ sapatnān | navajātaḥ sa eva putra iti | athaitāṁ duhitṛdāyādya udāharanti | putradāyādya ityeke
इस ऋचा में कहा गया है: 'अपरिचित को ग्रहण नहीं करना चाहिए, चाहे वह सुखद ही क्यों न लगे; दूसरे के गर्भ से उत्पन्न को मन से भी अपना पुत्र नहीं मानना चाहिए — तभी वह वाजी (सन्तान) पुनः अपने घर लौट आता है।' 'ओक' का अर्थ है निवास-स्थान। इसके बाद दुहिता की सन्तति-अधिकार सम्बन्धी दो मत उद्धृत हैं — कुछ 'पुत्रदायाद्य' कहते हैं।
श्लोक 3.4
शासद्वह्निर्दुहितुर्नप्त्यंगाद्विद्वाँ ऋतस्य दीधितिं सपर्यन् । पिता यत्र दुहितुः सेकमृञ्जन्त्सं शग्म्येन मनसा दधन्वे ॥ प्रशास्ति वोळ्हा सन्तानकर्मणे दुहितुः पुत्रभावम् । दुहिता दुर्हिता । दूरे हिता । दोग्धेर्वा । नप्तारमुपागमत् । दौहित्रं पौत्रमिति । विद्वान् प्रजननयज्ञस्य । रेतसो वा । अङ्गादङ्गात्संभूतस्य हृदयादधिजातस्य मातरि प्रत्यृतस्य । विधानं पूजयन् । अविशेषेण मिथुनाः पुत्रा दायादा इति । तदेतदृक्छ्लोकाभ्यामभ्युक्तम् । अङ्गादङ्गात्संभवसि हृदयादधिजायसे । आत्मा वै पुत्रनामासि स जीव शरदः शतम् ॥ इति । अविशेषेण पुत्राणां दायो भवति धर्मतः । मिथुनानां विसर्गादौ मनुः स्वायंभुवोऽब्रवीत् ॥ न दुहितर इत्येके । तस्मात्पुमान् दायादोऽदायादा स्त्री । इति विज्ञायते । तस्मात्स्त्रियं जातां परास्यन्ति न पुमांसम् । इति च । स्त्रीणां दानविक्रयातिसर्गा विद्यन्ते न पुंसः । पुंसोऽपीत्येके । शौनःशेपे दर्शनात् । अभ्रातृमतीवाद इत्यपरम् । अमूर्या यन्ति जामयः सर्वा लोहितवाससः अभ्रातर इव योषास्तिष्ठन्ति हतवर्त्मनः ॥ अभ्रातृका इव योषास्तिष्ठन्ति सन्तानकर्मणे पिण्डदानाय हतवर्त्मानः । इत्यभ्रातृकाया अनिर्वाह औपमिकः । तस्योत्तरा भूयसे निर्वचनाय
śāsadvahnirduhiturnaptyaṁgādvidvām̐ ṛtasya dīdhitiṁ saparyan | pitā yatra duhituḥ sekamṛñjantsaṁ śagmyena manasā dadhanve || praśāsti voḷhā santānakarmaṇe duhituḥ putrabhāvam | duhitā durhitā | dūre hitā | dogdhervā | naptāramupāgamat | dauhitraṁ pautramiti | vidvān prajananayajñasya | retaso vā | aṅgādaṅgātsaṁbhūtasya hṛdayādadhijātasya mātari pratyṛtasya | vidhānaṁ pūjayan | aviśeṣeṇa mithunāḥ putrā dāyādā iti | tadetadṛkchlokābhyāmabhyuktam | aṅgādaṅgātsaṁbhavasi hṛdayādadhijāyase | ātmā vai putranāmāsi sa jīva śaradaḥ śatam || iti | aviśeṣeṇa putrāṇāṁ dāyo bhavati dharmataḥ | mithunānāṁ visargādau manuḥ svāyaṁbhuvo'bravīt || na duhitara ityeke | tasmātpumān dāyādo'dāyādā strī | iti vijñāyate | tasmātstriyaṁ jātāṁ parāsyanti na pumāṁsam | iti ca | strīṇāṁ dānavikrayātisargā vidyante na puṁsaḥ | puṁso'pītyeke | śaunaḥśepe darśanāt | abhrātṛmatīvāda ityaparam | amūryā yanti jāmayaḥ sarvā lohitavāsasaḥ abhrātara iva yoṣāstiṣṭhanti hatavartmanaḥ || abhrātṛkā iva yoṣāstiṣṭhanti santānakarmaṇe piṇḍadānāya hatavartmānaḥ | ityabhrātṛkāyā anirvāha aupamikaḥ | tasyottarā bhūyase nirvacanāya
इस दीर्घ ऋचा में सन्तानोत्पत्ति का वर्णन है: 'रथ खींचने वाला (वह्नि) पुत्री की सन्तानोत्पत्ति के नियम बताता है; जहाँ पिता पुत्री के गर्भाधान की देख-रेख कल्याणकारी मन से करता है।' 'दुहिता' 'दूरे हिता' (दूर के लिए हितकर, अर्थात् विवाह हेतु) या दुग्ध देने की धातु से समझाई गई है। दो श्लोक उद्धृत हैं जो कहते हैं 'तुम अंग-अंग से उत्पन्न होते हो, हृदय से जन्म लेते हो, तुम मेरी ही आत्मा हो' — और यह भी कि पुत्रों का उत्तराधिकार अविशेष होता है (स्वायंभुव मनु के अनुसार), जबकि पुत्री का अधिकार विवादास्पद है — कुछ के अनुसार स्त्री को अधिकार नहीं, कुछ के अनुसार शौनःशेप के दृष्टान्त से पुरुष को भी नहीं। अभ्रातृका (भाई-रहित कन्या) की उपमा रक्तवस्त्रा विधवाओं से दी गई है।
श्लोक 3.5
अभ्रातेव पुंस एति प्रतीची गर्तारुगिव सनये धनानाम् । जायेव पत्य उशती सुवासा उषा हस्रेव नि रिणीते अप्सः ॥ अभ्रातृकेव पुंसः पितॄनेत्यभिमुखी सन्तानकर्मणे पिण्डदानाय न पतिम् । गर्तारोहिणीव धनलाभाय दाक्षिणाजी । गतेः सभास्थाणुः । गृणातेः । सत्यसङ्गरो भवति । तं तत्र यापुत्रा यापतिका सारोहति । तां तत्राक्षेणाघ्नन्ति । सा रिक्थं लभते । श्मशानसंचयोऽपि गर्त उच्यते । गुरतेः । अपगूर्णो भवति । श्मशानं श्मशयनम् । श्म शरीरम् । शरीरं शृणातेः । शम्नातेर्वा । श्मश्रु लोम । श्मनि श्रितं भवति । लोम लुनातेर्वा । लीयतेर्वा । नोपरस्याविष्कुर्याद् यदुपरस्याविष्कुर्याद् गर्तेष्ठाः स्यात्प्रमायुको यजमानः । इत्यपि निगमो भवति । रथोऽपि गर्त उच्यते । गृणातेः स्तुतिकर्मणः । स्तुततमं यानम् । आ रोहथो वरुण मित्र गर्तम् । इत्यपि निगमो भवति । जायेव पत्ये कामयमाना सुवासा ऋतुकालेषूषा हसनेव दन्तान्विवृणुते रूपाणीति । चतस्र उपमाः । नाभ्रात्रीमुपयच्छेत तोकं ह्यस्य तद् भवति । इत्यभ्रातृकाया उपयमनप्रतिषेधः प्रत्यक्षः । पितुश्च पुत्रभावः । पिता यत्र दुहितुरप्रत्ताया रेतःसेकं प्रार्जयति । संदधात्यात्मानं संगमेन मनसेति । अथैतां जाम्या रिक्थप्रतिषेध उदाहरन्ति । ज्येष्ठं पुत्रिकाया इत्येके
abhrāteva puṁsa eti pratīcī gartārugiva sanaye dhanānām | jāyeva patya uśatī suvāsā uṣā hasreva ni riṇīte apsaḥ || abhrātṛkeva puṁsaḥ pitṝnetyabhimukhī santānakarmaṇe piṇḍadānāya na patim | gartārohiṇīva dhanalābhāya dākṣiṇājī | gateḥ sabhāsthāṇuḥ | gṛṇāteḥ | satyasaṅgaro bhavati | taṁ tatra yāputrā yāpatikā sārohati | tāṁ tatrākṣeṇāghnanti | sā rikthaṁ labhate | śmaśānasaṁcayo'pi garta ucyate | gurateḥ | apagūrṇo bhavati | śmaśānaṁ śmaśayanam | śma śarīram | śarīraṁ śṛṇāteḥ | śamnātervā | śmaśru loma | śmani śritaṁ bhavati | loma lunātervā | līyatervā | noparasyāviṣkuryād yaduparasyāviṣkuryād garteṣṭhāḥ syātpramāyuko yajamānaḥ | ityapi nigamo bhavati | ratho'pi garta ucyate | gṛṇāteḥ stutikarmaṇaḥ | stutatamaṁ yānam | ā rohatho varuṇa mitra gartam | ityapi nigamo bhavati | jāyeva patye kāmayamānā suvāsā ṛtukāleṣūṣā hasaneva dantānvivṛṇute rūpāṇīti | catasra upamāḥ | nābhrātrīmupayaccheta tokaṁ hyasya tad bhavati | ityabhrātṛkāyā upayamanapratiṣedhaḥ pratyakṣaḥ | pituśca putrabhāvaḥ | pitā yatra duhituraprattāyā retaḥsekaṁ prārjayati | saṁdadhātyātmānaṁ saṁgamena manaseti | athaitāṁ jāmyā rikthapratiṣedha udāharanti | jyeṣṭhaṁ putrikāyā ityeke
इस ऋचा में उपमाओं की शृंखला है: 'भाई-रहित कन्या पिता के पास ऐसे जाती है मानो पति के पास; धन के लिए गर्तारोहिणी (जुआ-गर्त पर बैठने वाली) के समान; प्रेमी पत्नी सुवस्त्रा उषा के समान, हँसती हुई अपने रूप प्रकट करती है।' 'गर्त' के कई अर्थ बताए गए हैं — जुए का गड्ढा, श्मशान, और रथ भी। अन्त में भाई-रहित कन्या के विवाह का स्पष्ट निषेध, तथा अविवाहित पुत्री के गर्भाधान में पिता की भूमिका पर चर्चा है।
श्लोक 3.6
न जामये तान्वो रिक्थमारैक् चकार गर्भं सनितुर्निधानम् । यदी मातरो जनय॑न्त वह्निम॒न्यः कर्ता सुकृतोरन्य ऋन्धन् ॥ न जामये भगिन्यै । जामिरन्येऽस्यां जनयन्ति जामपत्यम् । जमतेर्वा स्याद्गतिकर्मणः । निर्गमनप्राया भवति । तान्व आत्मजः पुत्रः । रिक्थं प्रारिचत् प्रादात् । चकारैनां गर्भनिधानीम् । सनितुर्हस्तग्राहस्य । यदी मातरो जनयन्त । वह्निं पुत्रम् । अवह्निं च स्त्रियम् । अन्यतरः सन्तानकर्ता भवति पुमान्दायादः । अन्यतरोऽर्द्धयित्वा जामिः प्रदीयते परस्मै
na jāmaye tānvo rikthamāraik cakāra garbhaṁ saniturnidhānam | yadī mātaro janayanta vahnimanyaḥ kartā sukṛtoranya ṛndhan || na jāmaye bhaginyai | jāmiranye'syāṁ janayanti jāmapatyam | jamatervā syādgatikarmaṇaḥ | nirgamanaprāyā bhavati | tānva ātmajaḥ putraḥ | rikthaṁ prāricat prādāt | cakāraināṁ garbhanidhānīm | saniturhastagrāhasya | yadī mātaro janayanta | vahniṁ putram | avahniṁ ca striyam | anyataraḥ santānakartā bhavati pumāndāyādaḥ | anyataro'rddhayitvā jāmiḥ pradīyate parasmai
इस ऋचा में कहा गया है: 'बहन को उसके ही शरीर का उत्तराधिकार नहीं दिया, गर्भ को ही सन्तान का निधान बनाया; यदि माताएँ पुत्र को जन्म दें तो अन्य कर्ता है, यदि पुत्री को जन्म दें तो अन्य ही फलभागी होता है।' 'जामि' बहन का नाम है। यहाँ स्पष्ट किया गया है कि पुत्र ही उत्तराधिकारी (दायाद) बनता है, जबकि पुत्री के जन्म पर अधिकार आधा होकर किसी अन्य को दिया जाता है।
श्लोक 3.7
मनुष्यनामान्युत्तराणि पञ्चविंशतिः ।। मनुष्याः कस्मात् । मत्वा कर्माणि सीव्यन्ति । मनस्यमानेन सृष्टाः । मनस्यतिः पुनर्मनस्वीभावे । मनोरपत्यम् । मनुषो वा । तत्र पञ्चजना इत्येतस्य निगमा भवन्ति
manuṣyanāmānyuttarāṇi pañcaviṁśatiḥ || manuṣyāḥ kasmāt | matvā karmāṇi sīvyanti | manasyamānena sṛṣṭāḥ | manasyatiḥ punarmanasvībhāve | manorapatyam | manuṣo vā | tatra pañcajanā ityetasya nigamā bhavanti
यहाँ मनुष्य के पच्चीस नामों की सूची आरम्भ होती है। 'मनुष्य' को 'मत्वा कर्माणि सीव्यन्ति' (विचार करके कर्म करने वाले) से, अथवा मनु की सन्तान होने से व्युत्पन्न किया गया है। इसके बाद 'पञ्चजनाः' (पाँच जन/जातियाँ) शब्द के वैदिक उद्धरण दिए जाते हैं।
श्लोक 3.8
तदद्य वाचः प्रथमं मंसीय येनासुराँ अभि देवा असाम । ऊर्जाद उत यज्ञियासः पञ्चजना मम होत्रं जुषध्वम् ॥ तदद्यवाचः परमं मंसीय येनासुरानभिभवेम देवाः । असुरा असुरताः । स्थानेष्वस्ताः । स्थानेभ्य इति वा । अपि वासुरिति प्राणनाम । अस्तः शरीरे भवति । तेन तद्वन्तः । सोर्देवानसृजत तत् सुराणां सुरत्वम् । असोरसुरानसृजत तदसुराणामसुरत्वम् । इति विज्ञायते । ऊर्जाद उत यज्ञियासः । अन्नादाश्च यज्ञियाश्च । ऊर्गित्यन्ननाम । ऊर्जयतीति सतः । पक्वं सुप्रवृक्णमिति वा । पञ्चजना मम होत्रं जुषध्वम् । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येके । चत्वारो वर्णा निषादः पञ्चम इत्यौपमन्यवः । निषादः कस्मात् । निषदनो भवति । निषण्णमस्मिन्पापकमिति नैरुक्ताः । यत्पाञ्चजन्यया विशा । पञ्चजनीनया विशा । पञ्च पृक्ता संख्या । स्त्रीपुंनपुंसकेष्वविशिष्टा । बाहुनामान्युत्तराणि द्वादश । बाहुः कस्मात् । प्रबाधत आभ्यां कर्माणि । अङ्गुलिनामान्युत्तराणि द्वाविंशतिः । अङ्गुल्यः कस्मात् । अग्रगामिन्यो भवन्तीति वा । अग्रगालिन्यो भवन्तीति वा । अग्रकारिण्यो भवन्तीति वा (अग्रसारिण्यो भवन्तीति वा ) अङ्कना भवन्तीति वा । अञ्चना भवन्तीति वा । अपि वाभ्यञ्जनादेव स्युः । तासामेषा भवति
tadadya vācaḥ prathamaṁ maṁsīya yenāsurām̐ abhi devā asāma | ūrjāda uta yajñiyāsaḥ pañcajanā mama hotraṁ juṣadhvam || tadadyavācaḥ paramaṁ maṁsīya yenāsurānabhibhavema devāḥ | asurā asuratāḥ | sthāneṣvastāḥ | sthānebhya iti vā | api vāsuriti prāṇanāma | astaḥ śarīre bhavati | tena tadvantaḥ | sordevānasṛjata tat surāṇāṁ suratvam | asorasurānasṛjata tadasurāṇāmasuratvam | iti vijñāyate | ūrjāda uta yajñiyāsaḥ | annādāśca yajñiyāśca | ūrgityannanāma | ūrjayatīti sataḥ | pakvaṁ supravṛkṇamiti vā | pañcajanā mama hotraṁ juṣadhvam | gandharvāḥ pitaro devā asurā rakṣāṁsītyeke | catvāro varṇā niṣādaḥ pañcama ityaupamanyavaḥ | niṣādaḥ kasmāt | niṣadano bhavati | niṣaṇṇamasminpāpakamiti nairuktāḥ | yatpāñcajanyayā viśā | pañcajanīnayā viśā | pañca pṛktā saṁkhyā | strīpuṁnapuṁsakeṣvaviśiṣṭā | bāhunāmānyuttarāṇi dvādaśa | bāhuḥ kasmāt | prabādhata ābhyāṁ karmāṇi | aṅgulināmānyuttarāṇi dvāviṁśatiḥ | aṅgulyaḥ kasmāt | agragāminyo bhavantīti vā | agragālinyo bhavantīti vā | agrakāriṇyo bhavantīti vā (agrasāriṇyo bhavantīti vā ) aṅkanā bhavantīti vā | añcanā bhavantīti vā | api vābhyañjanādeva syuḥ | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'आज मैं वाणी का वह प्रथम विचार करूँ जिससे हम असुरों पर देवताओं के रूप में विजय पाएँ; अन्नभोगी और यज्ञिय पञ्चजन मेरी होत्र-सेवा स्वीकार करें।' 'असुर' और 'सुर' दोनों 'अस्' (प्राण) धातु से बताए गए हैं — सुरों को असु से सृजा गया, असुरों को अस्-रहित से। पञ्चजन के विषय में कई मत हैं — गन्धर्व-पितर-देव-असुर-राक्षस, या चार वर्ण+निषाद (औपमन्यव)।
श्लोक 3.9
दशाऽवनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः । दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥ अवनयोऽङ्गुल्यो भवन्ति । अवन्ति कर्माणि । कक्ष्याः प्रकाशयन्ति कर्माणि । योक्त्राणि योजनानीति व्याख्यातम् । अभीशवोऽभ्यश्रुवते कर्माणि । दशधुरो दश युक्ता वहद्भ्यः । धूर्धूर्वतेर्वधकर्मणः । इयमपीतरा धूरेतस्मादेव । विहन्ति वहम् । धारयतेर्वा । कान्तिकर्माण उत्तरे धातवोऽष्टादश । अन्ननामान्युत्तराण्यष्टाविंशतिः । अन्नं कस्मात् । आनतं भूतेभ्यः । अत्तेर्वा । अत्तिकर्माण उत्तरे धातवो दश । बलनामान्युत्तराण्यष्टाविंशतिः । बलं कस्मात् । बलं भरं भवति । बिभर्तेः । धननामान्युत्तराण्यष्टाविंशतिरेव । धनं कस्मात् । धिनोतीति सतः । गोनामान्युत्तराणि नव । क्रुध्यतिकर्माण उत्तरे धातवो दश । क्रोधनामान्युत्तराण्येकादश । गतिकर्माण उत्तरे धातवो द्वाविंशशतम् । क्षिप्रनामान्युत्तराणि षड्विंशतिः । क्षिप्रं कस्मात् । संक्षिप्तो विकर्षः । अन्तिकनामान्युत्तराण्येकादश । अन्तिकं कस्मात् । आनीतं भवति । संग्रामनामान्युत्तराणि षट्चत्वारिंशत् । संग्रामः कस्मात् । संगमनाद्वा । संगरणाद्वा । संगतौ ग्रामाविति वा । तत्र खल इत्येतस्य निगमा भवन्ति
daśā'vanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ | daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ || avanayo'ṅgulyo bhavanti | avanti karmāṇi | kakṣyāḥ prakāśayanti karmāṇi | yoktrāṇi yojanānīti vyākhyātam | abhīśavo'bhyaśruvate karmāṇi | daśadhuro daśa yuktā vahadbhyaḥ | dhūrdhūrvatervadhakarmaṇaḥ | iyamapītarā dhūretasmādeva | vihanti vaham | dhārayatervā | kāntikarmāṇa uttare dhātavo'ṣṭādaśa | annanāmānyuttarāṇyaṣṭāviṁśatiḥ | annaṁ kasmāt | ānataṁ bhūtebhyaḥ | attervā | attikarmāṇa uttare dhātavo daśa | balanāmānyuttarāṇyaṣṭāviṁśatiḥ | balaṁ kasmāt | balaṁ bharaṁ bhavati | bibharteḥ | dhananāmānyuttarāṇyaṣṭāviṁśatireva | dhanaṁ kasmāt | dhinotīti sataḥ | gonāmānyuttarāṇi nava | krudhyatikarmāṇa uttare dhātavo daśa | krodhanāmānyuttarāṇyekādaśa | gatikarmāṇa uttare dhātavo dvāviṁśaśatam | kṣipranāmānyuttarāṇi ṣaḍviṁśatiḥ | kṣipraṁ kasmāt | saṁkṣipto vikarṣaḥ | antikanāmānyuttarāṇyekādaśa | antikaṁ kasmāt | ānītaṁ bhavati | saṁgrāmanāmānyuttarāṇi ṣaṭcatvāriṁśat | saṁgrāmaḥ kasmāt | saṁgamanādvā | saṁgaraṇādvā | saṁgatau grāmāviti vā | tatra khala ityetasya nigamā bhavanti
इस ऋचा में रथ के अंगों की उपमा दी गई है: 'दस अवनियों (अंगुलियों) से, दस कक्ष्याओं (रस्सियों) से, दस योक्त्रों, दस योजनों, दस अभीशुओं (लगामों), और दस धुराओं-युक्तियों से रथ चलता है, हे अजर देव।' इसके पश्चात् कान्ति, अत्ति, बल, धन, गो, क्रोध, गति, क्षिप्र, अन्तिक, संग्राम आदि विषयों के नाम-समूहों की सूचियाँ गिनाई जाती हैं, जिनकी संख्याएँ ही मुख्यतः दी गई हैं।
श्लोक 3.10
अभी३दमेकमेको अस्मि निष्षाळभी द्वा किमु त्रयः करन्ति । खले न पर्षान्प्रति हन्मि भूरि किं मा निन्दन्ति शत्रवोऽनिन्द्राः ॥ अभिभवामीदमेकमेकः । अस्मि निष्षहमाणः । सपत्नानभिभवामि । द्वौ किं मा त्रयः कुर्वन्ति । एक इता संख्या । द्वौ द्रुततरा संख्या । त्रयस्तीर्णतमा संख्या । चत्वारश्चलिततमा संख्या । अष्टावश्नोतेः । नव न वननीया । नावाप्ता वा । दश दस्ता । दृष्टार्था वा । विंशतिर्द्विदशतः । शतं दशदशतः । सहस्रं सहस्वत् । अयुतं प्रयुतं नियुतं तत्तदभ्यस्तम् । अर्बुदो मेघो भवति । अरणमम्बु । तद्दः । अम्बुदो अम्बुमद्भातीति वा । अम्बुमद्भवतीति वा । स यथा महान्बहुर्भवति वर्षंस्तदिवार्बुदम् । खले न पर्षान्प्रति हन्मि भूरि । खल इव पर्षान् प्रतिहन्मि भूरि । खल इति संग्रामनाम । खलतेर्वा । स्खलतेर्वा । अयमपीतरः खल एतस्मादेव । समास्कन्नो भवति । किं मा निन्दन्ति शत्रवोऽनिन्द्राः । य इन्द्रं न विदुः । इन्द्रो ह्यहमस्मि । अनिन्द्रा इतर इति वा । व्याप्तिकर्माण उत्तरे धातवो दश । तत्र द्वे नामनी आक्षाण आश्नुवानः । आपान आप्नुवानः । वधकर्माण उत्तरे धातवस्त्रयस्त्रिंशत् । तत्र वियात इत्येतद् वियातयत इति वा । वियातयेति वा । आखण्डल प्र हूयसे । आखण्डयितः । खण्डं खण्डयतेः । तळिदित्यन्तिकवधयोः संसृष्टकर्म । ताळयतीति सतः
abhī3damekameko asmi niṣṣāḷabhī dvā kimu trayaḥ karanti | khale na parṣānprati hanmi bhūri kiṁ mā nindanti śatravo'nindrāḥ || abhibhavāmīdamekamekaḥ | asmi niṣṣahamāṇaḥ | sapatnānabhibhavāmi | dvau kiṁ mā trayaḥ kurvanti | eka itā saṁkhyā | dvau drutatarā saṁkhyā | trayastīrṇatamā saṁkhyā | catvāraścalitatamā saṁkhyā | aṣṭāvaśnoteḥ | nava na vananīyā | nāvāptā vā | daśa dastā | dṛṣṭārthā vā | viṁśatirdvidaśataḥ | śataṁ daśadaśataḥ | sahasraṁ sahasvat | ayutaṁ prayutaṁ niyutaṁ tattadabhyastam | arbudo megho bhavati | araṇamambu | taddaḥ | ambudo ambumadbhātīti vā | ambumadbhavatīti vā | sa yathā mahānbahurbhavati varṣaṁstadivārbudam | khale na parṣānprati hanmi bhūri | khala iva parṣān pratihanmi bhūri | khala iti saṁgrāmanāma | khalatervā | skhalatervā | ayamapītaraḥ khala etasmādeva | samāskanno bhavati | kiṁ mā nindanti śatravo'nindrāḥ | ya indraṁ na viduḥ | indro hyahamasmi | anindrā itara iti vā | vyāptikarmāṇa uttare dhātavo daśa | tatra dve nāmanī ākṣāṇa āśnuvānaḥ | āpāna āpnuvānaḥ | vadhakarmāṇa uttare dhātavastrayastriṁśat | tatra viyāta ityetad viyātayata iti vā | viyātayeti vā | ākhaṇḍala pra hūyase | ākhaṇḍayitaḥ | khaṇḍaṁ khaṇḍayateḥ | taḷidityantikavadhayoḥ saṁsṛṣṭakarma | tāḷayatīti sataḥ
इस प्रसिद्ध ऋचा में योद्धा कहता है: 'मैं अकेला ही इसे जीत लेता हूँ, दो या तीन क्या मुझे रोक सकते हैं? मैं खलिहान की तरह शत्रुओं को बहुत मारता हूँ, इन्द्रहीन शत्रु मेरी निन्दा क्यों करें?' यहाँ संख्याओं एक से सहस्र तक की व्युत्पत्तियाँ क्रमशः दी गई हैं। 'खल' संग्राम और खलिहान दोनों का नाम है। 'अनिन्द्राः' का अर्थ है 'जो इन्द्र को नहीं जानते' — क्योंकि वक्ता स्वयं को इन्द्र मानता है।
श्लोक 3.11
त्वया वयं सुवृधा ब्रह्मणस्पते स्पार्हा वसु मनुष्या ददीमहि । या नो दूरे तळितो या अरातयोऽभि सन्ति जम्भया ता अनप्नसः ॥ त्वया वयं सुवर्धयित्रा ब्रह्मणस्पते स्पृहणीयानि वसूनि मनुष्येभ्य आददीमहि । याश्च नो दूरे तळितो याश्चान्तिके । अरातयोऽदानकर्माणो वा । अदानप्रज्ञा वा । जम्भय ता अनप्नसः । अप्न इति रूपनाम । आप्नोतीति सतः । विद्युत्तळिद्भवतीति शाकपूणिः । सा ह्यवताळयति । दूराच्च दृश्यते । अपि त्विदमन्तिकनामैवाभिप्रेतं स्यात् । दूरे चित्सन्तळिदिवाति रोचसे । दूरेऽपि सन्नन्तिक इव संदृश्यस इति । वज्रनामान्युत्तराण्यष्टादश । वज्रः कस्मात् । वर्जयतीति सतः । तत्र कुत्स इत्येतत् कृन्ततेः । ऋषिः कुत्सो भवति । कर्ता स्तोमानामित्यौपमन्यवः । अथाप्यस्य वधकर्मैव भवति । तत्सख इन्द्रः शुष्णं जघानेति । ऐश्वर्यकर्माण उत्तरे धातवश्चत्वारः ॥ ईश्वरनामान्युत्तराणि चत्वारि । तत्रेन इत्येतत् सनित ऐश्वर्येणेति वा । सनितमनेनैश्वर्यमिति वा
tvayā vayaṁ suvṛdhā brahmaṇaspate spārhā vasu manuṣyā dadīmahi | yā no dūre taḷito yā arātayo'bhi santi jambhayā tā anapnasaḥ || tvayā vayaṁ suvardhayitrā brahmaṇaspate spṛhaṇīyāni vasūni manuṣyebhya ādadīmahi | yāśca no dūre taḷito yāścāntike | arātayo'dānakarmāṇo vā | adānaprajñā vā | jambhaya tā anapnasaḥ | apna iti rūpanāma | āpnotīti sataḥ | vidyuttaḷidbhavatīti śākapūṇiḥ | sā hyavatāḷayati | dūrācca dṛśyate | api tvidamantikanāmaivābhipretaṁ syāt | dūre citsantaḷidivāti rocase | dūre'pi sannantika iva saṁdṛśyasa iti | vajranāmānyuttarāṇyaṣṭādaśa | vajraḥ kasmāt | varjayatīti sataḥ | tatra kutsa ityetat kṛntateḥ | ṛṣiḥ kutso bhavati | kartā stomānāmityaupamanyavaḥ | athāpyasya vadhakarmaiva bhavati | tatsakha indraḥ śuṣṇaṁ jaghāneti | aiśvaryakarmāṇa uttare dhātavaścatvāraḥ || īśvaranāmānyuttarāṇi catvāri | tatrena ityetat sanita aiśvaryeṇeti vā | sanitamanenaiśvaryamiti vā
इस ऋचा में स्तोता ब्रह्मणस्पति से कामना करते हैं: 'तुम्हारी सहायता से हम मनुष्यों को स्पृहणीय धन दें; जो अरातियाँ (कंजूसी) हमसे दूर या निकट हों, उन निष्फल शत्रुओं को कुचल दो।' 'तळित्' (बिजली) को दूर और निकट दोनों दिखने वाली कहा गया है (शाकपूणि)। इसके बाद वज्र के अठारह नाम, और कुत्स ऋषि का नाम (कृन्ततेः — काटने की धातु से, स्तोमों के कर्ता के रूप में) दिया गया है।
श्लोक 3.12
यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभि स्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥ यत्र सुपर्णाः सुपतना आदित्यरश्मयः । अमृतस्य भागमुदकस्य । अनिमिषन्तो वेदनेनाभिस्वरन्तीति वा । अभिप्रयन्तीति वा । ईश्वरः सर्वेषां भूतानां गोपायितादित्यः । स मा धीरः पाकमत्रा विवेशेति । धीरो धीमान् । पाकः पक्तव्यो भवति । विपक्वप्रज्ञ आदित्यः ।। इत्युपनिषद्वर्णो भवति । इत्यधिदैवतम् । अथाध्यात्मम् । यत्र सुपतनानीन्द्रियाणि । अमृतस्य भागं ज्ञानस्य । अनिमिषन्तो वेदनेनाभिस्वरन्तीति वा । अभिप्रयन्तीति वा । ईश्वरः सर्वेषामिन्द्रियाणां गोपायितात्मा । स मा धीरः पाकमत्रा विवेशेति । धीरो धीमान् । पाकः पक्तव्यो भवति । विपक्वप्रज्ञ आत्मा । इत्यात्मगतिमाचष्टे
yatrā suparṇā amṛtasya bhāgamanimeṣaṁ vidathābhi svaranti | ino viśvasya bhuvanasya gopāḥ sa mā dhīraḥ pākamatrā viveśa || yatra suparṇāḥ supatanā ādityaraśmayaḥ | amṛtasya bhāgamudakasya | animiṣanto vedanenābhisvarantīti vā | abhiprayantīti vā | īśvaraḥ sarveṣāṁ bhūtānāṁ gopāyitādityaḥ | sa mā dhīraḥ pākamatrā viveśeti | dhīro dhīmān | pākaḥ paktavyo bhavati | vipakvaprajña ādityaḥ || ityupaniṣadvarṇo bhavati | ityadhidaivatam | athādhyātmam | yatra supatanānīndriyāṇi | amṛtasya bhāgaṁ jñānasya | animiṣanto vedanenābhisvarantīti vā | abhiprayantīti vā | īśvaraḥ sarveṣāmindriyāṇāṁ gopāyitātmā | sa mā dhīraḥ pākamatrā viveśeti | dhīro dhīmān | pākaḥ paktavyo bhavati | vipakvaprajña ātmā | ityātmagatimācaṣṭe
यह प्रसिद्ध 'द्वा सुपर्णा' का पूर्वरूप है: 'जहाँ अनिमेष सुपर्ण (पक्षी) अमृत के भाग की ओर स्तुति करते हैं, वहाँ सब भूतों के गोपायक ईश्वर, वह धीर, मुझ पाक (अपरिपक्व) में प्रवेश करता है।' यास्क इसे दो स्तरों पर समझाते हैं — अधिदैवत रूप में सुपर्ण आदित्य-किरणें हैं और ईश्वर सूर्य है; अध्यात्म रूप में सुपर्ण इन्द्रियाँ हैं और ईश्वर आत्मा है, जो अपरिपक्व बुद्धि में प्रवेश कर उसे परिपक्व बनाता है।
श्लोक 3.13
बहुनामान्युत्तराणि द्वादश । बहुः कस्मात् । प्रभवतीति सतः ॥ ह्रस्वनामान्युत्तराण्येकादश । ह्रस्वो ह्रसतेः । महन्नामान्युत्तराणि पञ्चविंशतिः । महान् कस्मात् । मानेनान्याञ्जहातीति शाकपूणिः । मंहनीयो भवतीति वा । बहु ववक्षिथ विवक्षस इत्येते वक्तेर्वा वहतेर्वा साभ्यासात् । गृहनामान्युत्तराणि द्वाविंशतिः । गृहाः कस्मात् । गृह्णन्तीति सताम् । परिचरणकर्माण उत्तरे धातवो दश । सुखनामान्युत्तराणि विंशतिः । सुखं कस्मात् । सुहितं खेभ्यः । खं पुनः खनतेः । रूपनामान्युत्तराणि षोडश । रूपं रोचतेः । प्रशस्यनामान्युत्तराणि दश । प्रज्ञानामान्युत्तराण्येकादश । सत्यनामान्युत्तराणि षट् । सत्यं कस्मात् । सत्सु तायते । सत्प्रभवं भवतीति वा । अष्टा उत्तराणि पदानि पश्यतिकर्माण उत्तरे धातवश्चायतिप्रभृतीनि च । नामान्यामिश्राणि । नवोत्तराणि पदानि सर्वपदसमाम्नानाय । अथात उपमाः । यदतत्तत्सदृशमिति गार्ग्यः । तदासां कर्म । ज्यायसा वा गुणेन प्रख्याततमेन वा कनीयांसं वाप्रख्यातं वोपमिमीते । अथापि कनीयसा ज्यायांसम्
bahunāmānyuttarāṇi dvādaśa | bahuḥ kasmāt | prabhavatīti sataḥ || hrasvanāmānyuttarāṇyekādaśa | hrasvo hrasateḥ | mahannāmānyuttarāṇi pañcaviṁśatiḥ | mahān kasmāt | mānenānyāñjahātīti śākapūṇiḥ | maṁhanīyo bhavatīti vā | bahu vavakṣitha vivakṣasa ityete vaktervā vahatervā sābhyāsāt | gṛhanāmānyuttarāṇi dvāviṁśatiḥ | gṛhāḥ kasmāt | gṛhṇantīti satām | paricaraṇakarmāṇa uttare dhātavo daśa | sukhanāmānyuttarāṇi viṁśatiḥ | sukhaṁ kasmāt | suhitaṁ khebhyaḥ | khaṁ punaḥ khanateḥ | rūpanāmānyuttarāṇi ṣoḍaśa | rūpaṁ rocateḥ | praśasyanāmānyuttarāṇi daśa | prajñānāmānyuttarāṇyekādaśa | satyanāmānyuttarāṇi ṣaṭ | satyaṁ kasmāt | satsu tāyate | satprabhavaṁ bhavatīti vā | aṣṭā uttarāṇi padāni paśyatikarmāṇa uttare dhātavaścāyatiprabhṛtīni ca | nāmānyāmiśrāṇi | navottarāṇi padāni sarvapadasamāmnānāya | athāta upamāḥ | yadatattatsadṛśamiti gārgyaḥ | tadāsāṁ karma | jyāyasā vā guṇena prakhyātatamena vā kanīyāṁsaṁ vāprakhyātaṁ vopamimīte | athāpi kanīyasā jyāyāṁsam
यहाँ बहु, ह्रस्व, महत्, गृह, सुख, रूप, प्रशस्य, प्रज्ञा और सत्य आदि के नाम-समूहों की गणना है, प्रत्येक की संक्षिप्त व्युत्पत्ति के साथ — जैसे 'महत्' को शाकपूणि 'मान से अन्य को पीछे छोड़ने वाला' कहते हैं, 'सुख' 'सुहितं खेभ्यः' (इन्द्रियों के लिए हितकर) से। अन्त में गार्ग्य के अनुसार उपमा का सिद्धान्त दिया गया है — 'जो वैसा न हो पर सदृश हो' वही उपमा है, जो प्रख्यात या अप्रख्यात, बड़े या छोटे गुण द्वारा दी जाती है।
श्लोक 3.14
तनूत्यजेव तस्करा वनर्गू रशनाभिर्दशभिरभ्य॑धीताम् ॥ तनूत्यक् तनूत्यक्ता । वनर्गू वनगामिनौ । अग्निमन्थनौ बाहू तस्कराभ्यामुपमिमीते । तस्करस्तत्करोति यत्पापकमिति नैरुक्ताः । तनोतेर्वा स्यात् । सन्ततकर्मा भवति । अहोरात्रकर्मा वा । रशनाभिर्दशभिरभ्यधीताम् । अभ्यधाताम् । ज्यायांस्तत्र गुणोऽभिप्रेतः
tanūtyajeva taskarā vanargū raśanābhirdaśabhirabhyadhītām || tanūtyak tanūtyaktā | vanargū vanagāminau | agnimanthanau bāhū taskarābhyāmupamimīte | taskarastatkaroti yatpāpakamiti nairuktāḥ | tanotervā syāt | santatakarmā bhavati | ahorātrakarmā vā | raśanābhirdaśabhirabhyadhītām | abhyadhātām | jyāyāṁstatra guṇo'bhipretaḥ
इस ऋचा में कहा गया है: 'चोरों के समान वन-गामी (अग्नि-मन्थन काष्ठ) दस डोरियों से बाँधे गए।' यास्क यज्ञ की दो अरणियों (अग्नि उत्पन्न करने वाली काष्ठ-छड़ें) को चोरों से उपमित करते हैं, क्योंकि 'तस्कर' वह है जो पाप करता है (गुप्त रूप से घर्षण कर अग्नि चुराता-सा प्रतीत होता है), और उन्हें दस अँगुलियों की रस्सियों से बाँधा जाता है। यहाँ उपमा में गुण की श्रेष्ठता का महत्त्व बताया गया है।
श्लोक 3.15
कुह स्विद् दोषा कुह वस्तोरश्विना कुहाभिपित्वं करतः कुहोषतुः । को वां शयुत्रा विधवेव देवरं मर्यं न योषा कृणुते स॒धस्थ आ ॥ क स्विद्रात्रौ भवथः क्व दिवा । क्वाभिप्राप्तिं कुरुथः । क्व वसथः । को वां शयने विधवेव देवरम् । देवरः कस्मात् । द्वितीयो वर उच्यते । विधवा विधातृका भवति । विधवनाद्वा । विधावनाद्वेति चर्मशिराः । अपि वा धव इति मनुष्यनाम । तद्वियोगाद्विधवा । देवरो दीव्यतिकर्मा । मर्यो मनुष्यो मरणधर्मा । योषा यौतेः । आकुरुते सधस्थाने ।। अथ निपाताः पुरस्तादेव व्याख्याताः । यथेति कर्मोपमा । यथा वातो यथा वनं यथा समुद्र एजति ॥ भ्राज॑न्तो अग्नयो यथा ॥ आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥ आत्माततेर्वा । आप्तेर्वा । अपि वाप्त इव स्यात् । यावद् व्याप्तिभूत इति । अग्निर्न ये भ्राज॑सा रुक्मवक्षसः । अग्निरिव ये भ्राजस्वन्तो रुक्मवक्षसः
kuha svid doṣā kuha vastoraśvinā kuhābhipitvaṁ karataḥ kuhoṣatuḥ | ko vāṁ śayutrā vidhaveva devaraṁ maryaṁ na yoṣā kṛṇute sadhastha ā || ka svidrātrau bhavathaḥ kva divā | kvābhiprāptiṁ kuruthaḥ | kva vasathaḥ | ko vāṁ śayane vidhaveva devaram | devaraḥ kasmāt | dvitīyo vara ucyate | vidhavā vidhātṛkā bhavati | vidhavanādvā | vidhāvanādveti carmaśirāḥ | api vā dhava iti manuṣyanāma | tadviyogādvidhavā | devaro dīvyatikarmā | maryo manuṣyo maraṇadharmā | yoṣā yauteḥ | ākurute sadhasthāne || atha nipātāḥ purastādeva vyākhyātāḥ | yatheti karmopamā | yathā vāto yathā vanaṁ yathā samudra ejati || bhrājanto agnayo yathā || ātmā yakṣmasya naśyati purā jīvagṛbho yathā || ātmātatervā | āptervā | api vāpta iva syāt | yāvad vyāptibhūta iti | agnirna ye bhrājasā rukmavakṣasaḥ | agniriva ye bhrājasvanto rukmavakṣasaḥ
इस प्रसिद्ध अश्विन-सूक्त की ऋचा में पूछा गया है: 'हे अश्विनौ, रात्रि में कहाँ होते हो, दिन में कहाँ? कहाँ अभिपित्व (सन्ध्या-मिलन) करते हो, कहाँ रात बिताते हो? विधवा जैसे देवर को, विवाहिता जैसे पति को — कौन तुम्हें शय्या पर सधस्थ में लाती है?' 'देवर' को 'द्वितीय वर' के अर्थ में, 'विधवा' को 'पति-रहित' के अर्थ में समझाया गया है। इसके बाद निपात 'यथा' के अनेक कर्म-उपमा उदाहरण दिए गए हैं — वायु, वन, समुद्र के कम्पन जैसे।
श्लोक 3.16
चतुरश्चिद्ददमानाद्बिभीयादा निधातोः । न दुरुक्ताय स्पृहयेत् ॥ चतुरश्चिद् धारयत इति । तद्यथा कितवाद्बिभीयादेवमेव दुरुक्ताद्बिभीयात् । न दुरुक्ताय स्पृहयेत् कदाचित् । आ इत्याकार उपसर्गः पुरस्तादेव व्याख्यातः । अथाप्युपमार्थे दृश्यते । जार आ भगम् । जार इव भगम् । आदित्योऽत्र जार उच्यते । रात्रेर्जरयिता । स एव भासाम् । तथापि निगमो भवति । स्वसुर्जारः शृणोतु नः । इति उषसमस्य स्वसारमाह साहचर्यात् । रसहरणाद्वा । अपि त्वयं मनुष्यजार एवाभिप्रेतः स्यात् । स्त्रीभगस्तथा स्यात् । भजतेः । मेष इति भूतोपमा । मेषो भूतो३भियन्नयः । मेषो मिषतेः । तथा पशुः पश्यतेः । अग्निरिति रूपोपमा । हिरण्यरूपः स हिरण्यसंदृगपां नपात्सेदु हिरण्यवर्णः । हिरण्यवर्णस्येवास्य रूपम् । था इति च । तं प्रत्नथा पूर्वथा विश्वथेमथा । प्रत्न इव पूर्व इव विश्व इवेम इवेति । अयमेततरोऽमुष्मात् । असावस्ततरोऽस्मात् । अमुथा यथासाविति व्याख्यातम् । वदिति सिद्धोपमा । ब्राह्मणा इव वृषला इवेति । वृषलो वृषशीलो भवति । वृषाशीलो वा
caturaściddadamānādbibhīyādā nidhātoḥ | na duruktāya spṛhayet || caturaścid dhārayata iti | tadyathā kitavādbibhīyādevameva duruktādbibhīyāt | na duruktāya spṛhayet kadācit | ā ityākāra upasargaḥ purastādeva vyākhyātaḥ | athāpyupamārthe dṛśyate | jāra ā bhagam | jāra iva bhagam | ādityo'tra jāra ucyate | rātrerjarayitā | sa eva bhāsām | tathāpi nigamo bhavati | svasurjāraḥ śṛṇotu naḥ | iti uṣasamasya svasāramāha sāhacaryāt | rasaharaṇādvā | api tvayaṁ manuṣyajāra evābhipretaḥ syāt | strībhagastathā syāt | bhajateḥ | meṣa iti bhūtopamā | meṣo bhūto3bhiyannayaḥ | meṣo miṣateḥ | tathā paśuḥ paśyateḥ | agniriti rūpopamā | hiraṇyarūpaḥ sa hiraṇyasaṁdṛgapāṁ napātsedu hiraṇyavarṇaḥ | hiraṇyavarṇasyevāsya rūpam | thā iti ca | taṁ pratnathā pūrvathā viśvathemathā | pratna iva pūrva iva viśva ivema iveti | ayametataro'muṣmāt | asāvastataro'smāt | amuthā yathāsāviti vyākhyātam | vaditi siddhopamā | brāhmaṇā iva vṛṣalā iveti | vṛṣalo vṛṣaśīlo bhavati | vṛṣāśīlo vā
इस ऋचा में कहा गया है: 'चार पासों को पकड़ने वाले जुआरी से जैसे डरना चाहिए, वैसे ही कटु-वचन से डरना चाहिए; कटु-वचन बोलने वाले की कामना कभी मत करो।' इसके बाद उपमा के अनेक प्रकार गिनाए जाते हैं — जार (प्रेमी, आदित्य के लिए), मेष और पशु (भूत-उपमा), अग्नि का हिरण्य-रूप (रूप-उपमा), 'था' प्रत्यय द्वारा तुलना (प्रत्नथा, पूर्वथा आदि), और 'वत्' द्वारा सिद्ध-उपमा (ब्राह्मणा इव, वृषला इव)।
श्लोक 3.17
प्रियमेधवदत्रिवज्जातवेदो विरूपवत् । अङ्गिरस्वन्महिव्रत प्रस्कण्वस्य श्रुधी हव॑म् ॥ प्रियमेधः । प्रिया अस्य मेधा । यथैतेषामृषीणामेवं प्रस्कण्वस्य शृणु ह्वानम् । प्रस्कण्वः कण्वस्य पुत्रः । कण्वप्रभवः । यथा प्राग्रम् । अर्चिषि भृगुः संबभूव । भृगुर्भृज्यमानो न देहे । अङ्गारेष्वङ्गिराः । अङ्गारा अङ्कनाः । अत्रैव तृतीयमृच्छतेत्यूचुः । तस्मादत्रिः । न त्रय इति । विखननाद्वैखानसः । भरणाद्भारद्वाजः । विरूपो नानारूपः । महिव्रतो महाव्रत इति
priyamedhavadatrivajjātavedo virūpavat | aṅgirasvanmahivrata praskaṇvasya śrudhī havam || priyamedhaḥ | priyā asya medhā | yathaiteṣāmṛṣīṇāmevaṁ praskaṇvasya śṛṇu hvānam | praskaṇvaḥ kaṇvasya putraḥ | kaṇvaprabhavaḥ | yathā prāgram | arciṣi bhṛguḥ saṁbabhūva | bhṛgurbhṛjyamāno na dehe | aṅgāreṣvaṅgirāḥ | aṅgārā aṅkanāḥ | atraiva tṛtīyamṛcchatetyūcuḥ | tasmādatriḥ | na traya iti | vikhananādvaikhānasaḥ | bharaṇādbhāradvājaḥ | virūpo nānārūpaḥ | mahivrato mahāvrata iti
इस ऋचा में सोम-देव से कहा जाता है: 'हे जातवेदस्, प्रियमेध के समान, अत्रि के समान, विरूप के समान, अंगिरस के समान — हे महाव्रत — प्रस्कण्व की पुकार सुनो।' यहाँ ऋषियों के नामों की व्युत्पत्ति दी गई है — भृगु (अग्नि-ज्वाला में जन्मे), अंगिरा (अंगारों से), अत्रि (तीसरे को प्राप्त होने से, अकेले संकट में पड़ने से), वैखानस (खोदने से), भारद्वाज (पोषण से)।
श्लोक 3.18
अथ लुप्तोपमान्यर्थोपमानीत्याचक्षते । सिंहो व्याघ्र इति पूजायाम् । श्वा काक इति कुत्सायाम् । काक इति शब्दानुकृतिः । तदिदं शकुनिषु बहुलम् । न शब्दानुकृतिर्विद्यत इत्यौपमन्यवः । काकोऽपकालयितव्यो भवति । तित्तिरिस्तरणात् । तिलमात्रचित्र इति वा । कपिञ्जलः कपिरिव जीर्णः । कपिरिव जवते । ईषत्पिङ्गलो वा । कमनीयं शब्दं पिञ्जयतीति वा । श्वा शुयायी । शवतेर्वास्याद्गतिकर्मणः । श्वसितेर्वा । सिंहः सहनात् । हिंसेर्वा स्याद् विपरीतस्य । संपूर्वस्य वा हन्तेः । संहाय हन्तीति वा व्याघ्रो व्याघ्राणात् । व्यादाय हन्तीति वा
atha luptopamānyarthopamānītyācakṣate | siṁho vyāghra iti pūjāyām | śvā kāka iti kutsāyām | kāka iti śabdānukṛtiḥ | tadidaṁ śakuniṣu bahulam | na śabdānukṛtirvidyata ityaupamanyavaḥ | kāko'pakālayitavyo bhavati | tittiristaraṇāt | tilamātracitra iti vā | kapiñjalaḥ kapiriva jīrṇaḥ | kapiriva javate | īṣatpiṅgalo vā | kamanīyaṁ śabdaṁ piñjayatīti vā | śvā śuyāyī | śavatervāsyādgatikarmaṇaḥ | śvasitervā | siṁhaḥ sahanāt | hiṁservā syād viparītasya | saṁpūrvasya vā hanteḥ | saṁhāya hantīti vā vyāghro vyāghrāṇāt | vyādāya hantīti vā
यहाँ 'लुप्तोपमा' (जिसमें उपमावाचक शब्द छिपा हो) और 'अर्थोपमा' की व्याख्या है — 'सिंह' या 'व्याघ्र' कहना सम्मान में, 'श्वा' या 'काक' कहना निन्दा में प्रयुक्त होता है। पशु-पक्षियों के नामों की ध्वन्यनुकरण-मूलक व्युत्पत्तियाँ दी गई हैं — काक (शब्द से), तित्तिर, कपिञ्जल (कपि जैसा जीर्ण या तीव्रगामी), श्वा (गति/श्वास से), सिंह (सहन/हिंसा से), व्याघ्र (फाड़कर मारने से)।
श्लोक 3.19
अर्चतिकर्माण उत्तरे धातवश्चतुश्चत्वारिंशत् ।। मेधाविनामान्युत्तराणि चतुर्विंशतिः । मेधावी कस्मात् । मेधया तद्वान्भवति । मेधा मतौ धीयते । स्तोतृनामान्युत्तराणि त्रयोदश । स्तोता स्तवनात् । यज्ञनामान्युत्तराणि पञ्चदश । यज्ञः कस्मात् । प्रख्यातं यजति कर्मेति नैरुक्ताः । याच्ञो भवतीति वा । यजुरुन्नो भवतीति वा । बहुकृष्णाजिन इत्यौपमन्यवः । यजूंष्येनं नयन्तीति वा । ऋत्विङ्नामान्युत्तराण्यष्टौ । ऋत्विक् कस्मात् । ईरणः । ऋग्यष्टा भवतीति शाकपूणिः । ऋतुयाजी भवतीति वा । याञ्चाकर्माण उत्तरे धातवः सप्तदश । दानकर्माण उत्तरे धातवो दश । अध्येषणाकर्माण उत्तरे धातवश्चत्वारः । स्वपितिसस्तीति द्वौ स्वपितिकर्माणौ । कूपनामान्युत्तराणि चतुर्दश । कूपः कस्मात् । कु पानं भवति । कुप्यतेर्वा । स्तेननामान्युत्तराणि चतुर्दश । स्तेनः कस्मात् । संस्त्यानमस्मिन्पापकमिति नैरुक्ताः । निर्णीतान्तर्हितनामधेयान्युत्तराणि षट् । दूरनामान्युत्तराणि पञ्च । दूरं कस्मात् । द्रुतं भवति । दुरयं वा । पुराणनामान्युत्तराणि षट् । पुराणं कस्मात् । पुरा नवं भवति । नवनामान्युत्तराणि षळेव । नवं कस्मात् । आनीतं भवति
arcatikarmāṇa uttare dhātavaścatuścatvāriṁśat || medhāvināmānyuttarāṇi caturviṁśatiḥ | medhāvī kasmāt | medhayā tadvānbhavati | medhā matau dhīyate | stotṛnāmānyuttarāṇi trayodaśa | stotā stavanāt | yajñanāmānyuttarāṇi pañcadaśa | yajñaḥ kasmāt | prakhyātaṁ yajati karmeti nairuktāḥ | yācño bhavatīti vā | yajurunno bhavatīti vā | bahukṛṣṇājina ityaupamanyavaḥ | yajūṁṣyenaṁ nayantīti vā | ṛtviṅnāmānyuttarāṇyaṣṭau | ṛtvik kasmāt | īraṇaḥ | ṛgyaṣṭā bhavatīti śākapūṇiḥ | ṛtuyājī bhavatīti vā | yāñcākarmāṇa uttare dhātavaḥ saptadaśa | dānakarmāṇa uttare dhātavo daśa | adhyeṣaṇākarmāṇa uttare dhātavaścatvāraḥ | svapitisastīti dvau svapitikarmāṇau | kūpanāmānyuttarāṇi caturdaśa | kūpaḥ kasmāt | ku pānaṁ bhavati | kupyatervā | stenanāmānyuttarāṇi caturdaśa | stenaḥ kasmāt | saṁstyānamasminpāpakamiti nairuktāḥ | nirṇītāntarhitanāmadheyānyuttarāṇi ṣaṭ | dūranāmānyuttarāṇi pañca | dūraṁ kasmāt | drutaṁ bhavati | durayaṁ vā | purāṇanāmānyuttarāṇi ṣaṭ | purāṇaṁ kasmāt | purā navaṁ bhavati | navanāmānyuttarāṇi ṣaḷeva | navaṁ kasmāt | ānītaṁ bhavati
यहाँ मेधावी, स्तोता, यज्ञ, ऋत्विक् आदि के नाम-समूहों की गणना है। 'यज्ञ' को 'प्रख्यात कर्म' या 'याच्ञा' (माँगना) से, 'ऋत्विक्' को 'ऋतु के अनुसार यजन करने वाला' से व्युत्पन्न किया गया है। इसके बाद याचना, दान, आमन्त्रण, निद्रा, कूप, चोर (स्तेन — 'जिसमें पाप संचित हो') आदि के नाम-समूह, और दूर/पुराण/नव के नाम गिनाए गए हैं।
श्लोक 3.20
द्विश उत्तराणि नामानि षड्विंशतिः । प्रपित्वेऽभीक इत्यासन्नस्य । प्रपित्वे प्राप्ते । अभीकेऽभ्यक्ते । आपित्वे नः प्रपित्वे तूयमा गहि । अभीके चिदुलोककृत् । इत्यपि निगमौ भवतः । दभ्रमर्भकमित्यल्पस्य । दभ्रं दभ्नोतेः । सुदम्भं भवति । अर्भकमवहृतं भवति । उपोप मे परा मृश मा मे दभ्राणि मन्यथाः । नमो महद्भ्यो नमो अर्भकेभ्यः । इत्यपि निगमौ भवतः । तिरः सत इति प्राप्तस्य । तिरस्तीर्णं भवति । सतः संसृतं भवति । तिरश्चिदर्यया परि वर्तिर्यातमदाभ्या । पात्रेव भिन्दन्सत एति रक्षसः ॥ इत्यपि निगमौ भवतः । त्वो नेम इत्यर्धस्य । त्वोऽपततः । नेमोऽपनीतः । अर्धं हरतेर्विपरीतात् । धारयतेर्वा स्यात् । उद्धृतं भवति । ऋध्नोतेर्वा स्यात् । ऋद्धतमो विभागः । पीयति त्वो अनु त्वो गृणाति । नेमे देवा नेमेऽसुराः । इत्यपि निगमौ भवतः । ऋक्षाः स्तृभिरिति नक्षत्राणाम् । नक्षत्राणि नक्षतेर्गतिकर्मणः । नेमानि क्षत्राणि इति च ब्राह्मणम् । ऋक्षा उदीर्णानीव ख्यायन्ते । स्तृभिस्तीर्णानीव ख्यायन्ते । अमी य ऋक्षा निहितास उच्चा । पश्यन्तो द्यामिव स्तृभिः । इत्यपि निगमौ भवतः । वम्रीभिरुपजिह्विका इति सीमिकानाम् । वम्र्यो वमनात् । सीमिका स्यमनात् । उपजिह्विका उपजिघ्र्यः । वम्रीभिः पुत्रमग्रुवो अदानम् यदत्त्युपजिह्विका यद्वम्रो अतिसर्पति । इत्यपि निगमौ भवतः ऊर्दरं कृदरमित्यावपनस्य । ऊर्दरमुद्दीर्णं भवति । ऊर्जे दीर्णं वा । तमूर्दरं न पृणता यवेन । इत्यपि निगमो भवति । तमूर्दरमिव पूरयति यवेन । कृदरं कृतदरं भवति । समिद्धो अ॒ञ्जन् कृदरं मतीनाम् । इत्यपि निगमो भवति
dviśa uttarāṇi nāmāni ṣaḍviṁśatiḥ | prapitve'bhīka ityāsannasya | prapitve prāpte | abhīke'bhyakte | āpitve naḥ prapitve tūyamā gahi | abhīke cidulokakṛt | ityapi nigamau bhavataḥ | dabhramarbhakamityalpasya | dabhraṁ dabhnoteḥ | sudambhaṁ bhavati | arbhakamavahṛtaṁ bhavati | upopa me parā mṛśa mā me dabhrāṇi manyathāḥ | namo mahadbhyo namo arbhakebhyaḥ | ityapi nigamau bhavataḥ | tiraḥ sata iti prāptasya | tirastīrṇaṁ bhavati | sataḥ saṁsṛtaṁ bhavati | tiraścidaryayā pari vartiryātamadābhyā | pātreva bhindansata eti rakṣasaḥ || ityapi nigamau bhavataḥ | tvo nema ityardhasya | tvo'patataḥ | nemo'panītaḥ | ardhaṁ haraterviparītāt | dhārayatervā syāt | uddhṛtaṁ bhavati | ṛdhnotervā syāt | ṛddhatamo vibhāgaḥ | pīyati tvo anu tvo gṛṇāti | neme devā neme'surāḥ | ityapi nigamau bhavataḥ | ṛkṣāḥ stṛbhiriti nakṣatrāṇām | nakṣatrāṇi nakṣatergatikarmaṇaḥ | nemāni kṣatrāṇi iti ca brāhmaṇam | ṛkṣā udīrṇānīva khyāyante | stṛbhistīrṇānīva khyāyante | amī ya ṛkṣā nihitāsa uccā | paśyanto dyāmiva stṛbhiḥ | ityapi nigamau bhavataḥ | vamrībhirupajihvikā iti sīmikānām | vamryo vamanāt | sīmikā syamanāt | upajihvikā upajighryaḥ | vamrībhiḥ putramagruvo adānam yadattyupajihvikā yadvamro atisarpati | ityapi nigamau bhavataḥ ūrdaraṁ kṛdaramityāvapanasya | ūrdaramuddīrṇaṁ bhavati | ūrje dīrṇaṁ vā | tamūrdaraṁ na pṛṇatā yavena | ityapi nigamo bhavati | tamūrdaramiva pūrayati yavena | kṛdaraṁ kṛtadaraṁ bhavati | samiddho añjan kṛdaraṁ matīnām | ityapi nigamo bhavati
यहाँ द्विअर्थी (एक शब्द के दो प्रयोग वाले) छब्बीस पद-युग्मों की सूची है, प्रत्येक ऋग्वेदीय उद्धरण सहित — 'प्रपित्वे' (प्राप्त होने पर) और 'अभीके' (समीप); 'दभ्रम्' और 'अर्भकम्' (अल्प के लिए); 'तिरः सतः' (जो पार पहुँचा हो); 'त्वो' और 'नेम' (आधे के लिए); 'ऋक्षाः' और 'स्तृभिः' (नक्षत्रों के लिए, उदीर्ण/तीर्ण होने से); 'वम्री' और 'उपजिह्विका' (सर्प/चींटी के लिए); 'ऊर्दरम्' और 'कृदरम्' (बोने के बर्तन के लिए)। प्रत्येक युग्म का सम्बद्ध वैदिक उद्धरण दिया गया है।
श्लोक 3.21
रम्भः पिनाकमिति दण्डस्य । रम्भ प्रारभन्त एनम् । आ त्वा रम्भं न जिव्रयो ररम्भ । इत्यपि निगमो भवति । आरभामहे त्वा जीर्णा इव दण्डम् । पिनाकं प्रतिपिनष्ट्येनेन। कृत्तिवासाः पिनाकहस्तोऽव॑ततधन्वा । इत्यपि निगमो भवति । मेना ग्ना इति स्त्रीणाम् । स्त्रियः स्त्यायतेरपत्रपणकर्मणः । मेना मानयन्त्येनाः । ग्नाः गच्छन्त्येनाः । अमेनाँश्चिज्जनिवतश्चकर्थ । ग्नास्त्वाकृन्तन्नपसोऽतन्वत । इत्यपि निगमौ भवतः । शेपो वैतस इति पुंस्प्रजननस्य । शेपः शपतेः स्पृशतिकर्मणः । वैतसो वितस्तं भवति । यस्या॑मुशन्तः प्रहराम शेपम् । त्रिःस्म माह्नः श्नथयो वैतसेन । इत्यपि निगमौ भवतः । अयैनेत्युपदेशस्य । अया ते अग्ने समिधा विधेम । इति स्त्रियाः । एना वो अग्निम् । इति नपुंसकस्य । एना पत्या तन्वं१ संसृजस्व । इति पुंसः । सिषक्तु सचत इति सेवमानस्य । स नः सिषक्तु यस्तुरः । स नः सेवतां यस्तुरः । सचस्वा नः स्वस्तये । सेवस्व नः स्वस्तये । स्वस्तीत्यविनाशनाम । अस्तिरभिपूजितः । सु अस्तीति । भ्यसते रेजत इति भयवेपनयोः । यस्य॒ शुष्माद्रोदसी अभ्य॑सेताम् । रेजते अग्ने पृथिवी मखेभ्यः । इत्यपि निगमौ भवतः । द्यावापृथिवीनामधेयान्युत्तराणि चतुर्विंशतिः । तयोरेषा भवति
rambhaḥ pinākamiti daṇḍasya | rambha prārabhanta enam | ā tvā rambhaṁ na jivrayo rarambha | ityapi nigamo bhavati | ārabhāmahe tvā jīrṇā iva daṇḍam | pinākaṁ pratipinaṣṭyenena| kṛttivāsāḥ pinākahasto'vatatadhanvā | ityapi nigamo bhavati | menā gnā iti strīṇām | striyaḥ styāyaterapatrapaṇakarmaṇaḥ | menā mānayantyenāḥ | gnāḥ gacchantyenāḥ | amenām̐ścijjanivataścakartha | gnāstvākṛntannapaso'tanvata | ityapi nigamau bhavataḥ | śepo vaitasa iti puṁsprajananasya | śepaḥ śapateḥ spṛśatikarmaṇaḥ | vaitaso vitastaṁ bhavati | yasyāmuśantaḥ praharāma śepam | triḥsma māhnaḥ śnathayo vaitasena | ityapi nigamau bhavataḥ | ayainetyupadeśasya | ayā te agne samidhā vidhema | iti striyāḥ | enā vo agnim | iti napuṁsakasya | enā patyā tanvaṁ1 saṁsṛjasva | iti puṁsaḥ | siṣaktu sacata iti sevamānasya | sa naḥ siṣaktu yasturaḥ | sa naḥ sevatāṁ yasturaḥ | sacasvā naḥ svastaye | sevasva naḥ svastaye | svastītyavināśanāma | astirabhipūjitaḥ | su astīti | bhyasate rejata iti bhayavepanayoḥ | yasya śuṣmādrodasī abhyasetām | rejate agne pṛthivī makhebhyaḥ | ityapi nigamau bhavataḥ | dyāvāpṛthivīnāmadheyānyuttarāṇi caturviṁśatiḥ | tayoreṣā bhavati
यहाँ और द्विअर्थी युग्म गिनाए गए हैं — 'रम्भ' और 'पिनाक' (दण्ड के लिए, थामने और पीसने के अर्थ से); 'मेना' और 'ग्ना' (स्त्रियों के लिए); 'शेप' और 'वैतस' (पुरुष-प्रजनन-अंग के लिए); 'अया' और 'एना' (उपदेश-सर्वनाम, स्त्री-नपुंसक-पुल्लिंग में); 'सिषक्तु' और 'सचते' (सेवा करने के लिए); 'भ्यसते' और 'रेजते' (भय और कम्पन के लिए)। अन्त में द्यावापृथिवी (आकाश-पृथ्वी) के चौबीस नामों की सूची आरम्भ होती है।
श्लोक 3.22
कतरा पूर्वा कतरापरायोः कथाजाते कवयः को विवेद । विश्वं त्मना विभृतो यद्ध नाम वि वर्तेते अहनी चक्रियेव ॥ कतरा पूर्वा कतरापरैनयोः । कथं जाते । कवयः क एने विजानाति । सर्वमात्मना बिभृतो यद्धैनयोः कर्म । विवर्तेते चैनयोः । अहनी अहोरात्रे । चक्रियेव चक्रयुक्ते इवेति । द्यावापृथिव्योर्महिमानमाचष्ट आचष्टे
katarā pūrvā katarāparāyoḥ kathājāte kavayaḥ ko viveda | viśvaṁ tmanā vibhṛto yaddha nāma vi vartete ahanī cakriyeva || katarā pūrvā katarāparainayoḥ | kathaṁ jāte | kavayaḥ ka ene vijānāti | sarvamātmanā bibhṛto yaddhainayoḥ karma | vivartete cainayoḥ | ahanī ahorātre | cakriyeva cakrayukte iveti | dyāvāpṛthivyormahimānamācaṣṭa ācaṣṭe
यह प्रसिद्ध पहेली-ऋचा है: 'इन दोनों में कौन पहले, कौन बाद में उत्पन्न हुआ? कैसे उत्पन्न हुए? कवि भी कौन इसे जानता है? ये दोनों समस्त सृष्टि को अपने में धारण करते हैं, और दिन-रात्रि (अहनी) चक्र के समान घूमते रहते हैं।' इस प्रकार द्यौः और पृथिवी की महिमा का वर्णन होता है।
श्लोक 4.1
एकार्थमनेकशब्दमित्येतदुक्तम् । अथ यान्यनेकार्थान्येकशब्दानि तान्यतोऽनुक्रमिष्यामः । अनवगतसंस्कारांश्च निगमान् । तदैकपदिकमित्याचक्षते । जहा जघानेत्यर्थः
ekārthamanekaśabdamityetaduktam | atha yānyanekārthānyekaśabdāni tānyato'nukramiṣyāmaḥ | anavagatasaṁskārāṁśca nigamān | tadaikapadikamityācakṣate | jahā jaghānetyarthaḥ
पूर्व में 'एक अर्थ, अनेक शब्द' का विवेचन हो चुका है; अब यास्क इसके विपरीत — 'एक शब्द, अनेक अर्थ' — वाले शब्दों का, तथा जिनका संस्कार (व्युत्पत्ति) स्पष्ट नहीं वैसे वैदिक उद्धरणों का क्रमशः वर्णन करेंगे। ऐसे शब्दों को 'एकपदिक' (मूल, स्वतःसिद्ध) कहा जाता है। उदाहरणस्वरूप 'जहा' का अर्थ है 'उसने मारा' (जघान)।
श्लोक 4.2
को नु मर्या अमिथितः सखा सखायमब्रवीत् । जहा को अस्मदीषते ॥ मर्या इति मनुष्यनाम । मर्यादाभिधानं वा स्यात् । मर्यादा मर्यादिनोविभागः । मेथतिराक्रोशकर्मा । अपापकं जघान कमहं जातु । कोऽस्मद्भीतः पलायते । निधा पाश्या भवति । यन्निधीयते । पाश्या पाशसमूहः । पाशः पाशयतेः । विपाशनात्
ko nu maryā amithitaḥ sakhā sakhāyamabravīt | jahā ko asmadīṣate || maryā iti manuṣyanāma | maryādābhidhānaṁ vā syāt | maryādā maryādinovibhāgaḥ | methatirākrośakarmā | apāpakaṁ jaghāna kamahaṁ jātu | ko'smadbhītaḥ palāyate | nidhā pāśyā bhavati | yannidhīyate | pāśyā pāśasamūhaḥ | pāśaḥ pāśayateḥ | vipāśanāt
इस ऋचा में कहा गया है: 'कौन-सा उदासीन मित्र मित्र से बोला, जहा (मारा) कौन हमसे डरकर भागता है?' 'मर्या' मनुष्य का नाम है, या मर्यादा (सीमा) का सूचक। 'निधा' और 'पाश्या' — दोनों बन्धन (जाल) के अर्थ में समझाए गए हैं।
श्लोक 4.3
वयः सुपर्णा उप सेदुरिन्द्रं प्रियमेधा ऋषयो नाधमानाः । अप ध्वान्तमूर्णहि पूर्धि चक्षुर्मुमुग्ध्य १ स्मान्निधयेव बद्धान् ॥ वयो वेर्बहुवचनम् । सुपतना आदित्यरश्मय उपसेदुरिन्द्रं याचमानाः । अपोर्णुह्याध्वस्तं चक्षुः । चक्षुः ख्यातेर्वा । चष्टेर्वा । पूर्धि पूरय देहीति वा । मुञ्चास्मान् पाशैरिव बद्धान् ॥ पार्श्वतः श्रोणितः शितामतः । पार्श्वं पर्शुमयमङ्गं भवति । पर्शुः स्पृशतेः । संस्पृष्टा पृष्ठदेशम् । पृष्ठं स्पृशतेः । संस्पृष्टमङ्गैः । अङ्गमङ्गनात् । अञ्चनाद्वा । श्रोणिः श्रोणतेर्गतिचलाकर्मणः । श्रोणिश्चलतीव गच्छतः । दोः शिताम भवति । दोर्द्रवतेः । योनिः शितामेति शाकपूणिः । विषितो भवति । श्यामतो यकृत्त इति तैटीकिः । श्यामं श्यायतेः । यकृद् यथा कथा च कृत्यते । शितिमांसतो मेदस्त इति गालवः । शितिःश्यतेः । मांसं माननं वा । मानसं वा । मनोऽस्मिन्त्सीदतीति वा । मेदो मेद्यतेः
vayaḥ suparṇā upa sedurindraṁ priyamedhā ṛṣayo nādhamānāḥ | apa dhvāntamūrṇahi pūrdhi cakṣurmumugdhya 1 smānnidhayeva baddhān || vayo verbahuvacanam | supatanā ādityaraśmaya upasedurindraṁ yācamānāḥ | aporṇuhyādhvastaṁ cakṣuḥ | cakṣuḥ khyātervā | caṣṭervā | pūrdhi pūraya dehīti vā | muñcāsmān pāśairiva baddhān || pārśvataḥ śroṇitaḥ śitāmataḥ | pārśvaṁ parśumayamaṅgaṁ bhavati | parśuḥ spṛśateḥ | saṁspṛṣṭā pṛṣṭhadeśam | pṛṣṭhaṁ spṛśateḥ | saṁspṛṣṭamaṅgaiḥ | aṅgamaṅganāt | añcanādvā | śroṇiḥ śroṇatergaticalākarmaṇaḥ | śroṇiścalatīva gacchataḥ | doḥ śitāma bhavati | dordravateḥ | yoniḥ śitāmeti śākapūṇiḥ | viṣito bhavati | śyāmato yakṛtta iti taiṭīkiḥ | śyāmaṁ śyāyateḥ | yakṛd yathā kathā ca kṛtyate | śitimāṁsato medasta iti gālavaḥ | śitiḥśyateḥ | māṁsaṁ mānanaṁ vā | mānasaṁ vā | mano'smintsīdatīti vā | medo medyateḥ
इस ऋचा में सुपर्ण (आदित्य-किरणें) इन्द्र से याचना करते हैं: 'अन्धकार को हटाओ, नेत्र को भरो, हमें बन्धन से मुक्त करो।' इसके बाद शरीर-अंगों की विस्तृत व्युत्पत्ति सूची है — पार्श्व, पृष्ठ, अंग, श्रोणि, दोः (बाहु), योनि, यकृत् (शाकपूणि, तैटीकि और गालव के मतों सहित), मांस, मेद — सभी 'स्पर्श करना', 'जुड़ना' जैसी धातुओं से।
श्लोक 4.4
यदिन्द्र चित्र मेहनास्ति त्वादातमद्रिवः । राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ यदिन्द्र चायनीयं मंहनीयं धनमस्ति । यन्म इह नास्तीति वा । त्रीणि मध्यमानि पदानि । त्वया नस्तद् दातव्यम् । अद्रिवन् । अद्रिरादृणात्येनेन । अपि वात्तेः स्यात् । ते सोमादो । इति ह विज्ञायते । राध इति धननाम । राध्नुवन्त्यनेन । तन्नस्त्वं वित्तधनोभाभ्यां हस्ताभ्यामाहर । उभौ समुब्धौ भवतः । दमूना दममना वा । दानमना वा । दान्तमना वा । अपि वा दम इति गृहनाम । तन्मनाः स्यात् । मनो मनोतेः
yadindra citra mehanāsti tvādātamadrivaḥ | rādhastanno vidadvasa ubhayāhastyā bhara || yadindra cāyanīyaṁ maṁhanīyaṁ dhanamasti | yanma iha nāstīti vā | trīṇi madhyamāni padāni | tvayā nastad dātavyam | adrivan | adrirādṛṇātyenena | api vātteḥ syāt | te somādo | iti ha vijñāyate | rādha iti dhananāma | rādhnuvantyanena | tannastvaṁ vittadhanobhābhyāṁ hastābhyāmāhara | ubhau samubdhau bhavataḥ | damūnā damamanā vā | dānamanā vā | dāntamanā vā | api vā dama iti gṛhanāma | tanmanāḥ syāt | mano manoteḥ
इस ऋचा में स्तोता कहते हैं: 'हे इन्द्र, हे पर्वत-धारक, जो भी विचित्र सम्पत्ति तुम्हारे पास हो, वह हमें दोनों हाथों से भेंट करो।' 'राधः' धन का नाम है (राध्नुवन्ति — जिससे सफलता मिलती है)। 'दमूना' गृहवाची शब्द से (दम = घर) व्युत्पन्न बताया गया है — 'घर में मन लगाने वाला'।
श्लोक 4.5
जुष्टो दमूना अतिथिर्दुरोण इमं नो य॒ज्ञमुप॑ याहि विद्वान् । विश्वा अग्ने अभियुजो विहत्या शत्रूयतामा भरा भोजनानि ॥ अतिथिरभ्यतितो गृहान्भवति । अभ्येति तिथिषु परकुलानीति वा । गृहाणीति वा । दुरण इति गृहनाम । दुरवा भवन्ति दुस्तर्पाः । इमं नो यज्ञमुपयाहि विद्वान् । सर्वा अग्ने अभियुजो विहत्य शत्रूयतामाभर भोजनानि । विहत्यान्येषां बलानि शत्रूणां भवनादाहर भोजनानीति वा । धनानीति वा । मूषो मूषिका इत्यर्थः । मूषिकाः पुनर्मुष्णातेः । मूषोप्येतस्मादेव
juṣṭo damūnā atithirduroṇa imaṁ no yajñamupa yāhi vidvān | viśvā agne abhiyujo vihatyā śatrūyatāmā bharā bhojanāni || atithirabhyatito gṛhānbhavati | abhyeti tithiṣu parakulānīti vā | gṛhāṇīti vā | duraṇa iti gṛhanāma | duravā bhavanti dustarpāḥ | imaṁ no yajñamupayāhi vidvān | sarvā agne abhiyujo vihatya śatrūyatāmābhara bhojanāni | vihatyānyeṣāṁ balāni śatrūṇāṁ bhavanādāhara bhojanānīti vā | dhanānīti vā | mūṣo mūṣikā ityarthaḥ | mūṣikāḥ punarmuṣṇāteḥ | mūṣopyetasmādeva
इस ऋचा में अग्नि से घर के प्रिय अतिथि के रूप में आमन्त्रण दिया जाता है: 'हे अग्नि, हमारे यज्ञ में विद्वान् अतिथि के रूप में आओ, शत्रुओं के सभी आक्रमणों को नष्ट कर भोजन ले आओ।' 'अतिथि' 'जो तिथियों में घर आता है' से, 'दुरोण' गृह-नाम है ('जहाँ प्रवेश कठिन हो')।
श्लोक 4.6
सं मा तपन्त्यभितः सपत्नीरिव पर्शवः । मूषो न शिश्ना व्यदन्ति माध्यः स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥ सन्तपन्ति मामभितः सपत्न्य इवेमाः पर्शवः कूपपर्शवः । मूषिका इवास्नातानि सूत्राणि व्यदन्ति । स्वाङ्गाभिधानं वा स्यात् । शिश्नानि व्यदन्तीति वा । सन्तपन्ति माध्यः कामाः । स्तोतारं ते शतक्रतो । जानीतं मेऽस्य द्यावापृथिव्याविति । त्रितं कूपेऽवहितमेतत्सूक्तं प्रतिबभौ । तत्र ब्रह्मेतिहासमिश्रमृङ्मिश्रं गाथामिश्रं भवति । त्रितस्तीर्णतमो मेधया बभूव । अपि वा संख्यानामैवाभिप्रेतं स्यात् । एकतो द्वितस्त्रित इति त्रयो बभूवुः
saṁ mā tapantyabhitaḥ sapatnīriva parśavaḥ | mūṣo na śiśnā vyadanti mādhyaḥ stotāraṁ te śatakrato vittaṁ me asya rodasī || santapanti māmabhitaḥ sapatnya ivemāḥ parśavaḥ kūpaparśavaḥ | mūṣikā ivāsnātāni sūtrāṇi vyadanti | svāṅgābhidhānaṁ vā syāt | śiśnāni vyadantīti vā | santapanti mādhyaḥ kāmāḥ | stotāraṁ te śatakrato | jānītaṁ me'sya dyāvāpṛthivyāviti | tritaṁ kūpe'vahitametatsūktaṁ pratibabhau | tatra brahmetihāsamiśramṛṅmiśraṁ gāthāmiśraṁ bhavati | tritastīrṇatamo medhayā babhūva | api vā saṁkhyānāmaivābhipretaṁ syāt | ekato dvitastrita iti trayo babhūvuḥ
इस ऋचा में वेदना के भाव हैं: 'सौतिनों के समान ये पर्शु (पसलियाँ) मुझे चारों ओर से जला रही हैं, चूहे के समान माध्य-कामनाएँ मुझे कुतर रही हैं; हे शतक्रतु, अपने स्तोता को जानो।' यह सूक्त त्रित ऋषि से जुड़ा है, जो कुएँ में गिरा दिया गया था — यहाँ ब्रह्म, इतिहास, ऋक् और गाथा का मिश्रण है। 'त्रित' को बुद्धि में सबसे तीव्र, अथवा 'एकत, द्वित, त्रित' तीन भाइयों में से एक बताया गया है।
श्लोक 4.7
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्य॑स्येव रायः । सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥ ईषणेन वैषणेन वार्षणेन वा । ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव धनस्य । प्रवर्धय च न आयूंषि सोमराजन् । अहानीव सूर्यो वासराणि । वासराणि वेसराणि विवासनानि गमनानीति वा । कुरुतनेत्यनर्थका उपजना भवन्ति । कर्तनहन्तनयातनेति । जठरमुदरं भवति । जग्धमस्मिन्ध्रियते धीयते वा
iṣireṇa te manasā sutasya bhakṣīmahi pitryasyeva rāyaḥ | soma rājanpra ṇa āyūṁṣi tārīrahānīva sūryo vāsarāṇi || īṣaṇena vaiṣaṇena vārṣaṇena vā | te manasā sutasya bhakṣīmahi pitryasyeva dhanasya | pravardhaya ca na āyūṁṣi somarājan | ahānīva sūryo vāsarāṇi | vāsarāṇi vesarāṇi vivāsanāni gamanānīti vā | kurutanetyanarthakā upajanā bhavanti | kartanahantanayātaneti | jaṭharamudaraṁ bhavati | jagdhamasmindhriyate dhīyate vā
इस ऋचा में सोम से कहा जाता है: 'हे सोम राजन्, उत्साही मन से हम तुम्हारे पिता के धन के समान रस का सेवन करें; जैसे सूर्य दिनों को, वैसे हमारी आयु को बढ़ाओ।' 'वासराणि' (दिनों) को 'गमन करने वाले' के अर्थ में समझाया गया है। इसके बाद कुछ पदपूरक ('कुरुतन' जैसे निरर्थक प्रत्यय) और 'जठर/उदर' की व्युत्पत्ति दी गई है।
श्लोक 4.8
मरुत्वाँ इन्द्र वृषभो रणाय पिबा सोममनुष्वधं मदाय ।। आ सिञ्च स्वजठरे मध्व ऊर्मिं त्वं राजासि प्रदिवः सुतानाम् ॥ मरुत्वानिन्द्र तद्वान् । वृषभो वर्षितापाम् । रणाय रमणीयाय संग्रामाय । पिब सोमम् । अनुष्वधमन्वन्नम् । मदाय मदनीयाय जैत्राय । आसिञ्च स्वजठरे मधुन ऊर्मिम् । मधु सोममित्यौपमिकं माद्यतेः । इदमपीतरन्मध्वेतस्मादेव । त्वं राजासि पूर्वेष्वप्यहःसु सुतानाम्
marutvām̐ indra vṛṣabho raṇāya pibā somamanuṣvadhaṁ madāya || ā siñca svajaṭhare madhva ūrmiṁ tvaṁ rājāsi pradivaḥ sutānām || marutvānindra tadvān | vṛṣabho varṣitāpām | raṇāya ramaṇīyāya saṁgrāmāya | piba somam | anuṣvadhamanvannam | madāya madanīyāya jaitrāya | āsiñca svajaṭhare madhuna ūrmim | madhu somamityaupamikaṁ mādyateḥ | idamapītaranmadhvetasmādeva | tvaṁ rājāsi pūrveṣvapyahaḥsu sutānām
इस ऋचा में इन्द्र से आमंत्रण है: 'हे मरुद्गणों सहित इन्द्र, बलशाली वृषभ, युद्ध के लिए सोम पीओ अन्न सहित मद के लिए; अपने ही उदर में मधु (सोम) की तरंग उँडेलो, तुम पूर्वकाल से ही सोम के राजा हो।' 'वृषभ' जल-वर्षक के अर्थ में, 'मधु' मद्यते (मादक होना) धातु से समझाया गया है।
श्लोक 4.9
तितउ परिपवनं भवति । ततवद्वा । तन्नवद्वा । तिलमात्रतुन्नमिति वा
titau paripavanaṁ bhavati | tatavadvā | tannavadvā | tilamātratunnamiti vā
'तितउ' छलनी (परिपवन) के अर्थ में है — या तो विस्तार (ततवत्) से, अथवा तिल-मात्र (छोटे-छोटे) छिद्रों से पंक्चर किए जाने के अर्थ से।
श्लोक 4.10
सक्तुमिव तितउना पुनन्तो यत्र धीरा मनसा वाचमक्रत । अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥ सक्तुमिव परिपवनेन पुनन्तः । सक्तुः सचतेः । दुर्धावो भवति । कसतेर्वा स्याद्विपरीतस्य । विकसितो भवति । यत्र धीरा मनसा वाचमकृषत प्रज्ञानम् । धीराः प्रज्ञानवन्तो ध्यानवन्तः । तत्र सखायः सख्यानि संजानते । भद्रैषां लक्ष्मीर्निहिताधिवाचि । भद्रं भगेन व्याख्यातम् । भजनीयं भूतानामभिद्रवणीयम् । भवद्रमयतीति वा । भाजनवद्वा । लक्ष्मीर्लाभाद्वा । लक्षणाद्वा । लाञ्छनाद्वा । लषतेर्वा स्यात्प्रेप्साकर्मणः । लग्यतेर्वा स्यादाश्लेषकर्मणः । लज्जतेर्वा स्यादश्लाघाकर्मणः । शिप्रे इत्युपरिष्टाद्व्याख्यास्यामः
saktumiva titaunā punanto yatra dhīrā manasā vācamakrata | atrā sakhāyaḥ sakhyāni jānate bhadraiṣāṁ lakṣmīrnihitādhi vāci || saktumiva paripavanena punantaḥ | saktuḥ sacateḥ | durdhāvo bhavati | kasatervā syādviparītasya | vikasito bhavati | yatra dhīrā manasā vācamakṛṣata prajñānam | dhīrāḥ prajñānavanto dhyānavantaḥ | tatra sakhāyaḥ sakhyāni saṁjānate | bhadraiṣāṁ lakṣmīrnihitādhivāci | bhadraṁ bhagena vyākhyātam | bhajanīyaṁ bhūtānāmabhidravaṇīyam | bhavadramayatīti vā | bhājanavadvā | lakṣmīrlābhādvā | lakṣaṇādvā | lāñchanādvā | laṣatervā syātprepsākarmaṇaḥ | lagyatervā syādāśleṣakarmaṇaḥ | lajjatervā syādaślāghākarmaṇaḥ | śipre ityupariṣṭādvyākhyāsyāmaḥ
यह प्रसिद्ध वाक्-सूक्त की ऋचा है: 'जैसे छलनी से सत्तू छानते हैं, वैसे ही जहाँ धीर पुरुष मन से वाणी (प्रज्ञान) को छानते हैं, वहाँ मित्र आपस में मित्रता पहचानते हैं; उनका कल्याणकारी सौभाग्य वाणी में ही स्थित है।' 'लक्ष्मी' के अनेक सम्भावित मूल दिए गए हैं — लाभ, लक्षण, लांछन, या इच्छा/आश्लेष/लज्जा की धातुओं से।
श्लोक 4.11
तत्सूर्यस्य देवत्वं तन्महित्वं मध्या कर्तोर्विततं सं जभार । यदेदयुक्त हरितः स॒धस्थादाद्रात्री वासस्तनुते सिमस्मै ॥ तत्सूर्यस्य देवत्वं तन्महित्वं मध्ये यत्कर्मणां क्रियमाणानां विततं संह्रियते । यदासावयुङ्क्त हरणानादित्यरश्मीन् । हरितोऽश्वानिति वा । अथ रात्री वासस्तनुते सिमस्मै । वेसरमहरवयुवती सर्वस्मात् । अपि वोपमार्थे स्यात् । रात्रीव वासस्तनुत इति । तथापि निगमो भवति । पुनः सम॑व्य॒द्विततं वय॑न्ती । समनात्सीत्
tatsūryasya devatvaṁ tanmahitvaṁ madhyā kartorvitataṁ saṁ jabhāra | yadedayukta haritaḥ sadhasthādādrātrī vāsastanute simasmai || tatsūryasya devatvaṁ tanmahitvaṁ madhye yatkarmaṇāṁ kriyamāṇānāṁ vitataṁ saṁhriyate | yadāsāvayuṅkta haraṇānādityaraśmīn | harito'śvāniti vā | atha rātrī vāsastanute simasmai | vesaramaharavayuvatī sarvasmāt | api vopamārthe syāt | rātrīva vāsastanuta iti | tathāpi nigamo bhavati | punaḥ samavyadvitataṁ vayantī | samanātsīt
इस ऋचा में कहा गया है: 'सूर्य का वह देवत्व, वह महत्त्व, कर्मों के बीच में ही फैलकर समेटा जाता है; जब वह अपनी हरित किरणों को स्थान से जोड़ता है, तब रात्रि उसके लिए वस्त्र फैलाती है।' यहाँ रात्रि और दिन के परस्पर वस्त्र-बुनने के रूपक का वर्णन है।
श्लोक 4.12
इन्द्रेण सं हि दृक्षसे सञ्जग्मानो अबिभ्युषा मन्दू समानवर्चसा ॥ इन्द्रेण हि संदृश्यसे संगच्छमानोऽबिभ्युषा गणेन । मन्दू मदिष्णू । युवां स्थः । अपि वा मन्दुना तेनेति स्यात् । समानवर्चसेत्येतेन व्याख्यातम्
indreṇa saṁ hi dṛkṣase sañjagmāno abibhyuṣā mandū samānavarcasā || indreṇa hi saṁdṛśyase saṁgacchamāno'bibhyuṣā gaṇena | mandū madiṣṇū | yuvāṁ sthaḥ | api vā mandunā teneti syāt | samānavarcasetyetena vyākhyātam
इस ऋचा में कहा गया है: 'तुम इन्द्र के साथ निडर होकर मिलते हुए दिखाई देते हो, तुम दोनों समान तेज वाले मन्दु (हर्षित) हो।' 'मन्दू' को 'हर्षित होने वाले दो' के अर्थ में समझाया गया है।
श्लोक 4.13
ईर्मान्तासः सिलिकमध्यमासः संशूर॑णासो दिव्यासो अत्याः । हंसा इव श्रेणिशो यतन्ते यदाक्षिषुर्दिव्यमज्ममश्वाः ॥ ईर्मान्ताः समीरितान्ताः । पृथ्वन्ता वा । सिलिकमध्यमाः संसृतमध्यमाः शीर्षमध्यमा वा । अपि वा शिर आदित्यो भवति । यदनुशेते सर्वाणि भूतानि । मध्ये चैषां तिष्ठति । इदमपीतरच्छिर एतस्मादेव । समाश्रितान्येतदिन्द्रियाणि भवन्ति । संशूरणासः शूरः शवतेर्गतिकर्मणः । दिव्या दिविजाः । अत्या अतनाः । हंसा इव श्रेणिशो यतन्ते । हंसा हन्तेर्घ्नन्त्यध्वानम् । श्रेणिः श्रयते । समाश्रिता भवन्ति । यदाक्षिषुर्यदापन् । दिव्यमज्ममजनिमाजिमश्वाः ।। अस्त्यादित्यस्तुतिरश्वस्य । आदित्यादश्वो निस्तष्ट इति । सूरादश्वं वसवो निरतष्ट । इत्यपि निगमो भवति
īrmāntāsaḥ silikamadhyamāsaḥ saṁśūraṇāso divyāso atyāḥ | haṁsā iva śreṇiśo yatante yadākṣiṣurdivyamajmamaśvāḥ || īrmāntāḥ samīritāntāḥ | pṛthvantā vā | silikamadhyamāḥ saṁsṛtamadhyamāḥ śīrṣamadhyamā vā | api vā śira ādityo bhavati | yadanuśete sarvāṇi bhūtāni | madhye caiṣāṁ tiṣṭhati | idamapītaracchira etasmādeva | samāśritānyetadindriyāṇi bhavanti | saṁśūraṇāsaḥ śūraḥ śavatergatikarmaṇaḥ | divyā divijāḥ | atyā atanāḥ | haṁsā iva śreṇiśo yatante | haṁsā hanterghnantyadhvānam | śreṇiḥ śrayate | samāśritā bhavanti | yadākṣiṣuryadāpan | divyamajmamajanimājimaśvāḥ || astyādityastutiraśvasya | ādityādaśvo nistaṣṭa iti | sūrādaśvaṁ vasavo nirataṣṭa | ityapi nigamo bhavati
इस ऋचा में सूर्य के अश्वों (किरणों) का वर्णन है: 'ईर्म-अन्त, शिर-मध्य, वेगवान्, दिव्य अश्व हंसों के समान पंक्ति में चलते हैं, जब वे दिव्य मार्ग पर पहुँचते हैं।' यास्क बताते हैं कि आदित्य ही शिर कहा जाता है (क्योंकि उसमें सभी प्राणी व्याप्त हैं और इन्द्रियाँ उसी पर आश्रित हैं), और यह भी उद्धृत करते हैं कि 'अश्व आदित्य से निर्मित हुआ'।
श्लोक 4.14
कायमानो वना त्वं यन्मातॄरजगन्नपः ।। न तत्ते अग्ने प्रमृषे निवर्तनं यद्दूरे सन्निहाभवः ॥ कायमानश्चायमानः कामयमान इति वा । वनानि । त्वं यन्मातॄरपोऽगम उपशाम्यन् । न तत्ते अग्ने प्रमृष्यते निवर्तनम् । दूरे यत् सन्निह भवसि जायमानः । लोधं नयन्ति पशु मन्यमानाः । लुब्धमृषिं नयन्ति पशुं मन्यमानाः । शीरं पावकशोचिषम् । पावकदीप्तिम् । अनुशायिनमिति वा । आशिनमिति वा
kāyamāno vanā tvaṁ yanmātṝrajagannapaḥ || na tatte agne pramṛṣe nivartanaṁ yaddūre sannihābhavaḥ || kāyamānaścāyamānaḥ kāmayamāna iti vā | vanāni | tvaṁ yanmātṝrapo'gama upaśāmyan | na tatte agne pramṛṣyate nivartanam | dūre yat sanniha bhavasi jāyamānaḥ | lodhaṁ nayanti paśu manyamānāḥ | lubdhamṛṣiṁ nayanti paśuṁ manyamānāḥ | śīraṁ pāvakaśociṣam | pāvakadīptim | anuśāyinamiti vā | āśinamiti vā
इस ऋचा में अग्नि से कहा जाता है: 'तुम वनों की ओर बढ़ते हुए, जब जल तक शान्त होने पहुँचे, हे अग्नि, तब भी तुम्हारा वापस लौटना विस्मृत नहीं होता, चाहे तुम दूर होकर भी निकट रहते हो।' इसके बाद 'लोभी को पशु मानकर ले जाना' और 'शीर' (पावक-ज्वाला) की व्याख्या दी गई है।
श्लोक 4.15
कनीनकेव विद्रधे नवे द्रुपदे अर्भके । बभ्रू यामेषु शोभेते ॥ कनीनके कन्यके । कन्या कमनीया भवति । क्वेयं नेतव्येति वा कनतेर्वा स्यात्कान्तिकर्मणः । कन्ययोरधिष्ठानप्रवचनानि । सप्तम्या एकवचनानीति शाकपूणिः । व्यृद्धयोर्दारुपाद्वोः । दारु दृणातेर्वा । द्रूणातेर्वा । तस्मादेव द्रु । नवे नवजाते । अर्भके अवृद्धे । ते यथा तदधिष्ठानेषु शोभेते एवं बभ्रू यामेषु शोभेते । बभ्र्वोरश्वयोः संस्तवः इदं च मेऽदादिदं च मेऽदादित्यृषिः प्रसंख्यायाह । सुवास्त्वा अधि तुग्वनि । सुवास्तुर्नदी । तुग्व तीर्थं भवति । तूर्णमेतदायन्ति । कुविन्नंसन्ते म॒रुतः पुनर्नः । पुनर्नो नमन्ते मरुतः । नसन्त इत्युपरिष्टाद्व्याख्यास्यामः । ये ते मदा आहनसो विहायसस्तेभिरिन्द्रं चोदय दातवे मघम् ये ते मदा आहननवन्तोवंचनवन्तस्तैरिन्द्रं चोदय दानाय मघम्
kanīnakeva vidradhe nave drupade arbhake | babhrū yāmeṣu śobhete || kanīnake kanyake | kanyā kamanīyā bhavati | kveyaṁ netavyeti vā kanatervā syātkāntikarmaṇaḥ | kanyayoradhiṣṭhānapravacanāni | saptamyā ekavacanānīti śākapūṇiḥ | vyṛddhayordārupādvoḥ | dāru dṛṇātervā | drūṇātervā | tasmādeva dru | nave navajāte | arbhake avṛddhe | te yathā tadadhiṣṭhāneṣu śobhete evaṁ babhrū yāmeṣu śobhete | babhrvoraśvayoḥ saṁstavaḥ idaṁ ca me'dādidaṁ ca me'dādityṛṣiḥ prasaṁkhyāyāha | suvāstvā adhi tugvani | suvāsturnadī | tugva tīrthaṁ bhavati | tūrṇametadāyanti | kuvinnaṁsante marutaḥ punarnaḥ | punarno namante marutaḥ | nasanta ityupariṣṭādvyākhyāsyāmaḥ | ye te madā āhanaso vihāyasastebhirindraṁ codaya dātave magham ye te madā āhananavantovaṁcanavantastairindraṁ codaya dānāya magham
इस ऋचा में दो युवा (अश्व अथवा कन्याएँ) की उपमा दी गई है: 'जैसे नवजात, कोमल कन्याएँ अपने स्थान में शोभित होती हैं, वैसे ही भूरे (बभ्रु) अश्व मार्गों में शोभित होते हैं।' इसके बाद सुवास्तु नदी और मरुतों की स्तुति के दो अन्य उद्धरण जोड़े गए हैं।
श्लोक 4.16
उपो अदर्शि शुन्ध्युवो न वक्षो नोधा इवाविरकृत प्रियाणि । अद्मसन्न सस॒तो बोधयन्ती शश्वत्तमागात्पुनरयुषीणाम् ॥ उपादर्शि शुन्ध्युवः । शुन्ध्युरादित्यो भवति । शोधनात् । तस्यैव वक्षो भासाध्यूह्ळम् । इदमपीतरद्वक्ष एतस्मादेव । अध्यूढं काये । शकुनिरपि शुन्ध्युरुच्यते । शोधनादेव । उदकचरो भवति । आपोऽपि शुन्ध्युव उच्यन्ते । शोधनादेव । नोधा ऋषिर्भवति । नवनं दधाति । स यथा स्तुत्या कामानाविष्कुरुत एवमुषा रूपाण्याविष्कुरुते । अद्मसत् । अद्यान्नं भवति । अद्मसादिनीति वा । अद्यसानिनीति वा । ससतो बोधयन्ती । शश्वत्तमागात्पुनरेयुषीणाम् । शाश्वतिकतमागात्पुनरेयुषीणाम् । ते वाशीमन्त इष्मिणः । ईषणिन इति वैषणिन इति वार्षणिन इति वा । वाशीति वाङ्नाम । वाश्यत इति सत्याः । शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम् । अभिवहनस्तुतिमभिषवणप्रवादां स्तुतिं मन्यन्ते । ऐन्द्री त्वेव शस्यते । परितक्म्येत्युपरिष्टाद् व्याख्यास्यामः
upo adarśi śundhyuvo na vakṣo nodhā ivāvirakṛta priyāṇi | admasanna sasato bodhayantī śaśvattamāgātpunarayuṣīṇām || upādarśi śundhyuvaḥ | śundhyurādityo bhavati | śodhanāt | tasyaiva vakṣo bhāsādhyūhḷam | idamapītaradvakṣa etasmādeva | adhyūḍhaṁ kāye | śakunirapi śundhyurucyate | śodhanādeva | udakacaro bhavati | āpo'pi śundhyuva ucyante | śodhanādeva | nodhā ṛṣirbhavati | navanaṁ dadhāti | sa yathā stutyā kāmānāviṣkuruta evamuṣā rūpāṇyāviṣkurute | admasat | adyānnaṁ bhavati | admasādinīti vā | adyasāninīti vā | sasato bodhayantī | śaśvattamāgātpunareyuṣīṇām | śāśvatikatamāgātpunareyuṣīṇām | te vāśīmanta iṣmiṇaḥ | īṣaṇina iti vaiṣaṇina iti vārṣaṇina iti vā | vāśīti vāṅnāma | vāśyata iti satyāḥ | śaṁsāvādhvaryo prati me gṛṇīhīndrāya vāhaḥ kṛṇavāva juṣṭam | abhivahanastutimabhiṣavaṇapravādāṁ stutiṁ manyante | aindrī tveva śasyate | paritakmyetyupariṣṭād vyākhyāsyāmaḥ
इस ऋचा में उषा का वर्णन 'शुन्ध्यु' (शोधक) के रूप में है: 'शुन्ध्यु के वक्ष के समान वह प्रकट हुई, नोधा ऋषि के समान अपने प्रिय रूपों को प्रकट करती हुई, सोए हुओं को जगाती हुई, बार-बार लौटने वालों में सबसे शाश्वत होकर आई है।' 'शुन्ध्यु' आदित्य, पक्षी और जल तीनों के लिए प्रयुक्त होता है (सभी शोधन-कर्म से)। नोधा ऋषि को स्तुति द्वारा कामनाएँ प्रकट करने वाला बताया गया है।
श्लोक 4.17
सुविते सु इते सूते सुगते । प्रजायामिति वा । सुविते मा धाः । इत्यपि निगमो भवति । दयतिरनेककर्मा । नवेन पूर्वं दयमानाः स्याम । इत्युपदयाकर्मा । य एक इद्विदयते वसु । इति दानकर्मा वा विभागकर्मा वा । दुर्वर्तुर्भीमो दयते वनानि । इति दहतिकर्मा । दुर्वर्तुर्दुर्वारः । विदद्वसुर्दयमानो वि शत्रून् । इति हिंसाकर्मा ॥ इमे सुता इन्दवः प्रातरित्वना सजोषसा पिबतमश्विना तान् । अहं हि वामूतये वन्दनाय मां वाय॒सो दोषा दय॑मानो अबूबुधत् ॥ दयमान इति । नू चिदिति निपातः । पुराणनवयोः । नू चेति च । अद्या चिन्नू चित्तदपो नदीनाम् । अद्य च पुरा च तदेव कर्म नदीनाम् । नू च पुरा च सदनं रयीणाम् । अद्य च पुरा च सदनं रयीणाम् । रयिरिति धननाम । रातेर्दानकर्मणः
suvite su ite sūte sugate | prajāyāmiti vā | suvite mā dhāḥ | ityapi nigamo bhavati | dayatiranekakarmā | navena pūrvaṁ dayamānāḥ syāma | ityupadayākarmā | ya eka idvidayate vasu | iti dānakarmā vā vibhāgakarmā vā | durvarturbhīmo dayate vanāni | iti dahatikarmā | durvarturdurvāraḥ | vidadvasurdayamāno vi śatrūn | iti hiṁsākarmā || ime sutā indavaḥ prātaritvanā sajoṣasā pibatamaśvinā tān | ahaṁ hi vāmūtaye vandanāya māṁ vāyaso doṣā dayamāno abūbudhat || dayamāna iti | nū ciditi nipātaḥ | purāṇanavayoḥ | nū ceti ca | adyā cinnū cittadapo nadīnām | adya ca purā ca tadeva karma nadīnām | nū ca purā ca sadanaṁ rayīṇām | adya ca purā ca sadanaṁ rayīṇām | rayiriti dhananāma | rāterdānakarmaṇaḥ
'सुविते' का अर्थ है 'सु-इते' (अच्छी गति में), 'सूते' या 'सुगते', अथवा सन्तान-प्राप्ति के अर्थ में। इसके बाद 'दयति' धातु के अनेक प्रयोग दिखाए गए हैं — दान-कर्म, विभाग-कर्म, दहन-कर्म (जलाना) और हिंसा-कर्म — प्रत्येक अलग-अलग ऋचा-उदाहरण सहित। 'नू चित्' निपात पुराने और नए दोनों के लिए प्रयुक्त होता है, जैसा उद्धरणों से दिखाया गया है।
श्लोक 4.18
विद्याम तस्य॑ ते वयमकूपारस्य दावने । विद्याम तस्य ते वयमकूपरणस्य दानस्य । आदित्योऽप्यकूपार उच्यते । अकूपारो भवति दूरपारः । समुद्रोऽप्यकूपार उच्यते । अकूपारो भवति महापारः । कच्छपोऽप्यकूपार उच्यते । अकूपारो न कूपमृच्छतीति । कच्छपः कच्छं पाति । कच्छेन पातीति वा । कच्छेन पिबतीति वा । कच्छः खच्छः खच्छदः । अयमपीतरो नदीकच्छ एतस्मादेव । कमुदकम् । तेन छाद्यते । शिशीते शृङ्गे रक्षसे विनिक्षे । निश्यति शृङ्गे रक्षसो विनिक्षणाय । रक्षो रक्षितव्यमस्मात् । रहसि क्षणोतीति वा । रात्रौ नक्षत इति वा । अग्निः सुतुकः सुतुकेभिरश्वैः ।। सुतुकनः सुतुकनैरिति वा । सुप्रजाः सुप्रजोभिरिति वा । सुप्रायणा अस्मिन्य॒ज्ञे वि श्रृयन्ताम् । सुप्रगमनाः
vidyāma tasya te vayamakūpārasya dāvane | vidyāma tasya te vayamakūparaṇasya dānasya | ādityo'pyakūpāra ucyate | akūpāro bhavati dūrapāraḥ | samudro'pyakūpāra ucyate | akūpāro bhavati mahāpāraḥ | kacchapo'pyakūpāra ucyate | akūpāro na kūpamṛcchatīti | kacchapaḥ kacchaṁ pāti | kacchena pātīti vā | kacchena pibatīti vā | kacchaḥ khacchaḥ khacchadaḥ | ayamapītaro nadīkaccha etasmādeva | kamudakam | tena chādyate | śiśīte śṛṅge rakṣase vinikṣe | niśyati śṛṅge rakṣaso vinikṣaṇāya | rakṣo rakṣitavyamasmāt | rahasi kṣaṇotīti vā | rātrau nakṣata iti vā | agniḥ sutukaḥ sutukebhiraśvaiḥ || sutukanaḥ sutukanairiti vā | suprajāḥ suprajobhiriti vā | suprāyaṇā asminyajñe vi śrṛyantām | supragamanāḥ
यह प्रसिद्ध 'अकूपार' शब्द की व्याख्या है, जिसका अर्थ 'असीम' है — यह आदित्य (दूर-पार वाला), समुद्र (महा-पार वाला), और कच्छप (जो कभी कुएँ में नहीं फँसता) — तीनों के लिए प्रयुक्त होता है। कच्छप को 'जो कच्छ (जलाशय-तट) की रक्षा करता है' से समझाया गया है। इसके बाद 'रक्षस्' और 'सुतुक' (तीव्रगामी) की व्याख्या है।
श्लोक 4.19
देवा नो यथा सदमिद्वृधे असन्नायुवो रक्षितारो दिवेदिवे । देवा नो यथा सदा वर्धनाय स्युः । अप्रायुवोऽप्रमाद्यन्तः । रक्षितारश्च । अहन्यहनि । च्यवन ऋषिर्भवति । च्यावयिता स्तोमानाम् । च्यवानमित्यप्यस्य निगमा भवन्ति । युवं च्यवानं सनयं यथा रथं पुनर्युवानं चरथाय तक्षथुः । युवं च्यवनम् । सनयं पुराणम् । यथा रथं पुनर्युवानं चरणाय ततक्षथुः । युवा प्रयौति कर्माणि । तक्षतिः करोतिकर्मा । रजो रजतेः । ज्योती रज उच्यते । उदकं रज उच्यते । लोका रजांस्युच्यन्ते । असृगहनी रजसी उच्येते । रजांसि चित्रा वि चरन्ति तन्यवः । इत्यपि निगमो भवति । हरो हरतेः । ज्योतिर्हर उच्यते । उदकं हर उच्यते । लोका हरांस्युच्यन्ते । असृगहनी हरसी उच्यते । प्रत्य॑ग्ने हरसा हरः शृणीहि । इत्यपि निगमो भवति । जुहुरे वि चितयन्तः । जुह्विरे विचेतयमानाः । व्यन्त इत्येषोऽनेककर्मा । पदं देवस्य॒ नम॑सा व्यन्तः । इति पश्यतिकर्मा । वीहि शूर पुरोळाशम् । इति खादतिकर्मा । वीतं पातं पयस उस्रियायाः । अश्नीतं पिबतं पयस उस्रियायाः । उस्रियेति गोनाम । उस्राविणोऽस्यां भोगाः । उस्रेति च । त्वामिन्द्र मतिभिः सुते सुनीथासो वसूयवः । गोभिः क्राणा अनूषत ॥ गोभिः कुर्वाणा अस्तोषत । आ तू षिञ्च हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः । आसिञ्च हरिं द्रोरुपस्थे द्रुममयस्य । हरिः सोमो हरितवर्णः । अयमपीतरो हरिरेतस्मादेव । वाशीभिस्तक्षताश्मन्मयीभिः । वाशीभिरश्ममयीभिरिति वा । वाग्भिरिति वा । स शर्द्धदर्यो विषु॑णस्य जन्तोर्मा शिश्नदेवा अपि गुर्ऋतं नः । स उत्सहतां यो विषुणस्य जन्तोर्विषमस्य । मा शिश्नदेवा अब्रह्मचर्याः । शिश्नं श्नथते । अपि गुर्ऋतं नः । सत्यं वा यज्ञं वा
devā no yathā sadamidvṛdhe asannāyuvo rakṣitāro divedive | devā no yathā sadā vardhanāya syuḥ | aprāyuvo'pramādyantaḥ | rakṣitāraśca | ahanyahani | cyavana ṛṣirbhavati | cyāvayitā stomānām | cyavānamityapyasya nigamā bhavanti | yuvaṁ cyavānaṁ sanayaṁ yathā rathaṁ punaryuvānaṁ carathāya takṣathuḥ | yuvaṁ cyavanam | sanayaṁ purāṇam | yathā rathaṁ punaryuvānaṁ caraṇāya tatakṣathuḥ | yuvā prayauti karmāṇi | takṣatiḥ karotikarmā | rajo rajateḥ | jyotī raja ucyate | udakaṁ raja ucyate | lokā rajāṁsyucyante | asṛgahanī rajasī ucyete | rajāṁsi citrā vi caranti tanyavaḥ | ityapi nigamo bhavati | haro harateḥ | jyotirhara ucyate | udakaṁ hara ucyate | lokā harāṁsyucyante | asṛgahanī harasī ucyate | pratyagne harasā haraḥ śṛṇīhi | ityapi nigamo bhavati | juhure vi citayantaḥ | juhvire vicetayamānāḥ | vyanta ityeṣo'nekakarmā | padaṁ devasya namasā vyantaḥ | iti paśyatikarmā | vīhi śūra puroḷāśam | iti khādatikarmā | vītaṁ pātaṁ payasa usriyāyāḥ | aśnītaṁ pibataṁ payasa usriyāyāḥ | usriyeti gonāma | usrāviṇo'syāṁ bhogāḥ | usreti ca | tvāmindra matibhiḥ sute sunīthāso vasūyavaḥ | gobhiḥ krāṇā anūṣata || gobhiḥ kurvāṇā astoṣata | ā tū ṣiñca harimīṁ drorupasthe vāśībhistakṣatāśmanmayībhiḥ | āsiñca hariṁ drorupasthe drumamayasya | hariḥ somo haritavarṇaḥ | ayamapītaro hariretasmādeva | vāśībhistakṣatāśmanmayībhiḥ | vāśībhiraśmamayībhiriti vā | vāgbhiriti vā | sa śarddhadaryo viṣuṇasya jantormā śiśnadevā api gurṛtaṁ naḥ | sa utsahatāṁ yo viṣuṇasya jantorviṣamasya | mā śiśnadevā abrahmacaryāḥ | śiśnaṁ śnathate | api gurṛtaṁ naḥ | satyaṁ vā yajñaṁ vā
यह लम्बा उद्धरण है: 'देवता सदा हमारी वृद्धि के लिए, असावधान न होकर, प्रतिदिन रक्षक बनें रहें।' यहाँ च्यवन ऋषि (स्तोमों के प्रेरक) और उनके पुनः-यौवन-प्राप्ति के आख्यान का उल्लेख है। 'रजस्' और 'हरः' दोनों ज्योति, जल और लोकों के नाम हैं। इसके पश्चात् उस्रिया (गाय), सोम-अभिषवण, और हरि (सोम का रंग) से सम्बन्धित कई ऋचाएँ हैं, तथा अन्त में अब्रह्मचारियों के विरुद्ध एक प्रार्थना उद्धृत है।
श्लोक 4.20
आ घा ता गच्छानुत्तरा युगानि यत्र जामयः कृणवन्नजामि । उप बर्बृहि वृषभाय बाहुमन्यमिच्छस्व सुभगे पतिं मत् ॥ आगमिष्यन्ति तान्युत्तराणि युगानि । यत्र जामयः करिष्यन्त्यजामिकर्माणि । जाम्यतिरेकनाम । बालिशस्य वा । समानजातीयस्य वोपजनः । उपधेहि वृषभाय बाहुम् । अन्यमिच्छस्व सुभगे पतिं मदिति व्याख्यातम्
ā ghā tā gacchānuttarā yugāni yatra jāmayaḥ kṛṇavannajāmi | upa barbṛhi vṛṣabhāya bāhumanyamicchasva subhage patiṁ mat || āgamiṣyanti tānyuttarāṇi yugāni | yatra jāmayaḥ kariṣyantyajāmikarmāṇi | jāmyatirekanāma | bāliśasya vā | samānajātīyasya vopajanaḥ | upadhehi vṛṣabhāya bāhum | anyamicchasva subhage patiṁ maditi vyākhyātam
इस ऋचा में कहा जाता है: 'वे उत्तरकालीन युग भी आएँगे, जिनमें बहनें अगम्य कार्य करेंगी; हे सुभगे, वृषभ के लिए बाँह बिछाओ, मुझसे भिन्न कोई और पति चाहो।' 'जामि' (बहन/सजातीय) से 'अजामि' (अनुचित सम्बन्ध) का बोध होता है — यह अनाचार-निषेध का उद्धरण है।
श्लोक 4.21
द्यौर्मे पिता जनिता नाभिरत्र बन्धुर्मे माता पृथिवी महीयम् । उत्तानयोश्चम्वो ३ र्योनिरन्तरत्रा पिता दुहितुर्गर्भमाधात् ॥ द्यौर्मे पिता पाता वा पालयिता वा जनयिता । नाभिरत्र बन्धुर्मे माता पृथिवी महतीयम् । बन्धुः संबन्धनात् । नाभिः संनहनात् । नाभ्या सन्नद्धा गर्भा जायन्ते ।। इत्याहुः । एतस्मादेव ज्ञातीन् सनाभय इत्याचक्षते । सबन्धव इति च । ज्ञातिः संज्ञानात् । उत्तानयोश्चम्वो ३ र्योनिरन्तः । उत्तान उत्ततानः । ऊर्ध्वतानो वा । तत्र पिता दुहितुर्गर्भं दधाति पर्जन्यः पृथिव्याः । शंयुः सुखंयुः । अथा नः शं योररपो दधात । रपो रिप्रमिति पापनामनी भवतः । शमनं च रोगाणां यावनं च भयानाम् । अथापि शंयुर्बार्हस्पत्य उच्यते । तच्छंयोरावृणीमहे गातुं यज्ञाय॑ गातुं यज्ञप॑तये । इत्यपि निगमो भवति । गमनं यज्ञाय गमनं यज्ञपतये
dyaurme pitā janitā nābhiratra bandhurme mātā pṛthivī mahīyam | uttānayoścamvo 3 ryonirantaratrā pitā duhiturgarbhamādhāt || dyaurme pitā pātā vā pālayitā vā janayitā | nābhiratra bandhurme mātā pṛthivī mahatīyam | bandhuḥ saṁbandhanāt | nābhiḥ saṁnahanāt | nābhyā sannaddhā garbhā jāyante || ityāhuḥ | etasmādeva jñātīn sanābhaya ityācakṣate | sabandhava iti ca | jñātiḥ saṁjñānāt | uttānayoścamvo 3 ryonirantaḥ | uttāna uttatānaḥ | ūrdhvatāno vā | tatra pitā duhiturgarbhaṁ dadhāti parjanyaḥ pṛthivyāḥ | śaṁyuḥ sukhaṁyuḥ | athā naḥ śaṁ yorarapo dadhāta | rapo ripramiti pāpanāmanī bhavataḥ | śamanaṁ ca rogāṇāṁ yāvanaṁ ca bhayānām | athāpi śaṁyurbārhaspatya ucyate | tacchaṁyorāvṛṇīmahe gātuṁ yajñāya gātuṁ yajñapataye | ityapi nigamo bhavati | gamanaṁ yajñāya gamanaṁ yajñapataye
इस प्रसिद्ध ऋचा में कहा गया है: 'द्यौः मेरे पिता, जन्मदाता हैं; यहाँ नाभि मेरा बन्धु है; मेरी माता यह महती पृथिवी है; दोनों उत्तान पात्रों (द्यौः-पृथिवी) के बीच योनि है, जहाँ पिता ने पुत्री के गर्भ को स्थापित किया।' 'नाभि' बन्धन से और 'बन्धु' सम्बन्ध से व्युत्पन्न है — इसी से 'सनाभि' (सहोदर) शब्द भी बनता है। अन्त में 'शंयु' (कल्याणकारी) और यज्ञ-गमन से सम्बन्धित उद्धरण जोड़े गए हैं।
श्लोक 4.22
अदितिरदीना देवमाता
aditiradīnā devamātā
'अदिति अखण्डित है, देवताओं की माता।'
श्लोक 4.23
अदितिर्द्यौरदितिरंतरिक्षमदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥ इत्यदितेर्विभूतिमाचष्टे । एनान्यदीनानीति वा । यमेरिरे भृगवः । एरिर इतीर्तिरुपसृष्टोऽभ्यस्तः
aditirdyauraditiraṁtarikṣamaditirmātā sa pitā sa putraḥ | viśve devā aditiḥ pañca janā aditirjātamaditirjanitvam || ityaditervibhūtimācaṣṭe | enānyadīnānīti vā | yamerire bhṛgavaḥ | erira itīrtirupasṛṣṭo'bhyastaḥ
इस प्रसिद्ध ऋचा में अदिति की सर्वव्यापकता वर्णित है: 'अदिति द्यौः है, अदिति अन्तरिक्ष है, अदिति माता, पिता और पुत्र है; अदिति सब देवता हैं, पाँचों जन हैं; अदिति ही जन्मा हुआ है, अदिति ही जन्म है।' इस प्रकार अदिति की सर्वव्यापी विभूति का वर्णन किया गया है।
श्लोक 4.24
उत स्मैनं वस्त्रमथिं न तायुमनु क्रोशन्ति क्षितयो भरेषु । नीचायमान जसुरिं न श्येनं श्रव॒श्चाच्छा पशुमच्च यूथम् ॥ अपि स्मैनं वस्त्रमथिमिव वस्त्रमाथिनम् । वस्त्रं वस्तेः । तायुरिति स्तेननाम । संस्त्यानमस्मिन् पापकमिति नैरुक्ताः । तस्यतेर्वा स्यात् । अनुक्रोशन्ति क्षितयः संग्रामेषु । भर इति संग्रामनाम । भरतेर्वा । हरतेर्वा । नीचायमानं नीचैरयमानम् । नीचैर्निचितं भवति । उच्चैरुच्चितं भवति । जस्तमिव श्येनम् । श्येनः शंसनीयं गच्छति । श्रवश्चाच्छा पशुमच्च । यूथम् श्रवश्चापि पशुमच्च यूथम् । प्रशंसां च यूथं च । धनं च यूथं चेति वा । यूथं यौतेः । समायुतं भवति । इन्धान एनं जरते स्वाधीः । गृणाति । मन्दी मन्दतेः स्तुतिकर्मणः । प्र मन्दिने पितुमदर्चता वचः । प्रार्चत मन्दिने पितुमद्वचः । गौरिति व्याख्यातः
uta smainaṁ vastramathiṁ na tāyumanu krośanti kṣitayo bhareṣu | nīcāyamāna jasuriṁ na śyenaṁ śravaścācchā paśumacca yūtham || api smainaṁ vastramathimiva vastramāthinam | vastraṁ vasteḥ | tāyuriti stenanāma | saṁstyānamasmin pāpakamiti nairuktāḥ | tasyatervā syāt | anukrośanti kṣitayaḥ saṁgrāmeṣu | bhara iti saṁgrāmanāma | bharatervā | haratervā | nīcāyamānaṁ nīcairayamānam | nīcairnicitaṁ bhavati | uccairuccitaṁ bhavati | jastamiva śyenam | śyenaḥ śaṁsanīyaṁ gacchati | śravaścācchā paśumacca | yūtham śravaścāpi paśumacca yūtham | praśaṁsāṁ ca yūthaṁ ca | dhanaṁ ca yūthaṁ ceti vā | yūthaṁ yauteḥ | samāyutaṁ bhavati | indhāna enaṁ jarate svādhīḥ | gṛṇāti | mandī mandateḥ stutikarmaṇaḥ | pra mandine pitumadarcatā vacaḥ | prārcata mandine pitumadvacaḥ | gauriti vyākhyātaḥ
इस ऋचा में चोर और बाज़ की उपमा दी गई है: 'जैसे वस्त्र चुराने वाले चोर को युद्धों में लोग पुकारते हैं, वैसे ही नीचे उड़ते हुए, क्षीण, बाज के समान उसे, यश और पशु-युक्त समूह की ओर (पुकारते हैं)।' 'तायु' चोर का नाम है, 'भर' युद्ध का नाम है (भरण/हरण से)। 'श्येन' (बाज) 'प्रशंसनीय स्थान की ओर जाने वाला' कहा गया है।
श्लोक 4.25
अत्राह गोर॑मन्वत नाम त्वष्टुरपीच्यम् । इत्था चन्द्रमसो गृहे ॥ अत्र ह गोः सममंसतादित्यरश्मयः स्वं नाम । अपीच्यमपचितम् । अपगतम् । अपिहितम् । अन्तर्हितं वा । अमुत्र चन्द्रमसो गृहे । गातुर्व्याख्यातः । गातुं कृणवन्नुषसो जनाय । इत्यपि निगमो भवति । दंसयः कर्माणि । दंसयन्ति एनानि । कुत्साय मन्म॑न्नह्यश्च दंसयः । इत्यपि निगमो भवति । स तूताव नैनमश्नोत्यंहतिः । स तुताव नैनमंहतिरश्नोति । अंहतिश्चांहश्चांहुश्च हन्तेः । निरूढोपधात् । विपरीतात् । बृहस्पते॒ चय॑से इत्पियारुम् । बृहस्पते यच्चातयसि देवपीयुम् । पीयतिर्हिँसाकर्मा । वियुते द्यावापृथिव्यौ । वियवनात् समान्या वियुते दूरेअन्ते । समानं सम्मानमात्रं भवति । मात्रा मानात् । दूरं व्याख्यातम् । अन्तोऽततः । ऋधगिति पृथग्भावस्य प्रवचनं भवति । अथाप्यृध्नोत्यर्थे दृश्यते । ऋधगया ऋधगुताशमिष्ठाः । ऋध्नुवन्नयाक्षीः । ऋध्नुवन्नशमिष्ठा इति च । अस्या इति चास्येति चोदात्तं प्रथमादेशे । अनुदात्तमन्वादेशे । तीव्रार्थतरमुदात्तम् । अल्पीयोऽर्थतरमनुदात्तम् । अस्या ऊ षु ण उप सातये भुवोऽहेळमानो ररिवाँ अजाश्व । श्रवस्यतामजाश्व । अस्यै नः सातय उपभव । अहेळमानोऽक्रुध्यन् । ररिवान् । रातिरभ्यस्तः । अजाश्वेति पूषणमाह । अजाश्व अजा अजनाः । अथानुदात्तम् । दीर्घायुरस्या यः पतिर्जीवाति शरदः शतम् । दीर्घायुरस्या यः पतिर्जीवतु स शरदः शतम् । शरच्छृता अस्यामोषधयो भवन्ति । शीर्णा आप इति वा । अस्येत्यस्या इत्येतेन व्याख्यातम्
atrāha goramanvata nāma tvaṣṭurapīcyam | itthā candramaso gṛhe || atra ha goḥ samamaṁsatādityaraśmayaḥ svaṁ nāma | apīcyamapacitam | apagatam | apihitam | antarhitaṁ vā | amutra candramaso gṛhe | gāturvyākhyātaḥ | gātuṁ kṛṇavannuṣaso janāya | ityapi nigamo bhavati | daṁsayaḥ karmāṇi | daṁsayanti enāni | kutsāya manmannahyaśca daṁsayaḥ | ityapi nigamo bhavati | sa tūtāva nainamaśnotyaṁhatiḥ | sa tutāva nainamaṁhatiraśnoti | aṁhatiścāṁhaścāṁhuśca hanteḥ | nirūḍhopadhāt | viparītāt | bṛhaspate cayase itpiyārum | bṛhaspate yaccātayasi devapīyum | pīyatirhim̐sākarmā | viyute dyāvāpṛthivyau | viyavanāt samānyā viyute dūreante | samānaṁ sammānamātraṁ bhavati | mātrā mānāt | dūraṁ vyākhyātam | anto'tataḥ | ṛdhagiti pṛthagbhāvasya pravacanaṁ bhavati | athāpyṛdhnotyarthe dṛśyate | ṛdhagayā ṛdhagutāśamiṣṭhāḥ | ṛdhnuvannayākṣīḥ | ṛdhnuvannaśamiṣṭhā iti ca | asyā iti cāsyeti codāttaṁ prathamādeśe | anudāttamanvādeśe | tīvrārthataramudāttam | alpīyo'rthataramanudāttam | asyā ū ṣu ṇa upa sātaye bhuvo'heḷamāno rarivām̐ ajāśva | śravasyatāmajāśva | asyai naḥ sātaya upabhava | aheḷamāno'krudhyan | rarivān | rātirabhyastaḥ | ajāśveti pūṣaṇamāha | ajāśva ajā ajanāḥ | athānudāttam | dīrghāyurasyā yaḥ patirjīvāti śaradaḥ śatam | dīrghāyurasyā yaḥ patirjīvatu sa śaradaḥ śatam | śaracchṛtā asyāmoṣadhayo bhavanti | śīrṇā āpa iti vā | asyetyasyā ityetena vyākhyātam
इस ऋचा में कहा गया है: 'यहाँ किरणों ने गाय (सूर्य) के गुप्त नाम को समझा, वह चन्द्रमा के घर में ऐसे ही (छिपा) है।' 'अपीच्य' छिपे हुए के अर्थ में है। इसके बाद 'दंसयः' (कर्म), बृहस्पति की क्षमा-प्रार्थना, तथा उदात्त/अनुदात्त स्वर के व्याकरणिक भेद पर विस्तृत चर्चा है, जिसमें 'अस्याः/अस्य' के दो उदाहरण (दीर्घायु पति की कामना) दिए गए हैं।
श्लोक 4.26
अस्य वामस्य पलितस्य होतुस्तस्य भ्राता मध्यमो अस्त्यश्नः । तृतीयो भ्राता घृतपृष्ठो अस्यात्रापश्यं विश्पतिं सप्तपुत्रम् ॥ अस्य वामस्य वननीयस्य । पलितस्य पालयितुः । होतुर्ह्वातव्यस्य । तस्य भ्राता मध्यमोऽस्त्यशनः । भ्राता भरतेर्हरतिकर्मणः । हरते भागं भर्तव्यो भवतीति वा । तृतीयो भ्राता घृतपृष्ठोऽस्यायमग्निः । तत्रापश्यं सर्वस्य पातारं वा पालयितारं वा । विश्पतिं सप्तपुत्रं सप्तमपुत्रं सर्पणपुत्रमिति वा । सप्त सृप्ता संख्या । सप्तादित्यरश्मय इति वदन्ति
asya vāmasya palitasya hotustasya bhrātā madhyamo astyaśnaḥ | tṛtīyo bhrātā ghṛtapṛṣṭho asyātrāpaśyaṁ viśpatiṁ saptaputram || asya vāmasya vananīyasya | palitasya pālayituḥ | hoturhvātavyasya | tasya bhrātā madhyamo'styaśanaḥ | bhrātā bharaterharatikarmaṇaḥ | harate bhāgaṁ bhartavyo bhavatīti vā | tṛtīyo bhrātā ghṛtapṛṣṭho'syāyamagniḥ | tatrāpaśyaṁ sarvasya pātāraṁ vā pālayitāraṁ vā | viśpatiṁ saptaputraṁ saptamaputraṁ sarpaṇaputramiti vā | sapta sṛptā saṁkhyā | saptādityaraśmaya iti vadanti
इस ऋचा में अग्नि के तीन भाइयों का वर्णन है: 'इस प्रिय, पालक, आहूत के भाई मध्यम अश्न (चन्द्र?) हैं; तीसरा भाई घृत-पृष्ठ यह अग्नि है — यहाँ मैंने सप्त-पुत्र विश्पति को देखा।' 'भ्राता' 'भाग बाँटने वाला' के अर्थ में, और 'सप्तपुत्र' को सात आदित्य-किरणों के पुत्र के रूप में समझाया गया है।
श्लोक 4.27
स॒प्त युञ्जन्ति रथमेकचक्रमेको अश्वो वहति सप्तनामा । त्रिनाभि चक्रमजर॑मन॒र्वं यत्रेमा विश्वा भुवनाधि तस्थुः ॥ सप्त युञ्जन्ति रथम् । एकचक्रमेकचारिणम् । चक्रं चकतेर्वा । चरतेर्वा । क्रामतेर्वा । एकोऽश्वो वहति सप्तनामादित्यः । सप्तास्मै रश्मयो रसानभिसन्नामयन्ति । सप्तैनमृषयः स्तुवन्तीति वा । इदमपीतरन्नामैतस्मादेव । अभिसन्नामात् । संवत्सरप्रधान उत्तरोऽर्धर्चः । त्रिनाभि चक्रम् । त्र्यृतुः संवत्सरः । ग्रीष्मो वर्षा हेमन्त इति । संवत्सरः संवसन्तेऽस्मिन्भूतानि । ग्रीष्मो ग्रस्यन्तेऽस्मिन्रसाः । वर्षा वर्षत्यासु पर्जन्यः । हेमन्तो हिमवान् । हिमं पुनर्हन्तेर्वा । हिनोतेर्वा । अजरमजरणधर्माणम् । अनर्वमप्रत्यृतमन्यस्मिन् । यत्रेमानि सर्वाणि भूतान्यभिसन्तिष्ठन्ते । तं संवत्सरं सर्वमात्राभिः स्तौति । पञ्चारे चक्रे परिवर्तमाने । इति पञ्चर्तुतया । पञ्चर्तवः संवत्सरस्य । इति च ब्राह्मणम् । हेमन्तशिशिरयोः समासेन । षळर आहुरर्पितम् । इति षळृतुतया । अराः प्रत्यृता नाभौ । षट्पुनः सहतेः । द्वादशारं नहि तज्जराय । द्वादश प्रधयश्चक्रमेकम् । इति मासानाम् । मासा मानात् । प्रधिः प्रहितो भवति । तस्मिन्त्साकं त्रिशता न शृङ्कवोऽर्पिताः षष्टिर्न चलाचलासः । षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्याहोरात्राः । इति च ब्राह्मणं समासेन । सप्त शतानि विंशतिश्च तस्थुः । सप्त च वै शतानि विंशतिश्च संवत्सरस्याहोरात्राः । इति च ब्राह्मणं विभागेन विभागेन
sapta yuñjanti rathamekacakrameko aśvo vahati saptanāmā | trinābhi cakramajaramanarvaṁ yatremā viśvā bhuvanādhi tasthuḥ || sapta yuñjanti ratham | ekacakramekacāriṇam | cakraṁ cakatervā | caratervā | krāmatervā | eko'śvo vahati saptanāmādityaḥ | saptāsmai raśmayo rasānabhisannāmayanti | saptainamṛṣayaḥ stuvantīti vā | idamapītarannāmaitasmādeva | abhisannāmāt | saṁvatsarapradhāna uttaro'rdharcaḥ | trinābhi cakram | tryṛtuḥ saṁvatsaraḥ | grīṣmo varṣā hemanta iti | saṁvatsaraḥ saṁvasante'sminbhūtāni | grīṣmo grasyante'sminrasāḥ | varṣā varṣatyāsu parjanyaḥ | hemanto himavān | himaṁ punarhantervā | hinotervā | ajaramajaraṇadharmāṇam | anarvamapratyṛtamanyasmin | yatremāni sarvāṇi bhūtānyabhisantiṣṭhante | taṁ saṁvatsaraṁ sarvamātrābhiḥ stauti | pañcāre cakre parivartamāne | iti pañcartutayā | pañcartavaḥ saṁvatsarasya | iti ca brāhmaṇam | hemantaśiśirayoḥ samāsena | ṣaḷara āhurarpitam | iti ṣaḷṛtutayā | arāḥ pratyṛtā nābhau | ṣaṭpunaḥ sahateḥ | dvādaśāraṁ nahi tajjarāya | dvādaśa pradhayaścakramekam | iti māsānām | māsā mānāt | pradhiḥ prahito bhavati | tasmintsākaṁ triśatā na śṛṅkavo'rpitāḥ ṣaṣṭirna calācalāsaḥ | ṣaṣṭiśca ha vai trīṇi ca śatāni saṁvatsarasyāhorātrāḥ | iti ca brāhmaṇaṁ samāsena | sapta śatāni viṁśatiśca tasthuḥ | sapta ca vai śatāni viṁśatiśca saṁvatsarasyāhorātrāḥ | iti ca brāhmaṇaṁ vibhāgena vibhāgena
यह प्रसिद्ध 'सप्त युञ्जन्ति रथम्' ऋचा है — काल-चक्र का रूपक: 'सात (किरणें/ऋषि) एक-चक्र रथ को जोड़ते हैं, एक अश्व (सूर्य) सप्त-नामा उसे खींचता है; त्रिनाभि, अजर, अक्षत चक्र है, जिस पर ये समस्त लोक टिके हैं।' यास्क इसे संवत्सर (वर्ष) के रूपक में समझाते हैं — तीन नाभियाँ तीन ऋतुएँ (ग्रीष्म, वर्षा, हेमन्त) हैं; अन्य ब्राह्मण-उद्धरणों से पाँच, छह और बारह अरों (महीनों) की, तथा तीन सौ साठ और तीन सौ सत्तर दिन-रात्रियों की गणना दी गई है।
श्लोक 5.1
सस्निमविन्दच्चरणे नदीनाम् । सस्निं संस्नातं मेघम् । वाहिष्ठो वा हवानां स्तोमो दूतो हुवन्नरा । वोढृतमो ह्वानानां स्तोमो दूतो हुवन्नरौ । नरा मनुष्या नृत्यन्ति कर्मसु । दूतो जवतेर्वा । द्रवतेर्वा । वारयतेर्वा । दूतो देवानामसि मर्त्यानाम् । इत्यपि निगमो भवति । वावशानो वष्टेर्वा । वाश्यतेर्वा । सप्त स्वसृररुषीर्वावशानः । इत्यपि निगमो भवति । वार्यं वृणोतेः । अथापि वरतमम् । तद्वार्यं वृणीमहे वरिष्ठं गोपयत्य॑म् । तद्वार्यं वृणीमहे । वर्षिष्ठं गोपायितव्यम् । गोपायितारो यूयं स्थ । युष्मभ्यमिति वा । अन्ध इत्यन्ननाम । आध्यानीयं भवति । आमत्रेभिः सिञ्चता मद्यमन्धः ।। आसिञ्चतामत्रैर्मदनीयमन्धः । अमत्रं पात्रम् । अमा अस्मिन्मदन्ति । अमा पुनरनिर्मितं भवति । पात्रं पानात् । तमोऽप्यन्ध उच्यते । नास्मिन्ध्यानं भवति । न दर्शनम् । अन्धन्तम इत्यभिभाषन्ते । अयमपीतरोऽन्ध एतस्मादेव । पश्यदक्षण्वान्न वि चेतन्धः । इत्यपि निगमो भवति
sasnimavindaccaraṇe nadīnām | sasniṁ saṁsnātaṁ megham | vāhiṣṭho vā havānāṁ stomo dūto huvannarā | voḍhṛtamo hvānānāṁ stomo dūto huvannarau | narā manuṣyā nṛtyanti karmasu | dūto javatervā | dravatervā | vārayatervā | dūto devānāmasi martyānām | ityapi nigamo bhavati | vāvaśāno vaṣṭervā | vāśyatervā | sapta svasṛraruṣīrvāvaśānaḥ | ityapi nigamo bhavati | vāryaṁ vṛṇoteḥ | athāpi varatamam | tadvāryaṁ vṛṇīmahe variṣṭhaṁ gopayatyam | tadvāryaṁ vṛṇīmahe | varṣiṣṭhaṁ gopāyitavyam | gopāyitāro yūyaṁ stha | yuṣmabhyamiti vā | andha ityannanāma | ādhyānīyaṁ bhavati | āmatrebhiḥ siñcatā madyamandhaḥ || āsiñcatāmatrairmadanīyamandhaḥ | amatraṁ pātram | amā asminmadanti | amā punaranirmitaṁ bhavati | pātraṁ pānāt | tamo'pyandha ucyate | nāsmindhyānaṁ bhavati | na darśanam | andhantama ityabhibhāṣante | ayamapītaro'ndha etasmādeva | paśyadakṣaṇvānna vi cetandhaḥ | ityapi nigamo bhavati
यहाँ स्तोम (स्तुति) को देवों और मनुष्यों का दूत कहा गया है, जो सात स्वसाओं (नदियों/उषाओं) को पुकारता है। 'वार्य' श्रेष्ठ, वरण-योग्य वस्तु के अर्थ में है। 'अन्ध' शब्द अन्न (मदकारी सोम-रस) और अन्धकार दोनों के लिए प्रयुक्त होता है — दोनों ही अर्थ में 'जिसमें ध्यान/दर्शन न हो' से जुड़ा है।
श्लोक 5.2
असश्चन्ती भूरिधारे पय॑स्वती । असज्यमाने इति वा । अव्युदस्यन्त्याविति वा । बहुधारे उदकवत्यौ । वनुष्यतिर्हन्तिकर्मा । अनवगतसंस्कारो भवति । वनुयाम वनुष्यतः । इत्यपि निगमो भवति । दीर्घप्रयज्युमति यो वनुष्यति वयं जयेम पृतनासु दूढ्यः । दीर्घप्रततयज्ञमभिजिघांसति यो वयं तं जयेम पृतनासु । दूढ्यं दुर्धियं पापधियम् । पापः पाताऽपेयानाम् । पापत्यमानोऽवाङेव पततीति वा । पापत्यतेर्वा स्यात् । तरुष्यतिरप्येवंकर्मा । इन्द्रेण युजा तरुषेम वृत्रम् । इत्यपि निगमो भवति । मन्दना भन्दतेः स्तुतिकर्मणः । पुरुप्रियो भन्दते धाम॑भिः कविः । इत्यपि निगमो भवति । स भन्दना उदियर्ति प्रजावतीः । इति च । अन्येन मदाहनो याहि तूय॑म् । अन्येन मदहनो गच्छ क्षिप्रम् । आहंसीव भाषमाणेत्यसभ्यभाषणादाहना इव भवति । एतस्मादाहनः स्यात् । ऋषिर्नदो भवति । नदतेः स्तुतिकर्मणः । नदस्य॑ मा रुधतः काम आगन् । नदनस्य मा रुधतः काम आगमत् । संरुद्धप्रजननस्य ब्रह्मचारिणः । इत्यृषिपुत्र्या विलपितं वेदयन्ते
asaścantī bhūridhāre payasvatī | asajyamāne iti vā | avyudasyantyāviti vā | bahudhāre udakavatyau | vanuṣyatirhantikarmā | anavagatasaṁskāro bhavati | vanuyāma vanuṣyataḥ | ityapi nigamo bhavati | dīrghaprayajyumati yo vanuṣyati vayaṁ jayema pṛtanāsu dūḍhyaḥ | dīrghapratatayajñamabhijighāṁsati yo vayaṁ taṁ jayema pṛtanāsu | dūḍhyaṁ durdhiyaṁ pāpadhiyam | pāpaḥ pātā'peyānām | pāpatyamāno'vāṅeva patatīti vā | pāpatyatervā syāt | taruṣyatirapyevaṁkarmā | indreṇa yujā taruṣema vṛtram | ityapi nigamo bhavati | mandanā bhandateḥ stutikarmaṇaḥ | purupriyo bhandate dhāmabhiḥ kaviḥ | ityapi nigamo bhavati | sa bhandanā udiyarti prajāvatīḥ | iti ca | anyena madāhano yāhi tūyam | anyena madahano gaccha kṣipram | āhaṁsīva bhāṣamāṇetyasabhyabhāṣaṇādāhanā iva bhavati | etasmādāhanaḥ syāt | ṛṣirnado bhavati | nadateḥ stutikarmaṇaḥ | nadasya mā rudhataḥ kāma āgan | nadanasya mā rudhataḥ kāma āgamat | saṁruddhaprajananasya brahmacāriṇaḥ | ityṛṣiputryā vilapitaṁ vedayante
यहाँ दो सतत बहने वाली, जलयुक्त नदियों का वर्णन है। 'वनुष्यति' और 'तरुष्यति' दोनों शत्रु-नाशक कर्म के अर्थ में हैं (वृत्र-विजय के उद्धरण सहित)। 'मन्दना' स्तुति-कर्म से, और अन्त में एक ऋषि-कन्या के विलाप का आख्यान है — 'नद' ऋषि, जिसका ब्रह्मचर्य कामना को रोके हुए था।
श्लोक 5.3
न यस्य॒ द्यावा॑पृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । अश्नोतेरित्येवमेके । अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः । लोपाशः सिंहं प्रत्यञ्चमत्साः । क्षियतिनिगमः पूर्वः क्षरतिनिगम उत्तर इत्येके । अनूपे गोमान् गोभिर्यदा क्षियत्यथ सोमो दुग्धाभ्यः क्षरति । सर्वे क्षियतिनिगमा इति शाकपूणिः । श्वात्रमिति क्षिप्रनाम । आशु अतनं भवति । स प॑त॒त्रीत्वरं स्था जगद्यच्छ्वात्रमग्निरकृणोज्जातवेदाः । स पतत्रि चेत्वरं स्थावरं जङ्गमं च यत्तत् क्षिप्रमग्निरकरोज्जातवेदाः । ऊतिरवनात् । आ त्वा रथं यथोतये । इत्यपि निगमो भवति । हासमाने इत्युपरिष्टाद् व्याख्यास्यामः । वम्रकः पड्भिरुप सर्पदिन्द्रम् । पानैरिति वा । स्पाशनैरिति वा । ससं न पक्वम॑विदच्छुचन्तम् । स्वप्नमेतन्माध्यमिकं ज्योतिरनित्यदर्शनम् । तदिवाविदज्जाज्वल्यमानम् । द्विता च सत्ता स्वधया च शंभुः । द्वैधं सत्ता मध्यमे च स्थान उत्तमे च । शंभुः सुखभूः । मृगं न व्रा मृगय॑न्ते । मृगमिव व्रात्याः प्रैषाः
na yasya dyāvāpṛthivī na dhanva nāntarikṣaṁ nādrayaḥ somo akṣāḥ | aśnoterityevameke | anūpe gomāngobhirakṣāḥ somo dugdhābhirakṣāḥ | lopāśaḥ siṁhaṁ pratyañcamatsāḥ | kṣiyatinigamaḥ pūrvaḥ kṣaratinigama uttara ityeke | anūpe gomān gobhiryadā kṣiyatyatha somo dugdhābhyaḥ kṣarati | sarve kṣiyatinigamā iti śākapūṇiḥ | śvātramiti kṣipranāma | āśu atanaṁ bhavati | sa patatrītvaraṁ sthā jagadyacchvātramagnirakṛṇojjātavedāḥ | sa patatri cetvaraṁ sthāvaraṁ jaṅgamaṁ ca yattat kṣipramagnirakarojjātavedāḥ | ūtiravanāt | ā tvā rathaṁ yathotaye | ityapi nigamo bhavati | hāsamāne ityupariṣṭād vyākhyāsyāmaḥ | vamrakaḥ paḍbhirupa sarpadindram | pānairiti vā | spāśanairiti vā | sasaṁ na pakvamavidacchucantam | svapnametanmādhyamikaṁ jyotiranityadarśanam | tadivāvidajjājvalyamānam | dvitā ca sattā svadhayā ca śaṁbhuḥ | dvaidhaṁ sattā madhyame ca sthāna uttame ca | śaṁbhuḥ sukhabhūḥ | mṛgaṁ na vrā mṛgayante | mṛgamiva vrātyāḥ praiṣāḥ
इस ऋचा में सोम की अतुलनीयता वर्णित है: 'जिसके समान न द्यावापृथिवी, न मरुभूमि, न अन्तरिक्ष, न पर्वत हैं — वह सोम अक्ष (द्यूत-पासा) कहलाता है।' शाकपूणि के अनुसार यहाँ 'क्षि' (बसना) और 'क्षर्' (बहना) दोनों धातुओं का खेल है। इसके बाद अग्नि की तीव्रता, चींटी-दृष्टान्त, स्वप्न-ज्योति के रूपक, और व्रात्यों की मृग-समान वृत्ति के कई संक्षिप्त उद्धरण जोड़े गए हैं।
श्लोक 5.4
वराहो मेघो भवति । वराहारः । वरमाहारमाहार्षीः । इति च ब्राह्मणम् । विध्यद्वराहं तिरो अद्रिमस्ता । इत्यपि निगमो भवति । अयमपीतरो वराह एतस्मादेव । बृहति मूलानि । वरं वरं मूलं बृहतीति वा । वराहमिन्द्र एमुषम् । इत्यपि निगमो भवति । अङ्गिरसोऽपि वराहा उच्यन्ते । ब्रह्मणस्पतिर्वृषभिर्वराहैः । अथाप्येते माध्यमका देवगणा वराहव उच्यन्ते । पश्यन्हिरण्यचक्रानयोदंष्ट्रान्विधावतो वराहून् । स्वसराण्यहानि भवन्ति । स्वयं सारीण्यपि वा । स्वरादित्यो भवति । स एनानि सारयति । उस्रा इव स्वसराणि । इत्यपि निगमो भवति । शर्या अंगुलयो भवन्ति । सृजन्ति कर्माणि शर्या इषवः शरमय्यः । शरः शृणातेः । शर्याभिर्न भरमाणो गर्भस्त्योः । इत्यपि निगमो भवति । अर्को देवो भवति । यदेनमर्चन्ति । अर्को मन्त्रो भवति । यदनेनार्चन्ति । अर्कमन्नं भवति । अर्चति भूतानि । अर्को वृक्षो भवति । संवृत्तः कटुकिम्ना
varāho megho bhavati | varāhāraḥ | varamāhāramāhārṣīḥ | iti ca brāhmaṇam | vidhyadvarāhaṁ tiro adrimastā | ityapi nigamo bhavati | ayamapītaro varāha etasmādeva | bṛhati mūlāni | varaṁ varaṁ mūlaṁ bṛhatīti vā | varāhamindra emuṣam | ityapi nigamo bhavati | aṅgiraso'pi varāhā ucyante | brahmaṇaspatirvṛṣabhirvarāhaiḥ | athāpyete mādhyamakā devagaṇā varāhava ucyante | paśyanhiraṇyacakrānayodaṁṣṭrānvidhāvato varāhūn | svasarāṇyahāni bhavanti | svayaṁ sārīṇyapi vā | svarādityo bhavati | sa enāni sārayati | usrā iva svasarāṇi | ityapi nigamo bhavati | śaryā aṁgulayo bhavanti | sṛjanti karmāṇi śaryā iṣavaḥ śaramayyaḥ | śaraḥ śṛṇāteḥ | śaryābhirna bharamāṇo garbhastyoḥ | ityapi nigamo bhavati | arko devo bhavati | yadenamarcanti | arko mantro bhavati | yadanenārcanti | arkamannaṁ bhavati | arcati bhūtāni | arko vṛkṣo bhavati | saṁvṛttaḥ kaṭukimnā
'वराह' मेघ का नाम है (वर+आहार, 'श्रेष्ठ भोजन लाने वाला', इन्द्र द्वारा पर्वत को भेदकर वर्षा छोड़ना)। यही शब्द अंगिरसों और मध्यम देवगणों के लिए भी प्रयुक्त होता है (हिरण्य-चक्र, लौह-दाढ़ वाले वराह के रूप में)। 'स्वसर' दिन के लिए (स्वयं-सरण से), 'शर्या' बाणों के लिए, और 'अर्क' देवता, मन्त्र, अन्न और वृक्ष — चारों अर्थों में प्रयुक्त होता है।
श्लोक 5.5
गायन्ति त्वा गायत्रिणोऽर्चन्त्य॒र्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे ॥ गायन्ति त्वा गायत्रिणः । प्रार्चन्ति तेऽर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्येमिरे वंशमिव । वंशो वनशयो भवति । वननाच्छ्रूयत इति वा । पवी रथनेमिर्भवति । यद्विपुनाति भूमिम् । उत पव्या रथानामद्रिं भिन्दन्त्योज॑सा । तं मरुतः क्षुरपविना व्ययुः । इत्यपि निगमौ भवतः । वक्षो व्याख्यातम् । धन्वान्तरिक्षम् । धन्वन्त्यस्मादापः । तिरो धन्वाति रोचते । इत्यपि निगमो भवति । सिनमन्नं भवति । सिनाति भूतानि । येन स्मा सिनं भरथः सखिभ्यः । इत्यपि निगमो भवति । इत्थामुथेत्येतेन व्याख्यातम् । सचा सहेत्यर्थः । वसुभिः सचा भुवा । वसुभिः सह भुवौ । चिदिति निपातोऽनुदात्तः पुरस्तादेव व्याख्यातः । अथापि पशुनामेह भवत्युदात्तः । चिदसि मनासि । चितास्त्वयि भोगाः । चेतयसे इति वा । आ इत्याकार उपसर्गः पुरस्तादेव व्याख्यातः । अथाप्यध्यर्थे दृश्यते । अभ्र आँ अपः । अभ्रा आ अपोऽभ्रेऽध्यय इति । द्युम्नं द्योततेः । यशो वान्नं वा । अस्मे द्युम्नमधि रत्नं च धेहि । अस्मासु द्युम्नं च रत्नं च धेहि
gāyanti tvā gāyatriṇo'rcantyarkamarkiṇaḥ | brahmāṇastvā śatakrata udvaṁśamiva yemire || gāyanti tvā gāyatriṇaḥ | prārcanti te'rkamarkiṇaḥ | brahmāṇastvā śatakrata udyemire vaṁśamiva | vaṁśo vanaśayo bhavati | vananācchrūyata iti vā | pavī rathanemirbhavati | yadvipunāti bhūmim | uta pavyā rathānāmadriṁ bhindantyojasā | taṁ marutaḥ kṣurapavinā vyayuḥ | ityapi nigamau bhavataḥ | vakṣo vyākhyātam | dhanvāntarikṣam | dhanvantyasmādāpaḥ | tiro dhanvāti rocate | ityapi nigamo bhavati | sinamannaṁ bhavati | sināti bhūtāni | yena smā sinaṁ bharathaḥ sakhibhyaḥ | ityapi nigamo bhavati | itthāmuthetyetena vyākhyātam | sacā sahetyarthaḥ | vasubhiḥ sacā bhuvā | vasubhiḥ saha bhuvau | ciditi nipāto'nudāttaḥ purastādeva vyākhyātaḥ | athāpi paśunāmeha bhavatyudāttaḥ | cidasi manāsi | citāstvayi bhogāḥ | cetayase iti vā | ā ityākāra upasargaḥ purastādeva vyākhyātaḥ | athāpyadhyarthe dṛśyate | abhra ām̐ apaḥ | abhrā ā apo'bhre'dhyaya iti | dyumnaṁ dyotateḥ | yaśo vānnaṁ vā | asme dyumnamadhi ratnaṁ ca dhehi | asmāsu dyumnaṁ ca ratnaṁ ca dhehi
इस ऋचा में इन्द्र की स्तुति है: 'गायत्र-गायक तुम्हें गाते हैं, अर्चक तुम्हारे अर्क को अर्चते हैं; ब्रह्मा तुम्हें बाँस के समान ऊपर उठाते हैं, हे शतक्रतु।' 'पवि' रथ-नेमि (पहिये की धार) है, 'धन्व' अन्तरिक्ष है (जिससे जल दौड़ता है), 'सिनम्' अन्न है। इसके बाद निपात 'चित्' और 'आ' के अनेक प्रयोग तथा 'द्युम्न' की व्युत्पत्ति दी गई है।
श्लोक 5.6
पवित्रं पुनातेः । मन्त्रः पवित्रमुच्यते । येन देवाः पवित्रेणात्मानं पुनते सदा । इत्यपि निगमो भवति । रश्मयः पवित्रमुच्यन्ते । गभस्तिपूतः नृभिरद्रिभिः सुतः । इत्यपि निगमो भवति । आपः पवित्रमुच्यन्ते । शतपवित्राः स्व॒धया मदन्तीः । बहूदकाः । अग्निः पवित्रमुच्यते । वायुः पवित्रमुच्यते । सोमः पवित्रमुच्यते । सूर्यः पवित्रमुच्यते । इन्द्रः पवित्रमुच्यते । अग्निः पवित्रं स मा पुनातु वायुः सोमः सूर्य इन्द्रः । पवित्रं ते मा पुनन्तु । इत्यपि निगमो भवति । तोदस्तुद्यतेः
pavitraṁ punāteḥ | mantraḥ pavitramucyate | yena devāḥ pavitreṇātmānaṁ punate sadā | ityapi nigamo bhavati | raśmayaḥ pavitramucyante | gabhastipūtaḥ nṛbhiradribhiḥ sutaḥ | ityapi nigamo bhavati | āpaḥ pavitramucyante | śatapavitrāḥ svadhayā madantīḥ | bahūdakāḥ | agniḥ pavitramucyate | vāyuḥ pavitramucyate | somaḥ pavitramucyate | sūryaḥ pavitramucyate | indraḥ pavitramucyate | agniḥ pavitraṁ sa mā punātu vāyuḥ somaḥ sūrya indraḥ | pavitraṁ te mā punantu | ityapi nigamo bhavati | todastudyateḥ
'पवित्र' पुनाति (शुद्ध करना) धातु से — यह मन्त्र, किरणें, जल, अग्नि, वायु, सोम, सूर्य और इन्द्र — सभी के लिए 'शोधक' के अर्थ में प्रयुक्त होता है, प्रत्येक अपने-अपने वैदिक उद्धरण सहित। अन्त में 'तोद' (चुभाने वाला) की व्युत्पत्ति दी गई है।
श्लोक 5.7
पुरु त्वा दाश्वान्वोचेऽरिरग्ने तव स्विदा । तोदस्येव शरण आ महस्य ॥ बहु दाश्वांस्त्वामेवाभिह्वयामि । अरिरमित्र ऋच्छतेः । ईश्वरोऽप्यरीरेतस्मादेव । यदन्यदेवत्या अग्नावाहुतयो हूयन्त इत्येतद् दृष्ट्वैवमवक्ष्यत् । तोदस्येव शरण आ महस्य । तुदस्येव शरणेऽधिमहतः । स्वञ्चाः स अञ्चनः । आ जुह्वानो घृतपृष्ठः स्वञ्चाः । इत्यपि निगमो भवति । शिपिविष्टो विष्णुरिति विष्णोर्द्वे नामनी भवतः । कुत्सितार्थीयं पूर्वं भवतीत्यौपमन्यवः
puru tvā dāśvānvoce'riragne tava svidā | todasyeva śaraṇa ā mahasya || bahu dāśvāṁstvāmevābhihvayāmi | ariramitra ṛcchateḥ | īśvaro'pyarīretasmādeva | yadanyadevatyā agnāvāhutayo hūyanta ityetad dṛṣṭvaivamavakṣyat | todasyeva śaraṇa ā mahasya | tudasyeva śaraṇe'dhimahataḥ | svañcāḥ sa añcanaḥ | ā juhvāno ghṛtapṛṣṭhaḥ svañcāḥ | ityapi nigamo bhavati | śipiviṣṭo viṣṇuriti viṣṇordve nāmanī bhavataḥ | kutsitārthīyaṁ pūrvaṁ bhavatītyaupamanyavaḥ
इस ऋचा में अग्नि को कहा जाता है: 'हे अग्नि, तुम्हें बार-बार पुकारता हूँ, तुम मित्र (अरि) हो, तुम्हारा वैभव चुभाने वाले के शरण जैसा महान् है।' 'अरि' यहाँ 'मित्र' के अर्थ में (सामान्यतः शत्रु के विपरीत) व्याख्यायित है, क्योंकि अन्य देवताओं की आहुतियाँ भी अग्नि में ही दी जाती हैं। इसके अन्त में विष्णु के 'शिपिविष्ट' नाम की चर्चा है — औपमन्यव के अनुसार यह पहले निन्दा-अर्थक था।
श्लोक 5.8
किमित्ते विष्णो परिचक्ष्यं भूत्प्र यद्ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मदप गूह एतद् यदन्यरूपः समिथे बभूथ ॥ किं ते विष्णोऽप्रख्यातमेतद्भवत्यप्रख्यापनीयं यन्नः प्रब्रूषे शेप इव निर्वेष्टितोऽस्मीत्यप्रतिपन्नरश्मिः । अपि वा प्रशंसानामैवाभिप्रेतं स्यात् । किं ते विष्णो प्रख्यातमेतद्भवति प्रख्यापनीयं यदुत प्रब्रूषे शिपिविष्टोऽस्मीति प्रतिपन्नरश्मिः । शिपयोऽत्र रश्मय उच्यन्ते । तैराविष्टो भवति । मा वर्पो अस्मदप गूह एतत् । वर्प इति रूपनाम । वृणोतीति सतः । यदन्यरूपः समिथे संग्रामे भवसि संयतरश्मिः । तस्योत्तरा भूयसे निर्वचनाय
kimitte viṣṇo paricakṣyaṁ bhūtpra yadvavakṣe śipiviṣṭo asmi | mā varpo asmadapa gūha etad yadanyarūpaḥ samithe babhūtha || kiṁ te viṣṇo'prakhyātametadbhavatyaprakhyāpanīyaṁ yannaḥ prabrūṣe śepa iva nirveṣṭito'smītyapratipannaraśmiḥ | api vā praśaṁsānāmaivābhipretaṁ syāt | kiṁ te viṣṇo prakhyātametadbhavati prakhyāpanīyaṁ yaduta prabrūṣe śipiviṣṭo'smīti pratipannaraśmiḥ | śipayo'tra raśmaya ucyante | tairāviṣṭo bhavati | mā varpo asmadapa gūha etat | varpa iti rūpanāma | vṛṇotīti sataḥ | yadanyarūpaḥ samithe saṁgrāme bhavasi saṁyataraśmiḥ | tasyottarā bhūyase nirvacanāya
इस ऋचा में विष्णु से पूछा जाता है: 'हे विष्णु, तुमने जो कहा कि मैं शिपिविष्ट हूँ, वह क्या अप्रसिद्ध हुआ? हमसे अपना वह रूप मत छिपाओ जो युद्ध में तुमने धारण किया था।' दो सम्भव व्याख्याएँ दी गई हैं — 'निन्दा-सूचक' (लिपटा हुआ, रश्मि-रहित) या 'प्रशंसा-सूचक' (किरणों से आविष्ट)। 'वर्प' रूप का नाम है।
श्लोक 5.9
प्र तत्ते अद्य शिपिविष्ट नामार्यः शंसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसमतव्यान्क्षय॑न्तमस्य रज॑सः पराके ॥ तत्तेऽद्य शिपिविष्ट नामार्यः प्रशंसामि । अर्योऽहमस्मीश्वरः स्तोमानाम् । अर्यस्त्वमसीति वा । तं त्वा स्तौमि तवसमतव्यान् । तवस इति महतो नामधेयम् । उदितो भवति । निवसन्तमस्य रजसः । पराके पराक्रान्ते । आघृणिरागतहृणिः । आ घृणे सं संचावहै । आगतहृणे संसेवावहै । पृथुज्रयाः पृथुजवः । पृथुज्रया अमिनादायुर्दस्योः । प्रामापयदायुर्दस्योः
pra tatte adya śipiviṣṭa nāmāryaḥ śaṁsāmi vayunāni vidvān | taṁ tvā gṛṇāmi tavasamatavyānkṣayantamasya rajasaḥ parāke || tatte'dya śipiviṣṭa nāmāryaḥ praśaṁsāmi | aryo'hamasmīśvaraḥ stomānām | aryastvamasīti vā | taṁ tvā staumi tavasamatavyān | tavasa iti mahato nāmadheyam | udito bhavati | nivasantamasya rajasaḥ | parāke parākrānte | āghṛṇirāgatahṛṇiḥ | ā ghṛṇe saṁ saṁcāvahai | āgatahṛṇe saṁsevāvahai | pṛthujrayāḥ pṛthujavaḥ | pṛthujrayā aminādāyurdasyoḥ | prāmāpayadāyurdasyoḥ
इस ऋचा में कहा जाता है: 'हे शिपिविष्ट, आज मैं तुम्हारा वह नाम, जानते हुए, आर्य होकर प्रशंसित करता हूँ; तुम्हें ही, महान् और अतुलनीय, इस रज (लोक) के दूर छोर में निवास करने वाले, मैं गाता हूँ।' 'अर्य' को 'स्तोमों का स्वामी' के अर्थ में, 'तवस्' 'महान्' के अर्थ में समझाया गया है।
श्लोक 5.10
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् । दूरेदृशं गृहप॑तिमथर्युम् ॥ दीधितयोऽङ्गुलयो भवन्ति । धीयन्ते कर्मसु । अरणी प्रत्यृत एने अग्निः । समरणाज्जायत इति वा । हस्तच्युती हस्तप्रच्युत्या । जनयन्त प्रशस्तं दूरे दर्शनं गृहपतिमतनवन्तम्
agniṁ naro dīdhitibhiraraṇyorhastacyutī janayanta praśastam | dūredṛśaṁ gṛhapatimatharyum || dīdhitayo'ṅgulayo bhavanti | dhīyante karmasu | araṇī pratyṛta ene agniḥ | samaraṇājjāyata iti vā | hastacyutī hastapracyutyā | janayanta praśastaṁ dūre darśanaṁ gṛhapatimatanavantam
इस ऋचा में अग्नि के उत्पत्ति का वर्णन है: 'नरों ने अरणियों को हाथों से हिलाकर, अंगुलियों से, दूर से दिखने वाले, प्रशस्त, गृहपति अग्नि को उत्पन्न किया।' 'दीधिति' अंगुलियों का नाम है (कर्मों में लगी रहने से), 'अरणी' अग्नि-मन्थन की दो लकड़ियाँ हैं।
श्लोक 5.11
एकया प्रतिधा पिबत्साकं सरांसि त्रिंशतम् । इन्द्रः सोम॑स्य काणुका ॥ एकेन प्रतिधानेनापिबत् । साकं सहेत्यर्थः । इन्द्रः सोमस्य काणुका । कान्तकानीति वा । क्रान्तकानीति वा । कृतकानीति वा । इन्द्रः सोमस्य कान्त इति वा । कणेघात इति वा । कणेहतः । कान्तिहतः । तत्रैतद् याज्ञिका वेदयन्ते । त्रिंशदुक्थपात्राणि माध्यन्दिने सवन एकदेवतानि । तान्येतस्मिन् काल एकेन प्रतिधानेन पिबन्ति । तान्यत्र सरांस्युच्यन्ते । त्रिंशदपरपक्षस्याहोरात्राः । त्रिंशत्पूर्वपक्षस्येति नैरुक्ताः । तद्या एताश्चान्द्रमस्य आगामिन्य आपो भवन्ति रश्मयस्ता अपरपक्षे पिबन्ति । तथापि निगमो भवति । यमक्षितिमक्षितयः पिबन्ति । इति । तं पूर्वपक्ष आप्याययन्ति । तथापि निगमो भवति । यथा देवा अंशुमाप्याययन्ति । इति । अध्रिगुर्मन्त्रो भवति । गव्यधिकृतत्वात् । अपि वा प्रशासनमेवाभिप्रेतं स्यात् । शब्दवत्त्वात् । अध्रिगो शमीध्वं सुशमि शमीध्वं शमीध्वमध्रिगविति । अग्निरप्यध्रिगुरुच्यते । तुभ्यं श्चोतन्त्यध्रिगो शचीवः । अधृतगमनकर्मवन् । इन्द्रोऽप्यध्रिगुरुच्यते । अध्रिगव ओहमिन्द्राय । इत्यपि निगमो भवति । आङ्गूषः स्तोम आघोषः ।। एनाङ्गूषेण वयमिन्द्रवन्तः । अनेन स्तोमेन वयमिन्द्रवन्तः
ekayā pratidhā pibatsākaṁ sarāṁsi triṁśatam | indraḥ somasya kāṇukā || ekena pratidhānenāpibat | sākaṁ sahetyarthaḥ | indraḥ somasya kāṇukā | kāntakānīti vā | krāntakānīti vā | kṛtakānīti vā | indraḥ somasya kānta iti vā | kaṇeghāta iti vā | kaṇehataḥ | kāntihataḥ | tatraitad yājñikā vedayante | triṁśadukthapātrāṇi mādhyandine savana ekadevatāni | tānyetasmin kāla ekena pratidhānena pibanti | tānyatra sarāṁsyucyante | triṁśadaparapakṣasyāhorātrāḥ | triṁśatpūrvapakṣasyeti nairuktāḥ | tadyā etāścāndramasya āgāminya āpo bhavanti raśmayastā aparapakṣe pibanti | tathāpi nigamo bhavati | yamakṣitimakṣitayaḥ pibanti | iti | taṁ pūrvapakṣa āpyāyayanti | tathāpi nigamo bhavati | yathā devā aṁśumāpyāyayanti | iti | adhrigurmantro bhavati | gavyadhikṛtatvāt | api vā praśāsanamevābhipretaṁ syāt | śabdavattvāt | adhrigo śamīdhvaṁ suśami śamīdhvaṁ śamīdhvamadhrigaviti | agnirapyadhrigurucyate | tubhyaṁ ścotantyadhrigo śacīvaḥ | adhṛtagamanakarmavan | indro'pyadhrigurucyate | adhrigava ohamindrāya | ityapi nigamo bhavati | āṅgūṣaḥ stoma āghoṣaḥ || enāṅgūṣeṇa vayamindravantaḥ | anena stomena vayamindravantaḥ
इस ऋचा में इन्द्र का सोमपान वर्णित है: 'एक ही धारण से इन्द्र ने साथ ही तीस सरोवर (सोम-पात्र) पी लिए।' यास्क इसे मध्यन्दिन सवन के तीस उक्थ-पात्रों से जोड़ते हैं, तथा चान्द्र पक्षों (शुक्ल-कृष्ण) के तीस-तीस दिनों के साथ भी सम्बद्ध करते हैं — जैसे किरणें अमावास्या पक्ष में पी जाती हैं और शुक्ल पक्ष में पुनः भरी जाती हैं। 'अध्रिगु' मन्त्र-शब्द है, गौ-सम्बन्धी अथवा शासन-अर्थक।
श्लोक 5.12
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥ आपातितमन्युः । तृप्रप्रहारी । क्षिप्रप्रहारी सृप्रप्रहारी सोमो वेन्द्रो वा । धुनिर्धूनोतेः । शिमीति कर्मनाम । शमयतेर्वा । शक्नोतेर्वा । ऋजीषी सोमः । यत्सोमस्य पूयमानस्यातिरिच्यते तदृजीषमपार्जितं भवति । तेनर्जीषी सोमः । अथाप्यैन्द्रो निगमो भवति । ऋजीषी वज्री । इति । हर्योरस्य स भागो धानाश्चेति । धाना भ्राष्ट्रे हिता भवन्ति । फले हिता भवन्तीति वा । बब्धां ते हरी धाना उप ऋजीषं जिघ्रताम् । इत्यपि निगमो भवति । आदिनाभ्यासेनोपहितेनोपधामादत्ते । बभस्तिरत्तिकर्मा । सोमः सर्वाण्यतसानि वनानि । नार्वागिन्द्रं प्रतिमानानि दभ्नुवन्ति । यैरेनं प्रतिमिमते नैनं तानि दभ्नुवन्ति । अर्वागेवैनमप्राप्य विनश्यन्तीति । इन्द्रप्रधानेत्येके । नैघण्टुकं सोमकर्म । उभयप्रधानेत्यपरम् । श्मशा शु अश्नुत इति वा । श्माश्नुत इति वा । अव श्मशा रुधद्वाः । अवारुधच्छ्मशा वारिति
āpāntamanyustṛpalaprabharmā dhuniḥ śimīvāñcharumām̐ ṛjīṣī | somo viśvānyatasā vanāni nārvāgindraṁ pratimānāni debhuḥ || āpātitamanyuḥ | tṛpraprahārī | kṣipraprahārī sṛpraprahārī somo vendro vā | dhunirdhūnoteḥ | śimīti karmanāma | śamayatervā | śaknotervā | ṛjīṣī somaḥ | yatsomasya pūyamānasyātiricyate tadṛjīṣamapārjitaṁ bhavati | tenarjīṣī somaḥ | athāpyaindro nigamo bhavati | ṛjīṣī vajrī | iti | haryorasya sa bhāgo dhānāśceti | dhānā bhrāṣṭre hitā bhavanti | phale hitā bhavantīti vā | babdhāṁ te harī dhānā upa ṛjīṣaṁ jighratām | ityapi nigamo bhavati | ādinābhyāsenopahitenopadhāmādatte | babhastirattikarmā | somaḥ sarvāṇyatasāni vanāni | nārvāgindraṁ pratimānāni dabhnuvanti | yairenaṁ pratimimate nainaṁ tāni dabhnuvanti | arvāgevainamaprāpya vinaśyantīti | indrapradhānetyeke | naighaṇṭukaṁ somakarma | ubhayapradhānetyaparam | śmaśā śu aśnuta iti vā | śmāśnuta iti vā | ava śmaśā rudhadvāḥ | avārudhacchmaśā vāriti
इस ऋचा में सोम का वर्णन है: 'शीघ्र-क्रोध वाला, तीव्र-प्रहारी, कम्पायमान, कर्मठ, ऋजीष सोम सभी अतस-वृक्षों (वनों) को व्याप्त करता है; कोई भी प्रतिमान इन्द्र को नीचे नहीं दबा सकता।' 'ऋजीषी' सोम का नाम है (जो शुद्धिकरण के बाद शेष रहे अंश से)। इसके बाद धाना (भुने अन्न) और 'श्मशा' (जल-निरोधक) की व्याख्या है।
श्लोक 5.13
उर्वश्यप्सरा । उर्वभ्यश्नुते । ऊरुभ्यामश्नुते । उरुर्वा वशोऽस्याः । अप्सरा अप्सारिणी । अपि वाप्स इति रूपनाम । अप्सातेः । अप्सानीयं भवति । आदर्शनीयम् । व्यापनीयं वा । स्पष्टं दर्शनायेति शाकपूणिः । यदप्सः । इत्यभक्षस्य । अप्सो नाम । इति व्यापिनः । तद्रा भवति रूपवती । तदनयात्तमिति वा । तदस्यै दत्तमिति वा । तस्या दर्शनान्मित्रावरुणयो रेतश्चस्कन्द । तदभिवादिन्येषर्भ्दवति
urvaśyapsarā | urvabhyaśnute | ūrubhyāmaśnute | ururvā vaśo'syāḥ | apsarā apsāriṇī | api vāpsa iti rūpanāma | apsāteḥ | apsānīyaṁ bhavati | ādarśanīyam | vyāpanīyaṁ vā | spaṣṭaṁ darśanāyeti śākapūṇiḥ | yadapsaḥ | ityabhakṣasya | apso nāma | iti vyāpinaḥ | tadrā bhavati rūpavatī | tadanayāttamiti vā | tadasyai dattamiti vā | tasyā darśanānmitrāvaruṇayo retaścaskanda | tadabhivādinyeṣarbhdavati
'उर्वशी' अप्सरा का नाम है — 'उरु' (विस्तृत) इच्छा वाली, अथवा जो अपनी जाँघों (ऊरु) से व्याप्त हो। 'अप्सरा' 'जल में विचरने वाली' के अर्थ में है, या 'दर्शन के लिए स्पष्ट' (शाकपूणि)। उर्वशी को देखकर मित्र-वरुण का रेतस्खलन हुआ, यह आख्यान भी संकेतित है।
श्लोक 5.14
उतासि मैत्रावरुणो वसिष्ठोर्वश्या ब्रह्मन्मनसोऽधिजातः । द्रप्सं स्कन्नं ब्रह्मणा दैव्येन विश्वेदेवाः पुष्करे त्वाददन्त ॥ अप्यसि मैत्रावरुणो वसिष्ठ । उर्वश्या ब्रह्मन् मनसोऽधिजातः । द्रप्सं स्कन्नम् । ब्रह्मणा दैव्येन । द्रप्सः संभृतः । प्सानीयो भवति । सर्वे देवाः पुष्करे त्वाधारयन्त । पुष्करमन्तरिक्षम् । पोषति भूतानि । उदकं पुष्करम् । पूजाकरम् । पूजयितव्यम् । इदमपीतरत्पुष्करमेतस्मादेव । पुष्करं वपुष्करं वा । पुष्पं पुष्पतेः । वयुनं वेतेः । कान्तिर्वा । प्रज्ञा वा
utāsi maitrāvaruṇo vasiṣṭhorvaśyā brahmanmanaso'dhijātaḥ | drapsaṁ skannaṁ brahmaṇā daivyena viśvedevāḥ puṣkare tvādadanta || apyasi maitrāvaruṇo vasiṣṭha | urvaśyā brahman manaso'dhijātaḥ | drapsaṁ skannam | brahmaṇā daivyena | drapsaḥ saṁbhṛtaḥ | psānīyo bhavati | sarve devāḥ puṣkare tvādhārayanta | puṣkaramantarikṣam | poṣati bhūtāni | udakaṁ puṣkaram | pūjākaram | pūjayitavyam | idamapītaratpuṣkarametasmādeva | puṣkaraṁ vapuṣkaraṁ vā | puṣpaṁ puṣpateḥ | vayunaṁ veteḥ | kāntirvā | prajñā vā
इस ऋचा में कहा गया है: 'तुम भी मित्रावरुण-सम्बद्ध वसिष्ठ हो, उर्वशी के मन से दिव्य ब्रह्म द्वारा उत्पन्न — विश्वदेवों ने वह गिरी हुई बूँद पुष्कर (जल/अन्तरिक्ष) में धारण कर ली।' 'पुष्कर' को अन्तरिक्ष और जल दोनों के लिए, 'पुष्टिकारक' के अर्थ में समझाया गया है।
श्लोक 5.15
स इत्तमोऽवयुनं ततन्वत्सूर्येण वयुनवच्चकार । स तमोऽप्रज्ञानं ततन्वत् । स तं सूर्येण प्रज्ञानवच्चकार । वाजपस्त्यं वाजपतनम् । सनेम वाजपस्त्यं । इत्यपि निगमो भवति । वाजगन्ध्यं गध्यत्युत्तरपदम् । अश्याम वाजगन्ध्यम् । इत्यपि निगमो भवति । गध्यं गृह्णातेः । ऋज्रा वाजं न गध्यं युयूषन् । इत्यपि निगमो भवति । गध्यतिर्मिश्रीभावकर्मा । आ गधिता परि गधिता । इत्यपि निगमो भवति । कौरयाणः कृतयानः । पाकस्थामा कौरयाणः । इत्यपि निगमो भवति । तौरयाणस्तूर्णयानः । स तौरयाण उप याहि यज्ञं मरुद्भिरिन्द्र सखिभिः सजोषाः । इत्यपि निगमो भवति । अह्रयाणोऽह्रीतयानः । अनुष्ठुया कृणुह्यह्रयाणः । इत्यपि निगमो भवति । हरयाणो हरमाणयानः । रजतं हरयाणे । इत्यपि निगमो भवति । य आरितः कर्मणिकर्मणि स्थिरः । प्रत्यृतः स्तोमान् । व्रन्दी वन्दतेर्मृदूभावकर्मणः
sa ittamo'vayunaṁ tatanvatsūryeṇa vayunavaccakāra | sa tamo'prajñānaṁ tatanvat | sa taṁ sūryeṇa prajñānavaccakāra | vājapastyaṁ vājapatanam | sanema vājapastyaṁ | ityapi nigamo bhavati | vājagandhyaṁ gadhyatyuttarapadam | aśyāma vājagandhyam | ityapi nigamo bhavati | gadhyaṁ gṛhṇāteḥ | ṛjrā vājaṁ na gadhyaṁ yuyūṣan | ityapi nigamo bhavati | gadhyatirmiśrībhāvakarmā | ā gadhitā pari gadhitā | ityapi nigamo bhavati | kaurayāṇaḥ kṛtayānaḥ | pākasthāmā kaurayāṇaḥ | ityapi nigamo bhavati | taurayāṇastūrṇayānaḥ | sa taurayāṇa upa yāhi yajñaṁ marudbhirindra sakhibhiḥ sajoṣāḥ | ityapi nigamo bhavati | ahrayāṇo'hrītayānaḥ | anuṣṭhuyā kṛṇuhyahrayāṇaḥ | ityapi nigamo bhavati | harayāṇo haramāṇayānaḥ | rajataṁ harayāṇe | ityapi nigamo bhavati | ya āritaḥ karmaṇikarmaṇi sthiraḥ | pratyṛtaḥ stomān | vrandī vandatermṛdūbhāvakarmaṇaḥ
यहाँ कहा गया है कि सूर्य ने अज्ञात अन्धकार को ज्ञातव्य (प्रकाशमय) बना दिया। इसके बाद अनेक द्विअर्थी वैदिक शब्द-युग्मों की सूची है — 'वाजपस्त्य' और 'वाजगन्ध्य' (बल-प्राप्ति), 'गध्य' (मिश्रण), 'कौरयाण' और 'तौरयाण' (शीघ्रगामी), 'अह्रयाण' (निर्भय-गामी), 'हरयाण' (हरण करने वाला) — प्रत्येक अपने वैदिक उद्धरण सहित।
श्लोक 5.16
नि यद्वृणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्वन्दिनो रोरुव॒द्वना । निवृणक्षि यच्छ्वसनस्य मूर्धनि शब्दकारिणः । शुष्णस्यादित्यस्य च शोषयितू । रोरूयमाणो वनानीति वा । वधेनेति वा । अव्रदन्त वीळिता । इत्यपि निगमो भवति । वीळयतिश्च व्रीळयतिश्च संस्तम्भकर्माणौ । पूर्वेण संप्रयुज्येते । निष्षपी स्त्रीकामो भवति । विनिर्गतसपः । सपः सपतेः स्पृशतिकर्मणः । मा नो मघेव निष्षपी परा दाः । स यथा धनानि विनाशयति मा नस्त्वं तथा परादाः । तूर्णाशमुदकं भवति । तूर्णमश्नुते । तूर्णाशं न गिरेरधि । इत्यपि निगमो भवति । क्षुम्पमहिच्छत्रकं भवति । यत् क्षुभ्यते
ni yadvṛṇakṣi śvasanasya mūrdhani śuṣṇasya cidvandino roruvadvanā | nivṛṇakṣi yacchvasanasya mūrdhani śabdakāriṇaḥ | śuṣṇasyādityasya ca śoṣayitū | rorūyamāṇo vanānīti vā | vadheneti vā | avradanta vīḷitā | ityapi nigamo bhavati | vīḷayatiśca vrīḷayatiśca saṁstambhakarmāṇau | pūrveṇa saṁprayujyete | niṣṣapī strīkāmo bhavati | vinirgatasapaḥ | sapaḥ sapateḥ spṛśatikarmaṇaḥ | mā no magheva niṣṣapī parā dāḥ | sa yathā dhanāni vināśayati mā nastvaṁ tathā parādāḥ | tūrṇāśamudakaṁ bhavati | tūrṇamaśnute | tūrṇāśaṁ na gireradhi | ityapi nigamo bhavati | kṣumpamahicchatrakaṁ bhavati | yat kṣubhyate
इस ऋचा में कहा गया है: 'जब तुम शब्दकारी शुष्ण के शिर पर विनाश डालते हो, वनों को गुंजायमान करते हुए।' 'वीळयति' और 'व्रीळयति' दोनों स्तम्भन-कर्म (रोकने) के अर्थ में हैं। इसके बाद 'निष्षपी' (स्त्री-कामी) और 'तूर्णाश' (जल) की व्याख्या है।
श्लोक 5.17
कदा मर्तमराधसं पदा क्षुम्प॑मिव स्फुरत् । कदा नः शुश्रवद्गिर इन्द्रो अङ्ग ॥ कदा मर्तमनाराधयन्तं पादेन क्षुम्पमिवावस्फुरिष्यति । कदा नः श्रोष्यति च गिर इन्द्रो अङ्ग । अङ्गेति क्षिप्रनाम । अङ्कितमेवाञ्चितं भवति । निचुम्पुणः सोमः । निचान्तपृणः । निचमनेन प्रीणाति
kadā martamarādhasaṁ padā kṣumpamiva sphurat | kadā naḥ śuśravadgira indro aṅga || kadā martamanārādhayantaṁ pādena kṣumpamivāvasphuriṣyati | kadā naḥ śroṣyati ca gira indro aṅga | aṅgeti kṣipranāma | aṅkitamevāñcitaṁ bhavati | nicumpuṇaḥ somaḥ | nicāntapṛṇaḥ | nicamanena prīṇāti
इस ऋचा में पूछा जाता है: 'कब इन्द्र निर्धन मर्त्य को पैर से क्षुम्प (छत्रक/झाड़ी) के समान कुचलेगा? कब हमारी वाणी सुनेगा, हे अंग?' 'अंग' शीघ्रता का वाचक है। 'निचुम्पुण' सोम का नाम है — 'नीचे प्रीणित करने वाला'।
श्लोक 5.18
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये । अपां जग्मिर्निचुम्पुणः ॥ पत्नीवन्तः सुता इमेऽद्भिः सोमाः कामयमाना यन्ति वीतये पानायापाम् । गन्ता निचुम्पुणः । समुद्रोऽपि निचुंपुण उच्यते । निचमनेन पूर्यते । अवभृथोऽपि निचुंपुण उच्यते । नीचैरस्मिन् क्वणन्ति । नीचैर्दधतीति वा । अवभृथ निचुम्पुणः । इत्यपि निगमो भवति । निचुंपुण निचुंकुणेति च । पदिर्गन्तुर्भवति । यत्पद्यते
patnīvantaḥ sutā ima uśanto yanti vītaye | apāṁ jagmirnicumpuṇaḥ || patnīvantaḥ sutā ime'dbhiḥ somāḥ kāmayamānā yanti vītaye pānāyāpām | gantā nicumpuṇaḥ | samudro'pi nicuṁpuṇa ucyate | nicamanena pūryate | avabhṛtho'pi nicuṁpuṇa ucyate | nīcairasmin kvaṇanti | nīcairdadhatīti vā | avabhṛtha nicumpuṇaḥ | ityapi nigamo bhavati | nicuṁpuṇa nicuṁkuṇeti ca | padirganturbhavati | yatpadyate
इस ऋचा में कहा गया है: 'पत्नी-सहित ये सोम-रस उत्सुकता से जल-पान के लिए जाते हैं, जल के गमनशील निचुम्पुण।' 'निचुम्पुण' समुद्र और अवभृथ (यज्ञान्त स्नान) दोनों के लिए भी प्रयुक्त होता है — जहाँ नीचे ध्वनि होती है या नीचे रखा जाता है।
श्लोक 5.19
सुगुरीसत्सुहिरण्यः स्वश्वो बृहदस्मै वय॒ इन्द्रो दधाति । यस्त्वा यन्तं वसुना प्रातरित्वो मुक्षीजयेव पदिमुत्सिनाति ॥ सुगुर्भवति । सुहिरण्यः । स्वश्वः । महच्चास्मै वय इन्द्रो दधाति यस्त्वा यन्तमन्नेन । प्रातरागामिन्नतिथे । मुक्षीजयेव पदिमुत्सिनाति कुमारः । मुक्षीजा मोचनाच्च । शयनाच्च । ततनाच्च । पादुः पद्यतेः । आविः स्वः कृणुते गूहते बुसं स पादुरस्य निर्णिजो न मुच्यते । आविष्कुरुते भासमादित्यः । गूहते बुसम् । बुसमित्युदकनाम । ब्रवीतेः शब्दकर्मणः । भ्रंशतेर्वा । यद्वर्षन्पातयत्युदकं रश्मिभिस्तत्प्रत्यादत्ते
sugurīsatsuhiraṇyaḥ svaśvo bṛhadasmai vaya indro dadhāti | yastvā yantaṁ vasunā prātaritvo mukṣījayeva padimutsināti || sugurbhavati | suhiraṇyaḥ | svaśvaḥ | mahaccāsmai vaya indro dadhāti yastvā yantamannena | prātarāgāminnatithe | mukṣījayeva padimutsināti kumāraḥ | mukṣījā mocanācca | śayanācca | tatanācca | pāduḥ padyateḥ | āviḥ svaḥ kṛṇute gūhate busaṁ sa pādurasya nirṇijo na mucyate | āviṣkurute bhāsamādityaḥ | gūhate busam | busamityudakanāma | bravīteḥ śabdakarmaṇaḥ | bhraṁśatervā | yadvarṣanpātayatyudakaṁ raśmibhistatpratyādatte
इस ऋचा में अतिथि-स्वागत का वर्णन है: 'सुगौ, सुहिरण्य, सुअश्व वाले इसे इन्द्र महान् वय (बल) देता है, जो तुम्हें, प्रातःकाल आने वाले अतिथि को, अन्न से युक्त करता है, जैसे बालक बन्धन से पैर मुक्त करता है।' 'पादु' गति करने की धातु से है। अन्त में सूर्य द्वारा जल प्रकट करने और किरणों से पुनः खींचने का रूपक है।
श्लोक 5.20
वृकश्चन्द्रमा भवति । विवृतज्योतिष्को वा । विकृतज्योतिष्को वा । विक्रान्तज्योतिष्को वा
vṛkaścandramā bhavati | vivṛtajyotiṣko vā | vikṛtajyotiṣko vā | vikrāntajyotiṣko vā
'वृक' चन्द्रमा का नाम है — 'विवृत-ज्योतिष्क' (जिसकी ज्योति प्रकट हो), 'विकृत-ज्योतिष्क' (परिवर्तनशील ज्योति वाला), अथवा 'विक्रान्त-ज्योतिष्क' (आगे बढ़ती ज्योति वाला)।
श्लोक 5.21
अरुणो मासकृद्वृकः प॒था यन्तं ददर्श हि । उज्जिहीते निचाय्या तष्टेव पृष्ठ्यामयी वित्तं मे अस्य रोदसी ॥ अरुण आरोचनः । मासकृन्मासानां चार्धमासानां च कर्ता भवति चन्द्रमाः । वृकः पथा यन्तं ददर्श नक्षत्रगणम् । अभिजिहीते निचाय्य येन येन योक्ष्यमाणो भवति चन्द्रमाः । तक्ष्णुवन्निव पृष्ठरोगी । जानीतं मेऽस्य द्यावापृथिव्याविति । आदित्योऽपि वृक उच्यते । यदा वृङ्क्ते ।। अजोहवीदश्विना वर्तिका वामास्नो यत्सीममुञ्चतं वृकस्य । आह्वयदुषा अश्विनावादित्येनाभिग्रस्ता । तामश्विनौ प्रमुमुचतुः । इत्याख्यानम् । श्वापि वृक उच्यते । विकर्तनात् । वृकश्चिदस्य वारण उरामथिः । उरणमथिः । उरण ऊर्णावान्भवति । ऊर्णा पुनर्वृणोतेः । ऊर्णोतेर्वा । वृद्धवाशिन्यपि वृक्युच्यते । शतं मेषान्वृक्ये चक्षदानमृज्राश्वं तं पितान्धं चकार । इत्यपि निगमो भवति । जोषवाकं इत्यविज्ञातनामधेयम् । जोषयितव्यं भवति
aruṇo māsakṛdvṛkaḥ pathā yantaṁ dadarśa hi | ujjihīte nicāyyā taṣṭeva pṛṣṭhyāmayī vittaṁ me asya rodasī || aruṇa ārocanaḥ | māsakṛnmāsānāṁ cārdhamāsānāṁ ca kartā bhavati candramāḥ | vṛkaḥ pathā yantaṁ dadarśa nakṣatragaṇam | abhijihīte nicāyya yena yena yokṣyamāṇo bhavati candramāḥ | takṣṇuvanniva pṛṣṭharogī | jānītaṁ me'sya dyāvāpṛthivyāviti | ādityo'pi vṛka ucyate | yadā vṛṅkte || ajohavīdaśvinā vartikā vāmāsno yatsīmamuñcataṁ vṛkasya | āhvayaduṣā aśvināvādityenābhigrastā | tāmaśvinau pramumucatuḥ | ityākhyānam | śvāpi vṛka ucyate | vikartanāt | vṛkaścidasya vāraṇa urāmathiḥ | uraṇamathiḥ | uraṇa ūrṇāvānbhavati | ūrṇā punarvṛṇoteḥ | ūrṇotervā | vṛddhavāśinyapi vṛkyucyate | śataṁ meṣānvṛkye cakṣadānamṛjrāśvaṁ taṁ pitāndhaṁ cakāra | ityapi nigamo bhavati | joṣavākaṁ ityavijñātanāmadheyam | joṣayitavyaṁ bhavati
इस ऋचा में चन्द्रमा (वृक) का वर्णन है: 'अरुण, मासों का कर्ता, वृक (चन्द्रमा) ने मार्ग पर जाते हुए नक्षत्र-समूह को देखा; पीठ-रोगी शिल्पी के समान वह उठता है — जानो मुझे यह द्यावापृथिवी।' आदित्य भी 'वृक' कहलाता है (ग्रहण के समय)। अश्विनों द्वारा वर्तिका (बटेर) को वृक (सूर्य-ग्रस्त) से मुक्त करने का आख्यान भी दिया गया है, तथा 'वृक्' (वृद्ध-रोगिणी स्त्री) का उदाहरण।
श्लोक 5.22
य इन्द्राग्नी सुतेषु वां स्तवत्तेष्वृतावृधा । जोषवाकं वदतः पज्रहोषिणा न देवा भसथश्चन ॥ य इन्द्राग्नी सुतेषु वां सोमेषु स्तौति तस्याश्नीथः । अथ योऽयं जोषवाकं वदति विजंजपः प्रार्जितहोषिणौ न देवौ तस्याश्नीथः । कृत्तिः कृन्ततेः । यशो वा । अन्नं वा । महीव कृत्तिः शरणा त इन्द्र । सुमहत्त इन्द्र शरणमन्तरिक्षे कृत्तिरिवेति । इयमपीतरा कृत्तिरेतस्मादेव । सूत्रमयी । उपमार्थे वा । कृत्तिवासाः पिनाकहस्तो अवततधन्वा । कृत्तिं वसान आचर पिनाकं बिभ्रदागहि । इत्यपि निगमो भवति । श्वघ्नी कितवो भवति । स्वं हन्ति । स्वं पुनराश्रितं भवति । कृतं न श्वघ्नी वि चिनोति देवने । कृतमिव श्वघ्नी विचिनोति देवने । कितवः किं तवास्तीति शब्दानुकृतिः । कृतवान्वा । आशीर्नामकः । सममिति परिग्रहार्थीयम् । सर्वनामानुदात्तम्
ya indrāgnī suteṣu vāṁ stavatteṣvṛtāvṛdhā | joṣavākaṁ vadataḥ pajrahoṣiṇā na devā bhasathaścana || ya indrāgnī suteṣu vāṁ someṣu stauti tasyāśnīthaḥ | atha yo'yaṁ joṣavākaṁ vadati vijaṁjapaḥ prārjitahoṣiṇau na devau tasyāśnīthaḥ | kṛttiḥ kṛntateḥ | yaśo vā | annaṁ vā | mahīva kṛttiḥ śaraṇā ta indra | sumahatta indra śaraṇamantarikṣe kṛttiriveti | iyamapītarā kṛttiretasmādeva | sūtramayī | upamārthe vā | kṛttivāsāḥ pinākahasto avatatadhanvā | kṛttiṁ vasāna ācara pinākaṁ bibhradāgahi | ityapi nigamo bhavati | śvaghnī kitavo bhavati | svaṁ hanti | svaṁ punarāśritaṁ bhavati | kṛtaṁ na śvaghnī vi cinoti devane | kṛtamiva śvaghnī vicinoti devane | kitavaḥ kiṁ tavāstīti śabdānukṛtiḥ | kṛtavānvā | āśīrnāmakaḥ | samamiti parigrahārthīyam | sarvanāmānudāttam
इस ऋचा में कहा गया है: 'जो इन्द्र और अग्नि को, तुम दोनों ऋत-वर्धक को, सोमों में स्तुति करता है, उसका ही तुम आनन्द लेते हो; जो विपरीत-भाषी होता है, उसका तुम देवगण भोग नहीं करते।' 'कृत्ति' चर्म (यश या अन्न) के अर्थ में है — रुद्र के गज-चर्म वस्त्र का उल्लेख। 'श्वघ्नी' जुआरी का नाम है (जो अपना ही धन नष्ट करता है)।
श्लोक 5.23
मा नः समस्य दूढ्य परिद्वेषसो अंहतिः । ऊर्मिर्न नावमा वधीत् ॥ मा नः सर्वस्य दुर्धियः पापधियः सर्वतो द्वेषसो अंहतिः । ऊर्मिरिव नावमावधीत् । ऊर्मिरूर्णोतेः । नौः प्रणोत्तव्या भवति । नमतेर्वा । तत्कथमनुदात्तप्रकृतिनाम स्यात् । दृष्टव्ययं तु भवति । उतो समस्मिन्ना शिशीहि नो वसो । इति सप्तम्याम् । शिशीतिर्दानकर्मा । उरुष्या णो अघाय॒तः समस्मात् । इति पञ्चम्याम् । उरुष्यतिरकर्मकः । अथापि प्रथमा बहुवचने । नभ॑न्तामन्य॒के समे
mā naḥ samasya dūḍhya paridveṣaso aṁhatiḥ | ūrmirna nāvamā vadhīt || mā naḥ sarvasya durdhiyaḥ pāpadhiyaḥ sarvato dveṣaso aṁhatiḥ | ūrmiriva nāvamāvadhīt | ūrmirūrṇoteḥ | nauḥ praṇottavyā bhavati | namatervā | tatkathamanudāttaprakṛtināma syāt | dṛṣṭavyayaṁ tu bhavati | uto samasminnā śiśīhi no vaso | iti saptamyām | śiśītirdānakarmā | uruṣyā ṇo aghāyataḥ samasmāt | iti pañcamyām | uruṣyatirakarmakaḥ | athāpi prathamā bahuvacane | nabhantāmanyake same
इस ऋचा में कहा गया है: 'हमारे विरुद्ध किसी भी द्वेषपूर्ण, दुर्बुद्धि की पीड़ा हमें न लगे, जैसे लहर नौका को न डुबोए।' 'ऊर्मि' (लहर) 'ऊर्णोति' (ढकना) से व्युत्पन्न है। इसके बाद 'शिशीति' (देना) और 'उरुष्यति' (रक्षा करना) क्रियाओं के व्याकरणिक विभक्ति-प्रयोग दिखाए गए हैं।
श्लोक 5.24
हविषा जारो अपां पिपर्ति पपुरिर्नरा । पिता कुटस्य चर्षणिः ॥ हविषापां जरयिता । पिपर्ति पपुरिरिति पृणातिनिगमौ वा । प्रीणातिनिगमौ वा । पिता कृतस्य कर्मणश्चायितादित्यः । शम्ब इति वज्रनाम । शमयतेर्वा । शातयतेर्वा । उग्रो यः शम्बः पुरुहूत तेन । इत्यपि निगमो भवति । केपयः कपूया भवन्ति । कपूयमिति । पुनाति कर्म कुत्सितम् । दुष्पूयं भवति
haviṣā jāro apāṁ piparti papurirnarā | pitā kuṭasya carṣaṇiḥ || haviṣāpāṁ jarayitā | piparti papuririti pṛṇātinigamau vā | prīṇātinigamau vā | pitā kṛtasya karmaṇaścāyitādityaḥ | śamba iti vajranāma | śamayatervā | śātayatervā | ugro yaḥ śambaḥ puruhūta tena | ityapi nigamo bhavati | kepayaḥ kapūyā bhavanti | kapūyamiti | punāti karma kutsitam | duṣpūyaṁ bhavati
इस ऋचा में कहा गया है: 'हविष्य से जलों का प्रेमी (सूर्य) तृप्त करता है, पोषक; पिता है कर्म का, दृष्टा।' 'शम्ब' वज्र का नाम है (शमयति/शातयति — शान्त करना/नष्ट करना)। 'केप' शब्द निन्दित अर्थ में है — 'जो शुद्ध करने योग्य न हो'।
श्लोक 5.25
पृथक्प्राय॑न्प्रथमा देवहूतयोऽकृण्वत श्रवस्या॑नि दुष्टरा ।। न ये शेकुर्यज्ञियां नावमारुहमीर्मैव ते न्यविशन्त केप॑यः ॥ पृथक्प्रायन् । पृथक् प्रथतेः । प्रथमा देवहूतयः । ये देवानाह्वन्त । अकुर्वत श्रवणीयानि यशांसि । दुरनुकराण्यन्यैः । येऽशक्नुवन् यज्ञियां नावमारोढुम् । अथ ये नाशक्नुवन् यज्ञियां नावमारोढुम् । ईर्मैव ते न्यविशन्त । इहैव ते न्यविशन्त । ऋणे हैव ते न्यविशन्त । अस्मिन्नेव लोक इति वा । ईर्म इति बाहुनाम । समीरिततरो भवति । एता विश्वा सवना तूतुमाकृषे स्वयं सूनो सहसो यानि दधिषे । एतानि सर्वाणि स्थानानि तूर्णमुपाकुरुषे । स्वयं बलस्य पुत्र यानि धत्स्व । अंसत्रमंहसस्त्राणम् । धनुर्वा । कवचं वा । कवचं कु अंचितं भवति । कांचितं भवति । कायेऽञ्चितं भवतीति वा
pṛthakprāyanprathamā devahūtayo'kṛṇvata śravasyāni duṣṭarā || na ye śekuryajñiyāṁ nāvamāruhamīrmaiva te nyaviśanta kepayaḥ || pṛthakprāyan | pṛthak prathateḥ | prathamā devahūtayaḥ | ye devānāhvanta | akurvata śravaṇīyāni yaśāṁsi | duranukarāṇyanyaiḥ | ye'śaknuvan yajñiyāṁ nāvamāroḍhum | atha ye nāśaknuvan yajñiyāṁ nāvamāroḍhum | īrmaiva te nyaviśanta | ihaiva te nyaviśanta | ṛṇe haiva te nyaviśanta | asminneva loka iti vā | īrma iti bāhunāma | samīritataro bhavati | etā viśvā savanā tūtumākṛṣe svayaṁ sūno sahaso yāni dadhiṣe | etāni sarvāṇi sthānāni tūrṇamupākuruṣe | svayaṁ balasya putra yāni dhatsva | aṁsatramaṁhasastrāṇam | dhanurvā | kavacaṁ vā | kavacaṁ ku aṁcitaṁ bhavati | kāṁcitaṁ bhavati | kāye'ñcitaṁ bhavatīti vā
इस ऋचा में कहा गया है: 'सबसे पहले देव-आह्वान करने वालों ने अलग-अलग मार्ग अपनाए और अनुपम यश अर्जित किया; जो यज्ञिय नौका पर नहीं चढ़ पाए, वे केप (निन्दित जन) यहीं (या ऋण में) बस गए।' 'ईर्म' बाहु का नाम है। इसके बाद 'अंसत्र' (कवच) की व्याख्या है।
श्लोक 5.26
प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वम् । द्रोणाहावमवतमश्चक्रमसंत्रकोशं सिञ्चता नृपाणम् ॥ प्रीणीताश्वान्त्सुहितं जयथ । जयनं वो हितमस्तु । स्वस्तिवाहनं रथं कुरुध्वम् । द्रोणाहावम् । द्रोणं द्रुममयं भवति । आहाव आह्वानात् । आवह आवहनात् । अवतोऽवातितो महान्भवति । अश्मचक्रमशनचक्रमसनचक्रमिति वा । अंसत्रकोशम् । अंसत्राणि वः कोशस्थानीयानि सन्तु । कोशः कुष्णातेः । विकुषितो भवति । अयमपीतरः कोश एतत्सादेव । सञ्चय आचितमात्रो महान्भवति । सिंचत नृपाणं नरपाणम् । कूपकर्मणा संग्राममुपमिमीते । काकुदं ताल्वित्याचक्षते । जिह्वा कोकुवा । साऽस्मिन्धीयते । जिह्वा कोकुवा । कोकूयमाना वर्णान्नुदतीति वा । कोकूयतेर्वा स्याच्छब्दकर्मणः । जिह्वा जोहुवा । तालु तरतेः । तीर्णतममङ्गम् । लततेर्वा स्याद् विपरीतात् । यथा तलम् । लतेत्यविपर्ययः
prīṇītāśvānhitaṁ jayātha svastivāhaṁ rathamitkṛṇudhvam | droṇāhāvamavatamaścakramasaṁtrakośaṁ siñcatā nṛpāṇam || prīṇītāśvāntsuhitaṁ jayatha | jayanaṁ vo hitamastu | svastivāhanaṁ rathaṁ kurudhvam | droṇāhāvam | droṇaṁ drumamayaṁ bhavati | āhāva āhvānāt | āvaha āvahanāt | avato'vātito mahānbhavati | aśmacakramaśanacakramasanacakramiti vā | aṁsatrakośam | aṁsatrāṇi vaḥ kośasthānīyāni santu | kośaḥ kuṣṇāteḥ | vikuṣito bhavati | ayamapītaraḥ kośa etatsādeva | sañcaya ācitamātro mahānbhavati | siṁcata nṛpāṇaṁ narapāṇam | kūpakarmaṇā saṁgrāmamupamimīte | kākudaṁ tālvityācakṣate | jihvā kokuvā | sā'smindhīyate | jihvā kokuvā | kokūyamānā varṇānnudatīti vā | kokūyatervā syācchabdakarmaṇaḥ | jihvā johuvā | tālu tarateḥ | tīrṇatamamaṅgam | latatervā syād viparītāt | yathā talam | latetyaviparyayaḥ
इस ऋचा में युद्ध की तैयारी का वर्णन है: 'घोड़ों को तृप्त करो, विजय पाओ, कल्याणकारी रथ बनाओ; द्रोण-आहाव (लकड़ी का कुण्ड), पहिये और कवच-कोश को भर दो, हे नृपाण।' 'कोश' (आवरण) की व्युत्पत्ति दी गई है, तथा कूप (कुएँ) की तुलना संग्राम से की गई है। अन्त में 'काकुद' (तालु) और 'जिह्वा' (जीभ) की व्युत्पत्ति है।
श्लोक 5.27
सुदेवो असि वरुण यस्य॑ ते सप्त सिन्धवः । अनुक्षरन्ति काकुदं सूर्म्यं सुषिरामिव ॥ सुदेवस्त्वं कल्याणदानः । यस्य तव देव सप्त सिन्धवः प्राणायानुक्षरन्ति काकुदम् । सूर्म्यं सुषिरामिवेति । अपि निगमो भवति सुदेवस्त्वं कल्याणदेवः । कमनीयदेवो वा भवसि वरुण । यस्य ते सप्तसिंधवः । सिंधुः स्रवणात् । यस्य ते सप्त स्रोतांसि । तानि ते काकुदमनुक्षरन्ति । सूर्मिः कल्याणोर्मिः । स्रोतः सुषिरमनु यथा । बीरिटं तैटीकिरन्तरिक्षमेवमाह पूर्वं वयतेः । उत्तरमिरतेः । वयांसीरन्त्यस्मिन् । भांसि वा । तदेतस्यामृच्युदाहरन्ति । अपि निगमो भवति
sudevo asi varuṇa yasya te sapta sindhavaḥ | anukṣaranti kākudaṁ sūrmyaṁ suṣirāmiva || sudevastvaṁ kalyāṇadānaḥ | yasya tava deva sapta sindhavaḥ prāṇāyānukṣaranti kākudam | sūrmyaṁ suṣirāmiveti | api nigamo bhavati sudevastvaṁ kalyāṇadevaḥ | kamanīyadevo vā bhavasi varuṇa | yasya te saptasiṁdhavaḥ | siṁdhuḥ sravaṇāt | yasya te sapta srotāṁsi | tāni te kākudamanukṣaranti | sūrmiḥ kalyāṇormiḥ | srotaḥ suṣiramanu yathā | bīriṭaṁ taiṭīkirantarikṣamevamāha pūrvaṁ vayateḥ | uttaramirateḥ | vayāṁsīrantyasmin | bhāṁsi vā | tadetasyāmṛcyudāharanti | api nigamo bhavati
इस ऋचा में वरुण की स्तुति है: 'हे वरुण, तुम सुदेव हो, जिनकी सात सिन्धुएँ (प्राण/नदियाँ) काकुद (तालु) से बहती हैं, जैसे खोखली नली से।' 'सिन्धु' स्रवण (बहने) की धातु से है — सात स्रोत। 'सूर्मि' कल्याण-लहर के अर्थ में है।
श्लोक 5.28
प्र वावृजे सुप्रया बर्हिरेषामा विश्पतीव बीरिट इयाते । विशामक्तोरुषसः पूर्वहूतौ वायुः पूषा स्वस्तये नियुत्वान् ॥ प्रवृज्यते सुप्रायणं बर्हिरेषाम् । एयाते सर्वस्य पातारौ वा पालयितारौ वा । बीरिटमन्तरिक्षम । भियो वा भासो वा ततिः । अपि वोपमार्थे स्यात् । सर्वपती इव राजानौ । बीरिटे गणे मनुष्याणाम् । रात्र्या विवासे पूर्वस्यामभिहूतौ । वायुश्च नियुत्वात् । पूषा च स्वस्त्ययनाय । नियुत्वान्नियुतोऽस्याश्वाः । नियुतो नियमनाद्वा । नियोजनाद्वा । अच्छाभेराप्तुमिति शाकपूणिः । परीं सीमिति व्याख्यातम् । एनमेनामस्या अस्येत्येतेन व्याख्यातम् । सृणिरङ्कुशो भवति सरणात् । अङ्कुशोऽञ्चतेः । आकुचितो भवतीति वा । नेदीय इत्सृण्यः पक्वमेयात् । इत्यपि निगमो भवति । अन्तिकतममंकुशादायात् । पक्वमौषधमागच्छत्विति । आगच्छत्विति
pra vāvṛje suprayā barhireṣāmā viśpatīva bīriṭa iyāte | viśāmaktoruṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān || pravṛjyate suprāyaṇaṁ barhireṣām | eyāte sarvasya pātārau vā pālayitārau vā | bīriṭamantarikṣama | bhiyo vā bhāso vā tatiḥ | api vopamārthe syāt | sarvapatī iva rājānau | bīriṭe gaṇe manuṣyāṇām | rātryā vivāse pūrvasyāmabhihūtau | vāyuśca niyutvāt | pūṣā ca svastyayanāya | niyutvānniyuto'syāśvāḥ | niyuto niyamanādvā | niyojanādvā | acchābherāptumiti śākapūṇiḥ | parīṁ sīmiti vyākhyātam | enamenāmasyā asyetyetena vyākhyātam | sṛṇiraṅkuśo bhavati saraṇāt | aṅkuśo'ñcateḥ | ākucito bhavatīti vā | nedīya itsṛṇyaḥ pakvameyāt | ityapi nigamo bhavati | antikatamamaṁkuśādāyāt | pakvamauṣadhamāgacchatviti | āgacchatviti
इस ऋचा में कहा गया है: 'इनका बर्हि (कुश-आसन) सुखद मार्ग में फैलाया जाता है; जैसे प्रजापालक राजा जाते हैं वैसे ये बीरिट (अन्तरिक्ष) में जाते हैं; वायु और पूषा, नियुत्-युक्त, कल्याण के लिए, उषा की प्रथम पुकार में प्रजाओं की रात्रि-विश्रान्ति के समय आते हैं।' 'बीरिट' अन्तरिक्ष का नाम है। अन्त में 'सृणि' (अंकुश) की व्युत्पत्ति दी गई है।
श्लोक 6.1
त्वम॑ग्ने॒ द्युभि॒स्त्वमा॑शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ । त्वं वने॑भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचि॑ः ॥ त्वमग्ने द्युभिरहोभिः । त्वमाशुशुक्षणिः । आशु इति च शु इति च क्षिप्रनामनी भवतः । क्षणिरुत्तरः । क्षणोतेः । आशु शुचा क्षणोतीति वा । सनोतीति वा । शुक् शोचतेः । पञ्चम्यर्थे वा प्रथमा । तथा हि वाक्यसंयोगः । आ इत्याकार उपसर्गः पुरस्तात् । चिकीर्षितज उत्तरः । आशुशोचयिषुरिति । शुचिः शोचतेः । ज्वलतिकर्मणः । अयमपीतरः शुचिरेतस्मादेव । निःषिक्तमस्मात्पापकमिति नैरुक्ताः । इन्द्र॒ आशा॑भ्य॒स्परि॒ सर्वा॑भ्यो॒ अभ॑यं करत् । आशा दिशो भवन्ति । आसदनात् । आशा उपदिशो भवन्ति । अभ्यशनात् । काशिर्मुष्टिः प्रकाशनात् । मुष्टिर्मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं॑गृ॒भ्णा म॑घवन्का॒शिरित्ते॑ ॥ इमे चिदिन्द्र रोदसी रोधसी द्यावापृथिव्यौ । विरोधनात् । रोधः कूलं निरुणद्धि स्रोतः । कूलं रुजतेः । विपरीतात् । लोष्टोऽविपर्ययेण । अपारे दूरपारे । यत्संगृभ्णासि मघवन् । काशिस्ते महान् । अ॒ह॒स्तमि॑न्द्र॒ सं पि॑ण॒क्कुणा॑रुम् । अहस्तमिन्द्र कृत्वा संपिण्ढि परिक्वणनं मेघम्
tvamagne dyubhistvamāśuśukṣaṇistvamadbhyastvamaśmanaspari | tvaṁ vanebhyastvamoṣadhībhyastvaṁ nṛṇāṁ nṛpate jāyase śuciḥ || tvamagne dyubhirahobhiḥ | tvamāśuśukṣaṇiḥ | āśu iti ca śu iti ca kṣipranāmanī bhavataḥ | kṣaṇiruttaraḥ | kṣaṇoteḥ | āśu śucā kṣaṇotīti vā | sanotīti vā | śuk śocateḥ | pañcamyarthe vā prathamā | tathā hi vākyasaṁyogaḥ | ā ityākāra upasargaḥ purastāt | cikīrṣitaja uttaraḥ | āśuśocayiṣuriti | śuciḥ śocateḥ | jvalatikarmaṇaḥ | ayamapītaraḥ śuciretasmādeva | niḥṣiktamasmātpāpakamiti nairuktāḥ | indra āśābhyaspari sarvābhyo abhayaṁ karat | āśā diśo bhavanti | āsadanāt | āśā upadiśo bhavanti | abhyaśanāt | kāśirmuṣṭiḥ prakāśanāt | muṣṭirmocanādvā | moṣaṇādvā | mohanādvā | ime cidindra rodasī apāre yatsaṁgṛbhṇā maghavankāśiritte || ime cidindra rodasī rodhasī dyāvāpṛthivyau | virodhanāt | rodhaḥ kūlaṁ niruṇaddhi srotaḥ | kūlaṁ rujateḥ | viparītāt | loṣṭo'viparyayeṇa | apāre dūrapāre | yatsaṁgṛbhṇāsi maghavan | kāśiste mahān | ahastamindra saṁ piṇakkuṇārum | ahastamindra kṛtvā saṁpiṇḍhi parikvaṇanaṁ megham
इस ऋचा में अग्नि की सर्वव्यापकता वर्णित है: 'हे अग्नि, तुम दिनों से, आशुशुक्षणि (शीघ्र-दीप्त) से, जल से, पत्थर से, वनों से, ओषधियों से उत्पन्न होते हो, और मनुष्यों में शुचि (शुद्ध) होकर जन्म लेते हो।' 'शुचि' ज्वलन-धातु से है। इसके बाद इन्द्र की स्तुति है: 'इन्द्र ने सभी दिशाओं से निर्भयता दी' — 'आशा' (दिशा) आसदन (बैठने) से, 'काशि' (मुष्टि) प्रकाशन से। अन्त में मेघ को कुण्डलित मुट्ठी से पीटने का रूपक है।
श्लोक 6.2
अ॒ला॒तृ॒णो व॒ल इ॑न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या॑र । सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणी॑ः पुरुहू॒तं धम॑न्तीः ॥ अलातृणोऽलमातर्दनो मेघः । वलो वृणोतेः । व्रजो व्रजत्यन्तरिक्षे । गोरेतस्या माध्यमिकाया वाचः । पुरा हननाद्भयमानो व्यार । सुगान्पथो अकृणोन्निरजे गाः । सुगमनान्पथो अकरोत् । निरजनाय गवाम् । प्रावन्वाणीः पुरुहूतं धमन्तीः । आपो वा वहनात् । वाचो वा वदनात् । बहुभिराहूतमुदकं भवति । धमतिर्गतिकर्मा
alātṛṇo vala indra vrajo goḥ purā hantorbhayamāno vyāra | sugānpatho akṛṇonniraje gāḥ prāvanvāṇīḥ puruhūtaṁ dhamantīḥ || alātṛṇo'lamātardano meghaḥ | valo vṛṇoteḥ | vrajo vrajatyantarikṣe | goretasyā mādhyamikāyā vācaḥ | purā hananādbhayamāno vyāra | sugānpatho akṛṇonniraje gāḥ | sugamanānpatho akarot | nirajanāya gavām | prāvanvāṇīḥ puruhūtaṁ dhamantīḥ | āpo vā vahanāt | vāco vā vadanāt | bahubhirāhūtamudakaṁ bhavati | dhamatirgatikarmā
इस ऋचा में वृत्र-वध का रूपक है: 'अलातृण, वल (मेघ), गौ (मध्यम वाणी) का व्रज (आवरण), मारे जाने से पूर्व भयभीत होकर खुल गया; उसने सुगम मार्ग बनाए गायों के निकलने के लिए, बहुतों द्वारा पुकारी गई वाणियों ने सहायता की।' 'धमति' गति-कर्म की धातु है।
श्लोक 6.3
उद्वृ॑ह॒ रक्ष॑ः स॒हमू॑लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं॑ शृणीहि । आ कीव॑तः सल॒लूकं॑ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ॥ उद्धर रक्षः सहमूलमिन्द्र । मूलं मोचनाद्वा । मोषणाद्वा । मोहनाद्वा । वृश्च मध्यम् । प्रति शृणीह्यग्रम् । अग्रमागतं भवति । आ कियतो देशात् । सललूकं संलुब्धं भवति । पापकमिति नैरुक्ताः । सररुकं वा स्यात् । सर्तेरभ्यस्तात् । तपुषिस्तपतेः । हेतिर्हन्तेः । त्यं चि॑दि॒त्था क॑त्प॒यं शया॑नम्। सुखपयसम् । सुखमस्य पयः । विस्रुह आपो भवन्ति । विस्रवणात् । व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुह॑ः । इत्यपि निगमो भवति । वीरुध ओषधयो भवन्ति । विरोहणात् । र्वी॒रुध॑ः पारयि॒ष्ण्व॑ः। इत्यपि निगमो भवति । नक्षद्दाभम् । अश्नुवानदाभम् । अभ्यशनेन दभ्नोतीति वा । न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठाम्। इत्यपि निगमो भवति । अस्कृधोयुरकृध्वायुः । कृध्विति ह्रस्वनाम । निकृत्तं भवति । यो अस्कृ॑धोयुर॒जर॒ः स्व॑र्वा॒न्। इत्यपि निगमो भवति । निशुंभा निश्रथ्यहारिणः
udvṛha rakṣaḥ sahamūlamindra vṛścā madhyaṁ pratyagraṁ śṛṇīhi | ā kīvataḥ salalūkaṁ cakartha brahmadviṣe tapuṣiṁ hetimasya || uddhara rakṣaḥ sahamūlamindra | mūlaṁ mocanādvā | moṣaṇādvā | mohanādvā | vṛśca madhyam | prati śṛṇīhyagram | agramāgataṁ bhavati | ā kiyato deśāt | salalūkaṁ saṁlubdhaṁ bhavati | pāpakamiti nairuktāḥ | sararukaṁ vā syāt | sarterabhyastāt | tapuṣistapateḥ | hetirhanteḥ | tyaṁ ciditthā katpayaṁ śayānam| sukhapayasam | sukhamasya payaḥ | visruha āpo bhavanti | visravaṇāt | vayā iva ruruhuḥ sapta visruhaḥ | ityapi nigamo bhavati | vīrudha oṣadhayo bhavanti | virohaṇāt | rvīrudhaḥ pārayiṣṇvaḥ| ityapi nigamo bhavati | nakṣaddābham | aśnuvānadābham | abhyaśanena dabhnotīti vā | nakṣaddābhaṁ taturiṁ parvateṣṭhām| ityapi nigamo bhavati | askṛdhoyurakṛdhvāyuḥ | kṛdhviti hrasvanāma | nikṛttaṁ bhavati | yo askṛdhoyurajaraḥ svarvān| ityapi nigamo bhavati | niśuṁbhā niśrathyahāriṇaḥ
इस ऋचा में राक्षस-नाश की प्रार्थना है: 'हे इन्द्र, राक्षस को जड़ सहित उखाड़ो, मध्य को काटो, अग्रभाग को चूर करो; कितनी ही दूर से लोभी को नष्ट करो, ब्रह्म-द्वेषी के लिए तप्त शस्त्र फेंको।' इसके बाद अनेक छोटे-छोटे वैदिक उद्धरण जोड़े गए हैं — विस्रुह (जल), वीरुध (ओषधि), नक्षद्दाभ, अस्कृधोयु आदि, प्रत्येक अपनी व्युत्पत्ति सहित।
श्लोक 6.4
आजास॑ः पू॒षणं॒ रथे॑ निशृ॒म्भास्ते ज॑न॒श्रिय॑म् । दे॒वं व॑हन्तु॒ बिभ्र॑तः ॥ आवहन्त्वजाः पूषणं रथे । निश्रथ्यहारिणस्ते । जनश्रियं जातश्रियम् । बृबदुक्थो महदुक्थः । वक्तव्यमस्मा उक्थमिति । बृबदुक्थो वा । बृ॒बदु॑क्थं हवामहे । इत्यपि निगमो भवति । ऋदूदरः सोमः । मृदूदरः । मृदूदरेष्विति वा । ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒। इत्यपि निगमो भवति । ऋदूपे इत्युपरिष्टाद् व्याख्यास्यामः । पुलुकामः पुरुकामः । पुलु॒कामो॒ हि मर्त्य॑ः । इत्यपि निगमो भवति । असिन्वती असंखादन्त्यौ । असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः । इत्यपि निगमो भवति । कपनाः कंपनाः क्रिमयो भवन्ति । मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः। इत्यपि निगमो भवति । भाऋजीकः प्रसिद्धभाः । धू॒मके॑तुः स॒मिधा॒ भाऋ॑जीकः। इत्यपि निगमो भवति । रुजाना नद्यो भवन्ति । रुजन्ति कूलानि । सं रुजानाः पिपिष इन्द्रशत्रुः । इत्यपि निगमो भवति । जूर्णिर्जवतेर्वा । द्रवतेर्वा । दूनोतेर्वा । क्षि॒प्ता जूर्णि॒र्न वक्षति । इत्यपि निगमो भवति । परि घ्रं॒समो॒मना वां॒ वयो गात् । पर्यगाद्वां घ्रंसमहरवनायान्नम्
ājāsaḥ pūṣaṇaṁ rathe niśṛmbhāste janaśriyam | devaṁ vahantu bibhrataḥ || āvahantvajāḥ pūṣaṇaṁ rathe | niśrathyahāriṇaste | janaśriyaṁ jātaśriyam | bṛbaduktho mahadukthaḥ | vaktavyamasmā ukthamiti | bṛbaduktho vā | bṛbadukthaṁ havāmahe | ityapi nigamo bhavati | ṛdūdaraḥ somaḥ | mṛdūdaraḥ | mṛdūdareṣviti vā | ṛdūdareṇa sakhyā saceya| ityapi nigamo bhavati | ṛdūpe ityupariṣṭād vyākhyāsyāmaḥ | pulukāmaḥ purukāmaḥ | pulukāmo hi martyaḥ | ityapi nigamo bhavati | asinvatī asaṁkhādantyau | asinvatī bapsatī bhūryattaḥ | ityapi nigamo bhavati | kapanāḥ kaṁpanāḥ krimayo bhavanti | moṣathā vṛkṣaṁ kapaneva vedhasaḥ| ityapi nigamo bhavati | bhāṛjīkaḥ prasiddhabhāḥ | dhūmaketuḥ samidhā bhāṛjīkaḥ| ityapi nigamo bhavati | rujānā nadyo bhavanti | rujanti kūlāni | saṁ rujānāḥ pipiṣa indraśatruḥ | ityapi nigamo bhavati | jūrṇirjavatervā | dravatervā | dūnotervā | kṣiptā jūrṇirna vakṣati | ityapi nigamo bhavati | pari ghraṁsamomanā vāṁ vayo gāt | paryagādvāṁ ghraṁsamaharavanāyānnam
इस ऋचा में पूषा के अश्वों (बकरों) का वर्णन है: 'बकरे रथ में पूषा को ढोएँ, जनश्री (यशस्वी) देव को वहन करें।' इसके बाद कई एकल शब्दों की व्याख्या है — बृबदुक्थ (महान् स्तुति-योग्य), ऋदूदर (कोमल-उदर, सोम), पुलुकाम (बहुकाम), कपन (कीड़े), भाऋजीक (प्रसिद्ध-द्युति), रुजाना (नदियाँ, जो किनारों को तोड़ती हैं), जूर्णि (वेगवान्) — प्रत्येक अपने वैदिक उद्धरण के साथ।
श्लोक 6.5
उपलप्रक्षिणी । उपलेषु प्रक्षिणाति । उपलप्रक्षेपिणी वा । इन्द्र ऋषीन् पप्रच्छ । दुर्भिक्षे केन जीवितीति । तेषामेकः प्रत्युवाच । शकटं शाकिनी गावो जालमस्यन्दनं वनम् । उदधिः पर्वतो राजा दुर्भिक्षे नव वृत्तयः ॥ इति सा निगदव्याख्याता
upalaprakṣiṇī | upaleṣu prakṣiṇāti | upalaprakṣepiṇī vā | indra ṛṣīn papraccha | durbhikṣe kena jīvitīti | teṣāmekaḥ pratyuvāca | śakaṭaṁ śākinī gāvo jālamasyandanaṁ vanam | udadhiḥ parvato rājā durbhikṣe nava vṛttayaḥ || iti sā nigadavyākhyātā
'उपलप्रक्षिणी' 'पत्थरों पर पीसने वाली' (सत्तू बनाने वाली) के अर्थ में है। इसके बाद अकाल में जीवन-निर्वाह के नौ उपायों का एक आख्यान है, जो इन्द्र ने ऋषियों से पूछा — शकट, शाकिनी, गौ, जाल, अस्यन्दन, वन, समुद्र, पर्वत, राजा।
श्लोक 6.6
का॒रुर॒हं त॒तो भि॒षगु॑पलप्र॒क्षिणी॑ न॒ना । नाना॑धियो वसू॒यवोऽनु॒ गा इ॑व तस्थि॒मेन्द्रा॑येन्दो॒ परि॑ स्रव ॥ कारुरहमस्मि । कर्ता स्तोमानाम् । ततो भिषक् । तत इति सन्ताननाम । पितुर्वा । पुत्रस्य वा । उपलप्रक्षिणी सक्तुकारिका । नना नमतेः । माता वा । दुहिता वा । नानाधियो नानाकर्माणः । वसूयवो वसुकामाः । अन्वास्थिताः स्मो गाव इव लोकम् । इन्द्रायेन्दो परिस्रव । इत्यध्येषणा । आसीन ऊर्ध्वामुपसि क्षिणाति । उपस्थे । प्रकलविद्वणिग्भवति । कलाश्च वेद प्रकलाश्च । दुर्मित्रासः प्रकलविन्मिानाः । इत्यपि निगमो भवति । अभ्यर्धयज्वा । अभ्यर्धयन्यजति । सिषक्ति पूषा अभ्यर्धयज्वा । इत्यपि निगमो भवति ।
kārurahaṁ tato bhiṣagupalaprakṣiṇī nanā | nānādhiyo vasūyavo'nu gā iva tasthimendrāyendo pari srava || kārurahamasmi | kartā stomānām | tato bhiṣak | tata iti santānanāma | piturvā | putrasya vā | upalaprakṣiṇī saktukārikā | nanā namateḥ | mātā vā | duhitā vā | nānādhiyo nānākarmāṇaḥ | vasūyavo vasukāmāḥ | anvāsthitāḥ smo gāva iva lokam | indrāyendo parisrava | ityadhyeṣaṇā | āsīna ūrdhvāmupasi kṣiṇāti | upasthe | prakalavidvaṇigbhavati | kalāśca veda prakalāśca | durmitrāsaḥ prakalavinmināḥ | ityapi nigamo bhavati | abhyardhayajvā | abhyardhayanyajati | siṣakti pūṣā abhyardhayajvā | ityapi nigamo bhavati |
इस ऋचा में एक स्त्री कहती है: 'मैं स्तोमों की रचयिता हूँ, फिर वैद्य, फिर सत्तू-पीसने वाली माता — भिन्न-भिन्न कर्मों वाली, धन-कामी, हम गायों के समान लोक का अनुसरण करती हैं; हे इन्द्र, सोम की धारा बहाओ।' यह अध्येषणा (आमन्त्रण) है। इसके बाद 'प्रकलवित्' (व्यापारी) और 'अभ्यर्धयज्वा' (सहयोग से यजन करने वाला) की व्याख्या है।
श्लोक 6.7
ईक्ष ईशिषे । ईक्षे हि वस्व उभय॑स्य राजन् । इत्यपि निगमो भवति । क्षोणस्य क्षयणस्य । महः क्षोणस्या॑श्विना कण्वाय । इत्यपि निगमो भवति
īkṣa īśiṣe | īkṣe hi vasva ubhayasya rājan | ityapi nigamo bhavati | kṣoṇasya kṣayaṇasya | mahaḥ kṣoṇasyāśvinā kaṇvāya | ityapi nigamo bhavati
'ईक्षे' 'शासन करता हूँ' के अर्थ में है ('मैं दोनों धनों का शासक हूँ, हे राजन्')। 'क्षोण' निवास-स्थान के अर्थ में है ('महान् क्षोण के लिए अश्विनौ कण्व को')।
श्लोक 6.8
अस्मे ते बन्धुः । वयमित्यर्थः । अस्मे यातं नासत्या स॒जोषाः । अस्मानित्यर्थः । अस्मे समानेभिर्वृषभ पौंस्येभिः । अस्माभिरित्यर्थः । अस्मे प्र यन्धि मघवन्नृजीषिन् । अस्मभ्यमित्यर्थः । अस्मे आराच्चिद् द्वेषः सनुतर्युयोतु । अस्मदित्यर्थः । ऊर्व इव पप्रथे कामो अस्मे । अस्माकमित्यर्थः । अस्मे धत्त वसवो वसूनि । अस्मास्वित्यर्थः । पाथोऽन्तरिक्षम् । पथा व्याख्यातम् । श्येनो न दीयन्नन्वेति पाथः । इत्यपि निगमो भवति । उदकमपि पाथ उच्यते पानात् । आ चष्ट आसां पाथो नदीनाम् । इत्यपि निगमो भवति । अन्नमपि पाथ उच्यते पानादेव । देवानां पाथ उप वक्षि विद्वान् । इत्यपि निगमो भवति । सवीमनि प्रसवे । देवस्य वयं सवितुः सीमनि । इत्यपि निगमो भवति । सप्रथाः सर्वतः पृथुः ।। त्वम॑ग्ने सप्रथा असि । इत्यपि निगमो भवति । विदथानि वेदनानि । विदथानि प्र चोदयन् । इत्यपि निगमो भवति
asme te bandhuḥ | vayamityarthaḥ | asme yātaṁ nāsatyā sajoṣāḥ | asmānityarthaḥ | asme samānebhirvṛṣabha pauṁsyebhiḥ | asmābhirityarthaḥ | asme pra yandhi maghavannṛjīṣin | asmabhyamityarthaḥ | asme ārāccid dveṣaḥ sanutaryuyotu | asmadityarthaḥ | ūrva iva paprathe kāmo asme | asmākamityarthaḥ | asme dhatta vasavo vasūni | asmāsvityarthaḥ | pātho'ntarikṣam | pathā vyākhyātam | śyeno na dīyannanveti pāthaḥ | ityapi nigamo bhavati | udakamapi pātha ucyate pānāt | ā caṣṭa āsāṁ pātho nadīnām | ityapi nigamo bhavati | annamapi pātha ucyate pānādeva | devānāṁ pātha upa vakṣi vidvān | ityapi nigamo bhavati | savīmani prasave | devasya vayaṁ savituḥ sīmani | ityapi nigamo bhavati | saprathāḥ sarvataḥ pṛthuḥ || tvamagne saprathā asi | ityapi nigamo bhavati | vidathāni vedanāni | vidathāni pra codayan | ityapi nigamo bhavati
यहाँ सर्वनाम 'अस्मे' के विविध विभक्ति-अर्थों (हम, हमें, हमसे, हमारे, हममें) के सात वैदिक उद्धरण दिए गए हैं। फिर 'पाथ' शब्द के तीन अर्थ — अन्तरिक्ष, जल और अन्न — दिखाए गए हैं (सभी 'पान' से)। अन्त में 'सवीमनि' (उत्पत्ति में), 'सप्रथा' (सर्वत्र विस्तृत), और 'विदथानि' (ज्ञान) की व्युत्पत्ति है।
श्लोक 6.9
श्राय॑न्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत । वसूनि जाते जनमान ओज॑सा प्रति भागं न दीधिम ॥ समाश्रिताः सूर्यमुपतिष्ठन्ते । अपि वोपमार्थे स्यात् । सूर्यमिवेन्द्रमुपतिष्ठन्त इति । सर्वाणीन्द्रस्य धनानि विभक्षमाणाः । स यथा धनानि विभजति जाते च जनिष्यमाणे च । तं वयं भागमनुध्यायाम । ओजसा बलेन । ओज ओजतेर्वा । उब्जतेर्वा । आशीराश्रयणाद्वा । आश्रपणाद्वा । अथेयमितराशीराशास्तेः । इन्द्राय गाव आशिरम् । इत्यपि निगमो भवति । सा मे सत्याशीर्देवेषु । इति च । यदा ते मर्तो अनु भोगमानळादिद्ग्रसिष्ठ ओषधीरजीगः । यदा ते मर्तो भोगमन्वापदथ ग्रसितृतम ओषधीरगारीः । जिगर्तिर्गिरतिकर्मा वा । गृणातिकर्मा वा । गृह्णातिकर्मा वा । मूरा अमूर न वयं चिकित्वो महित्वम॑ग्ने॒ त्वमङ्ग वित्से । मूढा वयं स्मः । अमूढस्त्वमसि । न वयं विद्मो महित्वमग्ने । त्वं तु वेत्थ । शशमानः शंसमानः । यो वां यज्ञैः शशमानो ह दाशति । इत्यपि निगमो भवति । देवो देवाच्या कृपा । देवो देवान्प्रत्यक्तया कृपा । कृप्कृपतेर्वा । कल्पतेर्वा ।
śrāyanta iva sūryaṁ viśvedindrasya bhakṣata | vasūni jāte janamāna ojasā prati bhāgaṁ na dīdhima || samāśritāḥ sūryamupatiṣṭhante | api vopamārthe syāt | sūryamivendramupatiṣṭhanta iti | sarvāṇīndrasya dhanāni vibhakṣamāṇāḥ | sa yathā dhanāni vibhajati jāte ca janiṣyamāṇe ca | taṁ vayaṁ bhāgamanudhyāyāma | ojasā balena | oja ojatervā | ubjatervā | āśīrāśrayaṇādvā | āśrapaṇādvā | atheyamitarāśīrāśāsteḥ | indrāya gāva āśiram | ityapi nigamo bhavati | sā me satyāśīrdeveṣu | iti ca | yadā te marto anu bhogamānaḷādidgrasiṣṭha oṣadhīrajīgaḥ | yadā te marto bhogamanvāpadatha grasitṛtama oṣadhīragārīḥ | jigartirgiratikarmā vā | gṛṇātikarmā vā | gṛhṇātikarmā vā | mūrā amūra na vayaṁ cikitvo mahitvamagne tvamaṅga vitse | mūḍhā vayaṁ smaḥ | amūḍhastvamasi | na vayaṁ vidmo mahitvamagne | tvaṁ tu vettha | śaśamānaḥ śaṁsamānaḥ | yo vāṁ yajñaiḥ śaśamāno ha dāśati | ityapi nigamo bhavati | devo devācyā kṛpā | devo devānpratyaktayā kṛpā | kṛpkṛpatervā | kalpatervā |
इस ऋचा में कहा गया है: 'सूर्य की शरण लेने वालों के समान, सब इन्द्र के धन का भाग पाते हैं; उत्पन्न और उत्पन्न होने वाले के लिए बल से हम भाग का ध्यान करते हैं।' 'ओज' बल के अर्थ में, 'आशीर्' आशा/आशीर्वाद दोनों अर्थ में प्रयुक्त होता है। एक अन्य ऋचा में कहा गया है: 'हे अग्नि, हम मूढ़ हैं, तुम्हीं महत्ता जानते हो।'
श्लोक 6.10
अश्रवं हि भूरिदाव॑त्तरा वां विजामातुरुत वा घा स्यालात् । अथा सोम॑स्य॒ प्रय॑ती युवभ्या॒मिन्द्राग्नी स्तोमं जनयामि नव्य॑म् ॥ अश्रौषं हि बहुदातृतरौ वाम् । विजामातुः । असुसमाप्ताज्जामातुः । विजामातेति शश्वद्दाक्षिणाजाः क्रीतापतिमाचक्षते । असुसमाप्त इव वरोऽभिप्रेतः । जामाता । जा अपत्यम् । तन्निर्माता । उत वा घा स्यालात् । अपि च स्यालात् । स्याल आसन्नः संयोगेनेति नैदानाः । स्याल्लाजानावपतीति वा । लाजा लाजतेः । स्यं शूर्पं स्यतेः । शूर्पमशनपवनम् । शृणातेर्वा । अथ सोमस्य प्रदानेन युवाभ्यामिन्द्राग्नी स्तोमं जनयामि नव्यं नवतरम् । ओमास इत्युपरिष्टाद्व्याख्यास्यामः
aśravaṁ hi bhūridāvattarā vāṁ vijāmāturuta vā ghā syālāt | athā somasya prayatī yuvabhyāmindrāgnī stomaṁ janayāmi navyam || aśrauṣaṁ hi bahudātṛtarau vām | vijāmātuḥ | asusamāptājjāmātuḥ | vijāmāteti śaśvaddākṣiṇājāḥ krītāpatimācakṣate | asusamāpta iva varo'bhipretaḥ | jāmātā | jā apatyam | tannirmātā | uta vā ghā syālāt | api ca syālāt | syāla āsannaḥ saṁyogeneti naidānāḥ | syāllājānāvapatīti vā | lājā lājateḥ | syaṁ śūrpaṁ syateḥ | śūrpamaśanapavanam | śṛṇātervā | atha somasya pradānena yuvābhyāmindrāgnī stomaṁ janayāmi navyaṁ navataram | omāsa ityupariṣṭādvyākhyāsyāmaḥ
इस ऋचा में कहा गया है: 'मैंने सुना है कि तुम दोनों जामाता (दामाद) या साले से भी बढ़कर उदार हो; अतः सोम अर्पित कर मैं तुम दोनों इन्द्राग्नि के लिए नया स्तोम रचता हूँ।' 'जामाता' 'जा' (सन्तान) के निर्माता के अर्थ में, 'स्याल' निकट-सम्बन्धी के अर्थ में समझाया गया है।
श्लोक 6.11
सोमानं स्वरणं कृणुहि ब्रह्मणस्पते । कक्षीवन्तं य औशिजः ॥ सोमानां सोतारं प्रकाशनवन्तं कुरु ब्रह्मणस्पते कक्षीवन्तमिव य औशिजः । कक्षीवान् कक्ष्यावान् । औशिज उशिजः पुत्रः । उशिग्वष्टेः कान्तिकर्मणः । अपि त्वयं मनुष्यकक्ष एवाभिप्रेतः स्यात् । तं सोमानां सोतारं मां प्रकाशनवन्तं कुरु ब्रह्मणस्पते
somānaṁ svaraṇaṁ kṛṇuhi brahmaṇaspate | kakṣīvantaṁ ya auśijaḥ || somānāṁ sotāraṁ prakāśanavantaṁ kuru brahmaṇaspate kakṣīvantamiva ya auśijaḥ | kakṣīvān kakṣyāvān | auśija uśijaḥ putraḥ | uśigvaṣṭeḥ kāntikarmaṇaḥ | api tvayaṁ manuṣyakakṣa evābhipretaḥ syāt | taṁ somānāṁ sotāraṁ māṁ prakāśanavantaṁ kuru brahmaṇaspate
इस ऋचा में ब्रह्मणस्पति से कहा जाता है: 'सोम-अभिषवकर्ता को प्रसिद्ध कर, जैसे कक्षीवान् (औशिज-पुत्र) को किया।' 'उशिज्' कान्ति-धातु से है।
श्लोक 6.12
इन्द्रासोमा समघशंसमभ्य १ घं तपुर्ययस्तु चरुरग्निवाँ इव । ब्रह्मद्विषे क्रव्यादे घोरचक्षसे द्वेषो धत्तमनवायं किमीदिने ॥ इन्द्रासोमावघस्य शंसितारम् । अघं हन्तेः । निर्ह्रसितोपसर्गः । आहन्तीति । तपुस्तपतेः । चरुर्मृच्चयो भवति । चरतेर्वा । समुच्चरन्त्यस्मादापः । ब्रह्मद्विषे क्रव्यमदते । घोरख्यानाय । क्रव्यं विकृत्ताज्जायत इति नैरुक्ताः । द्वेषो धत्तम् । अनवायमनवयवम् । यदन्ये न व्यवेयुः । अद्वेषस इति वा । किमीदिने । किमिदानीमिति चरते । किमिदं किमिदमिति वा । पिशुनाय चरते । पिशुनः पिंशतेः । विपिंशतीति
indrāsomā samaghaśaṁsamabhya 1 ghaṁ tapuryayastu caruragnivām̐ iva | brahmadviṣe kravyāde ghoracakṣase dveṣo dhattamanavāyaṁ kimīdine || indrāsomāvaghasya śaṁsitāram | aghaṁ hanteḥ | nirhrasitopasargaḥ | āhantīti | tapustapateḥ | carurmṛccayo bhavati | caratervā | samuccarantyasmādāpaḥ | brahmadviṣe kravyamadate | ghorakhyānāya | kravyaṁ vikṛttājjāyata iti nairuktāḥ | dveṣo dhattam | anavāyamanavayavam | yadanye na vyaveyuḥ | adveṣasa iti vā | kimīdine | kimidānīmiti carate | kimidaṁ kimidamiti vā | piśunāya carate | piśunaḥ piṁśateḥ | vipiṁśatīti
इस ऋचा में इन्द्र-सोम से प्रार्थना है: 'हे इन्द्र-सोम, दुष्ट-भाषी, तप्त पात्र के समान अग्निमय, ब्रह्म-द्वेषी, मांस-भक्षी, भयानक-दृष्टि वाले 'किमीदिन्' के प्रति अखण्ड द्वेष धारण करो।' 'क्रव्य' (कच्चा मांस) 'कटे हुए से जन्मा' के अर्थ में, 'किमीदिन्' 'क्या अभी' पूछने वाले चुगलखोर के अर्थ में समझाया गया है।
श्लोक 6.13
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवाम॑वाँ इभैन । तृष्वीमनु प्रसितिं द्रूणानोऽस्तासि विध्य रक्षसस्तपिष्ठैः ॥ कुरुष्व पाजः । पाजः पालनात् । प्रसितिमिव पृथ्वीम् । प्रसितिः प्रसयनात् । तंतुर्वा । जालं वा । याहि राजेव । अमात्यवान् । अभ्यमनवान् । स्ववान्वा । इराभृता गणेन गतभयेन । हस्तिनेति वा । तृष्व्यानु प्रसित्या द्रूणानः । तृष्वीति क्षिप्रनाम । तरतेर्वा । त्वरतेर्वा । असितासि । विध्य रक्षसः । तपिष्ठैः । तप्ततमैः । तृप्ततमैः । प्रपिष्ठतमैरिति वा । यस्ते गर्भममीवा दुर्णामा योनिमाशये । अमीवाभ्यमनेन व्याख्यातः । दुर्णामा क्रिमिर्भवति पापनामा । क्रिमिः क्रव्ये मेद्यति । क्रमतेर्वा स्यात्सरणकर्मणः । क्रामतेर्वा । अति क्राम॑न्तो दुरितानि विश्वा । अतिक्रममाणा दुर्गतिगमनानि सर्वाणि । अप्वा यदेनया विद्धोऽपवीयते । व्याधिर्वा । भयं वा । अप्वे परेहि । इत्यपि निगमो भवति । अमतिरमामयी । मतिरात्ममयी । ऊर्ध्वा यस्यामतिर्भा अदिद्युतत् सवीमनि । इत्यपि निगमो भवति । श्रुष्टीति क्षिप्रनाम । आशु अष्टीति
kṛṇuṣva pājaḥ prasitiṁ na pṛthvīṁ yāhi rājevāmavām̐ ibhaina | tṛṣvīmanu prasitiṁ drūṇāno'stāsi vidhya rakṣasastapiṣṭhaiḥ || kuruṣva pājaḥ | pājaḥ pālanāt | prasitimiva pṛthvīm | prasitiḥ prasayanāt | taṁturvā | jālaṁ vā | yāhi rājeva | amātyavān | abhyamanavān | svavānvā | irābhṛtā gaṇena gatabhayena | hastineti vā | tṛṣvyānu prasityā drūṇānaḥ | tṛṣvīti kṣipranāma | taratervā | tvaratervā | asitāsi | vidhya rakṣasaḥ | tapiṣṭhaiḥ | taptatamaiḥ | tṛptatamaiḥ | prapiṣṭhatamairiti vā | yaste garbhamamīvā durṇāmā yonimāśaye | amīvābhyamanena vyākhyātaḥ | durṇāmā krimirbhavati pāpanāmā | krimiḥ kravye medyati | kramatervā syātsaraṇakarmaṇaḥ | krāmatervā | ati krāmanto duritāni viśvā | atikramamāṇā durgatigamanāni sarvāṇi | apvā yadenayā viddho'pavīyate | vyādhirvā | bhayaṁ vā | apve parehi | ityapi nigamo bhavati | amatiramāmayī | matirātmamayī | ūrdhvā yasyāmatirbhā adidyutat savīmani | ityapi nigamo bhavati | śruṣṭīti kṣipranāma | āśu aṣṭīti
इस ऋचा में इन्द्र से युद्ध-आह्वान है: 'अपना पाजस् (बल) पृथ्वी-व्यापी जाल के समान बनाओ, हाथी के समान प्रबल राजा की भाँति चलो; तीव्र गति से आक्रमण करते हुए, तप्ततम अस्त्रों से राक्षसों को बेध डालो।' इसके बाद 'दुर्णामा' (कृमि/रोग), 'अमीवा' (व्याधि), और 'अमति'/'मति' के विरोधाभासी अर्थ दिए गए हैं।
श्लोक 6.14
ताँ अध्वर उश॒तो यक्ष्यग्ने श्रुष्टी भगं नासत्या पुरन्धिम् । तानध्वरे यज्ञे । उशतः कामयमानान् । यजाग्ने । श्रुष्टी भगम् । नासत्यौ चाश्विनौ । सत्यावेव नासत्यावित्यौर्णवाभः । सत्यस्य प्रणेतारावित्याग्रायणः । नासिकाप्रभवौ बभूवतुरिति वा । पुरन्धिर्बहुधीः । तत्कः पुरन्धिः । भगः पुरस्तात्तस्यान्वादेश इत्येकम् । इन्द्र इत्यपरम् । स बहुकर्मतमः । पुरां च दारयितृतमः । वरुण इत्यपरम् । तं प्रज्ञया स्तौति । इमामू नु कवितमस्य मायाम् । इत्यपि निगमो भवति । रुशदिति वर्णनाम । रोचतेर्व़्िलतिकर्मणः । समिद्धस्य रुशददर्शि पाजः । इत्यपि निगमो भवति
tām̐ adhvara uśato yakṣyagne śruṣṭī bhagaṁ nāsatyā purandhim | tānadhvare yajñe | uśataḥ kāmayamānān | yajāgne | śruṣṭī bhagam | nāsatyau cāśvinau | satyāveva nāsatyāvityaurṇavābhaḥ | satyasya praṇetārāvityāgrāyaṇaḥ | nāsikāprabhavau babhūvaturiti vā | purandhirbahudhīḥ | tatkaḥ purandhiḥ | bhagaḥ purastāttasyānvādeśa ityekam | indra ityaparam | sa bahukarmatamaḥ | purāṁ ca dārayitṛtamaḥ | varuṇa ityaparam | taṁ prajñayā stauti | imāmū nu kavitamasya māyām | ityapi nigamo bhavati | ruśaditi varṇanāma | rocatervalatikarmaṇaḥ | samiddhasya ruśadadarśi pājaḥ | ityapi nigamo bhavati
इस ऋचा में अश्विनौ से कहा जाता है: 'यज्ञ में कामनावान् जनों के लिए शीघ्र यजन करो, हे अग्नि, भग और पुरन्धि (बहुविधा) के लिए, और नासत्यौ के लिए।' 'नासत्य' के तीन सम्भव अर्थ दिए गए हैं — 'सत्य ही' (और्णवाभ), 'सत्य के प्रणेता' (आग्रायण), या 'नासिका से उत्पन्न'। 'पुरन्धि' को भग, इन्द्र या वरुण के रूप में पहचाना गया है।
श्लोक 6.15
अस्ति हि वः सजात्यं रिशादसो देवासो अस्त्याप्यम् । अस्ति हि वः । समानजातिता रेशयदारिणो देवाः । अस्त्याप्यम् । आप्यमाप्नोतेः । सुदत्रः कल्याणदानः । त्वष्टा सुदत्रो विदधातु रायः । इत्यपि निगमो भवति । सुविदत्रः कल्याणविद्यः । आग्ने याहि सुविदत्रेभिरर्वाङ् । इत्यपि निगमो भवति । आनुषगिति नामानुपूर्वस्य । अनुषक्तं भवति । स्तृणन्ति बर्हिरानुषक् । इत्यपि निगमो भवति । तुर्वणिस्तूर्णवनिः । स तुर्वणिर्महाँ अरेणु पौस्यै । इत्यपि निगमो भवति । गिर्वणा देवो भवति । गीर्भिरेनं वनयन्ति । जुष्टं गिर्वणसे बृहत् । इत्यपि निगमो भवति
asti hi vaḥ sajātyaṁ riśādaso devāso astyāpyam | asti hi vaḥ | samānajātitā reśayadāriṇo devāḥ | astyāpyam | āpyamāpnoteḥ | sudatraḥ kalyāṇadānaḥ | tvaṣṭā sudatro vidadhātu rāyaḥ | ityapi nigamo bhavati | suvidatraḥ kalyāṇavidyaḥ | āgne yāhi suvidatrebhirarvāṅ | ityapi nigamo bhavati | ānuṣagiti nāmānupūrvasya | anuṣaktaṁ bhavati | stṛṇanti barhirānuṣak | ityapi nigamo bhavati | turvaṇistūrṇavaniḥ | sa turvaṇirmahām̐ areṇu pausyai | ityapi nigamo bhavati | girvaṇā devo bhavati | gīrbhirenaṁ vanayanti | juṣṭaṁ girvaṇase bṛhat | ityapi nigamo bhavati
इस ऋचा में कहा गया है: 'तुम्हारा हमसे साजात्य (सजातीयता) है, हे शत्रु-विदारक देवो, तुम्हारा हमसे आप्य (मित्रता) है।' 'सुदत्र' कल्याण-दान के अर्थ में, 'तुर्वणि' शीघ्र-विजयी के अर्थ में, 'गिर्वणा' 'जिसे वाणी से प्रसन्न किया जाता है' के अर्थ में समझाया गया है।
श्लोक 6.16
असूर्ते सूर्ते रज॑सि निषत्ते ये भूतानि समकृण्वन्निमानि । असुसमीरिताः सुसमीरिते वातसमीरिताः । माध्यमिका देवगणाः । ते रसेन पृथिवीं तर्पयन्तः । भूतानि च कुर्वन्ति । त आयजन्त । इत्यतिक्रान्तं प्रतिवचनम् । अम्यक्सा त इन्द्र ऋष्टिः । अमाक्तेति वा । अभ्यक्तेति । यादृश्म॒न्धायि तमपस्यया विदत् । यादृशेऽधायि तमपस्यया विदत् । उस्रः पितेव जारयायि यज्ञैः । उस्र इव गोपिता जायि यज्ञैः
asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvannimāni | asusamīritāḥ susamīrite vātasamīritāḥ | mādhyamikā devagaṇāḥ | te rasena pṛthivīṁ tarpayantaḥ | bhūtāni ca kurvanti | ta āyajanta | ityatikrāntaṁ prativacanam | amyaksā ta indra ṛṣṭiḥ | amākteti vā | abhyakteti | yādṛśmandhāyi tamapasyayā vidat | yādṛśe'dhāyi tamapasyayā vidat | usraḥ piteva jārayāyi yajñaiḥ | usra iva gopitā jāyi yajñaiḥ
इस ऋचा में मध्यम देवगणों का वर्णन है, जिन्होंने असंगठित रज (अन्तरिक्ष) में समस्त भूतों को रचा। इसके बाद अस्पष्टार्थ शब्दों की एक शृंखला है — अम्यक्, यादृश्मन्, जारयायि — जिन्हें केवल सांकेतिक रूप से समझाया गया है।
श्लोक 6.17
प्र वोऽच्छा जुजुषाणासो अस्थुरभूत विश्व अग्रियोत वाजाः । प्रास्थुर्वो जोषयमाणा अभवत सर्वे । अग्रगमनेनेति वा ।अग्रगरणेनेति वा अग्रसंवादिन इति वा । अपि वाग्रमित्येतदनर्थकमुपबंधमाददीत । अद्धीदिन्द्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोम॑म् । अद्धीन्द्र प्रस्थितानीमानि हवींषि चनो दधिष्व । चन इत्यन्ननाम । पचतिर्नामीभूतः । तं मेदस्तः प्रति पचताग्रभीष्टाम् । इत्यपि निगमो भवति । अपि वा मेदसश्च पशोश्च । सात्त्वं द्विवचनं स्यात् । यत्र ह्येकवचनार्थः प्रसिद्धं तद्भवति । पुरोळा अग्ने पचतः । इति यथा । शुरुध आपो भवन्ति । शुचं संरुन्धन्ति । ऋतस्य॒ हि शुरुधः सन्ति पूर्वीः । इत्यपि निगमो भवति । अमिनोऽमितमात्रो महान्भवति । अभ्यमितो वा । अमिनः सहोभिः । इत्यपि निगमो भवति । जज्झतीरापो भवन्ति । शब्दकारिण्यः । मरुतो जज्झतीरिव । इत्यपि निगमो भवति । अप्रतिष्कुतः । अप्रतिष्कृतः । अप्रस्खलितो वा । अस्मभ्यमप्रतिष्कुतः । इत्यपि निगमो भवति । शाशदानः शाशाद्यमानः । प्र स्वां मतिमतिरच्छाशदानः । इत्यपि निगमो भवति
pra vo'cchā jujuṣāṇāso asthurabhūta viśva agriyota vājāḥ | prāsthurvo joṣayamāṇā abhavata sarve | agragamaneneti vā |agragaraṇeneti vā agrasaṁvādina iti vā | api vāgramityetadanarthakamupabaṁdhamādadīta | addhīdindra prasthitemā havīṁṣi cano dadhiṣva pacatota somam | addhīndra prasthitānīmāni havīṁṣi cano dadhiṣva | cana ityannanāma | pacatirnāmībhūtaḥ | taṁ medastaḥ prati pacatāgrabhīṣṭām | ityapi nigamo bhavati | api vā medasaśca paśośca | sāttvaṁ dvivacanaṁ syāt | yatra hyekavacanārthaḥ prasiddhaṁ tadbhavati | puroḷā agne pacataḥ | iti yathā | śurudha āpo bhavanti | śucaṁ saṁrundhanti | ṛtasya hi śurudhaḥ santi pūrvīḥ | ityapi nigamo bhavati | amino'mitamātro mahānbhavati | abhyamito vā | aminaḥ sahobhiḥ | ityapi nigamo bhavati | jajjhatīrāpo bhavanti | śabdakāriṇyaḥ | maruto jajjhatīriva | ityapi nigamo bhavati | apratiṣkutaḥ | apratiṣkṛtaḥ | apraskhalito vā | asmabhyamapratiṣkutaḥ | ityapi nigamo bhavati | śāśadānaḥ śāśādyamānaḥ | pra svāṁ matimatiracchāśadānaḥ | ityapi nigamo bhavati
इस ऋचा में देवताओं का आह्वान है: 'तुम प्रसन्न होकर आगे बढ़े, हे इन्द्र, सभी अग्रगामी बल तुम्हारे साथ हुए।' इसके बाद कई एकल शब्दों की व्याख्या है — 'शुरुध' (जल, दुःख को रोकने वाला), 'अमिन' (असीम, महान्), 'जज्झति' (शब्द करने वाला जल), 'अप्रतिष्कुत' (अस्खलित), 'शाशदान' (प्रकट होता हुआ) — प्रत्येक अपने उद्धरण सहित।
श्लोक 6.18
सृप्रः सर्पणात् । इदमपीतरत् सृप्रमेतस्मादेव । सर्पिर्वा । तैलं वा । सृप्रकरस्नमूतये । इत्यपि निगमो भवति । करस्नौ बाहू । कर्मणां प्रस्नातारौ । सुशिप्रमेतेन व्याख्यातम् । वाजे सुशिप्र गोम॑ति । इत्यपि निगमो भवति । शिप्रे हनू नासिके वा । हनुर्हन्तेः । नासिका नसतेः । विष्य॑स्व शिप्रे वि सृजस्व धेने । इत्यपि निगमो भवति । धेना दधातेः । रंसु रमणात् । स चित्रेण चिकिते रंसु भासा । इत्यपि निगमो भवति । द्विबर्हा द्वयोः स्थानयोः परिवृढः । मध्यमे च स्थाने उत्तमे च । उत द्विबर्हा अमिनः सहोभिः । इत्यपि निगमो भवति । अक्र आक्रमणात् । अक्रो न बभ्रिः समिथे महीनाम् । इत्यपि निगमो भवति । उराण उरु कुर्वाणः । दूत ईयसे प्रदिव उरा॒णः । इत्यपि निगमो भवति । स्तिया आपो भवन्ति । स्त्यायनात् । वृषा सिन्धूनां वृषभः स्तिया॑नाम् । इत्यपि निगमो भवति । स्तिपाः स्तियापालनः । उपस्थितान् पालयतीति वा। स न स्तिपा उत भवा तनूपाः । इत्यपि निगमो भवति । जबारु जवमानरोहि । जरमाणरोहि । गरमाणरोहीति वा । अग्रे रुप आरुपितं जबारु । इत्यपि निगमो भवति । जरूथं गरूथं गृणातेः । जरूथं हन्यक्षि राये पुर॑न्धिम् । इत्यपि निगमो भवति । कुलिश इति वज्रनाम । कूलशातनो भवति । स्कन्धांसीव कुलिशेना विवृक्णाहिः शयत उपपृक्पृथिव्याः । स्कन्धो वृक्षस्य समास्कन्नो भवति । अयमपीतरः स्कन्ध एतस्मादेव । आस्कन्नं काये । अहिः शयत उपपर्चनः पृथिव्याः । तुजस्तुंजतेर्दानकर्मणः
sṛpraḥ sarpaṇāt | idamapītarat sṛprametasmādeva | sarpirvā | tailaṁ vā | sṛprakarasnamūtaye | ityapi nigamo bhavati | karasnau bāhū | karmaṇāṁ prasnātārau | suśiprametena vyākhyātam | vāje suśipra gomati | ityapi nigamo bhavati | śipre hanū nāsike vā | hanurhanteḥ | nāsikā nasateḥ | viṣyasva śipre vi sṛjasva dhene | ityapi nigamo bhavati | dhenā dadhāteḥ | raṁsu ramaṇāt | sa citreṇa cikite raṁsu bhāsā | ityapi nigamo bhavati | dvibarhā dvayoḥ sthānayoḥ parivṛḍhaḥ | madhyame ca sthāne uttame ca | uta dvibarhā aminaḥ sahobhiḥ | ityapi nigamo bhavati | akra ākramaṇāt | akro na babhriḥ samithe mahīnām | ityapi nigamo bhavati | urāṇa uru kurvāṇaḥ | dūta īyase pradiva urāṇaḥ | ityapi nigamo bhavati | stiyā āpo bhavanti | styāyanāt | vṛṣā sindhūnāṁ vṛṣabhaḥ stiyānām | ityapi nigamo bhavati | stipāḥ stiyāpālanaḥ | upasthitān pālayatīti vā| sa na stipā uta bhavā tanūpāḥ | ityapi nigamo bhavati | jabāru javamānarohi | jaramāṇarohi | garamāṇarohīti vā | agre rupa ārupitaṁ jabāru | ityapi nigamo bhavati | jarūthaṁ garūthaṁ gṛṇāteḥ | jarūthaṁ hanyakṣi rāye purandhim | ityapi nigamo bhavati | kuliśa iti vajranāma | kūlaśātano bhavati | skandhāṁsīva kuliśenā vivṛkṇāhiḥ śayata upapṛkpṛthivyāḥ | skandho vṛkṣasya samāskanno bhavati | ayamapītaraḥ skandha etasmādeva | āskannaṁ kāye | ahiḥ śayata upaparcanaḥ pṛthivyāḥ | tujastuṁjaterdānakarmaṇaḥ
यहाँ एक लम्बी सूची है शारीरिक और अन्य शब्दों की — 'सृप्र' (रेंगने वाला/घी/तेल), 'करस्न' (बाहु), 'शिप्र' (हनु/नासिका), 'द्विबर्हा' (दो स्थानों में महान्), 'अक्र' (पर्वत), 'उराण' (विस्तारक), 'स्तिया' (जल), 'जबारु' (शीघ्र-आरोही), 'जरूथ' (गर्जना), और अन्त में 'कुलिश' (वज्र) की व्याख्या सर्प-वध के एक ऋचा-उद्धरण सहित।
श्लोक 6.19
तुञ्जे तुञ्जे य उत्तरे स्तोमा इन्द्रस्य वज्रिणः । न विन्धे अस्य सुष्टुतिम् ॥ दाने दाने य उत्तरे स्तोमा इन्द्रस्य वज्रिणो नास्य तैर्विन्दामि समाप्तिं स्तुतेः । बर्हणा परिबर्हणा । बृहच्छ्रवा असुरो बर्हणा कृतः । इत्यपि निगमो भवति
tuñje tuñje ya uttare stomā indrasya vajriṇaḥ | na vindhe asya suṣṭutim || dāne dāne ya uttare stomā indrasya vajriṇo nāsya tairvindāmi samāptiṁ stuteḥ | barhaṇā paribarhaṇā | bṛhacchravā asuro barhaṇā kṛtaḥ | ityapi nigamo bhavati
इस ऋचा में कहा गया है: 'दान-दर पर वज्रधारी इन्द्र के जो उच्चतर स्तोम हैं, उनसे भी मैं उसकी स्तुति की पूर्णता नहीं पाता।' 'बर्हणा' समृद्धि के अर्थ में है।
श्लोक 6.20
यो अस्मै घ्रंस उत वा य ऊधनि सोमं सुनोति भवति द्युमाँ अह । अपाप शक्रस्ततनुष्टिमूहति तनूशुभ्रं मघवा यः कवास॒खः ॥ घ्रंस इत्यहर्नाम । ग्रस्यन्तेऽस्मिन्रसाः । गोरूध उद्धततरं भवति । उपोन्नद्धमिति वा । स्नेहानुप्रदानसामान्याद्रात्रिरप्यूध उच्यते । स योऽस्मा अहन्यपि वा रात्रौ सोमं सुनोति भवत्यह द्योतनवान् । अपोहत्यपोहति शक्रः तितनिषुं धर्मसन्तानादपेतमलंकरिष्णुमयज्वानम् । तनूशुभ्रं तनूशोभयितारम् । मघवा यः । कवासखो यस्य कुपूयाः सखायः । न्याविध्यदिलीबिशस्य दृळ्हा वि शृङ्गिणमभिनुच्छुष्णमिन्द्रः । निरविध्यदिलाबिलशयस्य दृढानि । व्यभिनच्छृङ्गिणं शुष्णमिन्द्रः
yo asmai ghraṁsa uta vā ya ūdhani somaṁ sunoti bhavati dyumām̐ aha | apāpa śakrastatanuṣṭimūhati tanūśubhraṁ maghavā yaḥ kavāsakhaḥ || ghraṁsa ityaharnāma | grasyante'sminrasāḥ | gorūdha uddhatataraṁ bhavati | uponnaddhamiti vā | snehānupradānasāmānyādrātrirapyūdha ucyate | sa yo'smā ahanyapi vā rātrau somaṁ sunoti bhavatyaha dyotanavān | apohatyapohati śakraḥ titaniṣuṁ dharmasantānādapetamalaṁkariṣṇumayajvānam | tanūśubhraṁ tanūśobhayitāram | maghavā yaḥ | kavāsakho yasya kupūyāḥ sakhāyaḥ | nyāvidhyadilībiśasya dṛḷhā vi śṛṅgiṇamabhinucchuṣṇamindraḥ | niravidhyadilābilaśayasya dṛḍhāni | vyabhinacchṛṅgiṇaṁ śuṣṇamindraḥ
इस ऋचा में कहा गया है: 'जो भी दिन या रात्रि के थन (ऊधस्) में सोम निचोड़ता है, वह द्युतिमान् होता है; शक्र सब कुछ जान लेता है, जिसका सखा भी दुष्ट हो।' 'घ्रंस' दिन का नाम है। इसके बाद इलीबिश-वध का उद्धरण है — इन्द्र ने दृढ़ शृंगी शुष्ण को बेध डाला।
श्लोक 6.21
अस्मा इदु प्र भरा तूतुजानो वृत्राय॒ वज्रमीशानः कियेधाः । गोर्न पर्व वि रदा तिरश्चेष्यन्नर्णांस्य॒पां चरध्यै ॥ अस्मै प्रहर । तूर्णं त्वरमाणः । वृत्राय वज्रमीशानः । कियेधाः कियद्धा इति वा । क्रममाणधा इति वा । गोरिव पर्वाणि विरद मेघस्य । इष्यन्नर्णांसि । अपां चरणाय । भृमिर्भ्राम्यतेः । भृमिरस्यृषिकृन्मर्त्यानाम् । इत्यपि निगमो भवति । विष्पितो विप्राप्तः । पारं नो अस्य विष्पितस्य पर्षन् । इत्यपि निगमो भवति
asmā idu pra bharā tūtujāno vṛtrāya vajramīśānaḥ kiyedhāḥ | gorna parva vi radā tiraśceṣyannarṇāṁsyapāṁ caradhyai || asmai prahara | tūrṇaṁ tvaramāṇaḥ | vṛtrāya vajramīśānaḥ | kiyedhāḥ kiyaddhā iti vā | kramamāṇadhā iti vā | goriva parvāṇi virada meghasya | iṣyannarṇāṁsi | apāṁ caraṇāya | bhṛmirbhrāmyateḥ | bhṛmirasyṛṣikṛnmartyānām | ityapi nigamo bhavati | viṣpito viprāptaḥ | pāraṁ no asya viṣpitasya parṣan | ityapi nigamo bhavati
इस ऋचा में इन्द्र से कहा जाता है: 'शीघ्रता से वृत्र के लिए वज्र उठाओ, हे ईशान; गौ (मेघ) के जोड़ों को काटो, जल के प्रवाह के लिए तिरछे मार्ग बनाओ।' 'भृमि' 'भ्रमण करने वाला' के अर्थ में, 'विष्पित' 'व्याप्त' के अर्थ में समझाया गया है।
श्लोक 6.22
तन्नस्तुरीमद्भुतं पुरु वारं पुरु त्मना । त्वष्टा पोषाय वि ष्यतु राये नाभानो अस्मयुः ॥ तन्नः । तूर्णापि । महत् । संभृतम् । आत्मना । त्वष्टा धनस्य पोषाय विष्यतु । इत्यस्मयुः । अस्मान् कामयमानः । रास्पिनो रास्पी । रपतेर्वा । रसतेर्वा । रास्पिनस्यायोः । इत्यपि निगमो भवति । ऋञ्जतिः प्रसाधनकर्मा । आ व ऋजस ऊर्जां व्युष्टिषु । इत्यपि निगमो भवति । ऋजुरित्यप्यस्य भवति । ऋजुनीती नो वरुणः । इत्यपि निगमो भवति । प्रतद्वसू प्राप्तवसू । हरी इन्द्र प्रतद्वसू अभि स्वर । इत्यपि निगमो भवति
tannasturīmadbhutaṁ puru vāraṁ puru tmanā | tvaṣṭā poṣāya vi ṣyatu rāye nābhāno asmayuḥ || tannaḥ | tūrṇāpi | mahat | saṁbhṛtam | ātmanā | tvaṣṭā dhanasya poṣāya viṣyatu | ityasmayuḥ | asmān kāmayamānaḥ | rāspino rāspī | rapatervā | rasatervā | rāspinasyāyoḥ | ityapi nigamo bhavati | ṛñjatiḥ prasādhanakarmā | ā va ṛjasa ūrjāṁ vyuṣṭiṣu | ityapi nigamo bhavati | ṛjurityapyasya bhavati | ṛjunītī no varuṇaḥ | ityapi nigamo bhavati | pratadvasū prāptavasū | harī indra pratadvasū abhi svara | ityapi nigamo bhavati
इस ऋचा में त्वष्टा से प्रार्थना है: 'हमारा यह अद्भुत, अनेक-वर, स्वयं-सम्पन्न धन त्वष्टा पोषण के लिए हमें दे — नाभानो हमारी कामना करता है।' 'रास्पिन्' और 'ऋञ्जति' (शुद्ध करना), 'ऋजु' (सीधा), 'प्रतद्वसु' (प्राप्त-धन) की व्याख्या दी गई है।
श्लोक 6.23
हिनोता नो अध्वरं देवय॒ज्या हिनोत ब्रह्म सनये धनानाम् । ऋतस्य॒ योगे वि ष्यध्वमूधः श्रुष्टीवरीर्भूतनास्मभ्यमापः ॥ प्रहिणुत नोऽध्वरं देवयज्यायै । प्रहिणुत ब्रह्म धनस्य सनयाय । ऋतस्य योगे । यज्ञस्य योगे । याज्ञे शकट इति वा । शकटं शकृदितं भवति । शनकैस्तकतीति वा । शब्देन तकतीति वा । सुखवतीः श्रुष्टीवरीर्भूतनास्मभ्यमापः । सुखवत्यो भवतास्मभ्यमापः । चोष्कूयमाण इन्द्र भूरि वामम् । दददिन्द्र बहुवननीयम् । एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् । व्युदस्यति । एधमानानसुन्वतः । सुन्वतोऽभ्यादधाति । उभयस्य राजा । दिव्यस्य च पार्थिवस्य च । चोष्कूयमाण इति चोष्कूयतेश्चर्करीतवृत्तम् । सुमत्स्वयमित्यर्थः । उप प्रागात्सुमन्मेधाय मन्म । उपप्रैतु मां स्वयं यन्मे मनोऽध्यायि यज्ञेन । इत्याश्वमेधिको मन्त्रः । दिविष्टिषु दिव एषणेषु । स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु । स्थूरः । समाश्रितमात्रो महान्भवति । अणुरनु स्थवीयांसम् । उपसर्गो लुप्तनामकरणः । यथा संप्रति । कुरुङ्गो राजा बभूव । कुरुगमनाद्वा । कुलगमनाद्वा । कुरुः कृन्ततेः । क्रूरमित्यप्यस्य भवति । कुलं कुष्णातेः । विकुषितं भवति । दूतो व्याख्यातः । जिन्वतिः प्रीतिकर्मा ।। भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्यग्नयः । इत्यपि निगमो भवति
hinotā no adhvaraṁ devayajyā hinota brahma sanaye dhanānām | ṛtasya yoge vi ṣyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ || prahiṇuta no'dhvaraṁ devayajyāyai | prahiṇuta brahma dhanasya sanayāya | ṛtasya yoge | yajñasya yoge | yājñe śakaṭa iti vā | śakaṭaṁ śakṛditaṁ bhavati | śanakaistakatīti vā | śabdena takatīti vā | sukhavatīḥ śruṣṭīvarīrbhūtanāsmabhyamāpaḥ | sukhavatyo bhavatāsmabhyamāpaḥ | coṣkūyamāṇa indra bhūri vāmam | dadadindra bahuvananīyam | edhamānadviḷubhayasya rājā coṣkūyate viśa indro manuṣyān | vyudasyati | edhamānānasunvataḥ | sunvato'bhyādadhāti | ubhayasya rājā | divyasya ca pārthivasya ca | coṣkūyamāṇa iti coṣkūyateścarkarītavṛttam | sumatsvayamityarthaḥ | upa prāgātsumanmedhāya manma | upapraitu māṁ svayaṁ yanme mano'dhyāyi yajñena | ityāśvamedhiko mantraḥ | diviṣṭiṣu diva eṣaṇeṣu | sthūraṁ rādhaḥ śatāśvaṁ kuruṅgasya diviṣṭiṣu | sthūraḥ | samāśritamātro mahānbhavati | aṇuranu sthavīyāṁsam | upasargo luptanāmakaraṇaḥ | yathā saṁprati | kuruṅgo rājā babhūva | kurugamanādvā | kulagamanādvā | kuruḥ kṛntateḥ | krūramityapyasya bhavati | kulaṁ kuṣṇāteḥ | vikuṣitaṁ bhavati | dūto vyākhyātaḥ | jinvatiḥ prītikarmā || bhūmiṁ parjanyā jinvanti divaṁ jinvantyagnayaḥ | ityapi nigamo bhavati
इस ऋचा में देवताओं से यज्ञ-सहायता की प्रार्थना है: 'हमारे यज्ञ को देवयज्ञ के लिए प्रेरित करो, ब्रह्म को धन-प्राप्ति के लिए भेजो; ऋत के योग में अपना ऊधस् खोलो, हे सुखद जलो, हमारे लिए बनो।' इसके बाद 'कुरुंग' राजा का आख्यान और 'जिन्वति' (प्रसन्न करना) की व्याख्या है।
श्लोक 6.24
अमत्रोऽमात्रो महान्भवति । अभ्यमितो वा । महाँ अमत्रो वृजने विरप्शि । इत्यपि निगमो भवति । स्तवे वज्र्यृचीषमः । स्तूयते वज्र्यृचा समः । अनर्शरातिमनश्लीलदानम् । अश्लीलं पापकम् । अश्रिमत् । विषमम् । अनर्शरातिं वसुदामुप स्तुहि । इत्यपि निगमो भवति । अनर्वा अप्रत्यृतोऽन्यस्मिन् । अनर्वाणं वृषभं मन्द्रजिह्वं बृहस्पतिं वर्धया नव्य॑म॒र्कैः । अनर्वमप्रत्यृतमन्यस्मिन् । वृषभम् । मन्द्रजिह्वं मन्दनजिह्वं । मोदनजिह्वमिति वा । बृहस्पतिं वर्धय नव्यमर्केः । अर्चनीयैः स्तोमैः । असामि सामिप्रतिषिद्धम् । सामि स्यतेः । असाम्योजो बिभृथा सुदानवः । असुसमाप्तं बलं बिभृत कल्याणदानाः
amatro'mātro mahānbhavati | abhyamito vā | mahām̐ amatro vṛjane virapśi | ityapi nigamo bhavati | stave vajryṛcīṣamaḥ | stūyate vajryṛcā samaḥ | anarśarātimanaślīladānam | aślīlaṁ pāpakam | aśrimat | viṣamam | anarśarātiṁ vasudāmupa stuhi | ityapi nigamo bhavati | anarvā apratyṛto'nyasmin | anarvāṇaṁ vṛṣabhaṁ mandrajihvaṁ bṛhaspatiṁ vardhayā navyamarkaiḥ | anarvamapratyṛtamanyasmin | vṛṣabham | mandrajihvaṁ mandanajihvaṁ | modanajihvamiti vā | bṛhaspatiṁ vardhaya navyamarkeḥ | arcanīyaiḥ stomaiḥ | asāmi sāmipratiṣiddham | sāmi syateḥ | asāmyojo bibhṛthā sudānavaḥ | asusamāptaṁ balaṁ bibhṛta kalyāṇadānāḥ
'अमत्र' 'महान्' के अर्थ में है ('महान् अमत्र संग्राम में, विरप्शी')। 'अनर्शराति' 'निन्दित-दान-रहित' के अर्थ में, 'अनर्वा' 'अप्रतिहत' के अर्थ में (बृहस्पति की स्तुति में), और 'असामि' 'अखण्डित' के अर्थ में समझाया गया है ('हे सुदानो, अखण्डित बल धारण करो')।
श्लोक 6.25
मा त्वा सोम॑स्य गल्दया सदा याचन्नहं गिरा । भूर्णिं मृगं न सव॑नेषु चुक्रुधं क ईशानं न याचिषत् ॥ मा चुक्रुधं त्वां सोमस्य गालनेन सदा याचन्नहम् । गिरा गीत्या स्तुत्या । भूर्णिमिव मृगम् । न सवनेषु चुक्रुधम् । क ईशानं न याचिष्यत इति । गल्दा धमनयो भवन्ति । गलनमासु धीयते । आ त्वा विशन्त्विन्दव आ गल्दा धमनीनाम् । नानाविभक्तीत्येते भवतः । आगलना धमनीनामित्यत्रार्थः
mā tvā somasya galdayā sadā yācannahaṁ girā | bhūrṇiṁ mṛgaṁ na savaneṣu cukrudhaṁ ka īśānaṁ na yāciṣat || mā cukrudhaṁ tvāṁ somasya gālanena sadā yācannaham | girā gītyā stutyā | bhūrṇimiva mṛgam | na savaneṣu cukrudham | ka īśānaṁ na yāciṣyata iti | galdā dhamanayo bhavanti | galanamāsu dhīyate | ā tvā viśantvindava ā galdā dhamanīnām | nānāvibhaktītyete bhavataḥ | āgalanā dhamanīnāmityatrārthaḥ
इस ऋचा में कहा गया है: 'मैं तुम्हें सोम की धारा से, गीत से सदा याचना करते हुए, कभी क्रोधित न करूँ, जैसे भूर्णि मृग को सवनों में नहीं करते; कौन ईश्वर से याचना नहीं करता?' 'गल्दा' नाड़ियों (धमनियों) के अर्थ में है।
श्लोक 6.26
न पापासो मनामहे नारायासो न जल्हवः । न पापा मन्यामहे । नाधनाः । न ज्वलनेन हीनाः । अस्त्यस्मासु ब्रह्मचर्यमध्ययनं तपो दानकर्मेत्यृषिरवोचत् । बकुरो भास्करः । भयंकरः । भासमानो द्रवतीति वा
na pāpāso manāmahe nārāyāso na jalhavaḥ | na pāpā manyāmahe | nādhanāḥ | na jvalanena hīnāḥ | astyasmāsu brahmacaryamadhyayanaṁ tapo dānakarmetyṛṣiravocat | bakuro bhāskaraḥ | bhayaṁkaraḥ | bhāsamāno dravatīti vā
इस ऋचा में ऋषि कहते हैं: 'हम अपने को पापी नहीं मानते, न निर्धन, न ज्वाला-रहित; हममें ब्रह्मचर्य, अध्ययन, तप और दान-कर्म है।' 'बकुर' सूर्य के अर्थ में है (भयंकर, या चमकता हुआ दौड़ने वाला)।
श्लोक 6.27
यवं वृकेणाश्विना वपन्तेषं दुहन्ता मनुषाय दस्रा । अभि दस्युं बकुरेणा धम॑न्तोरु ज्योतिश्चक्रथुरार्याय ॥ यवमिव वृकेणाश्विनौ निवपन्तौ । वृको लाङ्गलं भवति । विकर्तनात् । लाङ्गलं लगतेः । लाङ्गूलवद्वा । लागूलं लगतेः । लंगतेः । लंबतेर्वा । अन्नं दुहन्तौ मनुष्याय दर्शनीयौ । अभिधमन्तौ । दस्युं बकुरेण ज्योतिषा वोदकेन वा । अर्य ईश्वरपुत्रः । बेकनाटाः खलु कुसीदिनो भवन्ति । द्विगुणकारिणो वा । द्विगुणदायिनो वा । द्विगुणं कामयन्त इति वा । इन्द्रो विश्वान्बेकनाटाँ अहर्दृश उत क्रत्वा पणीँरभि । इन्द्रो यः सर्वान् बेकनाटान् । अहर्दृशः सूर्यदृशः । य इमान्यहानि पश्यन्ति न पराणीति वा । अभिभवति कर्मणा । पणींश्च वणिजः
yavaṁ vṛkeṇāśvinā vapanteṣaṁ duhantā manuṣāya dasrā | abhi dasyuṁ bakureṇā dhamantoru jyotiścakrathurāryāya || yavamiva vṛkeṇāśvinau nivapantau | vṛko lāṅgalaṁ bhavati | vikartanāt | lāṅgalaṁ lagateḥ | lāṅgūlavadvā | lāgūlaṁ lagateḥ | laṁgateḥ | laṁbatervā | annaṁ duhantau manuṣyāya darśanīyau | abhidhamantau | dasyuṁ bakureṇa jyotiṣā vodakena vā | arya īśvaraputraḥ | bekanāṭāḥ khalu kusīdino bhavanti | dviguṇakāriṇo vā | dviguṇadāyino vā | dviguṇaṁ kāmayanta iti vā | indro viśvānbekanāṭām̐ ahardṛśa uta kratvā paṇīm̐rabhi | indro yaḥ sarvān bekanāṭān | ahardṛśaḥ sūryadṛśaḥ | ya imānyahāni paśyanti na parāṇīti vā | abhibhavati karmaṇā | paṇīṁśca vaṇijaḥ
इस ऋचा में अश्विनों का कृषि-कार्य वर्णित है: 'जैसे किसान हल से यव बोते हैं, वैसे ही अश्विनौ मनुष्य के लिए अन्न देते हुए, दस्यु के विरुद्ध ज्योति से फूँकते हुए, आर्य के लिए विस्तृत प्रकाश करते हैं।' 'वृक' हल का नाम है (विकर्तन से)। 'बेकनाट' सूदखोरों के लिए प्रयुक्त शब्द है, जिन्हें इन्द्र पराभूत करता है।
श्लोक 6.28
जीवान्नो अभि धेतनादित्यासः पुरा हथात् । कद्ध स्थ हवनश्रुतः ॥ जीवतो नोऽभिधावतादित्याः पुरा हननात् । क्व नु स्थ ह्वानश्रुत इति । मत्स्यानां जालमापन्नानामेतदार्षं वेदयन्ते । मत्स्या मधा उदके स्यन्दन्ते । माद्यन्तेऽन्योन्यं भक्षणायेति वा । जालं जलचरं भवति । जलेभवं वा । जलेशयं वा । अंहुरोंऽहस्वान् । अंहूरणमित्यप्यस्य भवति । कृण्वन्नंहूरणादुरु । इत्यपि निगमो भवति । सप्त मर्यादाः कवयस्ततक्षुस्तासामेकामिदभ्यंहुरो गात् । सप्त मर्यादाः कवयश्चक्रुः । तासामेकामप्यभिगच्छन्नंहस्वान्भवति । स्तेयं तल्पारोहणं ब्रह्महत्यां भ्रूणहत्यां सुरापानं दुष्कृतस्य कर्मणः पुनः पुनः सेवां पातकेऽनृतोद्यमिति । बत इति निपातः । खेदानुकम्पयोः
jīvānno abhi dhetanādityāsaḥ purā hathāt | kaddha stha havanaśrutaḥ || jīvato no'bhidhāvatādityāḥ purā hananāt | kva nu stha hvānaśruta iti | matsyānāṁ jālamāpannānāmetadārṣaṁ vedayante | matsyā madhā udake syandante | mādyante'nyonyaṁ bhakṣaṇāyeti vā | jālaṁ jalacaraṁ bhavati | jalebhavaṁ vā | jaleśayaṁ vā | aṁhuroṁ'hasvān | aṁhūraṇamityapyasya bhavati | kṛṇvannaṁhūraṇāduru | ityapi nigamo bhavati | sapta maryādāḥ kavayastatakṣustāsāmekāmidabhyaṁhuro gāt | sapta maryādāḥ kavayaścakruḥ | tāsāmekāmapyabhigacchannaṁhasvānbhavati | steyaṁ talpārohaṇaṁ brahmahatyāṁ bhrūṇahatyāṁ surāpānaṁ duṣkṛtasya karmaṇaḥ punaḥ punaḥ sevāṁ pātake'nṛtodyamiti | bata iti nipātaḥ | khedānukampayoḥ
इस ऋचा में कहा गया है: 'हे आदित्यगण, जीवितों की रक्षा करो, मारने से पूर्व; तुम कहाँ हो, हे पुकार सुनने वालो?' इसके बाद मछलियों के जाल में फँसने का ऋषि-आख्यान है — सात मर्यादाओं का सृजन, और चोरी, ब्रह्महत्या आदि सात पातकों की सूची। 'बत' निपात खेद और अनुकम्पा दोनों के अर्थ में है।
श्लोक 6.29
बतो बतासि यम नैव ते मनो हृदयं चाविदाम । अन्या किल त्वां कक्ष्येव युक्तं परिष्वजाते लिबुजेव वृक्षम् ॥ बतो बलातीतो भवति । दुर्बलो बतासि यम । नैव त मनो हृदयं च विजानामि । अन्या किल त्वां परिष्वंक्ष्यते कक्ष्येव युक्तं लिबुजेव वृक्षम् । लिबुजा व्रततिर्भवति । लीयते विभजन्तीति । व्रततिर्वराणाच्च । शयनाच्च । तनानाच्च । वाताप्यमुदकं भवति । वात एतदाप्याययति । पुनानो वाताप्यं विश्वश्चन्द्रम् । इत्यपि निगमो भवति । वने न वायो न्यधायि चाकन् । वन इव । वायो वेः पुत्रः । चायन्निति वा । कामयमान इति वा । वेति च य इति च चकार शाकल्यः । उदात्तं त्वेवमाख्यातमभविष्यत् । असुसमाप्तश्चार्थः । रथर्यतीति सिद्धस्तत्प्रेप्सुः । रथं कामयत इति वा । एष देवो रथर्यति । इत्यपि निगमो भवति
bato batāsi yama naiva te mano hṛdayaṁ cāvidāma | anyā kila tvāṁ kakṣyeva yuktaṁ pariṣvajāte libujeva vṛkṣam || bato balātīto bhavati | durbalo batāsi yama | naiva ta mano hṛdayaṁ ca vijānāmi | anyā kila tvāṁ pariṣvaṁkṣyate kakṣyeva yuktaṁ libujeva vṛkṣam | libujā vratatirbhavati | līyate vibhajantīti | vratatirvarāṇācca | śayanācca | tanānācca | vātāpyamudakaṁ bhavati | vāta etadāpyāyayati | punāno vātāpyaṁ viśvaścandram | ityapi nigamo bhavati | vane na vāyo nyadhāyi cākan | vana iva | vāyo veḥ putraḥ | cāyanniti vā | kāmayamāna iti vā | veti ca ya iti ca cakāra śākalyaḥ | udāttaṁ tvevamākhyātamabhaviṣyat | asusamāptaścārthaḥ | ratharyatīti siddhastatprepsuḥ | rathaṁ kāmayata iti vā | eṣa devo ratharyati | ityapi nigamo bhavati
इस ऋचा में कहा गया है: 'अरे, दुर्बल हो तुम, यम, तुम्हारा मन-हृदय हम नहीं जानते; कोई और स्त्री तुम्हें व्रततिवत् आलिंगन करेगी जैसे लता वृक्ष को।' 'लिबुजा' लता का नाम है। अन्त में 'वातापी' (जल) और 'रथर्यति' (रथ चाहने वाला) की व्याख्या है।
श्लोक 6.30
धेनुं न इषं पिन्वतमसंक्राम् । असंक्रमणीम् । आधव आधवनात् । मतीनां च साधनं विप्राणां चाधवम् । इत्यपि निगमो भवति । अनवब्रवोऽनवक्षिप्तवचनः । विजेषकृदिन्द्र इवानवब्रवः । इत्यपि निगमो भवति
dhenuṁ na iṣaṁ pinvatamasaṁkrām | asaṁkramaṇīm | ādhava ādhavanāt | matīnāṁ ca sādhanaṁ viprāṇāṁ cādhavam | ityapi nigamo bhavati | anavabravo'navakṣiptavacanaḥ | vijeṣakṛdindra ivānavabravaḥ | ityapi nigamo bhavati
इस ऋचा में कामना है: 'गौ के समान हमारी अन्न-कामना को पूर्ण करो, जो अखण्डित (असंक्रम) है।' 'आधव' साधन के अर्थ में, 'अनवब्रव' 'निन्दा-रहित वचन वाला' के अर्थ में समझाया गया है।
श्लोक 6.31
अरायि काणे विकटे गिरिं गच्छ सदान्वे । शिरिम्बिठस्य सत्त्वभिस्तेभिष्ट्वा चातयामसि ॥ अदायिनि काणे विकटे । काणोऽविक्रान्तदर्शन इत्यौपमन्यवः । कान्तिर्वा स्यादणूभावकर्मणः। कणतेर्वा स्यादणूभावकर्मणः । कणतिः शब्दाणूभावे भाष्यते । अनुकणतीति । मात्राणूभावात्कणः । दर्शनाणूभावात्काणः । विकटो विक्रान्तगतिरित्यौपमन्यवः । कुटतेर्वा स्यात् विपरीतस्य विकुटितो भवति । गिरिं गच्छ । सदानोनुवे शब्दकारिके । शिरिम्बिठस्य सत्त्वभिः । शिरिम्बिठो मेघः । शीर्यते बिठे । बिठमन्तरिक्षं बिठं बीरिटेन व्याख्यातम् । तस्य सत्त्वैरुदकैरिति स्यात् । तैष्ट्वा चातयामः । अपि वा शिरिम्बिठो भारद्वाजः कालकर्णोपेतः । अलक्ष्मीर्निर्णाशयाञ्चकार । तस्य सत्त्वैः कर्मभिरिति स्यात् । तैष्ट्वा चातयामः । चातयतिर्नाशने । पराशरः पराशीर्णस्य वसिष्ठस्य स्थविरस्य जज्ञे । पराशरः शतयातुर्वसिष्ठः । इत्यपि निगमो भवति । इन्द्रोऽपि पराशर उच्यते । परा शातयिता यातूनाम् । इन्द्रो यातूनामभवत्पराशरः । इत्यपि निगमो भवति । क्रिविर्दती विकर्तनदन्ती । यत्रा वो दिद्युद्रदति क्रिविर्दती । इत्यपि निगमो भवति । करूलती कृत्तदती । अपि वा देवं कञ्चित्कृत्तदन्तं दृष्ट्वैवमवक्ष्यत
arāyi kāṇe vikaṭe giriṁ gaccha sadānve | śirimbiṭhasya sattvabhistebhiṣṭvā cātayāmasi || adāyini kāṇe vikaṭe | kāṇo'vikrāntadarśana ityaupamanyavaḥ | kāntirvā syādaṇūbhāvakarmaṇaḥ| kaṇatervā syādaṇūbhāvakarmaṇaḥ | kaṇatiḥ śabdāṇūbhāve bhāṣyate | anukaṇatīti | mātrāṇūbhāvātkaṇaḥ | darśanāṇūbhāvātkāṇaḥ | vikaṭo vikrāntagatirityaupamanyavaḥ | kuṭatervā syāt viparītasya vikuṭito bhavati | giriṁ gaccha | sadānonuve śabdakārike | śirimbiṭhasya sattvabhiḥ | śirimbiṭho meghaḥ | śīryate biṭhe | biṭhamantarikṣaṁ biṭhaṁ bīriṭena vyākhyātam | tasya sattvairudakairiti syāt | taiṣṭvā cātayāmaḥ | api vā śirimbiṭho bhāradvājaḥ kālakarṇopetaḥ | alakṣmīrnirṇāśayāñcakāra | tasya sattvaiḥ karmabhiriti syāt | taiṣṭvā cātayāmaḥ | cātayatirnāśane | parāśaraḥ parāśīrṇasya vasiṣṭhasya sthavirasya jajñe | parāśaraḥ śatayāturvasiṣṭhaḥ | ityapi nigamo bhavati | indro'pi parāśara ucyate | parā śātayitā yātūnām | indro yātūnāmabhavatparāśaraḥ | ityapi nigamo bhavati | krivirdatī vikartanadantī | yatrā vo didyudradati krivirdatī | ityapi nigamo bhavati | karūlatī kṛttadatī | api vā devaṁ kañcitkṛttadantaṁ dṛṣṭvaivamavakṣyata
इस ऋचा में दुर्भाग्य-निवारण की प्रार्थना है: 'हे काणी, विकट, अशुभ अरायि (दरिद्रता), पर्वत की ओर चली जाओ; शिरिम्बिठ मेघ के जलों से हम तुझे भगाते हैं।' 'काण' और 'विकट' की व्युत्पत्तियाँ दी गई हैं। इसके बाद पराशर ऋषि का आख्यान (वसिष्ठ के नष्ट होने से जन्मे) और इन्द्र को 'पराशर' (राक्षस-नाशक) कहे जाने का उल्लेख है।
श्लोक 6.32
वामं वामं त आदुरे देवो ददात्वर्यमा ।। वामं पूषा वामं भगो वामं देवः करूळती ॥ वामं वननीयं भवति । आदुरिरादरणात् । तत्कः करूळती । भगः पुरस्तात्तस्यान्वादेश इत्येकम् । पूषेत्यपरम् । सोऽदन्तकः । अदन्तकः पूषा । इति च ब्राह्मणम् । दनो विश इन्द्र मृध्रवाचः । दानमनसो नो मनुष्यानिन्द्र मृदुवाचः कुरु । अवीरामिव मामयं शरारुरभि मन्यते । अबलामिव मामयं बालोऽभिमन्यते संशिशरिषुः । इदंयुरिदं कामयमानः । अथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यत्रार्थः । अश्वयुर्गव्यू रथयुर्वसूयुः इन्द्रः । इत्यपि निगमो भवति
vāmaṁ vāmaṁ ta ādure devo dadātvaryamā || vāmaṁ pūṣā vāmaṁ bhago vāmaṁ devaḥ karūḷatī || vāmaṁ vananīyaṁ bhavati | ādurirādaraṇāt | tatkaḥ karūḷatī | bhagaḥ purastāttasyānvādeśa ityekam | pūṣetyaparam | so'dantakaḥ | adantakaḥ pūṣā | iti ca brāhmaṇam | dano viśa indra mṛdhravācaḥ | dānamanaso no manuṣyānindra mṛduvācaḥ kuru | avīrāmiva māmayaṁ śarārurabhi manyate | abalāmiva māmayaṁ bālo'bhimanyate saṁśiśariṣuḥ | idaṁyuridaṁ kāmayamānaḥ | athāpi tadvadarthe bhāṣyate | vasūyurindro vasumānityatrārthaḥ | aśvayurgavyū rathayurvasūyuḥ indraḥ | ityapi nigamo bhavati
इस ऋचा में कहा गया है: 'जो भी वाम (श्रेष्ठ) है, वह तुम्हें अर्यमा दे — पूषा का वाम, भग का वाम, करूळती देव का वाम।' 'करूळती' को पूषा या भग के रूप में पहचाना गया है। इसके बाद 'दन' (कोमल-वाणी बनाना) और 'इदंयु' (वर्तमान-कामी) की व्याख्या है।
श्लोक 6.33
किं ते कृण्वन्ति कीकटेषु गावो नाशिरं दुह्रे न तपन्ति घर्मम् । आ नो भर प्रम॑गन्दस्य वेदो नैचाशाखं मघवन्रन्धया नः ॥ किं ते कुर्वन्ति कीकटेषु गावः । कीकटा नाम देशोऽनार्यनिवासः । कीकटाः किंकृताः । किं क्रियाभिरिति प्रेप्सा वा । नैव चाशिरं दुह्रे । न तपन्ति घर्मं हर्म्यम् । आहर नः प्रमगन्दस्य धनानि । मगन्दः कुसीदी । माङ्गदो मामागमिष्यतीति च ददाति । तदपत्यं प्रमगन्दः । अत्यन्तकुसीदिकुलीनः । प्रमदको वा योऽयमेवास्ति लोको न पर इति प्रेप्सुः । पण्डको वा । पण्डकः पण्डगः प्रार्दको वा प्रार्दयत्याण्डौ । आण्डावाणी इव व्रीडयति । तत् स्थं नैचाशाखं नीचाशाखो नीचैः शाखः । शाखाः शक्नोतेः । आणिररणात् । तन्नो मघवन्रन्धयेति । रध्यतिर्वशगमने । बुन्द इषुर्भवति । भिन्दो वा । भयदो वा । भासमानो द्रवतीति वा
kiṁ te kṛṇvanti kīkaṭeṣu gāvo nāśiraṁ duhre na tapanti gharmam | ā no bhara pramagandasya vedo naicāśākhaṁ maghavanrandhayā naḥ || kiṁ te kurvanti kīkaṭeṣu gāvaḥ | kīkaṭā nāma deśo'nāryanivāsaḥ | kīkaṭāḥ kiṁkṛtāḥ | kiṁ kriyābhiriti prepsā vā | naiva cāśiraṁ duhre | na tapanti gharmaṁ harmyam | āhara naḥ pramagandasya dhanāni | magandaḥ kusīdī | māṅgado māmāgamiṣyatīti ca dadāti | tadapatyaṁ pramagandaḥ | atyantakusīdikulīnaḥ | pramadako vā yo'yamevāsti loko na para iti prepsuḥ | paṇḍako vā | paṇḍakaḥ paṇḍagaḥ prārdako vā prārdayatyāṇḍau | āṇḍāvāṇī iva vrīḍayati | tat sthaṁ naicāśākhaṁ nīcāśākho nīcaiḥ śākhaḥ | śākhāḥ śaknoteḥ | āṇiraraṇāt | tanno maghavanrandhayeti | radhyatirvaśagamane | bunda iṣurbhavati | bhindo vā | bhayado vā | bhāsamāno dravatīti vā
इस ऋचा में कहा गया है: 'कीकट देश में तुम्हारी गायें क्या करती हैं? वे न मिश्रित दूध देतीं, न गर्म-गृह तपाती हैं; हमें प्रमगन्द (सूदखोर) का धन दो, हे मघवन्, नीच-शाखा वालों को हमारे वश में करो।' 'कीकट' अनार्य-प्रदेश का नाम है। इसके बाद 'बुन्द' (बाण) की व्युत्पत्ति है।
श्लोक 6.34
तुविक्षं ते सुकृतं सूमयं धनुः साधुर्बुन्दो हिरण्ययः । उभा ते बाहू रण्या सुसंस्कृत ऋदूपे चिदृदूवृधा ॥ तुविक्षं बहुविक्षेपं महाविक्षेपं वा ते सुकृतं सूमयं सुसुखं धनुः । साधयिता ते बुन्दो हिरण्मयः । उभौ ते बाहू रमणीयौ सांग्राम्यौ वा । ऋदूपे अर्दनपातिनौ । गमनपातिनौ शब्दपातिनौ दूरपातिनौ वा । मर्मण्यर्दनवेधिनौ । गमनवेधिनौ (शब्दवेधिनौ दूरवेधिनौ) वा
tuvikṣaṁ te sukṛtaṁ sūmayaṁ dhanuḥ sādhurbundo hiraṇyayaḥ | ubhā te bāhū raṇyā susaṁskṛta ṛdūpe cidṛdūvṛdhā || tuvikṣaṁ bahuvikṣepaṁ mahāvikṣepaṁ vā te sukṛtaṁ sūmayaṁ susukhaṁ dhanuḥ | sādhayitā te bundo hiraṇmayaḥ | ubhau te bāhū ramaṇīyau sāṁgrāmyau vā | ṛdūpe ardanapātinau | gamanapātinau śabdapātinau dūrapātinau vā | marmaṇyardanavedhinau | gamanavedhinau (śabdavedhinau dūravedhinau) vā
इस ऋचा में कहा गया है: 'तुम्हारा बहु-विक्षेप वाला धनुष सुन्दर बना है; तुम्हारा सुनहरा बुन्द (बाण) सिद्धि देने वाला है; तुम्हारी दोनों बाँहें सुसज्जित और आकर्षक हैं, जो कोमल-वेधी हैं।'
श्लोक 6.35
निरा विध्यद्गिरिभ्य आ धारयत्पक्वमौदनम् । इन्द्रो बुन्दं स्वाततम् ॥ निरविध्यगिरिभ्य आ धारयत्पक्वम् ओदनम्। उदकदानं मेघम् । इन्द्रो बुन्दं स्वाततम् । वृन्दं बुन्देन व्याख्यातम् । वृन्दारकश्च
nirā vidhyadgiribhya ā dhārayatpakvamaudanam | indro bundaṁ svātatam || niravidhyagiribhya ā dhārayatpakvam odanam| udakadānaṁ megham | indro bundaṁ svātatam | vṛndaṁ bundena vyākhyātam | vṛndārakaśca
इस ऋचा में कहा गया है: 'पर्वतों से बाहर छेदकर, पके हुए ओदन (मेघ-जल) को धारण किया; इन्द्र ने अच्छी तरह विस्तृत बुन्द (बाण) चलाया।' 'वृन्द' (समूह) की व्याख्या भी 'बुन्द' से सम्बद्ध की गई है।
श्लोक 6.36
अयं यो होता किरु स यमस्य कमप्यूहे यत्सम॒ञ्जन्ति देवाः । अहरहर्जायते मासि मास्यथा देवा दधिरे हव्यवाहम् ॥ अयं यो होता कर्ता स यमस्य । कमप्यूहे अन्नमभिवहति यत्समश्नुवन्ति देवाः । अहरहर्जायते । मासे मासे । अर्धमासेऽर्धमासे वा । अथ देवा निदधिरे हव्यवाहम् । उल्बमूर्णोतेः । वृणोतेर्वा । महत्तदुल्बं स्थविरं तदासीत् । इत्यपि निगमो भवति । ऋबीसमपगतभासम् । अपहृतभासम् । अन्तर्हितभासम् । गतभासं वा
ayaṁ yo hotā kiru sa yamasya kamapyūhe yatsamañjanti devāḥ | aharaharjāyate māsi māsyathā devā dadhire havyavāham || ayaṁ yo hotā kartā sa yamasya | kamapyūhe annamabhivahati yatsamaśnuvanti devāḥ | aharaharjāyate | māse māse | ardhamāse'rdhamāse vā | atha devā nidadhire havyavāham | ulbamūrṇoteḥ | vṛṇotervā | mahattadulbaṁ sthaviraṁ tadāsīt | ityapi nigamo bhavati | ṛbīsamapagatabhāsam | apahṛtabhāsam | antarhitabhāsam | gatabhāsaṁ vā
इस ऋचा में कहा गया है: 'यह जो होता है, वही यम का कर्ता है, जो वह अन्न वहन करता है जिसे देवता ग्रहण करते हैं; वह प्रतिदिन, हर मास जन्म लेता है, तब देवताओं ने हव्यवाह (अग्नि) को स्थापित किया।' 'उल्ब' (आवरण) और 'ऋबीस' (प्रकाश-रहित स्थान) की व्युत्पत्ति दी गई है।
श्लोक 6.37
हिमेनाग्निं घ्रंसमवारयेथां पितुमतीमूर्जमस्मा अधत्तम् । ऋबीसे अत्रिमश्विनावनीतमुन्निन्यथुः सर्वगणं स्वस्ति ॥ हिमेनोदकेन ग्रीष्मान्तेऽग्निं घ्रंसमहरवारयेथाम् । अन्नवतीं चास्मा ऊर्जमधत्तमग्नये । योऽयमृबीसे पृथिव्यामग्निरन्तरौषधिवनस्पतिष्वप्सु तमुन्निन्यथुः । सर्वगणं सर्वनामानं । गणो गणनात् । गुणश्च । यद्वृष्ट ओषधय उद्यन्ति प्राणिनश्च पृथिव्यां तदश्विनो रूपं तेनैनौ स्तौति स्तौति
himenāgniṁ ghraṁsamavārayethāṁ pitumatīmūrjamasmā adhattam | ṛbīse atrimaśvināvanītamunninyathuḥ sarvagaṇaṁ svasti || himenodakena grīṣmānte'gniṁ ghraṁsamaharavārayethām | annavatīṁ cāsmā ūrjamadhattamagnaye | yo'yamṛbīse pṛthivyāmagnirantarauṣadhivanaspatiṣvapsu tamunninyathuḥ | sarvagaṇaṁ sarvanāmānaṁ | gaṇo gaṇanāt | guṇaśca | yadvṛṣṭa oṣadhaya udyanti prāṇinaśca pṛthivyāṁ tadaśvino rūpaṁ tenainau stauti stauti
इस ऋचा में अश्विनों से कहा जाता है: 'तुमने जल से ग्रीष्म-दिन की अग्नि को शान्त किया, और अन्नयुक्त ऊर्जा उसे दी; ऋबीस (अन्धकार-स्थान) में छिपे अत्रि को तुमने समस्त गण सहित सकुशल बाहर निकाला।' यास्क बताते हैं कि जब वर्षा से ओषधियाँ और प्राणी उत्पन्न होते हैं, वही अश्विनों का रूप है, और इसी से उनकी स्तुति की जाती है।
श्लोक 7.1
अथातो दैवतम् । तद्यानि नामानि प्राधान्यस्तुतीनां देवतानां तद्दैवतमित्याचक्षते । सैषा देवतोपपरीक्षा । यत्काम ऋषिर्यस्यां देवतायामार्थपत्यमिच्छन्स्तुतिं प्रयुङ्क्ते तद्दैवतः स मन्त्रो भवति । तास्त्रिविधा ऋचः । परोक्षकृताः । प्रत्यक्षकृताः । आध्यात्मिक्यश्च । तत्र परोक्षकृताः सर्वाभिर्नामविभक्तिभिर्युज्यन्ते । प्रथमपुरुषैश्चाख्यातस्य
athāto daivatam | tadyāni nāmāni prādhānyastutīnāṁ devatānāṁ taddaivatamityācakṣate | saiṣā devatopaparīkṣā | yatkāma ṛṣiryasyāṁ devatāyāmārthapatyamicchanstutiṁ prayuṅkte taddaivataḥ sa mantro bhavati | tāstrividhā ṛcaḥ | parokṣakṛtāḥ | pratyakṣakṛtāḥ | ādhyātmikyaśca | tatra parokṣakṛtāḥ sarvābhirnāmavibhaktibhiryujyante | prathamapuruṣaiścākhyātasya
अब यहाँ से दैवत (देवता-सम्बन्धी) प्रकरण आरम्भ होता है — जो नाम प्रधान-स्तुति की देवताओं के हैं, उन्हें 'दैवत' कहा जाता है। यह देवता-परीक्षा है: जिस देवता में ऐश्वर्य-प्राप्ति की कामना से ऋषि स्तुति करता है, वह मन्त्र उसी देवता का 'दैवत' होता है। ऋचाएँ तीन प्रकार की हैं — परोक्षकृता (अन्य पुरुष में), प्रत्यक्षकृता (मध्यम पुरुष में), और आध्यात्मिकी (उत्तम पुरुष में); परोक्षकृता में सभी नाम-विभक्तियाँ और आख्यात का प्रथम पुरुष प्रयुक्त होता है।
श्लोक 7.2
इन्द्रो दिव इन्द्र ईशे पृथिव्याः । इन्द्रमिद् गाथिनो बृहत् । इन्द्रेणैते तृत्सवो वेविषाणाः । इन्द्राय साम गायत । नेन्द्रादृते पवते धाम किं चन । इन्द्रस्य नु वीर्याणि प्र वोचम् । इन्द्रे कामा अयंसत । इति । अथ प्रत्यक्षकृता मध्यमपुरुषयोगाः । त्वमिति चैतेन सर्वनाम्ना । त्वमिन्द्र बलादधि । वि न इन्द्र मृधो जहि । इति अथापि प्रत्यक्षकृताः स्तोतारो भवन्ति । परोक्षकृतानि स्तोतव्यानि । मा चिदन्यद्वि शंसत । कण्वा अभि प्र गायत । उप प्रेत कुशिकाश्चेतयध्वम् । इति । अथाध्यात्मिक्य उत्तमपुरुषयोगाः । अहमिति चैतेन सर्वनाम्ना । यथैतदिन्द्रो वैकुण्ठः । लबसूक्तम् । वागाम्भृणीयमिति
indro diva indra īśe pṛthivyāḥ | indramid gāthino bṛhat | indreṇaite tṛtsavo veviṣāṇāḥ | indrāya sāma gāyata | nendrādṛte pavate dhāma kiṁ cana | indrasya nu vīryāṇi pra vocam | indre kāmā ayaṁsata | iti | atha pratyakṣakṛtā madhyamapuruṣayogāḥ | tvamiti caitena sarvanāmnā | tvamindra balādadhi | vi na indra mṛdho jahi | iti athāpi pratyakṣakṛtāḥ stotāro bhavanti | parokṣakṛtāni stotavyāni | mā cidanyadvi śaṁsata | kaṇvā abhi pra gāyata | upa preta kuśikāścetayadhvam | iti | athādhyātmikya uttamapuruṣayogāḥ | ahamiti caitena sarvanāmnā | yathaitadindro vaikuṇṭhaḥ | labasūktam | vāgāmbhṛṇīyamiti
यहाँ 'इन्द्र' शब्द के विविध विभक्ति-प्रयोगों के सात उदाहरण दिए गए हैं — यह परोक्षकृता के लक्षण हैं। फिर मध्यम-पुरुष ('त्वम्' सर्वनाम सहित) के प्रत्यक्षकृता उदाहरण, जिसमें स्तोता प्रत्यक्ष सम्बोधन करते हैं जबकि जिनकी स्तुति की जाती है वे परोक्ष में रहते हैं। अन्त में उत्तम-पुरुष ('अहम्') के आध्यात्मिकी उदाहरण, जैसे इन्द्र-वैकुण्ठ का 'लबसूक्त' और 'वागाम्भृणी' सूक्त, जहाँ देवता स्वयं प्रथम पुरुष में बोलती है।
श्लोक 7.3
परोक्षकृताः प्रत्यक्षकृताश्च मन्त्रा भूयिष्ठाः । अल्पशश्च आध्यात्मिकाः । अथापि स्तुतिरेव भवति नाशीर्वादः । इन्द्रस्य॒ नु वीर्याणि प्र वोचम् । इति । यथैतस्मिन्त्सूक्ते । अथाप्याशीरेव न स्तुतिः । सुचक्षा अहमक्षीभ्यां भूयासम् । सुवर्चा मुखेन । सुश्रुत्कर्णाभ्यां भूयासम् । इति । तदेतद्बहुलमाध्वर्यवे याज्ञेषु च मन्त्रेषु । अथापि शपथाभिशापौ । अद्या मुरीय यदि यातुधानो अस्मि । अधा स घोरैर्दशभिर्वि यूयाः । इति । अथापि कस्यचिद्भावस्याचिख्यासा । न मृत्युरासीदमृतं न तर्हि । तम आसीत्तम॑सा गूळ्हमग्रे । अथापि परिदेवना कस्माच्चिद्भावात् । सुदेवो अद्य प्रपतेदनावृत् । न वि जानामि यदि वेदमस्मि । इति । अथापि निन्दाप्रशंसे । केवलाघो भवति केवलादी । भोजस्येदं पुष्करिणीव वेश्म । एवमक्षसूक्ते द्यूतनिन्दा च कृषिप्रशंसा च । एवमुच्चावचैरभिप्रायैर्ऋषीणां मन्त्रदृष्टयो भवन्ति
parokṣakṛtāḥ pratyakṣakṛtāśca mantrā bhūyiṣṭhāḥ | alpaśaśca ādhyātmikāḥ | athāpi stutireva bhavati nāśīrvādaḥ | indrasya nu vīryāṇi pra vocam | iti | yathaitasmintsūkte | athāpyāśīreva na stutiḥ | sucakṣā ahamakṣībhyāṁ bhūyāsam | suvarcā mukhena | suśrutkarṇābhyāṁ bhūyāsam | iti | tadetadbahulamādhvaryave yājñeṣu ca mantreṣu | athāpi śapathābhiśāpau | adyā murīya yadi yātudhāno asmi | adhā sa ghorairdaśabhirvi yūyāḥ | iti | athāpi kasyacidbhāvasyācikhyāsā | na mṛtyurāsīdamṛtaṁ na tarhi | tama āsīttamasā gūḷhamagre | athāpi paridevanā kasmāccidbhāvāt | sudevo adya prapatedanāvṛt | na vi jānāmi yadi vedamasmi | iti | athāpi nindāpraśaṁse | kevalāgho bhavati kevalādī | bhojasyedaṁ puṣkariṇīva veśma | evamakṣasūkte dyūtanindā ca kṛṣipraśaṁsā ca | evamuccāvacairabhiprāyairṛṣīṇāṁ mantradṛṣṭayo bhavanti
अधिकांश मन्त्र परोक्षकृत और प्रत्यक्षकृत हैं; आध्यात्मिक थोड़े ही हैं। कहीं मन्त्र केवल स्तुति होता है, कहीं केवल आशीर्वाद (जैसे 'मैं सुनेत्र, सुमुख, सुश्रुत बनूँ')। कहीं शपथ-अभिशाप होते हैं ('यदि मैं राक्षस हूँ तो आज मर जाऊँ')। कहीं किसी दार्शनिक भाव की जिज्ञासा है ('न मृत्यु था, न अमृत... अन्धकार से अन्धकार ढका हुआ था')। कहीं विलाप, कहीं निन्दा-प्रशंसा (जैसे द्यूत-निन्दा और कृषि-प्रशंसा वाले अक्षसूक्त में) — इस प्रकार विविध अभिप्रायों से ऋषियों की मन्त्र-दृष्टियाँ बनती हैं।
श्लोक 7.4
तद्येऽनादिष्टदेवता मन्त्रास्तेषु देवतोपपरीक्षा । यद्देवतः स यज्ञो वा यज्ञाङ्गं वा तद्देवता भवन्ति । अथान्यत्र यज्ञात्। प्राजापत्या इति याज्ञिकाः । नाराशंसा इति नैरुक्ताः । अपि वा सा कामदेवता स्यात् । प्रायोदेवता वा । अस्ति ह्याचारो बहुलं लोके । देवदेवत्यमतिथिदेवत्यं पितृदेवत्यम् । याज्ञदैवतो मन्त्र इति । अपि ह्यदेवता देवतावत् स्तूयन्ते । यथाश्वप्रभृतीन्योषधिपर्यन्तानि । अथाप्यष्टौ द्वन्द्वानि । स न मन्येतागन्तूनिवार्थान् देवतानाम् । प्रत्यक्षदृश्यमेतद्भवति । माहाभाग्याद्देवताया एक आत्मा बहुधा स्तूयते । एकस्यात्मनोऽन्ये देवाः प्रत्यङ्गानि भवन्ति । अपि च सत्त्वानां प्रकृतिभूमभिर्ऋषयः स्तुवन्तीत्याहुः । प्रकृतिसार्वनाम्न्याच्च । इतरेतरजन्मानो भवन्ति । इतरेतरप्रकृतयः । कर्मजन्मानः । आत्मजन्मानः । आत्मैवैषां रथो भवति । आत्माश्वः । आत्माऽऽयुधम् । आत्मेषवः । आत्मा सर्वं देवस्य
tadye'nādiṣṭadevatā mantrāsteṣu devatopaparīkṣā | yaddevataḥ sa yajño vā yajñāṅgaṁ vā taddevatā bhavanti | athānyatra yajñāt| prājāpatyā iti yājñikāḥ | nārāśaṁsā iti nairuktāḥ | api vā sā kāmadevatā syāt | prāyodevatā vā | asti hyācāro bahulaṁ loke | devadevatyamatithidevatyaṁ pitṛdevatyam | yājñadaivato mantra iti | api hyadevatā devatāvat stūyante | yathāśvaprabhṛtīnyoṣadhiparyantāni | athāpyaṣṭau dvandvāni | sa na manyetāgantūnivārthān devatānām | pratyakṣadṛśyametadbhavati | māhābhāgyāddevatāyā eka ātmā bahudhā stūyate | ekasyātmano'nye devāḥ pratyaṅgāni bhavanti | api ca sattvānāṁ prakṛtibhūmabhirṛṣayaḥ stuvantītyāhuḥ | prakṛtisārvanāmnyācca | itaretarajanmāno bhavanti | itaretaraprakṛtayaḥ | karmajanmānaḥ | ātmajanmānaḥ | ātmaivaiṣāṁ ratho bhavati | ātmāśvaḥ | ātmā''yudham | ātmeṣavaḥ | ātmā sarvaṁ devasya
जिन मन्त्रों में देवता स्पष्ट नहीं है, वहाँ यह परीक्षा है: जो यज्ञ या यज्ञांग का देवता हो, वही उसका देवता माना जाता है; अन्यथा याज्ञिक इसे प्राजापत्य, नैरुक्त इसे नाराशंस मानते हैं। लोक में देव-अतिथि-पितृ जैसे कई देवत्व-सम्बन्ध प्रचलित हैं। एक देवता की महाभाग्यता से उसका एक ही आत्मा अनेक रूपों में स्तुत होता है — अन्य देव उसी आत्मा के प्रत्यंग बन जाते हैं। देवताएँ इतरेतर-जन्मा, कर्मजन्मा, आत्मजन्मा भी होती हैं — उनका रथ, अश्व, आयुध, बाण, सब कुछ स्वयं की आत्मा ही है।
श्लोक 7.5
तिस्त्र एव देवता इति नैरुक्ताः । अग्निः पृथिवीस्थानः । वायुर्वेन्द्रो वान्तरिक्षस्थानः । सूर्यो द्युस्थानः । तासां माहाभाग्यादेकैकस्या अपि बहूनि नामधेयानि भवन्ति । अपि वा कर्मपृथक्त्वात् । यथा होताऽध्वर्युर्ब्रह्मोद्गातेत्यप्येकस्य सतः । अपि वा पृथगेव स्युः । पृथग्घि स्तुतयो भवन्ति । तथाभिधानानि । यथो एतत्कर्मपृथक्त्वादिति बहवोऽपि विभज्य कर्माणि कुर्युः । तत्र संस्थानैकत्वं संभोगैकत्वं चोपेक्षितव्यम् । यथा -- पृथिव्यां मनुष्याः पशवो देवा इति स्थानैकत्वम् । संभोगैकत्वं च दृश्यते । यथा पृथिव्याः पर्जन्येन च वाय्वादित्याभ्यां च संभोगः । अग्निना चेतरस्य लोकस्य । तत्रैतन्नरराष्ट्रमिव
tistra eva devatā iti nairuktāḥ | agniḥ pṛthivīsthānaḥ | vāyurvendro vāntarikṣasthānaḥ | sūryo dyusthānaḥ | tāsāṁ māhābhāgyādekaikasyā api bahūni nāmadheyāni bhavanti | api vā karmapṛthaktvāt | yathā hotā'dhvaryurbrahmodgātetyapyekasya sataḥ | api vā pṛthageva syuḥ | pṛthagghi stutayo bhavanti | tathābhidhānāni | yatho etatkarmapṛthaktvāditi bahavo'pi vibhajya karmāṇi kuryuḥ | tatra saṁsthānaikatvaṁ saṁbhogaikatvaṁ copekṣitavyam | yathā -- pṛthivyāṁ manuṣyāḥ paśavo devā iti sthānaikatvam | saṁbhogaikatvaṁ ca dṛśyate | yathā pṛthivyāḥ parjanyena ca vāyvādityābhyāṁ ca saṁbhogaḥ | agninā cetarasya lokasya | tatraitannararāṣṭramiva
नैरुक्तों का मत है कि केवल तीन ही देवताएँ हैं — पृथिवी-स्थान वाला अग्नि, अन्तरिक्ष-स्थान वाला वायु या इन्द्र, और द्यु-स्थान वाला सूर्य। इनकी महिमा के कारण एक-एक के भी अनेक नाम हैं — कर्म-भेद से (जैसे होता, अध्वर्यु, ब्रह्मा, उद्गाता एक ही व्यक्ति के) या वास्तव में भिन्न-भिन्न। स्थान-ऐक्य और सम्भोग-ऐक्य पर ध्यान देना चाहिए — जैसे पृथिवी पर मनुष्य-पशु-देव का सहस्थान, और पृथिवी का पर्जन्य, वायु-आदित्य और अग्नि से सम्बन्ध — यह मानो नर-राष्ट्र के समान है।
श्लोक 7.6
अथाकारचिन्तनं देवतानाम् । पुरुषविधाः स्युरित्येकम् । चेतनावद्भिः स्तुतयो भवन्ति । तथाभिधानानि । अथापि पौरुषविधिकैरङ्गैः संस्तूयन्ते । ऋष्वा त इन्द्र स्थविरस्य बाहू । यत्संगृभ्णा मघवन्काशिरित्ते । अथापि पौरुषविधिकैर्द्रव्यसंयोगैः । आ द्वाभ्यां हरिभ्यामिन्द्र याहि । कल्याणीर्जाया सुरणं गृहे ते । अथापि पौरुषविधिकैः कर्मभिः । अद्धीन्द्र पिब च प्रस्थितस्य । आश्रुत्कर्ण श्रुधी हव॑म् ।
athākāracintanaṁ devatānām | puruṣavidhāḥ syurityekam | cetanāvadbhiḥ stutayo bhavanti | tathābhidhānāni | athāpi pauruṣavidhikairaṅgaiḥ saṁstūyante | ṛṣvā ta indra sthavirasya bāhū | yatsaṁgṛbhṇā maghavankāśiritte | athāpi pauruṣavidhikairdravyasaṁyogaiḥ | ā dvābhyāṁ haribhyāmindra yāhi | kalyāṇīrjāyā suraṇaṁ gṛhe te | athāpi pauruṣavidhikaiḥ karmabhiḥ | addhīndra piba ca prasthitasya | āśrutkarṇa śrudhī havam |
अब देवताओं के स्वरूप-चिन्तन की बात है — एक मत है कि देवता पुरुष-रूप वाली होती हैं, क्योंकि चेतनावान् के लिए ही स्तुतियाँ बनती हैं। वे मानव-सदृश अंगों (जैसे इन्द्र की स्थविर भुजाएँ), मानव-सदृश द्रव्य-संयोगों (दो हरि अश्व, कल्याणी पत्नी) और मानव-सदृश कर्मों (पीना, सुनना) से स्तुत होती हैं।
श्लोक 7.7
अपुरुषविधाः स्युरित्यपरम् । अपि तु यद् दृश्यतेऽपुरुषविधं तत् । तद्यथाग्निर्वायुरादित्यः पृथिवी चन्द्रमा इति । यथो एतच्चेतनावद्वद्धि स्तुतयो भवन्तीत्यचेतनान्यप्येवं स्तूयन्ते । यथाक्षप्रभृतीन्योषधिपर्यन्तानि । यथो एतत्पौरुषविधिकैरङ्गैः संस्तूयन्त इत्यचेतनेष्वप्येतद्भवति । अभि क्रन्दन्ति हरितेभिरासभिः । इति ग्रावस्तुतिः । यथो एतत्पौरुषविधिकैर्द्रव्यसंयोगैरित्येतदपि तादृशमेव । सुखं रथं युयुजे सिन्धुरश्विनम् । इति नदीस्तुतिः । यथो एतत्पौरुषविधिकैः कर्मभिरित्येतदपि तादृशमेव । होतुश्चित्पूर्वे हविरद्यमाशत । इति ग्रावस्तुतिरेव । अपि वोभयविधाः स्युः । अपि वा पुरुषविधानामेव सतां कर्मात्मान एते स्युः । यथा यज्ञो यजमानस्य । एष चाख्यानसमयः
apuruṣavidhāḥ syurityaparam | api tu yad dṛśyate'puruṣavidhaṁ tat | tadyathāgnirvāyurādityaḥ pṛthivī candramā iti | yatho etaccetanāvadvaddhi stutayo bhavantītyacetanānyapyevaṁ stūyante | yathākṣaprabhṛtīnyoṣadhiparyantāni | yatho etatpauruṣavidhikairaṅgaiḥ saṁstūyanta ityacetaneṣvapyetadbhavati | abhi krandanti haritebhirāsabhiḥ | iti grāvastutiḥ | yatho etatpauruṣavidhikairdravyasaṁyogairityetadapi tādṛśameva | sukhaṁ rathaṁ yuyuje sindhuraśvinam | iti nadīstutiḥ | yatho etatpauruṣavidhikaiḥ karmabhirityetadapi tādṛśameva | hotuścitpūrve haviradyamāśata | iti grāvastutireva | api vobhayavidhāḥ syuḥ | api vā puruṣavidhānāmeva satāṁ karmātmāna ete syuḥ | yathā yajño yajamānasya | eṣa cākhyānasamayaḥ
दूसरा मत है कि देवता अपुरुष-रूप वाली भी होती हैं — जैसे अग्नि, वायु, आदित्य, पृथिवी, चन्द्रमा। जैसे चेतनावानों की स्तुति होती है, वैसे ही अचेतन (द्यूत के पासे से ओषधि तक) भी स्तुत होते हैं — मानव-अंगों से (पत्थर की गर्जना), मानव-द्रव्यों से (नदी को सुखद रथ जोतते हुए), और मानव-कर्मों से (यज्ञ-पत्थर हविष्य ग्रहण करते हैं)। अथवा ये दोनों रूप वाली भी हो सकती हैं, या पुरुष-रूप वालों के ही कर्म-आत्मा (जैसे यजमान का यज्ञ) — यहीं से आख्यान-प्रसंग आरम्भ होता है।
श्लोक 7.8
तित्र एव देवता इत्युक्तं पुरस्तात् । तासां भक्तिसाहचर्यं व्याख्यास्यामः । अथैतान्यग्निभक्तीनि । अयं लोकः, प्रातः सवनं, वसन्तः, गायत्री, त्रिवृत्स्तोमः, रथंतरं साम । ये च देवगणाः समाम्नाताः प्रथमे स्थाने । अग्नायी पृथिवीळेति स्त्रियः । अथास्य कर्म । वहनं च हविषाम्, आवाहनं च देवतानाम् । यच्च किंचिद्दार्ष्टिविषयिकमग्निकर्मैव तत् । अथास्य संस्तविका देवाः । इन्द्रः सोमः वरुणः पर्जन्यः ऋतवः । आग्नावैष्णवं च हविः।। न त्वृक्संस्तविकी दशतयीषु विद्यते । अथाप्याग्नापौष्णं हविर्न तु संस्तवः । तत्रैतां विभक्तस्तुतिमृचमुदाहरन्ति
titra eva devatā ityuktaṁ purastāt | tāsāṁ bhaktisāhacaryaṁ vyākhyāsyāmaḥ | athaitānyagnibhaktīni | ayaṁ lokaḥ, prātaḥ savanaṁ, vasantaḥ, gāyatrī, trivṛtstomaḥ, rathaṁtaraṁ sāma | ye ca devagaṇāḥ samāmnātāḥ prathame sthāne | agnāyī pṛthivīḷeti striyaḥ | athāsya karma | vahanaṁ ca haviṣām, āvāhanaṁ ca devatānām | yacca kiṁciddārṣṭiviṣayikamagnikarmaiva tat | athāsya saṁstavikā devāḥ | indraḥ somaḥ varuṇaḥ parjanyaḥ ṛtavaḥ | āgnāvaiṣṇavaṁ ca haviḥ|| na tvṛksaṁstavikī daśatayīṣu vidyate | athāpyāgnāpauṣṇaṁ havirna tu saṁstavaḥ | tatraitāṁ vibhaktastutimṛcamudāharanti
पूर्व में कहा गया था कि केवल तीन ही देवताएँ हैं; अब इनकी सह-सम्बद्धताएँ बताई जाएँगी। अग्नि की भक्तियाँ हैं: यह लोक, प्रातःसवन, वसन्त, गायत्री छन्द, त्रिवृत् स्तोम, रथन्तर साम, तथा प्रथम-स्थान के देवगण और अग्नायी-पृथिवी जैसी स्त्री-देवताएँ। अग्नि का कर्म है हविष्य वहन करना और देवताओं का आवाहन करना। इसके संस्तविक देवता हैं इन्द्र, सोम, वरुण, पर्जन्य, ऋतुगण — यद्यपि कोई पूर्ण ऋक्-स्तवन इस दशति में नहीं मिलता।
श्लोक 7.9
पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशुर्भुव॑नस्य गोपाः । स त्वैतेभ्यः परि ददत्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥ पूषा त्वेतः प्रच्यावयतु । विद्वान् । अनष्टपशुः । भुवनस्य गोपा इत्येष हि सर्वेषां भूतानां गोपायिता आदित्यः । स त्वैतेभ्यः परिददत्पितृभ्य इति सांशयिकस्तृतीयः पादः । पूषा पुरस्तात्तस्यान्वादेश इत्येकम् । अग्निरुपरिष्टात्तस्य प्रकीर्तनेत्यपरम् । अग्निर्देवेभ्यः सुविदत्रियेभ्यः । सुविदत्रं धनं भवति । विन्दतेर्वैकोपसर्गात् । ददातेर्वा स्याद् द्वयुपसर्गात्
pūṣā tvetaścyāvayatu pra vidvānanaṣṭapaśurbhuvanasya gopāḥ | sa tvaitebhyaḥ pari dadatpitṛbhyo'gnirdevebhyaḥ suvidatriyebhyaḥ || pūṣā tvetaḥ pracyāvayatu | vidvān | anaṣṭapaśuḥ | bhuvanasya gopā ityeṣa hi sarveṣāṁ bhūtānāṁ gopāyitā ādityaḥ | sa tvaitebhyaḥ paridadatpitṛbhya iti sāṁśayikastṛtīyaḥ pādaḥ | pūṣā purastāttasyānvādeśa ityekam | agnirupariṣṭāttasya prakīrtanetyaparam | agnirdevebhyaḥ suvidatriyebhyaḥ | suvidatraṁ dhanaṁ bhavati | vindatervaikopasargāt | dadātervā syād dvayupasargāt
इस ऋचा में कहा गया है: 'पूषा हमें यहाँ से आगे ले चले, विद्वान्, अनष्ट-पशु, समस्त लोक का रक्षक; वही अग्नि पितरों और सुविदत्र देवताओं को अर्पित करे।' तीसरे पाद में संशय है — पूषा को पूर्व में उल्लिखित मानकर, या अग्नि को आगे कीर्तित मानकर। 'सुविदत्र' 'सुगम्य धन' के अर्थ में है।
श्लोक 7.10
अथैतानीन्द्रभक्तीनि । अन्तरिक्षलोकः, माध्यंदिनं सवनम्, ग्रीष्मः, त्रिष्टुप् , पञ्चदशस्तोमः, बृहत्साम । ये च देवगणाः समाम्नाता मध्यमे स्थाने याश्च स्त्रियः । अथास्य कर्म - रसानुप्रदानं वृत्रवधः । या च का च बलकृतिरिन्द्रकर्मैव तत् । अथास्य संस्तविका देवाः । अग्निः - सोमः - वरुणः - पूषा - बृहस्पतिः - र्ब्रह्मणस्पतिः - पर्वतः - कुत्सः - विष्णु - र्वायुः । अथापि मित्रो वरुणेन संस्तूयते । पूष्णा रुद्रेण च सोमः । अग्निना(वायुना- पाठभेदः) च पूषा । वातेन च पर्जन्यः
athaitānīndrabhaktīni | antarikṣalokaḥ, mādhyaṁdinaṁ savanam, grīṣmaḥ, triṣṭup , pañcadaśastomaḥ, bṛhatsāma | ye ca devagaṇāḥ samāmnātā madhyame sthāne yāśca striyaḥ | athāsya karma - rasānupradānaṁ vṛtravadhaḥ | yā ca kā ca balakṛtirindrakarmaiva tat | athāsya saṁstavikā devāḥ | agniḥ - somaḥ - varuṇaḥ - pūṣā - bṛhaspatiḥ - rbrahmaṇaspatiḥ - parvataḥ - kutsaḥ - viṣṇu - rvāyuḥ | athāpi mitro varuṇena saṁstūyate | pūṣṇā rudreṇa ca somaḥ | agninā(vāyunā- pāṭhabhedaḥ) ca pūṣā | vātena ca parjanyaḥ
इन्द्र की भक्तियाँ हैं: अन्तरिक्षलोक, माध्यन्दिन सवन, ग्रीष्म, त्रिष्टुप् छन्द, पञ्चदश स्तोम, बृहत् साम, मध्यम-स्थान के देवगण। इन्द्र का कर्म है रसों का सञ्चार और वृत्र-वध। उसके संस्तविक देवता हैं अग्नि, सोम, वरुण, पूषा, बृहस्पति, ब्रह्मणस्पति, पर्वत, कुत्स, विष्णु, वायु; और कहीं मित्र-वरुण, पूषा-रुद्र, अग्नि-पूषा, वात-पर्जन्य भी संयुक्त रूप से स्तुत होते हैं।
श्लोक 7.11
अथैतान्यादित्यभक्तीनि । असौ लोकः तृतीयसवनम् । वर्षा जगती सप्तदशस्तोमः वैरूपं साम । ये च देवगणाः समाम्नाता उत्तमे स्थाने। याश्च स्त्रियः । अथास्य कर्म - रसादानं रश्मिभिश्च रसधारणम् , यच्च किञ्चित्प्रवह्लितमादित्यकर्मैव तत् । चन्द्रमसा वायुना संवत्सरेणेति संस्तवः । एतेष्वेव स्थानव्यूहेष्वृतुच्छन्दःस्तोमपृष्ठस्य भक्तिशेषमनुकल्पयीत । शरदनुष्टबेकविंशस्तोमो वैराजं सामेति पृथिव्यायतनानि । हेमन्तः पङ्क्तिस्त्रिणवस्तोमः शाक्वरं सामेत्यन्तरिक्षायतनानि । शिशिरोऽतिच्छन्दास्त्रयस्त्रिंशस्तोमो रैवतं सामेति द्युभक्तीनि
athaitānyādityabhaktīni | asau lokaḥ tṛtīyasavanam | varṣā jagatī saptadaśastomaḥ vairūpaṁ sāma | ye ca devagaṇāḥ samāmnātā uttame sthāne| yāśca striyaḥ | athāsya karma - rasādānaṁ raśmibhiśca rasadhāraṇam , yacca kiñcitpravahlitamādityakarmaiva tat | candramasā vāyunā saṁvatsareṇeti saṁstavaḥ | eteṣveva sthānavyūheṣvṛtucchandaḥstomapṛṣṭhasya bhaktiśeṣamanukalpayīta | śaradanuṣṭabekaviṁśastomo vairājaṁ sāmeti pṛthivyāyatanāni | hemantaḥ paṅktistriṇavastomaḥ śākvaraṁ sāmetyantarikṣāyatanāni | śiśiro'ticchandāstrayastriṁśastomo raivataṁ sāmeti dyubhaktīni
आदित्य की भक्तियाँ हैं: वह (द्यु) लोक, तृतीय सवन, वर्षा-ऋतु, जगती छन्द, सप्तदश स्तोम, वैरूप साम, उत्तम-स्थान के देवगण। इसका कर्म है रश्मियों द्वारा रस ग्रहण और धारण करना। इसका संस्तव चन्द्रमा, वायु और संवत्सर के साथ होता है। इन्हीं स्थान-क्रमों में ऋतु-छन्द-स्तोम-साम का शेष विन्यास किया जा सकता है — शरद्-अनुष्टुप्-एकविंश-वैराज पृथिवी के लिए, हेमन्त-पंक्ति-त्रिणव-शाक्वर अन्तरिक्ष के लिए, शिशिर-अतिच्छन्दस्-त्रयस्त्रिंश-रैवत द्यु के लिए।
श्लोक 7.12
मन्त्रा मननात् । छन्दांसि छादनात् । (स्तोमः स्तवनात्) । यजुर्यजतेः । साम सम्मितमृचा । अस्यतेर्वा । ऋचा समं मेन इति नैदानाः । गायत्री गायतेः स्तुतिकर्मणः । त्रिगमना वा विपरीता । गायतो मुखादुदपतत् । इति च ब्राह्मणम् । उष्णिगुत्स्नाता भवति । स्निह्यतेर्वा स्यात्कान्तिकर्मणः । उष्णीषिणी वेत्यौपमिकम् । उष्णीषं स्नायतेः । ककुप् ककुभिनी भवति । ककुप् च कुब्जश्च कुजतेर्वा । उब्जतेर्वा । अनुष्टबनुष्टोभनात् । गायत्रीमेव त्रिपदां सतीं चतुर्थेन पादेनानुष्टोभति । इति च ब्राह्मणम् । बृहती परिबर्हणात् । पङ्क्तिः पञ्चपदा । त्रिष्टुप् स्तोभत्युत्तरपदा । का तु त्रिता स्यात् । तीर्णतमं छन्दः । त्रिवृद्वज्रः । तस्य स्तोभतीति वा । यत् त्रिरस्तोभत् तत् त्रिष्टुभस्त्रिष्टुप्त्वम् । इति विज्ञायते
mantrā mananāt | chandāṁsi chādanāt | (stomaḥ stavanāt) | yajuryajateḥ | sāma sammitamṛcā | asyatervā | ṛcā samaṁ mena iti naidānāḥ | gāyatrī gāyateḥ stutikarmaṇaḥ | trigamanā vā viparītā | gāyato mukhādudapatat | iti ca brāhmaṇam | uṣṇigutsnātā bhavati | snihyatervā syātkāntikarmaṇaḥ | uṣṇīṣiṇī vetyaupamikam | uṣṇīṣaṁ snāyateḥ | kakup kakubhinī bhavati | kakup ca kubjaśca kujatervā | ubjatervā | anuṣṭabanuṣṭobhanāt | gāyatrīmeva tripadāṁ satīṁ caturthena pādenānuṣṭobhati | iti ca brāhmaṇam | bṛhatī paribarhaṇāt | paṅktiḥ pañcapadā | triṣṭup stobhatyuttarapadā | kā tu tritā syāt | tīrṇatamaṁ chandaḥ | trivṛdvajraḥ | tasya stobhatīti vā | yat trirastobhat tat triṣṭubhastriṣṭuptvam | iti vijñāyate
यहाँ शास्त्रीय शब्दों की व्युत्पत्ति दी गई है — मन्त्र (मनन से), छन्द (आच्छादन से), यजु (यजन से), साम (ऋचा के साथ समत्व से)। फिर छन्दों की व्युत्पत्ति: गायत्री (स्तुति-कर्म से, या 'गान करने वाले के मुख से उत्पन्न'), उष्णिक् (स्नेह-कर्म से), ककुप् (कुब्ज-आकार से), अनुष्टुप् (चौथे पद से अनुस्तवन से), बृहती (विस्तार से), पंक्ति (पाँच पद), त्रिष्टुप् (तीन बार स्तोभ करने से)।
श्लोक 7.13
जगती गततमं छन्दः । जलचरगतिर्वा । गल्गल्यमानोऽसृजत् । इति च ब्राह्मणम् । विराड्विराजनाद्वा । विराधनाद्वा । विप्रापणाद्वा । विराजनात्संपूर्णाक्षरा । विराधनादूनाक्षरा । विप्रापणादधिकाक्षरा । पिपीलिकमध्येत्यौपमिकम् । पिपीलिका पेलतेर्गतिकर्मणः । इतीमा देवता अनुक्रान्ताः । सूक्तभाजः । हविर्भाजः । ऋग्भाजश्च भूयिष्ठाः । काश्चिन्निपातभाजः । अथोताभिधानैः संयुज्य हविश्चोदयति । इन्द्राय वृत्रघ्ने । इन्द्राय वृत्रतुरे। इन्द्रायाँहोमुच इति । तान्यप्येके समामनन्ति । भूयांसि तु समाम्नानात् । यत्तु संविज्ञानभूतं स्यात्प्राधान्यस्तुति तत्समामने । अथोत कर्मभिर्ऋषिर्देवताः स्तौति । वृत्रहा । पुरन्दरः । इति । तान्यप्येके समामनन्ति । भूयांसि तु समाम्नानात् । व्यञ्जनमात्रं तु तत् तस्याभिधानस्य भवति । यथा - ब्राह्मणाय बुभुक्षितायौदनं देहि । स्नातायानुलेपनम् । पिपासते पानीयमिति
jagatī gatatamaṁ chandaḥ | jalacaragatirvā | galgalyamāno'sṛjat | iti ca brāhmaṇam | virāḍvirājanādvā | virādhanādvā | viprāpaṇādvā | virājanātsaṁpūrṇākṣarā | virādhanādūnākṣarā | viprāpaṇādadhikākṣarā | pipīlikamadhyetyaupamikam | pipīlikā pelatergatikarmaṇaḥ | itīmā devatā anukrāntāḥ | sūktabhājaḥ | havirbhājaḥ | ṛgbhājaśca bhūyiṣṭhāḥ | kāścinnipātabhājaḥ | athotābhidhānaiḥ saṁyujya haviścodayati | indrāya vṛtraghne | indrāya vṛtrature| indrāyām̐homuca iti | tānyapyeke samāmananti | bhūyāṁsi tu samāmnānāt | yattu saṁvijñānabhūtaṁ syātprādhānyastuti tatsamāmane | athota karmabhirṛṣirdevatāḥ stauti | vṛtrahā | purandaraḥ | iti | tānyapyeke samāmananti | bhūyāṁsi tu samāmnānāt | vyañjanamātraṁ tu tat tasyābhidhānasya bhavati | yathā - brāhmaṇāya bubhukṣitāyaudanaṁ dehi | snātāyānulepanam | pipāsate pānīyamiti
'जगती' 'सर्वाधिक गतिशील' छन्द है, या जलचर-गति वाला। 'विराज्' विशेष-शोभा, विराधना (अपूर्णता), या विप्रापण (अधिकता) से — पूर्ण-अक्षर, न्यून-अक्षर, या अधिक-अक्षर होने पर। इस प्रकार देवताओं का अनुक्रम पूर्ण हुआ — कुछ सूक्त-भाजी, कुछ हविर्भाजी, अधिकांश ऋक्-भाजी, कुछ केवल निपात-भाजी। कभी अभिधानों के साथ हविष्य समर्पित होता है ('इन्द्राय वृत्रघ्ने'), कभी ऋषि कर्मों से देवता को स्तुत करता है ('वृत्रहा', 'पुरन्दरः') — जैसे भूखे ब्राह्मण को अन्न देना ही कहलाता है।
श्लोक 7.14
अथातोऽनुक्रमिष्यामः । अग्निः पृथिवीस्थानः । तं प्रथमं व्याख्यास्यामः । अग्निः कस्मात् । अग्रणीर्भवति । अग्रं यज्ञेषु प्रणीयते । अङ्गं नयति सन्नममानः । अक्नोपनो भवतीति स्थौलाष्ठीविः । न क्नोपयति न स्नेहयति । त्रिभ्य आख्यातेभ्यो जायत इति शाकपूणिः । इतात् । अक्ताद्दग्धाद्वा । नीतात् । स खल्वेते- रकारमादत्ते, गकारमनक्तेर्वा दहतेर्वा, नीः परः । तस्यैषा भवति
athāto'nukramiṣyāmaḥ | agniḥ pṛthivīsthānaḥ | taṁ prathamaṁ vyākhyāsyāmaḥ | agniḥ kasmāt | agraṇīrbhavati | agraṁ yajñeṣu praṇīyate | aṅgaṁ nayati sannamamānaḥ | aknopano bhavatīti sthaulāṣṭhīviḥ | na knopayati na snehayati | tribhya ākhyātebhyo jāyata iti śākapūṇiḥ | itāt | aktāddagdhādvā | nītāt | sa khalvete- rakāramādatte, gakāramanaktervā dahatervā, nīḥ paraḥ | tasyaiṣā bhavati
अब यास्क क्रमशः वर्णन आरम्भ करते हैं — अग्नि, जिसका स्थान पृथिवी है, सबसे पहले व्याख्यायित होगा। 'अग्नि' अग्रणी होने से (यज्ञों में सबसे आगे ले जाया जाता है)। स्थौलाष्ठीवि के अनुसार 'अक्नोपन' (स्नेह-रहित) से। शाकपूणि के अनुसार यह तीन आख्यातों से बना है — 'इ' (जाना), 'अक्त'/'दग्ध' (जलाना), और 'नी' (ले जाना) — तीनों से क्रमशः अक्षर लेकर 'अग्नि' शब्द बनता है।
श्लोक 7.15
अग्निमीळे पुरोहितं य॒ज्ञस्य॑ देवमृत्विजम् । होतारं रत्नधातमम् ॥ अग्निमीळेऽग्निं याचामि । ईळिरध्येषणाकर्मा । पूजाकर्मा वा । पुरोहितो व्याख्यातो यज्ञश्च । देवो दानाद्वा । दीपनाद्वा । द्योतनाद्वा । द्युस्थानो भवतीति वा । यो देवः सा देवता । होतारं ह्रातारम् । जुहोतेर्होतेत्यौर्णवाभः । रत्नधातमं रमणीयानां धनानां दातृतमम् । तस्यैषापरा भवति
agnimīḷe purohitaṁ yajñasya devamṛtvijam | hotāraṁ ratnadhātamam || agnimīḷe'gniṁ yācāmi | īḷiradhyeṣaṇākarmā | pūjākarmā vā | purohito vyākhyāto yajñaśca | devo dānādvā | dīpanādvā | dyotanādvā | dyusthāno bhavatīti vā | yo devaḥ sā devatā | hotāraṁ hrātāram | juhoterhotetyaurṇavābhaḥ | ratnadhātamaṁ ramaṇīyānāṁ dhanānāṁ dātṛtamam | tasyaiṣāparā bhavati
यह प्रसिद्ध ऋग्वेद के आरम्भिक मन्त्र की व्याख्या है: 'मैं अग्नि की स्तुति करता हूँ, जो पुरोहित, यज्ञ के देव, ऋत्विज्, रत्नों के सर्वोत्तम दाता होता, हैं।' 'ईळे' याचना या पूजा-कर्म है। 'देव' दान/दीपन/द्योतन धातुओं से, या द्युस्थान होने से। 'होता' 'ह्रातारं' (पुकारने वाला) के अर्थ में (और्णवाभ के अनुसार 'जुहोति' से)।
श्लोक 7.16
अग्निः पूर्वेभिर्ऋषिभिरीड्यो नूतनैरुत । स दे॒वाँ एह वक्षति ॥ अग्निर्यः पूर्वैर्ऋषिभिरीळितव्यो वन्दितव्योऽस्माभिश्च नवतरैः स देवानिहावहत्विति । स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी अग्नी उच्येते । ततो नु मध्यमः
agniḥ pūrvebhirṛṣibhirīḍyo nūtanairuta | sa devām̐ eha vakṣati || agniryaḥ pūrvairṛṣibhirīḷitavyo vanditavyo'smābhiśca navataraiḥ sa devānihāvahatviti | sa na manyetāyamevāgniriti | apyete uttare jyotiṣī agnī ucyete | tato nu madhyamaḥ
इस ऋचा में कहा गया है: 'अग्नि, जो पूर्व ऋषियों द्वारा पूज्य था, नए ऋषियों द्वारा भी पूज्य है — वही देवताओं को यहाँ लाए।' यह न सोचें कि यह केवल यही अग्नि है — दो अन्य ज्योतिष्मान् भी 'अग्नि' कहलाते हैं (वायु/इन्द्र और सूर्य)। अतः अब मध्यम देवता (वायु/इन्द्र) की चर्चा होगी।
श्लोक 7.17
अभि प्रवन्तु समनेव योषाः कल्याण्य स्मय॑मानासो अग्निम् । घृतस्य धाराः समिधो नसन्त ता जुषाणो हर्यति जातवेदाः ॥ अभिनमन्त समनस इव योषाः । समनं समननाद्वा । संमाननाद्वा । कल्याण्यः । स्मयमानासः । अग्निमित्यौपमिकम् । घृतस्य धारा उदकस्य धाराः समिधो नसन्त । नसतिराप्नोतिकर्मा वा । नमतिकर्मा वा । ता जुषाणो हर्यति जातवेदाः । हर्यतिः प्रेप्साकर्मा । विहर्यतीति । समुद्रादूर्मिर्मधुमाँ उदारत् । इत्यादित्यमुक्तं मन्यन्ते । समुद्राद्ध्येषोऽद्भ्य उदेति । इति च ब्राह्मणम् । अथापि ब्राह्मणं भवति । अग्निः सर्वा देवताः । इति । तस्योत्तरा भूयसे निर्वचनाय
abhi pravantu samaneva yoṣāḥ kalyāṇya smayamānāso agnim | ghṛtasya dhārāḥ samidho nasanta tā juṣāṇo haryati jātavedāḥ || abhinamanta samanasa iva yoṣāḥ | samanaṁ samananādvā | saṁmānanādvā | kalyāṇyaḥ | smayamānāsaḥ | agnimityaupamikam | ghṛtasya dhārā udakasya dhārāḥ samidho nasanta | nasatirāpnotikarmā vā | namatikarmā vā | tā juṣāṇo haryati jātavedāḥ | haryatiḥ prepsākarmā | viharyatīti | samudrādūrmirmadhumām̐ udārat | ityādityamuktaṁ manyante | samudrāddhyeṣo'dbhya udeti | iti ca brāhmaṇam | athāpi brāhmaṇaṁ bhavati | agniḥ sarvā devatāḥ | iti | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'समन (मिलन) की भाँति सुन्दर, मुस्कुराती हुई युवतियाँ अग्नि की ओर बढ़ती हैं; घृत की धाराएँ समिधाओं को प्राप्त करती हैं, उन्हें सेवित करते हुए जातवेदा प्रसन्न होता है।' यहाँ ब्राह्मण-वचन उद्धृत है: 'अग्नि सभी देवता है' — इस मन्त्र का आगे विस्तार से निर्वचन किया जाएगा।
श्लोक 7.18
इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गरुत्मा॑न् । एकं सद्विप्रा बहुधा वदन्त्यग्निं यमं मातरिश्वानमाहुः ॥ इममेवाग्निं महान्तं आत्मानं बहुधा मेधाविनो वदन्ति । इन्द्रं मित्रं वरुणमग्निं दिव्यं च गरुत्मन्तम् । दिव्यो दिविजः । गरुत्मान् गरणवान् । गुर्वात्मा । महात्मेति वा । यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निः । निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते
indraṁ mitraṁ varuṇamagnimāhuratho divyaḥ sa suparṇo garutmān | ekaṁ sadviprā bahudhā vadantyagniṁ yamaṁ mātariśvānamāhuḥ || imamevāgniṁ mahāntaṁ ātmānaṁ bahudhā medhāvino vadanti | indraṁ mitraṁ varuṇamagniṁ divyaṁ ca garutmantam | divyo divijaḥ | garutmān garaṇavān | gurvātmā | mahātmeti vā | yastu sūktaṁ bhajate yasmai havirnirupyate'yameva so'gniḥ | nipātamevaite uttare jyotiṣī etena nāmadheyena bhajete
यह प्रसिद्ध ऋचा है: 'इन्द्र, मित्र, वरुण, अग्नि कहते हैं, और वह दिव्य सुपर्ण गरुत्मान् भी; सत् एक ही है, विद्वान् उसे अनेक नामों से पुकारते हैं — अग्नि, यम, मातरिश्वा कहते हैं।' यह महान् आत्मा वाला यही अग्नि है, जिसे बुद्धिमान् अनेक नामों से पुकारते हैं। जिस देवता के लिए सूक्त और हविष्य समर्पित हो, वही वास्तविक देवता माना जाता है — शेष दो ज्योतिष्मान् केवल इसी नाम के निपात-मात्र सहभागी होते हैं।
श्लोक 7.19
जातवेदाः कस्मात् । जातानि वेद । जातानि वैनं विदुः । जाते जाते विद्यत इति वा । जातवित्तो वा । जातधनः । जातविद्यो वा जातप्रज्ञानः । यतज्जातः पशूनविन्दत इति तज्जातवेदसो जातवेदस्त्वम् । इति ब्राह्मणम् । तस्मात्सर्वानृतून्पशवोऽग्निमभिसर्पन्ति । इति च । तस्यैषा भवति
jātavedāḥ kasmāt | jātāni veda | jātāni vainaṁ viduḥ | jāte jāte vidyata iti vā | jātavitto vā | jātadhanaḥ | jātavidyo vā jātaprajñānaḥ | yatajjātaḥ paśūnavindata iti tajjātavedaso jātavedastvam | iti brāhmaṇam | tasmātsarvānṛtūnpaśavo'gnimabhisarpanti | iti ca | tasyaiṣā bhavati
'जातवेदस्' — 'जो उत्पन्न वस्तुओं को जानता है', या 'जिसे उत्पन्न वस्तुएँ जानती हैं', अथवा 'जो प्रत्येक जन्म में विद्यमान है'। ब्राह्मण-वचन है: 'जो जन्म लेते ही पशुओं को पा जाता है, वही जातवेदा का जातवेदस्त्व है — इसीलिए पशु सभी ऋतुओं में अग्नि की ओर आकर्षित होते हैं'।
श्लोक 7.20
जातवेदसे सुनवाम सोम॑मरातीयतो नि दहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य॒ग्निः ॥ (जातवेदस इति जातवेदस्यां वैवं जातवेदसेऽर्चाय सुनवाम सोममिति । प्रसवायाभिषवाय सोमं राजानममृतमरातीयतो यज्ञार्थमिति स्मोः । निदहाति निश्चयेन दहति भस्मीकरोति । सोमो दददित्यर्थः । स नः पर्षदति दुर्गाणि विश्वानि दुर्गमानि स्थानानि नावेव सिन्धुं नावा सिन्धुं सिन्धुं नावा नदीं जलदुर्गां महाकूलां तारयति । दुरितात्यग्निरिति दुरितानि तारयति । तस्यैषापरा भवति २) (प्रक्षिप्तम्) प्र नूनं जातवेदसमश्वं हिनोत वाजिनम् । इदं नो बर्हिरासदे ॥ प्रहिणुत जातवेदसं कर्मभिः समश्नुवानम् । अपि वोपमार्थे स्यात् । अश्वमिव जातवेदसमिति । इदं नो बर्हिरासीदत्विति । तदेतदेकमेव जातवेदसं गायत्रं तृचं द(दा)शतयीषु विद्यते । यत्तु किञ्चिदाग्नेयं तज्जातवेदसानां स्थाने युज्यते । स न मन्येतायमेवाग्निरिति । अप्येते उत्तरे ज्योतिषी जातवेदसी उच्येते । ततो नु मध्यमः । अभि प्रवन्त समनेव योषाः । इति तत्पुरस्ताद् व्याख्यातम् । अथासावादित्यः । उदु त्यं जातवेदसम् । इति । तदुपरिष्टाद्व्याख्यास्यामः । यस्तु सूक्तं भजते यस्मै हविर्निरुप्यतेऽयमेव सोऽग्निर्जातवेदाः । निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते
jātavedase sunavāma somamarātīyato ni dahāti vedaḥ | sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ || (jātavedasa iti jātavedasyāṁ vaivaṁ jātavedase'rcāya sunavāma somamiti | prasavāyābhiṣavāya somaṁ rājānamamṛtamarātīyato yajñārthamiti smoḥ | nidahāti niścayena dahati bhasmīkaroti | somo dadadityarthaḥ | sa naḥ parṣadati durgāṇi viśvāni durgamāni sthānāni nāveva sindhuṁ nāvā sindhuṁ sindhuṁ nāvā nadīṁ jaladurgāṁ mahākūlāṁ tārayati | duritātyagniriti duritāni tārayati | tasyaiṣāparā bhavati 2) (prakṣiptam) pra nūnaṁ jātavedasamaśvaṁ hinota vājinam | idaṁ no barhirāsade || prahiṇuta jātavedasaṁ karmabhiḥ samaśnuvānam | api vopamārthe syāt | aśvamiva jātavedasamiti | idaṁ no barhirāsīdatviti | tadetadekameva jātavedasaṁ gāyatraṁ tṛcaṁ da(dā)śatayīṣu vidyate | yattu kiñcidāgneyaṁ tajjātavedasānāṁ sthāne yujyate | sa na manyetāyamevāgniriti | apyete uttare jyotiṣī jātavedasī ucyete | tato nu madhyamaḥ | abhi pravanta samaneva yoṣāḥ | iti tatpurastād vyākhyātam | athāsāvādityaḥ | udu tyaṁ jātavedasam | iti | tadupariṣṭādvyākhyāsyāmaḥ | yastu sūktaṁ bhajate yasmai havirnirupyate'yameva so'gnirjātavedāḥ | nipātamevaite uttare jyotiṣī etena nāmadheyena bhajete
इस ऋचा में कहा गया है: 'जातवेदा के लिए हम सोम निचोड़ें, वह शत्रुओं को जला देता है; वह हमें सभी दुर्गम स्थानों से पार ले जाए, जैसे नौका नदी को पार कराती है, अग्नि दुरितों से पार कराता है।' यह पूरा तृच केवल यहीं मिलता है; अन्य जातवेद-सम्बन्धी सूक्त इसी की जगह प्रयुक्त होते हैं। मत्स्य-न्याय से यहाँ फिर स्मरण कराया गया है कि यह मध्यम अग्नि भी हो सकता है, और आगे यही सूर्य के रूप में भी वर्णित होगा।
श्लोक 7.21
वैश्वानरः कस्मात् । विश्वान्नरान्नयति । विश्व एनं नरा नयन्तीति वा । अपि वा विश्वानर एव स्यात् । प्रत्यृतः सर्वाणि भूतानि तस्य वैश्वानरः । तस्यैषा भवति
vaiśvānaraḥ kasmāt | viśvānnarānnayati | viśva enaṁ narā nayantīti vā | api vā viśvānara eva syāt | pratyṛtaḥ sarvāṇi bhūtāni tasya vaiśvānaraḥ | tasyaiṣā bhavati
'वैश्वानर' — 'जो सभी नरों (मनुष्यों) को ले जाता है', या 'जिसे सब नर ले जाते हैं'। अथवा यह 'विश्व-अनर' भी हो सकता है — जिसके प्रति समस्त प्राणी अभिमुख हैं, वही वैश्वानर।
श्लोक 7.22
वैश्वानरस्य॑ सुमतौ स्याम राजा हि कं भुवनानामभिश्रीः । इतो जातो विश्वमिदं वि चष्टे वैश्वानरो यतते सूर्येण ॥ इतो जातः सर्वमिदमभिविपश्यति । वैश्वानरः संयतते सूर्येण । राजा यः सर्वेषां भूतानामभिश्रयणीयस्तस्य वयं वैश्वानरस्य कल्याण्यां मतौ स्यामेति । तत्को वैश्वानरः । मध्यम इत्याचार्याः । वर्षकर्मणा ह्येनं स्तौति
vaiśvānarasya sumatau syāma rājā hi kaṁ bhuvanānāmabhiśrīḥ | ito jāto viśvamidaṁ vi caṣṭe vaiśvānaro yatate sūryeṇa || ito jātaḥ sarvamidamabhivipaśyati | vaiśvānaraḥ saṁyatate sūryeṇa | rājā yaḥ sarveṣāṁ bhūtānāmabhiśrayaṇīyastasya vayaṁ vaiśvānarasya kalyāṇyāṁ matau syāmeti | tatko vaiśvānaraḥ | madhyama ityācāryāḥ | varṣakarmaṇā hyenaṁ stauti
इस ऋचा में कहा गया है: 'हम वैश्वानर की कृपा में रहें, जो समस्त लोकों का राजा और आश्रयस्थान है; यहाँ जन्म लेकर वह सब कुछ देखता है, वैश्वानर सूर्य के साथ संयुक्त होता है।' आचार्यों का मत है कि वैश्वानर मध्यम देवता है, क्योंकि यहाँ वर्षा-कर्म के द्वारा उसकी स्तुति की जाती है।
श्लोक 7.23
प्र नू महित्वं वृषभस्य वोचं यं पूरवो वृत्रहणं सचन्ते । वैश्वानरो दस्युम॒ग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥ प्रब्रवीमि तत् । महित्त्वं माहाभाग्यम् । वृषभस्य वर्षितुरपाम् । यं पूरवः पूरयितव्या मनुष्याः । वृत्रहणं मेघहनम् । सचन्ते सेवन्ते वर्षकामाः । दस्युर्दस्यतेः । क्षयार्थात् । उपदस्यन्त्यस्मिन्रसाः । उपदासयति कर्माणि । तमग्निर्वैश्वानरो घ्नन् । अवाधूनोदपः काष्ठा अभिनत् । शम्बरं मेघम् । अथासावादित्य इति पूर्वे याज्ञिकाः । एषां लोकानां रोहेण सवनानां रोह आम्नातः । रोहात्प्रत्यवरोहश्चिकीर्षितः । तामनुकृतिं होताग्निमारुते शस्त्रे वैश्वानरीयेण सूक्तेन प्रतिपद्यते । सोऽपि च स्तोत्रियमाद्रियेत । आग्नेयो हि भवति । तत आगच्छति मध्यमस्थाना देवता । रुद्रं च मरुतश्च । ततोऽग्निमिहस्थानमत्रैव स्तोत्रियं शंसति । अथापि वैश्वानरीयो द्वादशकपालो भवति । एतस्य हि द्वादशविधं कर्म । अथापि ब्राह्मणं भवति - असौ वा आदित्योऽग्निर्वैश्वानरः । इति । अथापि निवित्सौर्यवैश्वानरी भवति । आ यो द्यां भात्या पृथिवीम् । इति । एष हि द्यावापृथिव्यावाभासयति । अथापि छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवति । दिवि पृष्ठो अरोचत । इति । एष हि दिवि पृष्टो अरोचतेति । अथापि हविष्पान्तीयं सूक्तं सौर्यवैश्वानरं भवति । अयमेवाग्निर्वैश्वानर इति शाकपूणिः । विश्वानरावित्यप्येते उत्तरे ज्योतिषी । वैश्वानरोऽयं यत् ताभ्यां जायते । कथं त्वयमेताभ्यां जायत इति । यत्र वैद्युतः शरणमभिहन्ति यावदनुपात्तो भवति मध्यमधर्मैव तावद् भवत्युदकेन्धनः शरीरोपशमनः । उपादीयमान एवायं सम्पद्यत उदकोपशमनः शरीरदीप्तिः । अथादित्यात् । उदीचि प्रथमसमावृत्त आदित्ये कंसं वा मणिं वा परिमृज्य प्रतिस्वरे यत्र शुष्कगोमयमसंस्पर्शयन् धारयति तत्प्रदीप्यते । सोऽयमेव सम्पद्यते । अथाप्याह । वैश्वानरो यतते सूर्येण । इति । न च पुनरात्मनात्मा संयतते । अन्येनैवान्यः संयतते । इत इममादधात्यमुतोऽमुष्य रश्मयः प्रादुर्भवन्ति । इतोऽस्यार्चिषस्तयोर्भासोः संसङ्गं दृष्ट्वैवमवक्ष्यत् । अथ यान्येतान्यौत्तमिकानि सूक्तानि भागानि वा सावित्राणि वा सौर्याणि वा पौष्णानि वा वैष्णवानि वा वैश्वदेव्यानि वा तेषु वैश्वानरीया प्रवादा अभविष्यन् । आदित्यकर्मणा चैनमस्तोष्यन्निति । उदेषीति अस्तमेषीति । विपर्येषीति । आग्नेयेष्वेव हि सूक्तेषु वैश्वानरीयाः प्रवादा भवन्ति । अग्निकर्मणा चैनं स्तौतीति । वहसीति । पचसीति । दहसीति । यथो एतद्वर्षकर्मणा ह्येनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते । समानमेतदुदकमुच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति दिवं जिन्वन्त्य॒ग्नयः ॥ इति सा निगदव्याख्याता
pra nū mahitvaṁ vṛṣabhasya vocaṁ yaṁ pūravo vṛtrahaṇaṁ sacante | vaiśvānaro dasyumagnirjaghanvām̐ adhūnotkāṣṭhā ava śambaraṁ bhet || prabravīmi tat | mahittvaṁ māhābhāgyam | vṛṣabhasya varṣiturapām | yaṁ pūravaḥ pūrayitavyā manuṣyāḥ | vṛtrahaṇaṁ meghahanam | sacante sevante varṣakāmāḥ | dasyurdasyateḥ | kṣayārthāt | upadasyantyasminrasāḥ | upadāsayati karmāṇi | tamagnirvaiśvānaro ghnan | avādhūnodapaḥ kāṣṭhā abhinat | śambaraṁ megham | athāsāvāditya iti pūrve yājñikāḥ | eṣāṁ lokānāṁ roheṇa savanānāṁ roha āmnātaḥ | rohātpratyavarohaścikīrṣitaḥ | tāmanukṛtiṁ hotāgnimārute śastre vaiśvānarīyeṇa sūktena pratipadyate | so'pi ca stotriyamādriyeta | āgneyo hi bhavati | tata āgacchati madhyamasthānā devatā | rudraṁ ca marutaśca | tato'gnimihasthānamatraiva stotriyaṁ śaṁsati | athāpi vaiśvānarīyo dvādaśakapālo bhavati | etasya hi dvādaśavidhaṁ karma | athāpi brāhmaṇaṁ bhavati - asau vā ādityo'gnirvaiśvānaraḥ | iti | athāpi nivitsauryavaiśvānarī bhavati | ā yo dyāṁ bhātyā pṛthivīm | iti | eṣa hi dyāvāpṛthivyāvābhāsayati | athāpi chāndomikaṁ sūktaṁ sauryavaiśvānaraṁ bhavati | divi pṛṣṭho arocata | iti | eṣa hi divi pṛṣṭo arocateti | athāpi haviṣpāntīyaṁ sūktaṁ sauryavaiśvānaraṁ bhavati | ayamevāgnirvaiśvānara iti śākapūṇiḥ | viśvānarāvityapyete uttare jyotiṣī | vaiśvānaro'yaṁ yat tābhyāṁ jāyate | kathaṁ tvayametābhyāṁ jāyata iti | yatra vaidyutaḥ śaraṇamabhihanti yāvadanupātto bhavati madhyamadharmaiva tāvad bhavatyudakendhanaḥ śarīropaśamanaḥ | upādīyamāna evāyaṁ sampadyata udakopaśamanaḥ śarīradīptiḥ | athādityāt | udīci prathamasamāvṛtta āditye kaṁsaṁ vā maṇiṁ vā parimṛjya pratisvare yatra śuṣkagomayamasaṁsparśayan dhārayati tatpradīpyate | so'yameva sampadyate | athāpyāha | vaiśvānaro yatate sūryeṇa | iti | na ca punarātmanātmā saṁyatate | anyenaivānyaḥ saṁyatate | ita imamādadhātyamuto'muṣya raśmayaḥ prādurbhavanti | ito'syārciṣastayorbhāsoḥ saṁsaṅgaṁ dṛṣṭvaivamavakṣyat | atha yānyetānyauttamikāni sūktāni bhāgāni vā sāvitrāṇi vā sauryāṇi vā pauṣṇāni vā vaiṣṇavāni vā vaiśvadevyāni vā teṣu vaiśvānarīyā pravādā abhaviṣyan | ādityakarmaṇā cainamastoṣyanniti | udeṣīti astameṣīti | viparyeṣīti | āgneyeṣveva hi sūkteṣu vaiśvānarīyāḥ pravādā bhavanti | agnikarmaṇā cainaṁ stautīti | vahasīti | pacasīti | dahasīti | yatho etadvarṣakarmaṇā hyenaṁ stautītyasminnapyetadupapadyate | samānametadudakamuccaityava cāhabhiḥ | bhūmiṁ parjanyā jinvanti divaṁ jinvantyagnayaḥ || iti sā nigadavyākhyātā
इस लम्बे खण्ड में वैश्वानर की महिमा गाई जाती है: 'मैं वृषभ की महिमा का वर्णन करूँ, जिसे पुरुगण, वृत्रहा, अनुसरण करते हैं; वैश्वानर अग्नि ने दस्यु को मारकर दिशाओं को कम्पित किया, शम्बर मेघ को भेद डाला।' यास्क इसे सूर्य से भी जोड़ते हैं — लोकों और सवनों के आरोह-अवरोह का अनुकरण करते हुए होता वैश्वानरीय सूक्त से यज्ञ में मध्यम देवता से अग्नि-स्थान तक की यात्रा दर्शाता है। ब्राह्मण-वचनों में पृथिवी, संवत्सर और ब्राह्मण तक को वैश्वानर कहा गया है। यास्क यह भी बताते हैं कि आदित्य और अग्नि की किरणों-ज्वालाओं के परस्पर सम्बन्ध से ही वैश्वानरत्व सिद्ध होता है — न कि आत्मा स्वयं आत्मा से युक्त होता है।
श्लोक 7.24
कृष्णं नियानं हर॑यः सुपर्णा अपो वसाना दिवमुत्पतन्ति । त आ ववृत्रन्त्सदनादृतस्यादिद् घृतेन पृथिवी व्युद्यते।। कृष्णं निरयणं रात्रिः आदित्यस्य, हरयः सुपर्णा हरणा आदित्यरश्मयः । ते यदाऽमुतोऽर्वाञ्चः पर्यावर्तन्ते सहस्थानादुदकस्यादित्यात् । अथ घृतेनोदकेन पृथिवी व्युद्यते । घृतमित्युदकनाम । जिघर्तेः सिञ्चतिकर्मणः । अथापि ब्राह्मणं भवति । अग्निर्वा इतो वृष्टिं समीरयति धामच्छद्दिवि खलु वै भूत्वा वर्षति मरुतः सृष्टां वृष्टिं नयन्ति । यदा खलु वै असावादित्योऽग्निं रश्मिभिः पर्यावर्ततेऽथ वर्षति । इति । यथो एतद्रोहात् प्रत्यवरोहश्चिकीर्षित इत्याम्नायवचनादेतद् भवति । यथो एतद्वैश्वानरीयो द्वादशकपालो भवतीत्यनिर्वचनं कपालानि भवन्ति । अस्ति हि सौर्य एककपालः पञ्चकपालश्च । यथो एतद् ब्राह्मणं भवतीति बहुभक्तिवादीनि हि ब्राह्मणानि भवन्ति । पृथिवी वैश्वानरः । संवत्सरो वैश्वानरः । ब्राह्मणो वैश्वानरः । इति । यथो एतन्निवित्सौर्यवैश्वानरी भवतीत्यस्यैव सा भवति - यो विड्भ्यो मानुषीभ्यो दीदेत् । इत्येष हि विड्भ्यो मानुषीभ्यो दीप्यते । यथो एतच्छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति । जमदग्निभिराहुतः । इति जमदग्नयः प्रजमिताग्नयो वा । प्रज्वलिताग्नयो वा । तैरभिहुतो भवति । (यथो एतच्छान्दोमिकं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति । यमदग्निभिराहुतः । इति यमदग्नयः प्रयमिताग्नयो वा । प्रज्वलिताग्नयो वा । तैरभिहुतो भवति । - पाठभेदः)) यथो एतद्धविष्पान्तीयं सूक्तं सौर्यवैश्वानरं भवतीत्यस्यैव तद्भवति
kṛṣṇaṁ niyānaṁ harayaḥ suparṇā apo vasānā divamutpatanti | ta ā vavṛtrantsadanādṛtasyādid ghṛtena pṛthivī vyudyate|| kṛṣṇaṁ nirayaṇaṁ rātriḥ ādityasya, harayaḥ suparṇā haraṇā ādityaraśmayaḥ | te yadā'muto'rvāñcaḥ paryāvartante sahasthānādudakasyādityāt | atha ghṛtenodakena pṛthivī vyudyate | ghṛtamityudakanāma | jigharteḥ siñcatikarmaṇaḥ | athāpi brāhmaṇaṁ bhavati | agnirvā ito vṛṣṭiṁ samīrayati dhāmacchaddivi khalu vai bhūtvā varṣati marutaḥ sṛṣṭāṁ vṛṣṭiṁ nayanti | yadā khalu vai asāvādityo'gniṁ raśmibhiḥ paryāvartate'tha varṣati | iti | yatho etadrohāt pratyavarohaścikīrṣita ityāmnāyavacanādetad bhavati | yatho etadvaiśvānarīyo dvādaśakapālo bhavatītyanirvacanaṁ kapālāni bhavanti | asti hi saurya ekakapālaḥ pañcakapālaśca | yatho etad brāhmaṇaṁ bhavatīti bahubhaktivādīni hi brāhmaṇāni bhavanti | pṛthivī vaiśvānaraḥ | saṁvatsaro vaiśvānaraḥ | brāhmaṇo vaiśvānaraḥ | iti | yatho etannivitsauryavaiśvānarī bhavatītyasyaiva sā bhavati - yo viḍbhyo mānuṣībhyo dīdet | ityeṣa hi viḍbhyo mānuṣībhyo dīpyate | yatho etacchāndomikaṁ sūktaṁ sauryavaiśvānaraṁ bhavatītyasyaiva tadbhavati | jamadagnibhirāhutaḥ | iti jamadagnayaḥ prajamitāgnayo vā | prajvalitāgnayo vā | tairabhihuto bhavati | (yatho etacchāndomikaṁ sūktaṁ sauryavaiśvānaraṁ bhavatītyasyaiva tadbhavati | yamadagnibhirāhutaḥ | iti yamadagnayaḥ prayamitāgnayo vā | prajvalitāgnayo vā | tairabhihuto bhavati | - pāṭhabhedaḥ)) yatho etaddhaviṣpāntīyaṁ sūktaṁ sauryavaiśvānaraṁ bhavatītyasyaiva tadbhavati
इस ऋचा में कहा गया है: 'रात्रि आदित्य का काला मार्ग है; जल-वस्त्र धारण किए सुपर्ण (किरणें) आकाश में उड़ते हैं; वे यज्ञ के स्थान से लौट आते हैं, और घृत (जल) से पृथिवी सिंचित होती है।' ब्राह्मण-वचन बताता है कि जब आदित्य अग्नि को किरणों से लपेटता है, तभी वर्षा होती है। यहाँ द्वादश-कपाल वैश्वानरीय यज्ञ, तथा जमदग्नि (प्रज्वलित अग्नि वाले) द्वारा आहूत सौर्य-वैश्वानर सूक्तों का उल्लेख है।
श्लोक 7.25
हविष्पान्तमजरं स्वर्विदि दिविस्पृश्याहुतं जुष्टमग्नौ । तस्य भर्मणे भुव॑नाय देवा धर्मणे कं स्वधयापप्रथन्त ॥ हविर्यत्पानीयम् । अजरम् । सूर्यविदि । दिविस्पृशि । अभिहुतं जुष्टमग्नौ । तस्य भरणाय च भावनाय च धारणाय च । एतेभ्यः सर्वेभ्यः कर्मभ्यो देवा इममग्निमन्नेनापप्रथन्त । अथाप्याह
haviṣpāntamajaraṁ svarvidi divispṛśyāhutaṁ juṣṭamagnau | tasya bharmaṇe bhuvanāya devā dharmaṇe kaṁ svadhayāpaprathanta || haviryatpānīyam | ajaram | sūryavidi | divispṛśi | abhihutaṁ juṣṭamagnau | tasya bharaṇāya ca bhāvanāya ca dhāraṇāya ca | etebhyaḥ sarvebhyaḥ karmabhyo devā imamagnimannenāpaprathanta | athāpyāha
इस ऋचा में कहा गया है: 'हविष्य-पान करने वाला, अजर, सूर्य में स्थित, द्युलोक को स्पर्श करने वाला, अग्नि में हुत, प्रिय — उसके पोषण, भावन और धारण के लिए देवताओं ने उसे स्वधा से विस्तृत किया।'
श्लोक 7.26
अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप॑ तस्थुर्ऋग्मिय॑म् । आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः ॥ अपामुपस्थ उपस्थाने महत्यन्तरिक्षलोक आसीना महान्त इति वा, अगृह्णत माध्यमिका देवगणाः । विश इव राजानमुपतस्थुः । ऋग्मियमृग्मन्तमिति वा । अर्चनीयमिति वा पूजनीयमिति वा । अहरद्यं दूतो देवानां विवस्वत आदित्यात् । विवस्वान्विवासनवान् । प्रेरितवतः परागताद्वा अपि वा अस्याग्नेर्वैश्वानरस्य मातरिश्वानमाहर्तारमाह । मातरिश्वा वायुः । मातर्यन्तरिक्षे श्वसिति । मातर्याश्वनितीति वा । अथैनमेताभ्यां सर्वाणि स्थानान्यभ्यापादं स्तौति
apāmupasthe mahiṣā agṛbhṇata viśo rājānamupa tasthurṛgmiyam | ā dūto agnimabharadvivasvato vaiśvānaraṁ mātariśvā parāvataḥ || apāmupastha upasthāne mahatyantarikṣaloka āsīnā mahānta iti vā, agṛhṇata mādhyamikā devagaṇāḥ | viśa iva rājānamupatasthuḥ | ṛgmiyamṛgmantamiti vā | arcanīyamiti vā pūjanīyamiti vā | aharadyaṁ dūto devānāṁ vivasvata ādityāt | vivasvānvivāsanavān | preritavataḥ parāgatādvā api vā asyāgnervaiśvānarasya mātariśvānamāhartāramāha | mātariśvā vāyuḥ | mātaryantarikṣe śvasiti | mātaryāśvanitīti vā | athainametābhyāṁ sarvāṇi sthānānyabhyāpādaṁ stauti
इस ऋचा में कहा गया है: 'जल के मध्य में महिष (मध्यम देवगण) ने उसे ग्रहण किया; प्रजाएँ राजा के समान पूज्य उसकी उपासना करती हैं; विवस्वान् (सूर्य) का दूत मातरिश्वा दूर देश से वैश्वानर अग्नि को ले आया।' 'मातरिश्वा' वायु है — जो अन्तरिक्ष में श्वास लेता है। इस प्रकार यास्क इन दोनों (वायु और सूर्य) के माध्यम से अग्नि की सर्वस्थानव्यापकता की स्तुति करते हैं।
श्लोक 7.27
मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् । मूर्धा मूर्तमस्मिन्धीयते । मूर्धा यः सर्वेषां भूतानां भवति नक्तमग्निः । ततः सूर्यो जायते प्रातरुद्यन्त्स एव । प्रज्ञां त्वेतां मन्यन्ते यज्ञियानां देवानां यज्ञसंपादिनाम् । अपो यत्कर्म चरति प्रजानन्त्सर्वाणि स्थानान्यनुसंचरति त्वरमाणः । तस्योत्तरा भूयसे निर्वचनाय
mūrdhā bhuvo bhavati naktamagnistataḥ sūryo jāyate prātarudyan | māyāmū tu yajñiyānāmetāmapo yattūrṇiścarati prajānan | mūrdhā mūrtamasmindhīyate | mūrdhā yaḥ sarveṣāṁ bhūtānāṁ bhavati naktamagniḥ | tataḥ sūryo jāyate prātarudyantsa eva | prajñāṁ tvetāṁ manyante yajñiyānāṁ devānāṁ yajñasaṁpādinām | apo yatkarma carati prajānantsarvāṇi sthānānyanusaṁcarati tvaramāṇaḥ | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'रात्रि में अग्नि सब भूतों का शिर बनता है, फिर प्रातःकाल उदय होता सूर्य जन्म लेता है — वही है; वे यज्ञ-सम्पादक देवताओं की इस माया को ही मानते हैं, जो जल-कर्म त्वरा से करता हुआ सब स्थानों में विचरण करता है, सब जानता हुआ।'
श्लोक 7.28
स्तोमेन हि दिवि देवासो अग्निमीजनञ्छक्तिभी रोदसिप्राम् । तमू अकृण्वंस्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥ स्तोमेन हि यं दिवि देवा अग्निमजनयन् शक्तिभिः कर्मभिर्द्यावापृथिव्योः आ पूरणम् । तमकुर्वंस्त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः ।। यदस्य दिवि तृतीयं तदसावादित्यः । इति हि ब्राह्मणम् । तदग्नीकृत्य स्तौति । अथैनमेतयादित्यीकृत्य स्तौति
stomena hi divi devāso agnimījanañchaktibhī rodasiprām | tamū akṛṇvaṁstredhā bhuve kaṁ sa oṣadhīḥ pacati viśvarūpāḥ || stomena hi yaṁ divi devā agnimajanayan śaktibhiḥ karmabhirdyāvāpṛthivyoḥ ā pūraṇam | tamakurvaṁstredhābhāvāya | pṛthivyāmantarikṣe divīti śākapūṇiḥ || yadasya divi tṛtīyaṁ tadasāvādityaḥ | iti hi brāhmaṇam | tadagnīkṛtya stauti | athainametayādityīkṛtya stauti
इस ऋचा में कहा गया है: 'स्तोम से देवताओं ने द्युलोक में जिस अग्नि को उत्पन्न किया, जो द्यावापृथिवी को शक्तियों से भरता है, उसे त्रिविध बनाया — वह विश्वरूप ओषधियों को पकाता है।' शाकपूणि के अनुसार पृथिवी, अन्तरिक्ष और द्यु में उसका त्रिविध रूप है — द्यु में जो तीसरा रूप है वही आदित्य है, इसी रूप में यहाँ अग्नि की स्तुति आदित्य के रूप में होती है।
श्लोक 7.29
यदेदेन॒मद॑धुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् । यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुव॑नानि विश्वा ॥ यदैनमदधुर्यज्ञियाः सर्वे दिवि देवाः सूर्यमदितेः पुत्रम् । यदा चरिष्णू मिथुनौ प्रादुरभूतां सर्वदा सहचारिणौ । उषाश्चादित्यश्च । मिथुनौ कस्मात् । मिनोतिः श्रयतिकर्मा । थु इति नामकरणः । थकारो वा । नयतिः परः । वनिर्वा । समाश्रितावन्योन्यं नयतः । वनुतो वा । मनुष्यमिथुनावप्येतस्मादेव । मेथन्तावन्योन्यं वनुत इति वा । अथैनमेतयाग्नीकृत्य स्तौति
yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam | yadā cariṣṇū mithunāvabhūtāmāditprāpaśyanbhuvanāni viśvā || yadainamadadhuryajñiyāḥ sarve divi devāḥ sūryamaditeḥ putram | yadā cariṣṇū mithunau prādurabhūtāṁ sarvadā sahacāriṇau | uṣāścādityaśca | mithunau kasmāt | minotiḥ śrayatikarmā | thu iti nāmakaraṇaḥ | thakāro vā | nayatiḥ paraḥ | vanirvā | samāśritāvanyonyaṁ nayataḥ | vanuto vā | manuṣyamithunāvapyetasmādeva | methantāvanyonyaṁ vanuta iti vā | athainametayāgnīkṛtya stauti
इस ऋचा में कहा गया है: 'जब यज्ञिय देवताओं ने इस अदिति-पुत्र सूर्य को द्युलोक में स्थापित किया, जब दोनों गतिशील (उषा और आदित्य) मिथुन (युगल) रूप में प्रकट हुए, तभी उन्होंने समस्त लोकों को देखा।' 'मिथुन' शब्द की व्युत्पत्ति दी गई है — परस्पर आश्रित या परस्पर याचक होने से। इसी क्रम में अग्नि की स्तुति आगे जारी है।
श्लोक 7.30
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद । आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥ यत्र विवदेते दैव्यौ होतारौ । अयं चाग्निरसौ च मध्यमः । कतरो नौ यज्ञे भूयो वेद । इत्याशक्नुवन्ति । तत्सहमदनं समानाख्याना ऋत्विजस्तेषां यज्ञं समश्नुवानानां को न इदं विवक्ष्यतीति । तस्योत्तरा भूयसे निर्वचनाय
yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda | ā śekuritsadhamādaṁ sakhāyo nakṣanta yajñaṁ ka idaṁ vi vocat || yatra vivadete daivyau hotārau | ayaṁ cāgnirasau ca madhyamaḥ | kataro nau yajñe bhūyo veda | ityāśaknuvanti | tatsahamadanaṁ samānākhyānā ṛtvijasteṣāṁ yajñaṁ samaśnuvānānāṁ ko na idaṁ vivakṣyatīti | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'जहाँ पूर्व और उत्तर दोनों यज्ञ-होता (यह अग्नि और वह मध्यम देवता) विवाद करते हैं कि हम दोनों में यज्ञ को कौन अधिक जानता है — तब सखा ऋत्विज् मिलकर यज्ञ में सम्मिलित होते हैं, और पूछते हैं कि इसे कौन पहले कहेगा।' इसका आगे विस्तृत निर्वचन किया जाएगा।
श्लोक 8.1
द्रविणोदाः कस्मात् । धनं द्रविणमुच्यते । यदेनमभिद्रवन्ति । बलं वा द्रविणम् । यदेनेनाभिद्रवन्ति । तस्य दाता द्रविणोदाः । तस्यैषा भवति
draviṇodāḥ kasmāt | dhanaṁ draviṇamucyate | yadenamabhidravanti | balaṁ vā draviṇam | yadenenābhidravanti | tasya dātā draviṇodāḥ | tasyaiṣā bhavati
'द्रविणोदाः' — 'धन' को 'द्रविण' कहा जाता है (जिसकी ओर लोग दौड़ते हैं), या 'बल' को भी द्रविण कहा जाता है; जो इसका दाता है वही द्रविणोदाः है।
श्लोक 8.2
द्रविणोदा द्रविणसो ग्रावहस्तासो अध्वरे । यज्ञेषु देवमीळते ॥ द्रविणोदा यस्त्वम् । द्रविणस इति द्रविणसादिन इति वा । द्रविणसानिन इति वा । द्रविणसस्तस्मात्पिबत्विति वा । यज्ञेषु देवमीळते । याचन्ति स्तुवन्ति वर्धयन्ति पूजयन्तीति वा । तत्को द्रविणोदाः । इन्द्र इति क्रौष्टुकिः । स बलधनयोर्दातृतमः । तस्य च सर्वा बलकृतिः ।। ओजसो जातमुत मन्य एनम् । इति चाह । अथाप्यग्निं द्राविणोदसमाह । एष पुनरेतस्माज्जायते । यो अश्मनोरन्तरग्निं जजान । इत्यपि निगमो भवति । अथाप्यृतुयाजेषु द्राविणोदसाः प्रवादा भवन्ति । तेषां पुनः पात्रस्येन्द्रपानमिति भवति । अथाप्येनं सोमपानेन स्तौति । अथाप्याह । द्रविणोदाः पिबतु द्राविणोदसः । इति । अयमेवाग्निर्द्रविणोदा इति शाकपूणिः । आग्नेयेष्वेव हि सूक्तेषु द्राविणोदसाः प्रवादा भवन्ति । देवा अग्निं धारयन्द्रविणोदाम् । इत्यपि निगमो भवति । यथो एतत्स बलधनयोर्दातृतम इति सर्वासु देवतास्वैश्वर्यं विद्यते । यथो एतदोजसो जातमुत मन्य एनमिति चाहेति । अयमप्यग्निरोजसा बलेन मथ्यमानो जायते । तस्मादेनमाह सहसस्पुत्रं सहसः सूनुं सहसो यहुम् । यथो एतदग्निं द्राविणोदसमाहेति । ऋत्विजोऽत्र द्रविणोदस उच्यन्ते । हविषो दातारस्ते चैनं जनयन्ति । ऋषीणां पुत्रो अधिराज एषः । इत्यपि निगमो भवति । यथो एतत्तेषां पुनः पात्रस्येन्द्रपानमिति भवतीति भक्तिमात्रं तद्भवति । यथा वायव्यानीति सर्वेषां सोमपात्राणाम् । यथो एतत्सोमपानेनैनं स्तौतीत्यस्मिन्नप्येतदुपपद्यते । सोमं पिब मन्दसानो गणश्रिभिः । इत्यपि निगमो भवति । यथो एतद् द्रविणोदाः पिबतु द्राविणोदस इत्यस्यैव तद्भवति
draviṇodā draviṇaso grāvahastāso adhvare | yajñeṣu devamīḷate || draviṇodā yastvam | draviṇasa iti draviṇasādina iti vā | draviṇasānina iti vā | draviṇasastasmātpibatviti vā | yajñeṣu devamīḷate | yācanti stuvanti vardhayanti pūjayantīti vā | tatko draviṇodāḥ | indra iti krauṣṭukiḥ | sa baladhanayordātṛtamaḥ | tasya ca sarvā balakṛtiḥ || ojaso jātamuta manya enam | iti cāha | athāpyagniṁ drāviṇodasamāha | eṣa punaretasmājjāyate | yo aśmanorantaragniṁ jajāna | ityapi nigamo bhavati | athāpyṛtuyājeṣu drāviṇodasāḥ pravādā bhavanti | teṣāṁ punaḥ pātrasyendrapānamiti bhavati | athāpyenaṁ somapānena stauti | athāpyāha | draviṇodāḥ pibatu drāviṇodasaḥ | iti | ayamevāgnirdraviṇodā iti śākapūṇiḥ | āgneyeṣveva hi sūkteṣu drāviṇodasāḥ pravādā bhavanti | devā agniṁ dhārayandraviṇodām | ityapi nigamo bhavati | yatho etatsa baladhanayordātṛtama iti sarvāsu devatāsvaiśvaryaṁ vidyate | yatho etadojaso jātamuta manya enamiti cāheti | ayamapyagnirojasā balena mathyamāno jāyate | tasmādenamāha sahasasputraṁ sahasaḥ sūnuṁ sahaso yahum | yatho etadagniṁ drāviṇodasamāheti | ṛtvijo'tra draviṇodasa ucyante | haviṣo dātāraste cainaṁ janayanti | ṛṣīṇāṁ putro adhirāja eṣaḥ | ityapi nigamo bhavati | yatho etatteṣāṁ punaḥ pātrasyendrapānamiti bhavatīti bhaktimātraṁ tadbhavati | yathā vāyavyānīti sarveṣāṁ somapātrāṇām | yatho etatsomapānenainaṁ stautītyasminnapyetadupapadyate | somaṁ piba mandasāno gaṇaśribhiḥ | ityapi nigamo bhavati | yatho etad draviṇodāḥ pibatu drāviṇodasa ityasyaiva tadbhavati
इस ऋचा में कहा गया है: 'हे द्रविणोदा, पत्थर-हस्त होकर यज्ञ में देव की स्तुति करते हैं।' किसे द्रविणोदा कहते हैं — क्रौष्टुकि के अनुसार इन्द्र (बल-धन का सर्वोत्तम दाता); शाकपूणि के अनुसार अग्नि, क्योंकि आग्नेय सूक्तों में ही यह प्रयोग मिलता है। ऋतु-याजों में भी द्रविणोदस् का उल्लेख होता है, और सोमपान द्वारा भी इसकी स्तुति की जाती है।
श्लोक 8.3
मेद्य॑न्तु ते वह्नयो येभिरीयसेऽरिषण्यन्वीळयस्वा वनस्पते । आयूया धृष्णो अभिगूर्या त्वं नेष्ट्रात्सोमं द्रविणोदः पिब ऋतुभिः ॥ मेद्यन्तु ते । वह्नयो वोळ्हारः । यैर्यासि । अरिष्यन् । दृढीभव । आयूय धृष्णो अभिगूर्य त्वं नेष्ट्रीयात् । धिष्ण्यात् । धिष्णो धिष्ण्यो धिषणाभवः । धिषणा वाक् धिषेर्दधात्यर्थे । धीसादिनीति वा धीसानिनीति वा । वनस्पत इत्येनमाह । एष हि वनानां पाता वा पालयिता वा । वनं वनोतेः । पिब । ऋतुभिः कालैः
medyantu te vahnayo yebhirīyase'riṣaṇyanvīḷayasvā vanaspate | āyūyā dhṛṣṇo abhigūryā tvaṁ neṣṭrātsomaṁ draviṇodaḥ piba ṛtubhiḥ || medyantu te | vahnayo voḷhāraḥ | yairyāsi | ariṣyan | dṛḍhībhava | āyūya dhṛṣṇo abhigūrya tvaṁ neṣṭrīyāt | dhiṣṇyāt | dhiṣṇo dhiṣṇyo dhiṣaṇābhavaḥ | dhiṣaṇā vāk dhiṣerdadhātyarthe | dhīsādinīti vā dhīsāninīti vā | vanaspata ityenamāha | eṣa hi vanānāṁ pātā vā pālayitā vā | vanaṁ vanoteḥ | piba | ṛtubhiḥ kālaiḥ
इस ऋचा में वनस्पति (यूप-स्तम्भ) से कहा जाता है: 'तुम्हारे वाहक स्निग्ध हों, जिनसे तुम जाते हो; अक्षत रहो, हे धृष्ट, दृढ़ बनो; हे द्रविणोदाः, ऋतुओं के अनुसार सोम पीओ।' 'धिषण' वाणी के अर्थ में है ('धारण करना')।
श्लोक 8.4
अथात आप्रियः । आप्रियः कस्मात् । आप्नोतेः । प्रीणातेर्वा । आप्रीभिराप्रीणाति । इति च ब्राह्मणम् । तासामिध्मः प्रथमगामी भवति । इध्मः समिन्धनात् । तस्यैषा भवति
athāta āpriyaḥ | āpriyaḥ kasmāt | āpnoteḥ | prīṇātervā | āprībhirāprīṇāti | iti ca brāhmaṇam | tāsāmidhmaḥ prathamagāmī bhavati | idhmaḥ samindhanāt | tasyaiṣā bhavati
अब आप्री-सूक्तों (यज्ञ-आरम्भ के मैत्री-सूक्त) का प्रकरण है। 'आप्री' 'आप्नोति' (प्राप्त करना) या 'प्रीणाति' (प्रसन्न करना) से — ब्राह्मण कहता है 'आप्रियों से वह प्रसन्न करता है'। इनमें पहला देवता 'इध्म' (समिधा) है, समिन्धन (प्रज्वलन) से।
श्लोक 8.5
समिद्धो अद्य मनुषो दुरोणे देवो दे॒वान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान्त्वं दूतः कविरसि प्रचेताः ॥ समिद्धोऽद्य मनुष्यस्य मनुष्यस्य गृहे देवो देवान्यजसि जातवेदः । आ च वह मित्रमहः । चिकित्वांश्चेतनावान् । त्वं दूतः कविरसि । प्रचेताः प्रवृद्धचेताः । यज्ञेध्म इति कात्थक्यः । अग्निरिति शाकपूणिः । तनूनपादाज्यमिति कात्थक्यः । नपादित्यननन्तरायाः प्रजाया नामधेयम् । निर्णततमा भवति । गौरत्र तनूरुच्यते । तता अस्यां भोगाः । तस्याः पयो जायते । पयस आज्यं जायते । अग्निरिति शाकपूणिः । आपोऽत्र तन्व उच्यन्ते । तता अन्तरिक्षे । ताभ्य ओषधिवनस्पतयो जायन्ते । ओषधिवनस्पतिभ्य एष जायते । तस्यैषा भवति
samiddho adya manuṣo duroṇe devo devānyajasi jātavedaḥ | ā ca vaha mitramahaścikitvāntvaṁ dūtaḥ kavirasi pracetāḥ || samiddho'dya manuṣyasya manuṣyasya gṛhe devo devānyajasi jātavedaḥ | ā ca vaha mitramahaḥ | cikitvāṁścetanāvān | tvaṁ dūtaḥ kavirasi | pracetāḥ pravṛddhacetāḥ | yajñedhma iti kātthakyaḥ | agniriti śākapūṇiḥ | tanūnapādājyamiti kātthakyaḥ | napādityananantarāyāḥ prajāyā nāmadheyam | nirṇatatamā bhavati | gauratra tanūrucyate | tatā asyāṁ bhogāḥ | tasyāḥ payo jāyate | payasa ājyaṁ jāyate | agniriti śākapūṇiḥ | āpo'tra tanva ucyante | tatā antarikṣe | tābhya oṣadhivanaspatayo jāyante | oṣadhivanaspatibhya eṣa jāyate | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'आज प्रज्वलित, मनुष्य के घर में, हे देव जातवेदा, तुम देवताओं का यजन करते हो; मित्र-महान् को यहाँ लाओ, तुम चेतनावान् दूत और कवि हो, महाबुद्धि हो।' दूसरा देवता 'तनूनपात्' है — 'नपात्' निरन्तर सन्तति का नाम; गौ को यहाँ 'तनू' कहा गया है, जिससे घृत (आज्य) उत्पन्न होता है — कात्थक्य के अनुसार यह 'आज्य' है, शाकपूणि के अनुसार अग्नि।
श्लोक 8.6
तनूनपात्पथ तस्य॒ यानान्मध्वा सम॒ञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन्देवत्रा च कृणुह्यध्वरं नः ॥ तनूनपात्पथ ऋतस्य यानान्यज्ञस्य यानान् । मधुना समञ्जन्त्स्वदय कल्याणजिह्व । मननानि च नो धीभिर्यज्ञं च समर्धय । देवान्नो यज्ञं गमय । नराशंसो यज्ञ इति कात्थक्यः । नरा अस्मिन्नासीनः शंसन्ति । अग्निरिति शाकपूणिः । नरैः प्रशस्यो भवति । तस्यैषा भवति
tanūnapātpatha tasya yānānmadhvā samañjantsvadayā sujihva | manmāni dhībhiruta yajñamṛndhandevatrā ca kṛṇuhyadhvaraṁ naḥ || tanūnapātpatha ṛtasya yānānyajñasya yānān | madhunā samañjantsvadaya kalyāṇajihva | mananāni ca no dhībhiryajñaṁ ca samardhaya | devānno yajñaṁ gamaya | narāśaṁso yajña iti kātthakyaḥ | narā asminnāsīnaḥ śaṁsanti | agniriti śākapūṇiḥ | naraiḥ praśasyo bhavati | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे तनूनपात्, ऋत के मार्गों पर, मधु से अभिषिक्त, सुन्दर-जिह्व, हमारी स्तुतियों और यज्ञ को सिद्ध करो, हमारे यज्ञ को देवताओं तक पहुँचाओ।' तीसरा देवता 'नराशंस' है — कात्थक्य के अनुसार यह यज्ञ है (जिसमें बैठे नर स्तुति करते हैं), शाकपूणि के अनुसार अग्नि (नरों द्वारा प्रशंसित)।
श्लोक 8.7
नराशंसस्य महिमानमेषामुप॑ स्तोषाम यजतस्य॑ य॒ज्ञैः । ये सुक्रतवः शुचयो धियंधाः स्वदन्ति देवा उभानि हव्या ॥ नराशंसस्य महिमानमेषामुपस्तुमो यज्ञियस्य यज्ञैः । ये सुकर्माणः शुचयो धियं धारयितारः स्वदयन्तु देवा उभयानि हवींषि । सोमं चेतराणि चेति वा । तान्त्राणि चावापिकानि चेति वा । ईळ ईट्टेः स्तुतिकर्मणः । इन्धतेर्वा । तस्यैषा भवति
narāśaṁsasya mahimānameṣāmupa stoṣāma yajatasya yajñaiḥ | ye sukratavaḥ śucayo dhiyaṁdhāḥ svadanti devā ubhāni havyā || narāśaṁsasya mahimānameṣāmupastumo yajñiyasya yajñaiḥ | ye sukarmāṇaḥ śucayo dhiyaṁ dhārayitāraḥ svadayantu devā ubhayāni havīṁṣi | somaṁ cetarāṇi ceti vā | tāntrāṇi cāvāpikāni ceti vā | īḷa īṭṭeḥ stutikarmaṇaḥ | indhatervā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हम नराशंस की महिमा को यज्ञ-योग्य यज्ञों से स्तुत करें, जो सुकर्मा, शुद्ध, बुद्धि-धारक देवगण दोनों हविष्यों (सोम और अन्य) का स्वाद लें।' 'ईळ' स्तुति-कर्म की धातु से है।
श्लोक 8.8
आजुह्वान ईळ्यो वन्द्यश्चा याह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥ आहूयमान ईळितव्यो वन्दितव्यश्च । आयाह्यग्ने वसुभिः सहजोषणः । त्वं देवानामसि यह्व होता । यह्व इति महतो नामधेयम् । यातश्च हूतश्च भवति । स एनान्यक्षीषितो यजीयान् । इषितः प्रेषित इति वा अधीष्ट इति वा । यजीयान्यष्टृतरः । बर्हिः परिबर्हणात् । तस्यैषा भवति
ājuhvāna īḷyo vandyaścā yāhyagne vasubhiḥ sajoṣāḥ | tvaṁ devānāmasi yahva hotā sa enānyakṣīṣito yajīyān || āhūyamāna īḷitavyo vanditavyaśca | āyāhyagne vasubhiḥ sahajoṣaṇaḥ | tvaṁ devānāmasi yahva hotā | yahva iti mahato nāmadheyam | yātaśca hūtaśca bhavati | sa enānyakṣīṣito yajīyān | iṣitaḥ preṣita iti vā adhīṣṭa iti vā | yajīyānyaṣṭṛtaraḥ | barhiḥ paribarhaṇāt | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे अग्नि, बुलाए गए, पूज्य और वन्दनीय, वसुओं के साथ प्रसन्न होकर आओ; तुम देवताओं के महान् होता हो, प्रेरित होकर उन्हें यजो, तुम श्रेष्ठ यजनकर्ता हो।' 'यह्व' महत् का नाम है। 'बर्हिस्' (कुश-आसन) परिबर्हण (फैलाव) से।
श्लोक 8.9
प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनम् ॥ प्राचीनं बर्हिः प्रदिशा पृथिव्याः वसनाय अस्याः प्रवृज्यते। अग्रेऽह्नां बर्हिः पूर्वाह्ने । तद्विप्रथते। वितरं-- विकीर्णतरमिति वा विस्तीर्णतरमिति वा । वरीयो -- वरतरम् । उरुतरं वा । देवेभ्यश्चादितये च स्योनम् । स्योनमिति सुखनाम स्यतेः । अवस्यन्त्येतत् । सेवितव्यं भवतीति वा । द्वारो -- जवतेर्वा । द्रवतेर्वा । वारयतेर्वा । तासामेषा भवति
prācīnaṁ barhiḥ pradiśā pṛthivyā vastorasyā vṛjyate agre ahnām | vyu prathate vitaraṁ varīyo devebhyo aditaye syonam || prācīnaṁ barhiḥ pradiśā pṛthivyāḥ vasanāya asyāḥ pravṛjyate| agre'hnāṁ barhiḥ pūrvāhne | tadviprathate| vitaraṁ-- vikīrṇataramiti vā vistīrṇataramiti vā | varīyo -- varataram | urutaraṁ vā | devebhyaścāditaye ca syonam | syonamiti sukhanāma syateḥ | avasyantyetat | sevitavyaṁ bhavatīti vā | dvāro -- javatervā | dravatervā | vārayatervā | tāsāmeṣā bhavati
यह चौथा आप्री-देवता 'बर्हिस्' है। इस ऋचा में कहा गया है: 'बर्हिस् पृथिवी की दिशा में पूर्वाभिमुख बिछाया जाता है, दिनों के आरम्भ में; वह देवताओं और अदिति के लिए विस्तृत, सुखद बन जाता है।' 'स्योन' सुख का नाम है।
श्लोक 8.10
व्यचस्वतीरुर्विया वि श्रयन्तां पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्राय॒णाः ॥ व्यञ्चनवत्य उरुत्वेन विश्रयन्ताम् । पतिभ्य इव जायाः । ऊरू मैथुने धर्मे शुशोभिषमाणाः । वरतममङ्गमूरू । देव्यो द्वारः । बृहत्यो महत्यः । विश्वमिन्वा विश्वमाभिरेति यज्ञे । गृहद्वार इति कात्थक्यः । अग्निरिति शाकपूणिः । उषासानक्ता । उषाश्च नक्ता च । उषा व्याख्याता । नक्तेति रात्रिनाम । अनक्ति भूतान्यवश्यायेन । अपि वा नक्ताव्यक्तवर्णा । तयोरेषा भवति
vyacasvatīrurviyā vi śrayantāṁ patibhyo na janayaḥ śumbhamānāḥ | devīrdvāro bṛhatīrviśvaminvā devebhyo bhavata suprāyaṇāḥ || vyañcanavatya urutvena viśrayantām | patibhya iva jāyāḥ | ūrū maithune dharme śuśobhiṣamāṇāḥ | varatamamaṅgamūrū | devyo dvāraḥ | bṛhatyo mahatyaḥ | viśvaminvā viśvamābhireti yajñe | gṛhadvāra iti kātthakyaḥ | agniriti śākapūṇiḥ | uṣāsānaktā | uṣāśca naktā ca | uṣā vyākhyātā | nakteti rātrināma | anakti bhūtānyavaśyāyena | api vā naktāvyaktavarṇā | tayoreṣā bhavati
यह पाँचवाँ देवता 'द्वारः' (द्वार) है। इस ऋचा में कहा गया है: 'विस्तृत होकर द्वार खुलें, जैसे पत्नियाँ पतियों के लिए सुसज्जित होती हैं; महान् दिव्य द्वार, सर्वव्यापी, देवताओं के लिए सुगम बनें।' कात्थक्य के अनुसार यह गृह-द्वार है, शाकपूणि के अनुसार अग्नि। छठा देवता 'उषासानक्ता' (उषा-रात्रि युगल) है।
श्लोक 8.11
आ सुष्वय॑न्ती यजते उपाके उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥ सेष्मीयमाणे इति वा । सुष्वापयन्त्याविति वा । सीदतामिति वा । न्यासीदतामिति वा । यज्ञिये उपक्रान्ते दिव्ये योषणे । बृहत्यौ महत्यौ । सुरुक्मे सुरोचने । अधिदधाने शुक्रपेशसं श्रियम् । शुक्रं शोचतेर्ज्वलतिकर्मणः । पेश इति रूपनाम । पिंशतेः । विपिशितं भवति । दैव्या होतारा। दैव्यौ होतारौ । अयं चाग्निरसौ च मध्यमः । तयोरेषा भवति
ā suṣvayantī yajate upāke uṣāsānaktā sadatāṁ ni yonau | divye yoṣaṇe bṛhatī surukme adhi śriyaṁ śukrapiśaṁ dadhāne || seṣmīyamāṇe iti vā | suṣvāpayantyāviti vā | sīdatāmiti vā | nyāsīdatāmiti vā | yajñiye upakrānte divye yoṣaṇe | bṛhatyau mahatyau | surukme surocane | adhidadhāne śukrapeśasaṁ śriyam | śukraṁ śocaterjvalatikarmaṇaḥ | peśa iti rūpanāma | piṁśateḥ | vipiśitaṁ bhavati | daivyā hotārā| daivyau hotārau | ayaṁ cāgnirasau ca madhyamaḥ | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'यज्ञ-निकट, अभिषेक करती हुई, उषा और रात्रि योनि में बैठें; ये दो दिव्य, महान्, सुन्दर-भूषित नारियाँ शुक्र-रूप शोभा धारण करें।' यह सातवाँ देवता 'दैव्य होतारौ' (दो दिव्य होता — यह अग्नि और मध्यम देवता) है।
श्लोक 8.12
दैव्या होतारा प्रथमा सुवाचा मिाना यज्ञं मनुषो यजध्यै । प्रचोदयन्ता विदथेषु कारू प्राचीन ज्योतिः प्रदिशा दिशन्ता ॥ दैव्यौ होतारौ प्रथमौ सुवाचौ निर्मिमानौ यज्ञं मनुष्यस्य यजनाय । प्रचोदयमानौ यज्ञेषु कर्तारौ पूर्वस्यां दिशि यष्टव्यमिति प्रदिशन्तौ । तिस्रो देवीस्तिस्रो देव्यः । तासामेषा भवति
daivyā hotārā prathamā suvācā minā yajñaṁ manuṣo yajadhyai | pracodayantā vidatheṣu kārū prācīna jyotiḥ pradiśā diśantā || daivyau hotārau prathamau suvācau nirmimānau yajñaṁ manuṣyasya yajanāya | pracodayamānau yajñeṣu kartārau pūrvasyāṁ diśi yaṣṭavyamiti pradiśantau | tisro devīstisro devyaḥ | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'दो दिव्य होता, प्रथम, सुवाणी, मनुष्य के यज्ञ को यजन के लिए रचते हैं, यज्ञों में प्रेरित करते हुए, कर्ता, पूर्व दिशा में ज्योति और दिशा दिखाते हुए।' आठवाँ देवता 'तिस्रो देवीः' (तीन देवियाँ) है।
श्लोक 8.13
आ नो य॒ज्ञं भारती तूय॑मे॒त्विळा मनुष्वदिह चेतयन्ती । तिस्रो देवीर्बहिरेदं स्योनं सरस्वती स्वप॑सः सदन्तु ॥ एतु नो यज्ञं भारती क्षिप्रम् । भरत आदित्यस्तस्य भाः । इळा च मनुष्यवदिह चेतयमाना । तिस्रो देव्यो बर्हिरिदं सुखं सरस्वती च सुकर्माण आसीदन्तु । त्वष्टा तूर्णमश्नुत इति नैरुक्ताः । त्विषेर्वा स्यात् । दीप्तिकर्मणः । त्वक्षतेर्वा स्यात् । करोतिकर्मणः । तस्यैषा भवति
ā no yajñaṁ bhāratī tūyametviḷā manuṣvadiha cetayantī | tisro devīrbahiredaṁ syonaṁ sarasvatī svapasaḥ sadantu || etu no yajñaṁ bhāratī kṣipram | bharata ādityastasya bhāḥ | iḷā ca manuṣyavadiha cetayamānā | tisro devyo barhiridaṁ sukhaṁ sarasvatī ca sukarmāṇa āsīdantu | tvaṣṭā tūrṇamaśnuta iti nairuktāḥ | tviṣervā syāt | dīptikarmaṇaḥ | tvakṣatervā syāt | karotikarmaṇaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हमारे यज्ञ में भारती शीघ्र आए, इळा मनुष्य के समान यहाँ जागृत होकर; तीन देवियाँ — बर्हिस्, सुखद, सरस्वती — सुकर्मा होकर बैठें।' यह नौवाँ देवता 'त्वष्टा' है।
श्लोक 8.14
य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान्देवं त्वष्टारमिह यक्षि विद्वान् ॥ य इमे द्यावापृथिव्यौ जनयित्र्यौ रूपैरकरोद् भूतानि च सर्वाणि । तमद्य होतरिषितो यजीयान् देवं त्वष्टारमिह यज विद्वान् । माध्यमिकस्त्वष्टेत्याहुः । मध्यमे च स्थाने समाम्नातः । अग्निरिति शाकपूणिः । तस्यैषापरा भवति ८.१४ आविष्ट्यो वर्धते चारुरासु जिह्मानामूर्ध्वः स्वयशा उपस्थे । उभे त्वष्टुर्बिभ्यतुर्जाय॑मानात्प्रतीची सिंहं प्रति जोषयेते ॥ आविरावेदनात् । तत्त्यो वर्धते चारुरासु । चारु चरतेः । जिह्मं जिहीतेः । ऊर्ध्वमुद्धृतं भवति । स्वयशा आत्मयशाः । उपस्थ उपस्थाने । उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिंहं प्रति जोषयेते । द्यावापृथिव्याविति वा । अहोरात्रे इति वा । अरणी इति वा । प्रत्यक्ते सिंहं सहनं प्रत्यासेवेते
ya ime dyāvāpṛthivī janitrī rūpairapiṁśadbhuvanāni viśvā | tamadya hotariṣito yajīyāndevaṁ tvaṣṭāramiha yakṣi vidvān || ya ime dyāvāpṛthivyau janayitryau rūpairakarod bhūtāni ca sarvāṇi | tamadya hotariṣito yajīyān devaṁ tvaṣṭāramiha yaja vidvān | mādhyamikastvaṣṭetyāhuḥ | madhyame ca sthāne samāmnātaḥ | agniriti śākapūṇiḥ | tasyaiṣāparā bhavati 8.14 āviṣṭyo vardhate cārurāsu jihmānāmūrdhvaḥ svayaśā upasthe | ubhe tvaṣṭurbibhyaturjāyamānātpratīcī siṁhaṁ prati joṣayete || āvirāvedanāt | tattyo vardhate cārurāsu | cāru carateḥ | jihmaṁ jihīteḥ | ūrdhvamuddhṛtaṁ bhavati | svayaśā ātmayaśāḥ | upastha upasthāne | ubhe tvaṣṭurbibhyaturjāyamānāt | pratīcī siṁhaṁ prati joṣayete | dyāvāpṛthivyāviti vā | ahorātre iti vā | araṇī iti vā | pratyakte siṁhaṁ sahanaṁ pratyāsevete
इस ऋचा में कहा गया है: 'जो द्यावापृथिवी को जन्म देने वाला है, जिसने रूपों से समस्त लोकों को गढ़ा, उस त्वष्टा देव को आज यहाँ, प्रेरित हुआ श्रेष्ठ यजनकर्ता, यजो, हे विद्वान् होता।' त्वष्टा को मध्यम-स्थान का देवता माना जाता है (शाकपूणि के अनुसार अग्नि)। दूसरी ऋचा में: 'वह प्रकट होकर बढ़ता है, सुन्दर, टेढ़ी नदियों में ऊर्ध्व, स्वयं-यशस्वी; द्यावापृथिवी दोनों उसके जन्म से भयभीत होकर सिंह के समक्ष झुकती हैं।'
श्लोक 8.15
वनस्पतिर्व्याख्यातः । तस्यैषा भवति
vanaspatirvyākhyātaḥ | tasyaiṣā bhavati
वनस्पति की व्याख्या पहले की जा चुकी है — यह दसवाँ आप्री-देवता है।
श्लोक 8.16
उपाव सृज त्मन्या सम॒ञ्जन्देवानां पाथ ऋतुथा हवींषि । वनस्पतिः शमिता दे॒वो अ॒ग्निः स्वदन्तु हव्यं मधुना घृतेन ॥ उपावसृजात्मनात्मानं समञ्जन्देवानामन्नमृतावृतौ हवींषि काले काले । वनस्पतिः शमिता देवो अग्निरित्येते त्रयः स्वदयन्तु हव्यं मधुना च घृतेन च । तत्को वनस्पतिः । यूप इति कात्थक्यः । अग्निरिति शाकपूणिः । तस्यैषापरा भवति
upāva sṛja tmanyā samañjandevānāṁ pātha ṛtuthā havīṁṣi | vanaspatiḥ śamitā devo agniḥ svadantu havyaṁ madhunā ghṛtena || upāvasṛjātmanātmānaṁ samañjandevānāmannamṛtāvṛtau havīṁṣi kāle kāle | vanaspatiḥ śamitā devo agnirityete trayaḥ svadayantu havyaṁ madhunā ca ghṛtena ca | tatko vanaspatiḥ | yūpa iti kātthakyaḥ | agniriti śākapūṇiḥ | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'अपने-आप को अनुलिप्त करते हुए, देवताओं के अन्न को ऋतु-अनुसार अर्पित करो; वनस्पति, शमिता (पशु-वध करने वाला) और देव अग्नि — ये तीनों हविष्य को मधु और घृत से स्वादिष्ट बनाएँ।' वनस्पति — कात्थक्य के अनुसार यूप, शाकपूणि के अनुसार अग्नि।
श्लोक 8.17
अञ्जन्ति त्वामध्वरे देवयन्तो वनस्पते॒ मधुना दैव्यैन । यदूर्ध्वस्तिष्ठा द्रविणेह धत्ताद्यद्वा क्षयो मातुरस्या उपस्थे ॥ अञ्जन्ति त्वामध्वरे देवान्कामयमाना वनस्पते मधुना दैव्येन च घृतेन च । यदूर्ध्वः स्थास्यसि । द्रविणानि च नो दास्यसि । यद्वा ते कृतः क्षयो मातुरस्या उपस्थ उपस्थाने । अग्निरिति शाकपूणिः । तस्यैषापरा भवति
añjanti tvāmadhvare devayanto vanaspate madhunā daivyaina | yadūrdhvastiṣṭhā draviṇeha dhattādyadvā kṣayo māturasyā upasthe || añjanti tvāmadhvare devānkāmayamānā vanaspate madhunā daivyena ca ghṛtena ca | yadūrdhvaḥ sthāsyasi | draviṇāni ca no dāsyasi | yadvā te kṛtaḥ kṣayo māturasyā upastha upasthāne | agniriti śākapūṇiḥ | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'देव-कामी लोग तुम्हें यज्ञ में दिव्य मधु और घृत से अभिषिक्त करते हैं, हे वनस्पति; जब तुम ऊर्ध्व खड़े होगे, हमें धन दोगे, या फिर अपनी माता (पृथिवी) की गोद में लौट जाओगे।'
श्लोक 8.18
देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण प्रदिवस्ते अर्थम् । प्रदक्षिणिद्रशनया नियूय ऋतस्य॑ वक्षि पथिभी रजिष्ठैः ॥ देवेभ्यो वनस्पते हवींषि हिरण्यपर्ण ऋतपर्ण । अपि वोपमार्थे स्यात् । हिरण्यवर्णपर्णेति । प्रदिवस्ते अर्थं पुराणस्ते सोऽर्थो यं ते प्रब्रूमः । यज्ञस्य वह पथिभी रजिष्ठैर्ऋजुतमैः । रजस्वलतमैः । तपिष्ठतमैरिति वा । तस्यैषापरा भवति
devebhyo vanaspate havīṁṣi hiraṇyaparṇa pradivaste artham | pradakṣiṇidraśanayā niyūya ṛtasya vakṣi pathibhī rajiṣṭhaiḥ || devebhyo vanaspate havīṁṣi hiraṇyaparṇa ṛtaparṇa | api vopamārthe syāt | hiraṇyavarṇaparṇeti | pradivaste arthaṁ purāṇaste so'rtho yaṁ te prabrūmaḥ | yajñasya vaha pathibhī rajiṣṭhairṛjutamaiḥ | rajasvalatamaiḥ | tapiṣṭhatamairiti vā | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'हे वनस्पति, हिरण्य-पर्ण (स्वर्ण-पत्ते वाले), देवताओं के लिए हविष्य ले जाओ — यह तुम्हारा प्राचीन कार्य है; प्रदक्षिणा करते हुए, रस्सी से बाँधे जाकर, ऋत के सीधे मार्गों से इसे वहन करो।'
श्लोक 8.19
वनस्पते रशनया नियूय पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवींषि प्र च दातारममृतेषु वोचः ॥ वनस्पते रशनया नियूय सुरूपतमया । वयुनानि विद्वान् प्रज्ञानानि प्रजानन् । वह देवान् यज्ञे दातुर्हवींषि । प्रब्रूहि च दातारममृतेषु देवेषु । स्वाहाकृतयः । स्वाहेत्येतत्सु आहेति वा । स्वा वागाहेति वा । स्वं प्राहेति वा । स्वाहुतं हविर्जुहोतीति वा । तासामेषा भवति
vanaspate raśanayā niyūya piṣṭatamayā vayunāni vidvān | vaha devatrā didhiṣo havīṁṣi pra ca dātāramamṛteṣu vocaḥ || vanaspate raśanayā niyūya surūpatamayā | vayunāni vidvān prajñānāni prajānan | vaha devān yajñe dāturhavīṁṣi | prabrūhi ca dātāramamṛteṣu deveṣu | svāhākṛtayaḥ | svāhetyetatsu āheti vā | svā vāgāheti vā | svaṁ prāheti vā | svāhutaṁ havirjuhotīti vā | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'हे वनस्पति, सुन्दर रस्सी से बाँधे जाकर, ज्ञान-सम्पन्न, यज्ञ में देवताओं तक दाता का हविष्य ले जाओ, और अमर देवताओं में दाता का नाम कहो।' ग्यारहवाँ देवता 'स्वाहाकृतियाँ' है — 'स्वाहा' की व्युत्पत्ति कई प्रकार से दी गई है।
श्लोक 8.20
सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य॑ वाचि स्वाहाकृतं हृविरदन्तु देवाः ॥ सद्यो जायमानो निरमिमीत यज्ञम् । अग्निर्देवानामभवत्पुरोगामी । अस्य होतुः प्रदिश्यृतस्य वाच्यास्ये स्वाहाकृतं हविरदन्तु देवाः इति यजन्ति । इतीमा आप्रीदेवता अनुक्रान्ताः । अथ किंदेवताः प्रयाजानुयाजाः । आग्नेया इत्येके
sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ | asya hotuḥ pradiśyṛtasya vāci svāhākṛtaṁ hṛviradantu devāḥ || sadyo jāyamāno niramimīta yajñam | agnirdevānāmabhavatpurogāmī | asya hotuḥ pradiśyṛtasya vācyāsye svāhākṛtaṁ haviradantu devāḥ iti yajanti | itīmā āprīdevatā anukrāntāḥ | atha kiṁdevatāḥ prayājānuyājāḥ | āgneyā ityeke
इस ऋचा में कहा गया है: 'जन्म लेते ही अग्नि ने यज्ञ का निर्माण किया, अग्नि देवताओं का अग्रगामी बना; इस होता के आदेश से, ऋत की वाणी में, स्वाहा-कृत हविष्य देवता ग्रहण करें।' इस प्रकार ग्यारह आप्री-देवताओं का अनुक्रम पूर्ण हुआ। अब प्रयाज और अनुयाज (यज्ञ के आरम्भिक-अन्तिम आहुतियों) के देवता पर प्रश्न है — कुछ के अनुसार वे आग्नेय हैं।
श्लोक 8.21
प्रयाजान्मे अनुयाजाँश्च केवलानूर्जस्वन्तं हविषो दत्त भागम् । घृतं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ॥ तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तु भागाः । तवाग्ने यज्ञो ३ऽयम॑स्तु सर्वस्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥ आग्नेया वै प्रयाजा आग्नेया अनुयाजाः । इति च ब्राह्मणम् । छन्दोदेवता इत्यपरम् । छन्दांसि वै प्रयाजाश्छन्दाँस्यनुयाजाः । इति च ब्राह्मणम् । ऋतुदेवता इत्यपरम् । ऋतवो वै प्रयाजा ऋतवोऽनुयाजाः । इति च ब्राह्मणम् । पशुदेवता इत्यपरम् । पशवो वै प्रयाजाः पशवोऽनुयाजाः । इति च ब्राह्मणम् । प्राणदेवता इत्यपरम् । प्राणा वै प्रयाजाः प्राणा व अनुयाजाः । इति च ब्राह्मणम् । आत्मदेवता इत्यपरम् । आत्मा वै प्रयाजा आत्मा वा अनुयाजाः । इति च ब्राह्मणम् । आग्नेया इति तु स्थितिः । भक्तिमात्रमितरत् । किमर्थं पुनरिदमुच्यते । यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा ध्यायेद्वषट्करिष्यन् । इति ह विज्ञायते । इतीमान्येकादशाप्रीसूक्तानि । तेषां वासिष्ठमात्रेयं वाध्र्यश्वं गार्त्समदमिति नाराशंसवन्ति । मैधातिथं दैर्घतमसं प्रेषिकमित्युभयवन्ति । अतोऽन्यानि तनूनपात्वन्ति तनूनपात्वन्ति
prayājānme anuyājām̐śca kevalānūrjasvantaṁ haviṣo datta bhāgam | ghṛtaṁ cāpāṁ puruṣaṁ cauṣadhīnāmagneśca dīrghamāyurastu devāḥ || tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santu bhāgāḥ | tavāgne yajño 3'yamastu sarvastubhyaṁ namantāṁ pradiśaścatasraḥ || āgneyā vai prayājā āgneyā anuyājāḥ | iti ca brāhmaṇam | chandodevatā ityaparam | chandāṁsi vai prayājāśchandām̐syanuyājāḥ | iti ca brāhmaṇam | ṛtudevatā ityaparam | ṛtavo vai prayājā ṛtavo'nuyājāḥ | iti ca brāhmaṇam | paśudevatā ityaparam | paśavo vai prayājāḥ paśavo'nuyājāḥ | iti ca brāhmaṇam | prāṇadevatā ityaparam | prāṇā vai prayājāḥ prāṇā va anuyājāḥ | iti ca brāhmaṇam | ātmadevatā ityaparam | ātmā vai prayājā ātmā vā anuyājāḥ | iti ca brāhmaṇam | āgneyā iti tu sthitiḥ | bhaktimātramitarat | kimarthaṁ punaridamucyate | yasyai devatāyai havirgṛhītaṁ syāt tāṁ manasā dhyāyedvaṣaṭkariṣyan | iti ha vijñāyate | itīmānyekādaśāprīsūktāni | teṣāṁ vāsiṣṭhamātreyaṁ vādhryaśvaṁ gārtsamadamiti nārāśaṁsavanti | maidhātithaṁ dairghatamasaṁ preṣikamityubhayavanti | ato'nyāni tanūnapātvanti tanūnapātvanti
इस ऋचा में कहा गया है: 'मेरे प्रयाज और अनुयाज को, केवल ऊर्जस्वी, हविष्य का भाग दो; जल का घृत, ओषधियों का पुरुष (सार), और अग्नि की दीर्घायु हो, हे देवगण।' ब्राह्मण-वचनों में इन प्रयाज-अनुयाजों को कभी आग्नेय, कभी छन्द-देवता, कभी ऋतु-देवता, कभी पशु-देवता, कभी प्राण-देवता, कभी आत्म-देवता कहा गया है — किन्तु 'आग्नेय' ही स्थिर मत है, शेष केवल भक्ति (सहभागिता) मात्र हैं। यहाँ ग्यारह आप्री-सूक्तों का उल्लेख है, जिनमें से वासिष्ठ, आत्रेय, वाध्र्यश्व और गार्त्समद सूक्त नाराशंस-रहित हैं, जबकि माधातिथ, दैर्घतमस और प्रैषिक दोनों (तनूनपात् और नराशंस) से युक्त हैं; शेष सभी तनूनपात्-युक्त हैं।
श्लोक 9.1
अथ यानि पृथिव्यायतनानि सत्त्वानि स्तुतिं लभन्ते तान्यतोऽनुक्रमिष्यामः । तेषामश्वः प्रथमागामी भवति । अश्वो व्याख्यातः । तस्यैषा भवति
atha yāni pṛthivyāyatanāni sattvāni stutiṁ labhante tānyato'nukramiṣyāmaḥ | teṣāmaśvaḥ prathamāgāmī bhavati | aśvo vyākhyātaḥ | tasyaiṣā bhavati
अब पृथिवी के आयतनों (आश्रय-स्थानों) में जिन सत्त्वों (प्राणियों) की स्तुति होती है, उनका क्रमशः वर्णन आरम्भ होता है — इनमें अश्व सबसे पहले आता है, जिसकी व्याख्या पहले की जा चुकी है।
श्लोक 9.2
अश्वो वोळ्हा सुखं रथं हसनामुपमन्त्रिणः । शेपो रोम॑ण्वन्तौ भेदौ वारिन्मण्डूक इच्छति इन्द्रायेन्दो परि स्रव ॥ अश्वो वोळ्हा । सुखं वोळ्हा रथं वोळ्हा । सुखमिति कल्याणनाम । कल्याणं पुण्यं सुहितं भवति । सुहितं गम्यतीति वा । हसैता वा पाता वा पालयिता वा । शेषमृच्छतीति । वारि वारयति । मा नो व्याख्यातः । तस्यैषा भवति
aśvo voḷhā sukhaṁ rathaṁ hasanāmupamantriṇaḥ | śepo romaṇvantau bhedau vārinmaṇḍūka icchati indrāyendo pari srava || aśvo voḷhā | sukhaṁ voḷhā rathaṁ voḷhā | sukhamiti kalyāṇanāma | kalyāṇaṁ puṇyaṁ suhitaṁ bhavati | suhitaṁ gamyatīti vā | hasaitā vā pātā vā pālayitā vā | śeṣamṛcchatīti | vāri vārayati | mā no vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'अश्व सुखद रथ का वाहक है, हास्य-प्रिय, आमन्त्रणकर्ता; शेप और रोमयुक्त दोनों वृषण हैं; मण्डूक जल चाहता है — हे सोम, इन्द्र के लिए बहो।' 'सुख' कल्याण के अर्थ में है।
श्लोक 9.3
मा नो मित्रो वरुणो अर्यमायुरिन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद्वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामे विदथे वीर्याणि ॥ यद्वाजिनो देवैर्जातस्य सप्तेः सरणस्य प्रवक्ष्यामो यज्ञे विदथे वीर्याणि । मा नस्त्वं मित्रश्च वरुणश्चार्यमा चायुश्च वायुरयन इन्द्रश्चोरुक्षयण ऋभूणां राजेति वा मरुतश्च परिख्यन् । शकुनिः शक्नोत्युन्नेतुमात्मानम् । शक्नोति नदितुमिति वा । शक्नोति तकितुमिति वा । सर्वतः शङ्करोऽस्त्विति वा । शक्नोतेर्वा । तस्यैषा भवति
mā no mitro varuṇo aryamāyurindra ṛbhukṣā marutaḥ pari khyan | yadvājino devajātasya sapteḥ pravakṣyāme vidathe vīryāṇi || yadvājino devairjātasya sapteḥ saraṇasya pravakṣyāmo yajñe vidathe vīryāṇi | mā nastvaṁ mitraśca varuṇaścāryamā cāyuśca vāyurayana indraścorukṣayaṇa ṛbhūṇāṁ rājeti vā marutaśca parikhyan | śakuniḥ śaknotyunnetumātmānam | śaknoti naditumiti vā | śaknoti takitumiti vā | sarvataḥ śaṅkaro'stviti vā | śaknotervā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हमें मित्र, वरुण, अर्यमा, वायु, इन्द्र, ऋभुओं के राजा और मरुद्गण दरकिनार न करें, जब हम देव-जात वेगवान् अश्व के वीर्य को यज्ञ में कहेंगे।' 'शकुनि' (पक्षी) 'स्वयं को उठाने में समर्थ' के अर्थ में है।
श्लोक 9.4
कनिक्रदज्जनुषं प्र ब्रुवाण इयर्ति वाचमरितेव नाव॑म् । सुमङ्गलश्च शकुने भवासि मा त्वा काचिदभिभा विश्व्या विदत् ॥ न्यक्रन्दीज्जन्म प्रब्रुवाणः । यथास्य शब्दस्तथा नामेरयति वाचम् । ईरयितेव नावम् । सुमङ्गलश्च शकुने भव । कल्याणमङ्गलः । मङ्गलं गिरतेर्गृणात्यर्थे । गिरत्यनर्थानिति वा । अङ्गलमङ्गवत् । मज्जयति पापकमिति नैरुक्ताः । मां गच्छत्विति वा । मा च त्वा काचिदभिभूतिः सर्वतो विदत् । गृत्समदमर्थमभ्युत्थितं कपिञ्जलोऽभिववाशे । तदभिवादिन्येषर्भ्तवति
kanikradajjanuṣaṁ pra bruvāṇa iyarti vācamariteva nāvam | sumaṅgalaśca śakune bhavāsi mā tvā kācidabhibhā viśvyā vidat || nyakrandījjanma prabruvāṇaḥ | yathāsya śabdastathā nāmerayati vācam | īrayiteva nāvam | sumaṅgalaśca śakune bhava | kalyāṇamaṅgalaḥ | maṅgalaṁ giratergṛṇātyarthe | giratyanarthāniti vā | aṅgalamaṅgavat | majjayati pāpakamiti nairuktāḥ | māṁ gacchatviti vā | mā ca tvā kācidabhibhūtiḥ sarvato vidat | gṛtsamadamarthamabhyutthitaṁ kapiñjalo'bhivavāśe | tadabhivādinyeṣarbhtavati
इस ऋचा में एक पक्षी (शकुनि) से कहा जाता है: 'क्रन्दन करते हुए, अपने जन्म को घोषित करते हुए, तुम वाणी उठाते हो जैसे नाविक नौका को; हे शकुन, तुम शुभ शकुन बनो, कोई भी विपत्ति तुम्हें कभी न पाए।' 'मंगल' गान/स्तुति की धातु से है। गृत्समद ऋषि के लिए कपिञ्जल पक्षी ने बोलकर शुभ सूचना दी, यह आख्यान भी संकेतित है।
श्लोक 9.5
भद्रं वद दक्षिणतो भद्रमुत्तरतो वद । भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जलः ॥ इति सा निगदव्याख्याता । गृत्समदो गृत्समदनः । गृत्स इति मेधाविनाम । गृणातेः स्तुतिकर्मणः । मण्डूका मज्जूका मज्जनात् । मदतेर्वा मोदतिकर्मणः । मन्दतेर्वा तृप्तिकर्मणः । मण्डयतेरिति वैयाकरणाः । मण्ड एषामोक इति वा । मण्डो मदेर्वा मुदेर्वा । तेषामेषा भवति
bhadraṁ vada dakṣiṇato bhadramuttarato vada | bhadraṁ purastānno vada bhadraṁ paścātkapiñjalaḥ || iti sā nigadavyākhyātā | gṛtsamado gṛtsamadanaḥ | gṛtsa iti medhāvināma | gṛṇāteḥ stutikarmaṇaḥ | maṇḍūkā majjūkā majjanāt | madatervā modatikarmaṇaḥ | mandatervā tṛptikarmaṇaḥ | maṇḍayateriti vaiyākaraṇāḥ | maṇḍa eṣāmoka iti vā | maṇḍo madervā mudervā | teṣāmeṣā bhavati
इस ऋचा में कपिञ्जल पक्षी से कहा जाता है: 'दक्षिण में शुभ बोलो, उत्तर में शुभ बोलो, पूर्व में हमारे लिए शुभ बोलो, पश्चिम में शुभ बोलो, हे कपिञ्जल।' 'गृत्समद' 'बुद्धिमान्' के अर्थ में है। 'मण्डूक' (मेंढक) मज्जन (डूबना) या तृप्ति-धातु से।
श्लोक 9.6
संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः । वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥ संवत्सरं शिश्याना ब्राह्मणा व्रतचारिणोऽब्रुवाणाः । अपि वोपमार्थे स्यात् । ब्राह्मणा इव व्रतचारिण इति । वाचं पर्जन्यप्रीतां प्रावादिषुर्मण्डूकाः । वसिष्ठो वर्षकामः पर्जन्यं तुष्टाव । तं मण्डूका अन्वमोदन्त । स मण्डूकाननुमोदमानान्दृष्ट्वा तुष्टाव । तदभिवादिन्येषर्भ्सवति
saṁvatsaraṁ śaśayānā brāhmaṇā vratacāriṇaḥ | vācaṁ parjanyajinvitāṁ pra maṇḍūkā avādiṣuḥ || saṁvatsaraṁ śiśyānā brāhmaṇā vratacāriṇo'bruvāṇāḥ | api vopamārthe syāt | brāhmaṇā iva vratacāriṇa iti | vācaṁ parjanyaprītāṁ prāvādiṣurmaṇḍūkāḥ | vasiṣṭho varṣakāmaḥ parjanyaṁ tuṣṭāva | taṁ maṇḍūkā anvamodanta | sa maṇḍūkānanumodamānāndṛṣṭvā tuṣṭāva | tadabhivādinyeṣarbhsavati
इस प्रसिद्ध मण्डूक-सूक्त की ऋचा में कहा गया है: 'संवत्सर भर सोए रहे ब्राह्मण-व्रतधारी मेंढकों ने पर्जन्य-प्रेरित वाणी बोली।' वसिष्ठ ऋषि ने वर्षा की कामना से पर्जन्य की स्तुति की; मेंढकों ने उनका अनुमोदन किया, और मेंढकों को अनुमोदन करते देख वसिष्ठ ने उन्हीं की स्तुति की — इस प्रकार यह आख्यान बनता है।
श्लोक 9.7
उप प्र वद मण्डूकि वर्ष मा वद तादुरि । मध्ये हृदस्य॑ प्लवस्व विगृह्य चतुरः पदः ॥ इति सा निगदव्याख्याता । अक्षा अश्नुवत एनानिति वा । अभ्यश्नुवत एभिरिति वा । तेषामेषा भवति
upa pra vada maṇḍūki varṣa mā vada tāduri | madhye hṛdasya plavasva vigṛhya caturaḥ padaḥ || iti sā nigadavyākhyātā | akṣā aśnuvata enāniti vā | abhyaśnuvata ebhiriti vā | teṣāmeṣā bhavati
इस ऋचा में मेंढक से कहा जाता है: 'हे मण्डूकी, वर्षा की घोषणा करो, मत बोलो, हे तादुरि; हृद (जलाशय) के मध्य में चारों पैर फैलाकर तैरो।' 'अक्ष' (जुए का पासा) की भी व्युत्पत्ति यहीं संकेतित है।
श्लोक 9.8
प्रावेपा मा बृहतो मादयन्ति प्रवातेजा इरिणे वर्वृतानाः । सोमस्येव मौजव॒तस्य॑ भक्षो विभीदको जागृविर्मह्यमच्छान् ॥ प्रवेपिणो मा महतो विभीदकस्य फलानि मादयन्ति । प्रवातेजाः प्रवतेजाः । इरिणे वर्तमानाः । इरिणं निर्ऋणम् । ऋणातेः । अपार्णं भवति । अपरता अस्मादोषधय इति वा । सोमस्येव मौजवतस्य भक्षः । मौजवतो मूजवति जातः । मूजवान्पर्वतो मुञ्जवान् । मुञ्जो विमुच्यत इषीकया । इषीकेषतेर्गतिकर्मणः । इयमपीतरेषीकैतस्मादेव । विभीदको विभेदनात् । जागृविर्जागरणात् । मह्यमचच्छदत् । प्रशंसत्येनान्प्रथमया । निन्दत्युत्तराभिः । ऋषेरक्षपरिद्यूनस्यैतदार्षं वेदयन्ते । ग्रावाणो हन्तेर्वा । गृणातेर्वा । गृह्णातेर्वा । तेषामेषा भवति
prāvepā mā bṛhato mādayanti pravātejā iriṇe varvṛtānāḥ | somasyeva maujavatasya bhakṣo vibhīdako jāgṛvirmahyamacchān || pravepiṇo mā mahato vibhīdakasya phalāni mādayanti | pravātejāḥ pravatejāḥ | iriṇe vartamānāḥ | iriṇaṁ nirṛṇam | ṛṇāteḥ | apārṇaṁ bhavati | aparatā asmādoṣadhaya iti vā | somasyeva maujavatasya bhakṣaḥ | maujavato mūjavati jātaḥ | mūjavānparvato muñjavān | muñjo vimucyata iṣīkayā | iṣīkeṣatergatikarmaṇaḥ | iyamapītareṣīkaitasmādeva | vibhīdako vibhedanāt | jāgṛvirjāgaraṇāt | mahyamacacchadat | praśaṁsatyenānprathamayā | nindatyuttarābhiḥ | ṛṣerakṣaparidyūnasyaitadārṣaṁ vedayante | grāvāṇo hantervā | gṛṇātervā | gṛhṇātervā | teṣāmeṣā bhavati
इस ऋचा में द्यूत-निन्दा है: 'विभीदक (जुए का बीज) के बड़े, काँपते फल मुझे मदमत्त करते हैं, हवा में विचरते हुए, मैदान में लुढ़कते हुए, मुझे सोम के भक्षण के समान प्रिय हैं।' यह अक्ष-सूक्त एक ऐसे ऋषि के आख्यान से जुड़ा है जो जुए के नशे से पीड़ित था — कभी प्रशंसा करता है, कभी निन्दा।
श्लोक 9.9
प्रैते वदन्तु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः । यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेन्द्राय सोमिनः ॥ प्रवदन्त्वेते । प्रवदाम वयम् । ग्रावभ्यो वाचं वदत वदद्भ्यः । यदद्रयः पर्वता अदरणीयाः सह सोममाशवः क्षिप्रकारिणः । श्लोकः शृणोतेः । घोषो घुष्यतेः । सोमिनो यूयं स्थेति वा । सोमिनो गृहेष्विति वा । येन नराः प्रशस्यन्ते स नाराशंसो मन्त्रः । तस्यैषा भवति ।
praite vadantu pra vayaṁ vadāma grāvabhyo vācaṁ vadatā vadadbhyaḥ | yadadrayaḥ parvatāḥ sākamāśavaḥ ślokaṁ ghoṣaṁ bharathendrāya sominaḥ || pravadantvete | pravadāma vayam | grāvabhyo vācaṁ vadata vadadbhyaḥ | yadadrayaḥ parvatā adaraṇīyāḥ saha somamāśavaḥ kṣiprakāriṇaḥ | ślokaḥ śṛṇoteḥ | ghoṣo ghuṣyateḥ | somino yūyaṁ stheti vā | somino gṛheṣviti vā | yena narāḥ praśasyante sa nārāśaṁso mantraḥ | tasyaiṣā bhavati |
इस ऋचा में कहा गया है: 'ये स्तोतागण बोलें, हम भी बोलें; बोलने वाले पत्थरों से वाणी कहो; जब पर्वत-सदृश शीघ्रकारी पत्थर सोम के साथ मिलकर इन्द्र के लिए घोष और श्लोक लाते हैं।' 'नाराशंस' वह मन्त्र है जिससे नरों की प्रशंसा होती है।
श्लोक 9.10
अमन्दान्त्स्तोमान्प्र भरे मनीषा सिन्धावधि क्षियतो भाव्यस्य॑ । यो मे सहस्रममिमीत सवानतूर्तो राजा श्रव इच्छमानः ॥ अमन्दान्त्स्तोमानबालिशाननल्पान्वा । बालो बलवर्ती भर्तव्यो भवति । अम्बास्मा अलं भवतीति वा । अम्बास्मै बलं भवतीति वा । बलो वा प्रतिषेधव्यवहितः । प्रभरे मनीषया मनस ईषया स्तुत्या प्रज्ञया वा । सिन्धावधि निवसतो भावयव्यस्य राज्ञः । यो मे सहस्रं निरमिमीत सवानतूर्तो राजातूर्ण इति वा । अत्वरमाण इति वा । प्रशंसामिच्छमानः
amandāntstomānpra bhare manīṣā sindhāvadhi kṣiyato bhāvyasya | yo me sahasramamimīta savānatūrto rājā śrava icchamānaḥ || amandāntstomānabāliśānanalpānvā | bālo balavartī bhartavyo bhavati | ambāsmā alaṁ bhavatīti vā | ambāsmai balaṁ bhavatīti vā | balo vā pratiṣedhavyavahitaḥ | prabhare manīṣayā manasa īṣayā stutyā prajñayā vā | sindhāvadhi nivasato bhāvayavyasya rājñaḥ | yo me sahasraṁ niramimīta savānatūrto rājātūrṇa iti vā | atvaramāṇa iti vā | praśaṁsāmicchamānaḥ
इस ऋचा में कहा गया है: 'मैं मनीषा से आनन्ददायक, असंख्य स्तोम प्रकट करता हूँ, सिन्धु के तट पर बसने वाले, अतीव-भाग्यशाली राजा के लिए; जिसने मुझे सहस्र सोम-अभिषवण दिए, अत्वरित राजा, यश की कामना करता हुआ।'
श्लोक 9.11
यज्ञसंयोगाद्राजा स्तुतिं लभेत । राजसंयोगाद् युद्धोपकरणानि । तेषां रथः प्रथमागामी भवति । रथो रंहतेर्गतिकर्मणः । स्थिरतेर्वा स्याद्विपरीतस्य । रममाणोऽस्मिंस्तिष्ठतीति वा । रपतेर्वा । तस्यैषा भवति
yajñasaṁyogādrājā stutiṁ labheta | rājasaṁyogād yuddhopakaraṇāni | teṣāṁ rathaḥ prathamāgāmī bhavati | ratho raṁhatergatikarmaṇaḥ | sthiratervā syādviparītasya | ramamāṇo'smiṁstiṣṭhatīti vā | rapatervā | tasyaiṣā bhavati
यज्ञ के सम्बन्ध से राजा स्तुति प्राप्त करता है; राज-सम्बन्ध से युद्ध-उपकरण। इनमें रथ सबसे पहले आता है — रथ 'गति' की धातु से, अथवा स्थिर होने के विपरीत, या 'रमण' की धातु से।
श्लोक 9.12
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः सन्नद्धो असि वीळयस्वास्थाता ते जयतु जेत्वानि ॥ वनस्पते दृळ्हाङ्गो हि भव । अस्मत्सखा प्रतरणः सुवीरः कल्याणवीरः । गोभिः सन्नद्धो असि । वीळयस्वेति संस्तम्भस्व । आस्थाता ते जयतु जेतव्यानि । दुन्दुभिरिति शब्दानुकरणम् । द्रुमो भिन्न इति वा । दुन्दुभ्यतेर्वा स्याच्छब्दकर्मणः । तस्यैषा भवति
vanaspate vīḍvaṅgo hi bhūyā asmatsakhā prataraṇaḥ suvīraḥ | gobhiḥ sannaddho asi vīḷayasvāsthātā te jayatu jetvāni || vanaspate dṛḷhāṅgo hi bhava | asmatsakhā prataraṇaḥ suvīraḥ kalyāṇavīraḥ | gobhiḥ sannaddho asi | vīḷayasveti saṁstambhasva | āsthātā te jayatu jetavyāni | dundubhiriti śabdānukaraṇam | drumo bhinna iti vā | dundubhyatervā syācchabdakarmaṇaḥ | tasyaiṣā bhavati
इस ऋचा में यूप (वनस्पति) से कहा जाता है: 'हे वनस्पति, दृढ़-अंग बनो, हमारे सखा, तारने वाले, शुभ-वीर बनो; गायों से बँधे हुए हो, दृढ़ रहो, तुम्हारा आरोहणकर्ता विजयी वस्तुओं को जीते।' 'दुन्दुभि' (नगाड़ा) ध्वन्यनुकरण से है।
श्लोक 9.13
उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ।। उपश्वासय पृथिवीं च दिवं च । बहुधा ते घोषं मन्यताम् । विष्ठितं स्थावरं जङ्गमं च यत् । स दुन्दुभे सहजोषण इन्द्रेण च देवैश्च । दूराद्दूरतरमपसेध शत्रून् । इषुधिरिषूणां निधानम् । तस्यैषा भवति
upa śvāsaya pṛthivīmuta dyāṁ purutrā te manutāṁ viṣṭhitaṁ jagat | sa dundubhe sajūrindreṇa devairdūrāddavīyo apa sedha śatrūn || upaśvāsaya pṛthivīṁ ca divaṁ ca | bahudhā te ghoṣaṁ manyatām | viṣṭhitaṁ sthāvaraṁ jaṅgamaṁ ca yat | sa dundubhe sahajoṣaṇa indreṇa ca devaiśca | dūrāddūrataramapasedha śatrūn | iṣudhiriṣūṇāṁ nidhānam | tasyaiṣā bhavati
इस ऋचा में दुन्दुभि से कहा जाता है: 'पृथिवी और द्युलोक को कँपा दो, तुम्हारी गूँज बहुविध सुनी जाए; जो कुछ स्थावर-जंगम है, हे दुन्दुभि, इन्द्र और देवताओं के साथ मिलकर शत्रुओं को दूर-दूर भगा दो।' 'इषुधि' बाणों के भण्डार के अर्थ में है।
श्लोक 9.14
बह्वीनां पिता बहुर॑स्य पुत्रश्चिश्चा कृणोति सम॑नावगत्यं । इषुधिः सङ्काः पृतनाश्च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ बह्वीनां पिता बहुरस्य पुत्र इतीषूनभिप्रेत्य । प्रस्मयत इवापाव्रियमाणः । शब्दानुकरणं वा । सङ्काः सचतेः । संपूर्वाद्वा किरतेः । पृष्ठे निनद्धो जयति प्रसूत इति व्याख्यातम् । हस्तघ्नो हस्ते हन्यते । तस्यैषा भवति
bahvīnāṁ pitā bahurasya putraściścā kṛṇoti samanāvagatyaṁ | iṣudhiḥ saṅkāḥ pṛtanāśca sarvāḥ pṛṣṭhe ninaddho jayati prasūtaḥ || bahvīnāṁ pitā bahurasya putra itīṣūnabhipretya | prasmayata ivāpāvriyamāṇaḥ | śabdānukaraṇaṁ vā | saṅkāḥ sacateḥ | saṁpūrvādvā kirateḥ | pṛṣṭhe ninaddho jayati prasūta iti vyākhyātam | hastaghno haste hanyate | tasyaiṣā bhavati
इस ऋचा में तूणीर (बाण-भाथा) की स्तुति है: 'बहुतों का पिता, इसका पुत्र बहुत — यह मित्रता और युद्ध दोनों उत्पन्न करता है; तूणीर, सैनिक-दल और सेनाएँ पीठ पर बाँधकर प्रेरित होकर विजयी होता है।' 'हस्तघ्न' (हाथ-रक्षक दस्ताना) हाथ पर मारा जाने से।
श्लोक 9.15
अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान्पुमान्पुमांसं परि पातु विश्वतः ॥ अहिरिव भोगैः परिवेष्टयति बाहुम् । ज्याया वधात्परित्रायमाणः । हस्तघ्नः सर्वाणि प्रज्ञानानि प्रजानन् । पुमान्पुरुमना भवति । पुंसतेर्वा । अभीशवो व्याख्याताः । तेषामेषा भवति
ahiriva bhogaiḥ paryeti bāhuṁ jyāyā hetiṁ paribādhamānaḥ | hastaghno viśvā vayunāni vidvānpumānpumāṁsaṁ pari pātu viśvataḥ || ahiriva bhogaiḥ pariveṣṭayati bāhum | jyāyā vadhātparitrāyamāṇaḥ | hastaghnaḥ sarvāṇi prajñānāni prajānan | pumānpurumanā bhavati | puṁsatervā | abhīśavo vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में हस्तघ्न (धनुष का हस्त-त्राण) की स्तुति है: 'सर्प के समान अपने भोगों से भुजा को घेरता है, प्रत्यंचा के आघात से रक्षा करता हुआ; सब प्रज्ञान जानने वाला हस्तघ्न, पुरुष को सब ओर से रक्षा करे।'
श्लोक 9.16
रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः । अभीशूनां महिमानं पनायत मनः पश्चादनु यच्छन्ति रश्मयः ॥ रथे तिष्ठन्नयति वाजिनः पुरस्तात्सतो यत्र यत्र कामयते । सुषारथिः कल्याणसारथिः । अभीशूनां महिमानं पूजयामि । मनः पश्चात्सन्तोऽनुयच्छन्ति रश्मयः । धनुर्धन्वतेर्गतिकर्मणः । वधकर्मणो वा । धन्वन्त्यस्मादिषवः । तस्यैषा भवति
rathe tiṣṭhannayati vājinaḥ puro yatra yatra kāmayate suṣārathiḥ | abhīśūnāṁ mahimānaṁ panāyata manaḥ paścādanu yacchanti raśmayaḥ || rathe tiṣṭhannayati vājinaḥ purastātsato yatra yatra kāmayate | suṣārathiḥ kalyāṇasārathiḥ | abhīśūnāṁ mahimānaṁ pūjayāmi | manaḥ paścātsanto'nuyacchanti raśmayaḥ | dhanurdhanvatergatikarmaṇaḥ | vadhakarmaṇo vā | dhanvantyasmādiṣavaḥ | tasyaiṣā bhavati
इस ऋचा में रथ-सारथि की स्तुति है: 'रथ पर खड़ा होकर वह अश्वों को आगे ले चलता है, जहाँ-जहाँ सुसारथि चाहता है; लगामों की महिमा की मैं प्रशंसा करता हूँ, जिनके पीछे मन के अनुसार रश्मियाँ नियन्त्रित होती हैं।' 'धनुष' गति या वध-कर्म की धातु से है।
श्लोक 9.17
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोरपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ इति सा निगदव्याख्याता समदः समदो वात्तेः । सम्मदो वा मदतेः । ज्या जयतेर्वा । जिनातेर्वा । प्रजावयतीषूनिति वा । तस्या एषा भवति
dhanvanā gā dhanvanājiṁ jayema dhanvanā tīvrāḥ samado jayema | dhanuḥ śatrorapakāmaṁ kṛṇoti dhanvanā sarvāḥ pradiśo jayema || iti sā nigadavyākhyātā samadaḥ samado vātteḥ | sammado vā madateḥ | jyā jayatervā | jinātervā | prajāvayatīṣūniti vā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'धनुष से हम गौओं को, धनुष से युद्ध को जीतें, धनुष से तीव्र संग्रामों को जीतें; धनुष शत्रु की कामना को नष्ट करे, धनुष से हम सभी दिशाओं को जीतें।'
श्लोक 9.18
वक्ष्यन्तीवेदा गनीगन्ति कर्णं प्रियं सखायं परिषस्वजाना । योषेव शिङ्क्ते वितताधि धन्वञ्ज्या इयं समने पारयन्ती ॥ वक्ष्यन्तीवागच्छति कर्णं प्रियमिव सखायमिषुं परिष्वजमाना । योषे वशिङ्क्ते शब्दं करोति । वितताधि धनुषि ज्येयं समने संग्रामे पारयन्ती । इषुरीषतेर्गतिकर्मणः । वधकर्मणो वा । तस्यैषा भवति
vakṣyantīvedā ganīganti karṇaṁ priyaṁ sakhāyaṁ pariṣasvajānā | yoṣeva śiṅkte vitatādhi dhanvañjyā iyaṁ samane pārayantī || vakṣyantīvāgacchati karṇaṁ priyamiva sakhāyamiṣuṁ pariṣvajamānā | yoṣe vaśiṅkte śabdaṁ karoti | vitatādhi dhanuṣi jyeyaṁ samane saṁgrāme pārayantī | iṣurīṣatergatikarmaṇaḥ | vadhakarmaṇo vā | tasyaiṣā bhavati
इस ऋचा में धनुष की डोरी (ज्या) की स्तुति है: 'यह मानो कर्ण के निकट आती, प्रिय सखा (बाण) को आलिंगन करती है, स्त्री के समान शब्द करती है; फैले हुए धनुष पर यह डोरी संग्राम में पार कराती है।'
श्लोक 9.19
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः सन्नद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्य॒मिषवः शर्म यंसन् ॥ सुपर्णं वस्त इति वाजानभिप्रेत्य । मृगमयोऽस्या दन्तः । मृगयतेर्वा । गोभिः सन्नद्धा पतति प्रसूतेति व्याख्यातम् । यत्र नराः संद्रवन्ति च विद्रवन्ति च तत्रास्मभ्यमिषवः शर्म यच्छन्तु शरणं संग्रामेषु । अश्वाजनीं कशेत्याहुः । कशा प्रकाशयति भयमश्वाय । कृष्यतेर्वाणूभावात् । वाक्पुनः प्रकाशयत्यर्थान् । खशया । क्रोशतेर्वा । अश्वकशाया एषा भवति
suparṇaṁ vaste mṛgo asyā danto gobhiḥ sannaddhā patati prasūtā | yatrā naraḥ saṁ ca vi ca dravanti tatrāsmabhyamiṣavaḥ śarma yaṁsan || suparṇaṁ vasta iti vājānabhipretya | mṛgamayo'syā dantaḥ | mṛgayatervā | gobhiḥ sannaddhā patati prasūteti vyākhyātam | yatra narāḥ saṁdravanti ca vidravanti ca tatrāsmabhyamiṣavaḥ śarma yacchantu śaraṇaṁ saṁgrāmeṣu | aśvājanīṁ kaśetyāhuḥ | kaśā prakāśayati bhayamaśvāya | kṛṣyatervāṇūbhāvāt | vākpunaḥ prakāśayatyarthān | khaśayā | krośatervā | aśvakaśāyā eṣā bhavati
इस ऋचा में बाण की स्तुति है: 'सुपर्ण-पंख धारण करता है, मृग-सींग का इसका दाँत है; गायों की डोरी से बँधकर छूटता है; जहाँ नर एक-दूसरे की ओर दौड़ते हैं, वहाँ हमें बाण शरण दें, संग्रामों में।' अश्व की चाबुक ('कशा') भी यहीं समझाई गई है।
श्लोक 9.20
आ जङ्घन्ति सान्वेषां जघनाँ उप जिघ्नते । अश्वाजनि प्रचेतसोऽश्वान्त्स॒मत्सु चोदय ॥ आघ्नन्ति सानून्येषां सरणानि सक्थीनि । सक्थि सचतेः । आसक्तोऽस्मिन् कायः । जघनानि चोपघ्नति । जघनं जङ्घन्यतेः । अश्वाजनि प्रचेतसः प्रवृद्धचेतसोऽश्वान्त्समत्सु समरणेषु संग्रामेषु चोदय । उलूखलमुरुकरं वा । ऊर्ध्वखं वा । ऊर्क्करं वा । उरु मे कुरु । इत्यब्रवीत् । तदुलूखलमभवत् । उरुकरं वैतदुलूखलमित्याचक्षते परोक्षेण । इति च ब्राह्मणम् । तस्यैषा भवति
ā jaṅghanti sānveṣāṁ jaghanām̐ upa jighnate | aśvājani pracetaso'śvāntsamatsu codaya || āghnanti sānūnyeṣāṁ saraṇāni sakthīni | sakthi sacateḥ | āsakto'smin kāyaḥ | jaghanāni copaghnati | jaghanaṁ jaṅghanyateḥ | aśvājani pracetasaḥ pravṛddhacetaso'śvāntsamatsu samaraṇeṣu saṁgrāmeṣu codaya | ulūkhalamurukaraṁ vā | ūrdhvakhaṁ vā | ūrkkaraṁ vā | uru me kuru | ityabravīt | tadulūkhalamabhavat | urukaraṁ vaitadulūkhalamityācakṣate parokṣeṇa | iti ca brāhmaṇam | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'वे इनके ऊपरी भाग और जंघाओं पर आघात करते हैं; हे अश्व-चालक, बुद्धिमान् अश्वों को संग्रामों में प्रेरित करो।' उलूखल (ओखली) की व्युत्पत्ति दी गई है — ब्राह्मण का आख्यान है कि 'उरु मे कुरु' (मेरे लिए विस्तृत करो) कहने से यह 'उलूखल' बना।
श्लोक 9.21
यच्चिद्धि त्वं गृहेगृह उलूखलक युज्यसे । इह द्युमत्तमं वद जय॑तामिव दुन्दुभिः ॥ इति सा निगदव्याख्याता
yacciddhi tvaṁ gṛhegṛha ulūkhalaka yujyase | iha dyumattamaṁ vada jayatāmiva dundubhiḥ || iti sā nigadavyākhyātā
इस ऋचा में उलूखल (ओखली) से कहा जाता है: 'हे उलूखलक, यद्यपि तुम घर-घर में जोता जाता हो, यहाँ सबसे तेज ध्वनि करो, जैसे विजयी योद्धाओं के लिए दुन्दुभि करता है।'
श्लोक 9.22
वृषभः प्रजां वर्षतीति वा । अतिबृहति रेत इति वा । तद्वर्षकर्मा वर्षणाद्वृषभः । तस्यैषा भवति
vṛṣabhaḥ prajāṁ varṣatīti vā | atibṛhati reta iti vā | tadvarṣakarmā varṣaṇādvṛṣabhaḥ | tasyaiṣā bhavati
'वृषभ' (साँड़) — 'प्रजा को वर्षाता (उत्पन्न करता) है' के अर्थ में, या 'जिसका वीर्य अत्यधिक बढ़ता है'; वर्षण (उत्पादन) कर्म से 'वृषभ' नाम है।
श्लोक 9.23
न्यक्रन्दयन्नुपयन्त एनममेहयन्वृषभं मध्य आजेः । तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥ न्यक्रन्दयन्नुपयन्त इति व्याख्यातम् । अमेहयन्वृषभं मध्ये । आजयनस्याजवनस्येति वा । तेन सूभर्वं राजानम् । भर्वतिरत्तिकर्मा । तद्वा सूभर्वं सहस्रं गवां मुद्गलः प्रधने जिगाय । प्रधन इति सङ्ग्रामनाम । प्रकीर्णान्यस्मिन् धनानि भवन्ति । द्रुघणो द्रुममयो घनः । तत्रेतिहासमाचक्षते । मुद्गलो भार्म्यश्व ऋषिर्वृषभं च द्रुघणं च युक्त्वा सङ्ग्रामे व्यवहृत्याजिं जिगाय । तदभिवादिन्येषर्ग्भवति
nyakrandayannupayanta enamamehayanvṛṣabhaṁ madhya ājeḥ | tena sūbharvaṁ śatavatsahasraṁ gavāṁ mudgalaḥ pradhane jigāya || nyakrandayannupayanta iti vyākhyātam | amehayanvṛṣabhaṁ madhye | ājayanasyājavanasyeti vā | tena sūbharvaṁ rājānam | bharvatirattikarmā | tadvā sūbharvaṁ sahasraṁ gavāṁ mudgalaḥ pradhane jigāya | pradhana iti saṅgrāmanāma | prakīrṇānyasmin dhanāni bhavanti | drughaṇo drumamayo ghanaḥ | tatretihāsamācakṣate | mudgalo bhārmyaśva ṛṣirvṛṣabhaṁ ca drughaṇaṁ ca yuktvā saṅgrāme vyavahṛtyājiṁ jigāya | tadabhivādinyeṣargbhavati
इस ऋचा में कहा गया है: 'गर्जन कराते हुए, समीप आते हुए, उन्होंने संग्राम के मध्य में वृषभ को मूत्र त्याग करा दिया; उसी से मुद्गल ने सौ-हज़ार गौओं वाले सूभर्व को युद्ध में जीत लिया।' यह मुद्गल-भार्म्याश्व ऋषि का आख्यान है, जिन्होंने वृषभ और द्रुघण (लकड़ी की गदा) से युद्ध कर विजय पाई।
श्लोक 9.24
इमं तं पश्य वृषभस्य युञ्जं काष्ठाया मध्ये द्रुघणं शयानम् । येन ज़िगाय॑ शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥ इमं तं पश्य वृषभस्य सहयुजं काष्ठाया मध्ये द्रुघणं शयानम् । येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु । पृतनाज्यमिति सङ्ग्रामनाम । पृतनानामजनाद्वा । जयनाद्वा । मुद्गलो मुद्गवान् । मुद्गगिलो वा । मदनं गिलतीति वा । मदंगिलो वा । मुदंगिलो वा । भार्म्याश्वो भृम्यश्वस्य पुत्रः । भृम्यश्वो भृमयोऽस्याश्वाः । अश्वभरणाद्वा । पितुरित्यन्ननाम । पातेर्वा । पिबतेर्वा । प्यायतेर्वा । तस्यैषा भवति
imaṁ taṁ paśya vṛṣabhasya yuñjaṁ kāṣṭhāyā madhye drughaṇaṁ śayānam | yena jagāya śatavatsahasraṁ gavāṁ mudgalaḥ pṛtanājyeṣu || imaṁ taṁ paśya vṛṣabhasya sahayujaṁ kāṣṭhāyā madhye drughaṇaṁ śayānam | yena jigāya śatavatsahasraṁ gavāṁ mudgalaḥ pṛtanājyeṣu | pṛtanājyamiti saṅgrāmanāma | pṛtanānāmajanādvā | jayanādvā | mudgalo mudgavān | mudgagilo vā | madanaṁ gilatīti vā | madaṁgilo vā | mudaṁgilo vā | bhārmyāśvo bhṛmyaśvasya putraḥ | bhṛmyaśvo bhṛmayo'syāśvāḥ | aśvabharaṇādvā | piturityannanāma | pātervā | pibatervā | pyāyatervā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'देखो उस वृषभ के साथी को, जो घास के मध्य में सोए हुए द्रुघण के समान पड़ा है, जिसके द्वारा मुद्गल ने युद्धों में सौ-हज़ार गौएँ जीतीं।' 'मुद्गल' नाम की कई व्युत्पत्तियाँ दी गई हैं — मूँग-धारक, या मदन को निगलने वाला।
श्लोक 9.25
पितुं नु स्तोषं महो धर्माणं तविषीम् । यस्य॑ त्रितो व्योजसा वृत्रं विपर्वमर्दयत् ॥ तं पितुं स्तौमि महतो धारयितारं बलस्य । तविषीति बलनाम । तवतेः वा वृद्धिकर्मणः । यस्य त्रित ओजसा बलेन । त्रितस्त्रिस्थान इन्द्रो वृत्रं विपर्वाणं व्यर्दयति । नद्यो व्याख्याताः । तासामेषा भवति
pituṁ nu stoṣaṁ maho dharmāṇaṁ taviṣīm | yasya trito vyojasā vṛtraṁ viparvamardayat || taṁ pituṁ staumi mahato dhārayitāraṁ balasya | taviṣīti balanāma | tavateḥ vā vṛddhikarmaṇaḥ | yasya trita ojasā balena | tritastristhāna indro vṛtraṁ viparvāṇaṁ vyardayati | nadyo vyākhyātāḥ | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'मैं महान् धारणकर्ता अन्न और बल की स्तुति करूँ, जिसके बल से त्रित ने विपर्व वृत्र को कुचल डाला।' 'त्रित' को तीन स्थानों वाला इन्द्र भी कहा गया है।
श्लोक 9.26
इमं मे गङ्गे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या । असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥ इमं मे गङ्गे यमुने सरस्वति शुतुद्रि परुष्णि स्तोममासेवध्वम् । असिक्न्या च सह मरुद्वृधे वितस्तया चार्जीकीय आशृणुहि सुषोमया चेति समस्तार्थः । अथैकपदनिरुक्तम् । गङ्गा गमनात् । यमुना प्रयुवती गच्छतीति वा । प्रवियुतं गच्छतीति वा । सरस्वती । सर इत्युदकनाम । सर्तेः । तद्वती । शुतुद्री शुद्राविणी । क्षिप्रद्राविणी । आशु तुन्नेव द्रवतीति वा । इरावतीं परुष्णीत्याहुः । पर्ववती कुटिलगामिनी । असिक्न्यशुक्लासिता । सितमिति वर्णनाम । तत्प्रतिषेधोऽसितम् । मरुद्वृधाः सर्वा नद्यो मरुत एना वर्धयन्ति । वितस्ताविदग्धा विवृद्धा महाकूला । आर्जीकीयां विपाडित्याहुः। ऋजीकप्रभवा वा । ऋजुगामिनी वा । विपाड् विपाटनाद्वा । विपाशनाद्वा । विप्रापणाद्वा । पाशा अस्यां व्यपाश्यन्त वसिष्ठस्य मुमूर्षतः । तस्माद्विपाडुच्यते । पूर्वमासीदुरुञ्जिरा । सुषोमा सिन्धुः । यदेनामभिप्रसुवन्ति नद्यः । सिन्धुः स्यन्दनात् । आप आप्नोतेः । तासामेषा भवति
imaṁ me gaṅge yamune sarasvati śutudri stomaṁ sacatā paruṣṇyā | asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyā suṣomayā || imaṁ me gaṅge yamune sarasvati śutudri paruṣṇi stomamāsevadhvam | asiknyā ca saha marudvṛdhe vitastayā cārjīkīya āśṛṇuhi suṣomayā ceti samastārthaḥ | athaikapadaniruktam | gaṅgā gamanāt | yamunā prayuvatī gacchatīti vā | praviyutaṁ gacchatīti vā | sarasvatī | sara ityudakanāma | sarteḥ | tadvatī | śutudrī śudrāviṇī | kṣipradrāviṇī | āśu tunneva dravatīti vā | irāvatīṁ paruṣṇītyāhuḥ | parvavatī kuṭilagāminī | asiknyaśuklāsitā | sitamiti varṇanāma | tatpratiṣedho'sitam | marudvṛdhāḥ sarvā nadyo maruta enā vardhayanti | vitastāvidagdhā vivṛddhā mahākūlā | ārjīkīyāṁ vipāḍityāhuḥ| ṛjīkaprabhavā vā | ṛjugāminī vā | vipāḍ vipāṭanādvā | vipāśanādvā | viprāpaṇādvā | pāśā asyāṁ vyapāśyanta vasiṣṭhasya mumūrṣataḥ | tasmādvipāḍucyate | pūrvamāsīduruñjirā | suṣomā sindhuḥ | yadenāmabhiprasuvanti nadyaḥ | sindhuḥ syandanāt | āpa āpnoteḥ | tāsāmeṣā bhavati
इस प्रसिद्ध नदी-स्तुति ऋचा में कहा गया है: 'हे गंगा, यमुना, सरस्वती, शुतुद्री, इस मेरे स्तोम को परुष्णी सहित सुनो; असिक्नी, मरुद्वृधा, वितस्ता, आर्जीकीया और सुषोमा भी सुनें।' प्रत्येक नदी-नाम की पृथक् व्युत्पत्ति दी गई है — गंगा (गमन से), यमुना (द्रुत गति से), शुतुद्री (शीघ्र बहने से), परुष्णी (कुटिल-गामिनी), असिक्नी (अश्वेत वर्ण से), वितस्ता (विशाल-कूल), विपाट् (वसिष्ठ के आख्यान से — जहाँ पाश खुल गए थे), सुषोमा-सिन्धु (जिसमें नदियाँ मिलती हैं)।
श्लोक 9.27
आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन । महे रणाय॒ चक्षसे ॥ आपो हि स्थ सुखभुवस्ता नोऽन्नाय धत्त । महते च नो रणाय रमणीयाय च दर्शनाय । ओषधय ओषद्धयन्तीति वा । ओषत्येना धयन्तीति वा । दोषं धयन्तीति वा । तासामेषा भवति
āpo hi ṣṭhā mayobhuvastā na ūrje dadhātana | mahe raṇāya cakṣase || āpo hi stha sukhabhuvastā no'nnāya dhatta | mahate ca no raṇāya ramaṇīyāya ca darśanāya | oṣadhaya oṣaddhayantīti vā | oṣatyenā dhayantīti vā | doṣaṁ dhayantīti vā | tāsāmeṣā bhavati
इस ऋचा में जल-देवियों से कहा जाता है: 'तुम सुख देने वाली हो, हमें अन्न के लिए धारण करो, महान् आनन्द और दर्शन के लिए।' ओषधियों की व्युत्पत्ति भी संकेतित है (जो दुःख को शमन करती हैं)।
श्लोक 9.28
या ओषधीः पूर्वा जाता देवेभ्य॑स्त्रियुगं पुरा । मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥ या ओषधयः पूर्वा जाता देवेभ्यस्त्रीणि युगानि पुरा मन्ये नु तद्बभ्रूणामहं बभ्रुवर्णानां हरणानां भरणानामिति वा । शतं धामानि सप्त च । धामानि त्रयाणि भवन्ति । स्थानानि । नामानि । जन्मानीति । जन्मान्यत्राभिप्रेतानि । सप्तशतं पुरुषस्य मर्मणां तेष्वेना दधतीति वा । रात्रिर्व्याख्याता । तस्या एषा भवति
yā oṣadhīḥ pūrvā jātā devebhyastriyugaṁ purā | manai nu babhrūṇāmahaṁ śataṁ dhāmāni sapta ca || yā oṣadhayaḥ pūrvā jātā devebhyastrīṇi yugāni purā manye nu tadbabhrūṇāmahaṁ babhruvarṇānāṁ haraṇānāṁ bharaṇānāmiti vā | śataṁ dhāmāni sapta ca | dhāmāni trayāṇi bhavanti | sthānāni | nāmāni | janmānīti | janmānyatrābhipretāni | saptaśataṁ puruṣasya marmaṇāṁ teṣvenā dadhatīti vā | rātrirvyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'जो ओषधियाँ देवताओं से तीन युग पहले उत्पन्न हुईं, उन बभ्रु-वर्णा ओषधियों के मैं सौ और सात धाम (स्थान) मानता हूँ।' 'धाम' तीन प्रकार का माना गया है — स्थान, नाम, जन्म।
श्लोक 9.29
आ रात्रि पार्थिवं रजः पितुरप्रायि धामभिः । दिवः सदांसि बृहती वि तिष्ठस आ त्वेषं वर्तते तमः ॥ आपूपुरस्त्वं रात्रि पार्थिवं रजः । स्थानैर्मध्यमस्य । दिवः सदाँसि । बृहती महती वितिष्ठस आवर्तते त्वेषं तमो रजः । अरण्यान्यरण्यस्य पत्नी । अरण्यमपार्णम् । ग्रामादरमणं भवतीति वा । तस्या एषा भवति
ā rātri pārthivaṁ rajaḥ pituraprāyi dhāmabhiḥ | divaḥ sadāṁsi bṛhatī vi tiṣṭhasa ā tveṣaṁ vartate tamaḥ || āpūpurastvaṁ rātri pārthivaṁ rajaḥ | sthānairmadhyamasya | divaḥ sadām̐si | bṛhatī mahatī vitiṣṭhasa āvartate tveṣaṁ tamo rajaḥ | araṇyānyaraṇyasya patnī | araṇyamapārṇam | grāmādaramaṇaṁ bhavatīti vā | tasyā eṣā bhavati
इस ऋचा में रात्रि की स्तुति है: 'हे रात्रि, तुमने पार्थिव रज (मध्यम लोक) को अपने स्थानों से भर दिया है, द्युलोक की बैठकें भी; महती होकर तुम फैलती हो, चमकीला अन्धकार लौट आता है।' 'अरण्यानी' अरण्य (वन) की पत्नी के रूप में परिचित होती है।
श्लोक 9.30
अरण्यान्यरण्यान्यसौ या प्रेव नश्यसि । कथा ग्रामं न पृच्छसि न त्वा भीरिव विन्दती ३ ॥ अरण्यानीत्येनामामन्त्रयते । यासावरण्यानि वनानि पराचीव नश्यसि कथं ग्रामं न पृच्छसि । न त्वा भीर्विन्दतीवेति । इवः परिभयार्थे वा । श्रद्धा श्रद्धानात् । तस्या एषा भवति
araṇyānyaraṇyānyasau yā preva naśyasi | kathā grāmaṁ na pṛcchasi na tvā bhīriva vindatī 3 || araṇyānītyenāmāmantrayate | yāsāvaraṇyāni vanāni parācīva naśyasi kathaṁ grāmaṁ na pṛcchasi | na tvā bhīrvindatīveti | ivaḥ paribhayārthe vā | śraddhā śraddhānāt | tasyā eṣā bhavati
इस प्रसिद्ध वन-देवी सूक्त में कहा गया है: 'हे अरण्यानी, अरण्यानी, तुम जो मानो दूर भागती जा रही हो, गाँव के बारे में क्यों नहीं पूछतीं? क्या तुम्हें भय नहीं लगता?' 'श्रद्धा' श्रद्धान (विश्वास) धातु से है।
श्लोक 9.31
श्रद्धयाग्निः समिध्यते श्रद्धया हूयते हविः । श्रद्धां भगस्य मूर्धनि वचसा वेदयामसि ॥ श्रद्धयाग्निः साधु समिध्यते । श्रद्धया हविः साधु हूयते । श्रद्धां भगस्य भागधेयस्य मूर्धनि प्रधानाङ्गे वचनेनावेदयामः । पृथिवी व्याख्याता । तस्या एषा भवति
śraddhayāgniḥ samidhyate śraddhayā hūyate haviḥ | śraddhāṁ bhagasya mūrdhani vacasā vedayāmasi || śraddhayāgniḥ sādhu samidhyate | śraddhayā haviḥ sādhu hūyate | śraddhāṁ bhagasya bhāgadheyasya mūrdhani pradhānāṅge vacanenāvedayāmaḥ | pṛthivī vyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'श्रद्धा से अग्नि भली भाँति प्रज्वलित होता है, श्रद्धा से हविष्य भली भाँति अर्पित होता है; भाग्य के प्रधान अंग में हम श्रद्धा को वाणी से घोषित करते हैं।'
श्लोक 9.32
स्योना पृथिवि भवानृक्षरा निवेशनी । यच्छा नः शर्म सप्रथः ॥ सुखा नः पृथिवि भव । अनृक्षरा निवेशनी । ऋक्षरः कण्टक ऋच्छतेः । कण्टकः कन्तपो वा । कृन्ततेर्वा । कण्टतेर्वा स्याद्गतिकर्मणः । उद्गततमो भवति । यच्छ नः शर्म । यच्छन्तु शरणं सर्वतः पृथु । अप्वा व्याख्याता । तस्या एषा भवति
syonā pṛthivi bhavānṛkṣarā niveśanī | yacchā naḥ śarma saprathaḥ || sukhā naḥ pṛthivi bhava | anṛkṣarā niveśanī | ṛkṣaraḥ kaṇṭaka ṛcchateḥ | kaṇṭakaḥ kantapo vā | kṛntatervā | kaṇṭatervā syādgatikarmaṇaḥ | udgatatamo bhavati | yaccha naḥ śarma | yacchantu śaraṇaṁ sarvataḥ pṛthu | apvā vyākhyātā | tasyā eṣā bhavati
इस ऋचा में पृथिवी से कहा जाता है: 'हे पृथिवी, हमारे लिए सुखद, काँटों से रहित, बसने योग्य बनो; हमें सर्वत्र विस्तृत शरण दो।' 'ऋक्षर' काँटे के अर्थ में है।
श्लोक 9.33
अमीषां चित्तं प्रतिलोभयन्ती गृहाणाङ्गान्यप्वे परेहि । अभि प्रेहि निर्दह हृत्सु शोकैरन्धेनामित्रास्तम॑सा सचन्ताम् ॥ अमीषां चित्तानि प्रज्ञानानि प्रतिलोभयमाना गृहाणाङ्गान्यप्वे परेहि । अभिप्रेहि । निर्दहैषां हृदयानि शोकैः । अन्धेनामित्रास्तमसा संसेव्यन्ताम् । अग्नाय्यग्नेः पत्नी । तस्या एषा भवति
amīṣāṁ cittaṁ pratilobhayantī gṛhāṇāṅgānyapve parehi | abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasā sacantām || amīṣāṁ cittāni prajñānāni pratilobhayamānā gṛhāṇāṅgānyapve parehi | abhiprehi | nirdahaiṣāṁ hṛdayāni śokaiḥ | andhenāmitrāstamasā saṁsevyantām | agnāyyagneḥ patnī | tasyā eṣā bhavati
इस ऋचा में अप्वा (भय/रोग की देवी) से कहा जाता है: 'उनके चित्त को भ्रमित करती हुई, अपने अंगों को धारण कर, हे अप्वे, चली जाओ; उन पर आक्रमण करो, उनके हृदयों को शोक से जला दो, अन्ध, मित्रहीन अन्धकार से वे घिरे रहें।' 'अग्नायी' अग्नि की पत्नी है।
श्लोक 9.34
इहेन्द्राणीमुप ह्वये वरुणानीं स्वस्तये । अग्नायीं सोमपीतये ॥ इति सा निगदव्याख्याता
ihendrāṇīmupa hvaye varuṇānīṁ svastaye | agnāyīṁ somapītaye || iti sā nigadavyākhyātā
इस ऋचा में कहा गया है: 'यहाँ मैं इन्द्राणी को बुलाता हूँ, वरुणानी को कल्याण के लिए, अग्नायी को सोमपान के लिए।'
श्लोक 9.35
अथातोऽष्टौ द्वन्द्वानिः । उलूखलमुसले । उलूखलं व्याख्यातम् । मुसलं मुहुः सरम् । तयोरेषा भवति
athāto'ṣṭau dvandvāniḥ | ulūkhalamusale | ulūkhalaṁ vyākhyātam | musalaṁ muhuḥ saram | tayoreṣā bhavati
अब आठ द्वन्द्व (युगल) देवताओं का प्रकरण है। पहला युगल है उलूखल-मुसल (ओखली-मूसल)। उलूखल की व्याख्या पहले हो चुकी है; मुसल 'बार-बार सरण करने वाला' के अर्थ में है।
श्लोक 9.36
आयजी वाजसातमा ता ह्युच्चा विजर्भृतः । हरी इवान्धाँसि बप्सता ॥ आयष्टव्ये अन्नानां संभक्ततमे ते ह्युच्चैर्विह्रियेते हरी इवान्नानि भुञ्जाने । हविर्धाने हविषां निधाने । तयोरेषा भवति
āyajī vājasātamā tā hyuccā vijarbhṛtaḥ | harī ivāndhām̐si bapsatā || āyaṣṭavye annānāṁ saṁbhaktatame te hyuccairvihriyete harī ivānnāni bhuñjāne | havirdhāne haviṣāṁ nidhāne | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'ये दोनों (हविर्धाने — हविष्य के दो पात्र) अन्नों के सर्वाधिक भाग वाले, ऊँचे उठाए जाते हैं, जैसे दो हरि (अश्व) अन्न भक्षण करते हुए।' यह दूसरा द्वन्द्व-देवता 'हविर्धाने' (हविष्य के दो भण्डार) है।
श्लोक 9.37
आ वामुपस्थमद्रुहा देवाः सीदन्तु यज्ञियाः । इहाद्य सोमपीतये ॥ आसीदन्तु वामुपस्थमुपस्थानम् अद्रोग्धव्ये इति वा यज्ञिया देवा यज्ञसंपादिन इहाद्य सोमपानाय । द्यावापृथिव्यौ व्याख्याते । तयोरेषा भवति
ā vāmupasthamadruhā devāḥ sīdantu yajñiyāḥ | ihādya somapītaye || āsīdantu vāmupasthamupasthānam adrogdhavye iti vā yajñiyā devā yajñasaṁpādina ihādya somapānāya | dyāvāpṛthivyau vyākhyāte | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'हे अद्रोहरहित, यज्ञिय देवगण, तुम दोनों की गोद में बैठें, यहाँ आज सोमपान के लिए।' यह तीसरा द्वन्द्व-देवता 'द्यावापृथिवी' (आकाश-पृथ्वी) है, जिसकी व्याख्या पहले हो चुकी है।
श्लोक 9.38
द्यावा नः पृथिवी इमं सिध्रमद्य दिविस्पृशम् । यज्ञं देवेषु यच्छताम् ॥ द्यावापृथिव्यौ न इमं साधनमद्य दिविस्पृशं यज्ञं देवेषु नियच्छताम् विपाट्छुतुद्र्यौ व्याख्याते । तयोरेषा भवति
dyāvā naḥ pṛthivī imaṁ sidhramadya divispṛśam | yajñaṁ deveṣu yacchatām || dyāvāpṛthivyau na imaṁ sādhanamadya divispṛśaṁ yajñaṁ deveṣu niyacchatām vipāṭchutudryau vyākhyāte | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'द्यावापृथिवी हमारे लिए इस सिद्ध, द्युलोक-स्पर्शी यज्ञ को देवताओं तक पहुँचाएँ।' यह चौथा द्वन्द्व-देवता 'विपाट्-शुतुद्री' (दो नदियाँ) है, जिनकी व्याख्या पहले हो चुकी है।
श्लोक 9.39
प्र पर्वतानामुशती उपस्थादश्वे इव विषिते हासमाने । गावैव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पय॑सा जवेते ॥ पर्वतानामुपस्थादुपस्थानात् । उशत्यौ कामयमाने । अश्वे इव विमुक्ते इति वा । विषण्णे इति वा । हासमाने । हासतिः स्पर्धायां । हर्षमाणे वा । गावाविव शोभने मातरौ संरिहाणे । विपाट्छुतुद्री पयसा प्रजवेते । आर्त्नी अर्तन्यौ वा । अरण्यौ वा । अरिषण्यौ वा । तयोरेषा भवति
pra parvatānāmuśatī upasthādaśve iva viṣite hāsamāne | gāvaiva śubhre mātarā rihāṇe vipāṭchutudrī payasā javete || parvatānāmupasthādupasthānāt | uśatyau kāmayamāne | aśve iva vimukte iti vā | viṣaṇṇe iti vā | hāsamāne | hāsatiḥ spardhāyāṁ | harṣamāṇe vā | gāvāviva śobhane mātarau saṁrihāṇe | vipāṭchutudrī payasā prajavete | ārtnī artanyau vā | araṇyau vā | ariṣaṇyau vā | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'पर्वतों की गोद से कामनावान्, दो मुक्त अश्वों के समान, हर्षित; दो सुन्दर माताओं के समान परस्पर चाटती हुई, विपाट् और शुतुद्री जल-सहित दौड़ती हैं।'
श्लोक 9.40
ते आचर॑न्ती समनेव योषा मातेव पुत्रं बिभृतामुपस्थे । अप शत्रून्विध्यतां संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ ते आचरन्त्यौ समनसाविव योषे मातेव पुत्रं बिभृतामुपस्थ उपस्थाने । अपविध्यतां शत्रून्त्संविदाने आर्त्र्याविमे विघ्नत्यावमित्रान् । शुनासीरौ । शुनो वायुः । शु एत्यन्तरिक्षे । सीर आदित्यः सरणात् । तयोरेषा भवति
te ācarantī samaneva yoṣā māteva putraṁ bibhṛtāmupasthe | apa śatrūnvidhyatāṁ saṁvidāne ārtnī ime viṣphurantī amitrān || te ācarantyau samanasāviva yoṣe māteva putraṁ bibhṛtāmupastha upasthāne | apavidhyatāṁ śatrūntsaṁvidāne ārtryāvime vighnatyāvamitrān | śunāsīrau | śuno vāyuḥ | śu etyantarikṣe | sīra ādityaḥ saraṇāt | tayoreṣā bhavati
इस ऋचा में कहा गया है: 'ये दोनों, मित्रतापूर्वक चलती हुई युवतियों के समान, माता के समान पुत्र को गोद में धारण करती हैं; शत्रुओं को दूर भगाती हुई, परस्पर सहमत, ये दो कमानें (आर्त्नी) शत्रुओं को विचलित करती हैं।' यह पाँचवाँ द्वन्द्व-देवता 'शुनासीरौ' (वायु और आदित्य) है।
श्लोक 9.41
शुनासीराविमां वाचं जुषेथां यद्दिवि चक्रथुः पयः । तेनेमामुप॑ सिञ्चतम् ॥ इति सा निगदव्याख्याता । देवी जोष्ट्री देव्यौ जोषयित्र्यौ । द्यावापृथिव्याविति वा । अहोरात्रे इति वा । सस्यं च समा चेति कात्थक्यः । तयोरेष संप्रेषो भवति
śunāsīrāvimāṁ vācaṁ juṣethāṁ yaddivi cakrathuḥ payaḥ | tenemāmupa siñcatam || iti sā nigadavyākhyātā | devī joṣṭrī devyau joṣayitryau | dyāvāpṛthivyāviti vā | ahorātre iti vā | sasyaṁ ca samā ceti kātthakyaḥ | tayoreṣa saṁpreṣo bhavati
इस ऋचा में कहा गया है: 'हे शुनासीरौ, इस वाणी को स्वीकार करो, जो दुग्ध तुमने द्युलोक में रचा, उसी से इसे सींच दो।' यह छठा द्वन्द्व-देवता 'देवी जोष्ट्री' (दो प्रसन्नकारिणी देवियाँ — द्यावापृथिवी या अहोरात्र, अथवा कात्थक्य के अनुसार सस्य और समा) है।
श्लोक 9.42
देवी जोष्ट्री वसुधीती ययोरन्याघा द्वेषाँसि यूयवदान्यावक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज ॥ देवी जोष्ट्री । देव्यौ जोषयित्र्यौ । वसुधान्यौ । ययोरन्याघानि द्वेषांस्यवयावयत्यावहत्यन्या वसूनि वननीयानि यजमानाय । वसुवननाय च । वसुधानाय च । वीतां पिबेतां कामयेतां वा । यजेति संप्रैषः । देवी ऊर्जाहुती । देव्या ऊर्जाह्वान्यौ । द्यावापृथिव्याविति वा । अहोरात्र इति वा । सस्यं च समा चेति कात्थक्यः । तयोरेष संप्रैषो भवति
devī joṣṭrī vasudhītī yayoranyāghā dveṣām̐si yūyavadānyāvakṣadvasu vāryāṇi yajamānāya vasuvane vasudheyasya vītāṁ yaja || devī joṣṭrī | devyau joṣayitryau | vasudhānyau | yayoranyāghāni dveṣāṁsyavayāvayatyāvahatyanyā vasūni vananīyāni yajamānāya | vasuvananāya ca | vasudhānāya ca | vītāṁ pibetāṁ kāmayetāṁ vā | yajeti saṁpraiṣaḥ | devī ūrjāhutī | devyā ūrjāhvānyau | dyāvāpṛthivyāviti vā | ahorātra iti vā | sasyaṁ ca samā ceti kātthakyaḥ | tayoreṣa saṁpraiṣo bhavati
इस ऋचा में देवी जोष्ट्री (वसुओं को धारण करने वाली दो देवियाँ) से यज्ञ-आह्वान है — एक द्वेष को दूर करती है, दूसरी वननीय वसु यजमान के लिए लाती है। 'वीताम्' का अर्थ है 'पान करो' या 'कामना करो'। सातवाँ द्वन्द्व-देवता 'ऊर्जाहुती' (दो ऊर्जा-प्रदायिनी देवियाँ) है।
श्लोक 9.43
देवी ऊर्जाहुती इषमूर्जमन्या वक्षत्सग्धिं सपीतिमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अधातां वसुवने वसुधेयस्य वीतां यज ॥ देवी ऊर्जाहुती । देव्या ऊर्जाह्वान्यौ । अन्नं च रसं चावहति अन्या । सहजग्धिं च सहपीतिं चान्या । नवेन पूर्वं दयमानाः स्याम । पुराणेन नवम् । तामूर्जमूर्जाहुती ऊर्जयमाने अधाताम् । वसुवननाय च । वसुधानाय च । वीतां पिबेतां कामयेतां वा । यजेति संप्रैषो यजेति संप्रैषः
devī ūrjāhutī iṣamūrjamanyā vakṣatsagdhiṁ sapītimanyā navena pūrvaṁ dayamānāḥ syāma purāṇena navaṁ tāmūrjamūrjāhutī ūrjayamāne adhātāṁ vasuvane vasudheyasya vītāṁ yaja || devī ūrjāhutī | devyā ūrjāhvānyau | annaṁ ca rasaṁ cāvahati anyā | sahajagdhiṁ ca sahapītiṁ cānyā | navena pūrvaṁ dayamānāḥ syāma | purāṇena navam | tāmūrjamūrjāhutī ūrjayamāne adhātām | vasuvananāya ca | vasudhānāya ca | vītāṁ pibetāṁ kāmayetāṁ vā | yajeti saṁpraiṣo yajeti saṁpraiṣaḥ
इस अन्तिम ऋचा में देवी ऊर्जाहुती से कहा जाता है: 'एक अन्न और ऊर्जा लाए, दूसरी सहभोजन और सहपान लाए; पुराने से नये को, नये से पुराने को साझा करते हुए, हम रहें — वे दोनों ऊर्जा-दायिनी देवियाँ उस ऊर्जा को स्थापित करें, वसु-वनन और वसु-धारण के लिए — पान करो, कामना करो — यह आह्वान है।' इस प्रकार नौवाँ अध्याय पूर्ण होता है।
श्लोक 10.1
अथातो मध्यस्थाना देवताः । तासां वायुः प्रथमागामी भवति । वायुर्वातेः । वेतेर्वा स्याद्गतिकर्मणः । एतेरिति स्थौलाष्ठीविः । अनर्थको वकारः । तस्यैषा भवति
athāto madhyasthānā devatāḥ | tāsāṁ vāyuḥ prathamāgāmī bhavati | vāyurvāteḥ | vetervā syādgatikarmaṇaḥ | eteriti sthaulāṣṭhīviḥ | anarthako vakāraḥ | tasyaiṣā bhavati
अब मध्यम-स्थान की देवताओं का प्रकरण है। इनमें वायु सबसे पहले आता है — 'वायु' 'वाति' (बहना) से, या गति-धातु से; स्थौलाष्ठीवि के अनुसार 'एति' (जाना) से, जहाँ 'व' अर्थहीन है।
श्लोक 10.2
वायवा याहि दर्शतेमे सोमा अरङ्कृताः । तेषां पाहि श्रुधी हवम् ॥ वायवायाहि दर्शनीयेमे सोमा अरङ्कृता । तेषां पिब शृणु नो ह्वानमिति । कमन्यं मध्यमादेवमवक्ष्यत् । तस्यैषापरा भवति
vāyavā yāhi darśateme somā araṅkṛtāḥ | teṣāṁ pāhi śrudhī havam || vāyavāyāhi darśanīyeme somā araṅkṛtā | teṣāṁ piba śṛṇu no hvānamiti | kamanyaṁ madhyamādevamavakṣyat | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'हे वायु, आओ, ये दर्शनीय सोम तैयार हैं; उन्हें पीओ, हमारी पुकार सुनो।' यहाँ संकेत है कि इसके बाद अन्य मध्यम-देवता (इन्द्र) का वर्णन होगा।
श्लोक 10.3
आसस्राणासः शवसानमच्छेन्द्रं सुचक्रे रथ्यासो अश्वाः । अभि श्रव ऋज्य॑न्तो वेहयुर्नू चिन्नु वायोरमृतं वि दस्येत् ॥ आससृवांसः । अभिबलायमानमिन्द्रम् । कल्याणचक्रे रथे योगाय । रथ्या अश्वा रथस्य वोढारः । ऋज्यन्त ऋजुगामिनोऽन्नमभिवहेयुः । नवं च पुराणं च । श्रव इत्यन्ननाम । श्रूयत इति सतः । वायोश्चास्य भक्षो यथा न विदस्येदिति । इन्द्रप्रधानेत्येके नैघण्टुकं वायुकर्म । उभयप्रधानेत्यपरम् । वरुणो वृणोतीति सतः । तस्यैषा भवति
āsasrāṇāsaḥ śavasānamacchendraṁ sucakre rathyāso aśvāḥ | abhi śrava ṛjyanto vehayurnū cinnu vāyoramṛtaṁ vi dasyet || āsasṛvāṁsaḥ | abhibalāyamānamindram | kalyāṇacakre rathe yogāya | rathyā aśvā rathasya voḍhāraḥ | ṛjyanta ṛjugāmino'nnamabhivaheyuḥ | navaṁ ca purāṇaṁ ca | śrava ityannanāma | śrūyata iti sataḥ | vāyoścāsya bhakṣo yathā na vidasyediti | indrapradhānetyeke naighaṇṭukaṁ vāyukarma | ubhayapradhānetyaparam | varuṇo vṛṇotīti sataḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'रथ में जुते अश्व बलशाली इन्द्र की ओर दौड़ते हैं, सुन्दर पहिये वाले रथ में; सीधे मार्ग से अन्न लाते हुए — कभी वायु का यह भाग्य समाप्त न हो।' कुछ के अनुसार वायु का कर्म इन्द्र-प्रधान है, कुछ के अनुसार दोनों समान रूप से प्रधान हैं।
श्लोक 10.4
नीचीनबारं वरुणः कबन्धं प्र संसर्ज रोदसी अन्तरिक्षम् । तेन विश्वस्य भुवनस्य राजा यवं न वृष्टिर्व्युनत्ति भूम ॥ नीचीनद्वारं वरुणः । कबन्धं मेघम् । कवनमुदकं भवति । तदस्मिन्धीयते । उदकमपि कबन्धमुच्यते । बन्धिरनिभृतत्वे । कमनिभृतं च । प्रसृजति । द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन । तेन सर्वस्य भुवनस्य राजा यवमिव वृष्टिर्व्युनत्ति भूमिम् । तस्यैषापरा भवति
nīcīnabāraṁ varuṇaḥ kabandhaṁ pra saṁsarja rodasī antarikṣam | tena viśvasya bhuvanasya rājā yavaṁ na vṛṣṭirvyunatti bhūma || nīcīnadvāraṁ varuṇaḥ | kabandhaṁ megham | kavanamudakaṁ bhavati | tadasmindhīyate | udakamapi kabandhamucyate | bandhiranibhṛtatve | kamanibhṛtaṁ ca | prasṛjati | dyāvāpṛthivyau cāntarikṣaṁ ca mahattvena | tena sarvasya bhuvanasya rājā yavamiva vṛṣṭirvyunatti bhūmim | tasyaiṣāparā bhavati
इस ऋचा में वरुण की स्तुति है: 'वरुण ने नीचे-द्वार वाले मेघ को छोड़ा, द्यावापृथिवी और अन्तरिक्ष को महत्ता से रचा; उसी से सब लोकों का राजा वर्षा से यव के समान भूमि को सींचता है।' 'कबन्ध' मेघ का नाम है।
श्लोक 10.5
तमू षु समना गिरा पितॄणां च मन्मभिः । नाभाकस्य प्रशस्तिभिर्यः सिन्धूनामुपोदये सप्तस्व॑सा स मध्यमो नभ॑न्तामन्य॒के समे ॥ तं सभिष्टौमि समानया गिरा गीत्या स्तुत्या । पितॄणां च मननीयैः स्तोमैः । नाभाकस्य प्रशस्तिभिः । ऋषिर्नाभाको बभूव । यः स्यन्दमानानामासामुपोदये सप्तस्वसारमेनमाह वाग्भिः स मध्यम इति निरुच्यते । अथैष एव भवति । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे ये नो द्विषन्ति दुर्धियः पापधियः पापसंकल्पाः । रुद्रो रौतीति सतः । रोरूयमाणो द्रवतीति वा । रोदयतेर्वा । यदरुदत्तद्रुद्रस्य रुद्रत्वम् । इति काठकम् । यदरोदीत्तद्रुद्रस्य रुद्रत्वम् । इति हारिद्रविकम् । तस्यैषा भवति
tamū ṣu samanā girā pitṝṇāṁ ca manmabhiḥ | nābhākasya praśastibhiryaḥ sindhūnāmupodaye saptasvasā sa madhyamo nabhantāmanyake same || taṁ sabhiṣṭaumi samānayā girā gītyā stutyā | pitṝṇāṁ ca mananīyaiḥ stomaiḥ | nābhākasya praśastibhiḥ | ṛṣirnābhāko babhūva | yaḥ syandamānānāmāsāmupodaye saptasvasāramenamāha vāgbhiḥ sa madhyama iti nirucyate | athaiṣa eva bhavati | nabhantāmanyake same | mā bhūvannanyake sarve ye no dviṣanti durdhiyaḥ pāpadhiyaḥ pāpasaṁkalpāḥ | rudro rautīti sataḥ | rorūyamāṇo dravatīti vā | rodayatervā | yadarudattadrudrasya rudratvam | iti kāṭhakam | yadarodīttadrudrasya rudratvam | iti hāridravikam | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'उसकी मैं समान वाणी से स्तुति करता हूँ, पितरों की स्तुतियों से, नाभाक ऋषि की प्रशस्तियों से — जो नदियों के उद्गम में सात-बहनों वाला है, वही मध्यम देवता कहा जाता है; अन्य द्वेषी दुर्बुद्धि सब नष्ट हो जाएँ।' यहाँ रुद्र की व्युत्पत्ति भी दी गई है — 'रौति' (रोना/गर्जना) से, दो शाखाओं (काठक और हारिद्रविक) के अनुसार।
श्लोक 10.6
इमा रुद्राय स्थिरधन्वने गिरः क्षिप्रेषवे देवाय स्वधाव्ने । अषाळ्हाय सहमानाय वेधसे तिग्मायुधाय भरता शृणोतु नः ॥ इमा रुद्राय । दृढधन्वने । गिरः क्षिप्रेषवे । देवाय । अन्नवते । अषाळ्हायान्यैः । सहमानाय । विधात्रे । तिग्मायुधाय । भरत । शृणोतु नः । तिग्मं तेजतेः । उत्साहकर्मणः । आयुधमायोधनात् । तस्यैषापरा भवति
imā rudrāya sthiradhanvane giraḥ kṣipreṣave devāya svadhāvne | aṣāḷhāya sahamānāya vedhase tigmāyudhāya bharatā śṛṇotu naḥ || imā rudrāya | dṛḍhadhanvane | giraḥ kṣipreṣave | devāya | annavate | aṣāḷhāyānyaiḥ | sahamānāya | vidhātre | tigmāyudhāya | bharata | śṛṇotu naḥ | tigmaṁ tejateḥ | utsāhakarmaṇaḥ | āyudhamāyodhanāt | tasyaiṣāparā bhavati
इस ऋचा में रुद्र की स्तुति है: 'ये स्तुतियाँ दृढ़-धनुष रुद्र के लिए, शीघ्र-बाण वाले, अन्नवान् देव के लिए; अपराजेय, सहनशील, विधाता, तीक्ष्ण-आयुध वाले — हे स्तोतागण, अर्पित करो, वे हमारी सुनें।' 'तिग्म' उत्साह-धातु से है।
श्लोक 10.7
या ते दिद्युदवसृष्टा दिवस्परि क्ष्मया चरति परि सा वृणक्तु नः । सहस्रं ते स्वपिवात भेषजा मा नस्तोकेषु तनयेषु रीरिषः ॥ या ते दिद्युदवसृष्टा । दिवस्परि दिवोऽधि । दिद्युद् द्युतेर्वा । क्ष्मया चरति । क्ष्मा पृथिवी । तस्यां चरति । तया चरति । विक्ष्मापयन्ती चरतीति वा । परिवृणक्तु नः सा । सहस्रं ते स्वाप्तवचन भैषज्यानि । मा नस्त्वं पुत्रेषु पौत्रेषु च रीरिषः । तोकं तुद्यतेः । तनयं तनोतेः । अग्निरपि रुद्र उच्यते । तस्यैषा भवति
yā te didyudavasṛṣṭā divaspari kṣmayā carati pari sā vṛṇaktu naḥ | sahasraṁ te svapivāta bheṣajā mā nastokeṣu tanayeṣu rīriṣaḥ || yā te didyudavasṛṣṭā | divaspari divo'dhi | didyud dyutervā | kṣmayā carati | kṣmā pṛthivī | tasyāṁ carati | tayā carati | vikṣmāpayantī caratīti vā | parivṛṇaktu naḥ sā | sahasraṁ te svāptavacana bhaiṣajyāni | mā nastvaṁ putreṣu pautreṣu ca rīriṣaḥ | tokaṁ tudyateḥ | tanayaṁ tanoteḥ | agnirapi rudra ucyate | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'तुम्हारा जो तेज-अस्त्र द्युलोक से छोड़ा जाकर पृथिवी पर विचरण करता है, वह हमें बचाए; तुम्हारे सहस्र सुखद औषध हैं, हमारे पुत्र-पौत्रों को कभी पीड़ा मत दो।' अग्नि को भी 'रुद्र' कहा जाता है।
श्लोक 10.8
जराबोध तद्विविड्ढि विशेविशे यज्ञियाय । स्तोमं रुद्राय दृशीकम् ॥ जरा स्तुतिः । जरतेः स्तुतिकर्मणः । तां बोध । तया बोधयितरिति वा । तद्विविड्ढि । तत्कुरु । मनुष्यस्य मनुष्यस्य यजनाय । स्तोमं रुद्राय दर्शनीयम् । इन्द्र इरां दृणातीति वा । इरां ददातीति वा । इरां दधातीति वा । इरां दारयत इति वा । इरां धारयत इति वा । इन्दवे द्रवतीति वा । इन्दौ रमत इति वा । इन्धे भूतानीति वा । तद्यदेनं प्राणैः समैन्धंस्तदिन्द्रस्येन्द्रत्वम् । इति विज्ञायते । इदं करणादित्याग्रयणः । इदं दर्शनादित्यौपमन्यवः । इन्दतेर्वैश्वर्यकर्मणः । इन्दञ्छत्रूणां दारयिता वा । द्रावयिता वा । आदरयिता च यज्वनाम् । तस्यैषा भवति
jarābodha tadviviḍḍhi viśeviśe yajñiyāya | stomaṁ rudrāya dṛśīkam || jarā stutiḥ | jarateḥ stutikarmaṇaḥ | tāṁ bodha | tayā bodhayitariti vā | tadviviḍḍhi | tatkuru | manuṣyasya manuṣyasya yajanāya | stomaṁ rudrāya darśanīyam | indra irāṁ dṛṇātīti vā | irāṁ dadātīti vā | irāṁ dadhātīti vā | irāṁ dārayata iti vā | irāṁ dhārayata iti vā | indave dravatīti vā | indau ramata iti vā | indhe bhūtānīti vā | tadyadenaṁ prāṇaiḥ samaindhaṁstadindrasyendratvam | iti vijñāyate | idaṁ karaṇādityāgrayaṇaḥ | idaṁ darśanādityaupamanyavaḥ | indatervaiśvaryakarmaṇaḥ | indañchatrūṇāṁ dārayitā vā | drāvayitā vā | ādarayitā ca yajvanām | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे जागृत-स्तुति (जरा-बोध), प्रत्येक जनसमूह के यज्ञ के लिए रुद्र को दर्शनीय स्तोम प्रदान करो।' 'इन्द्र' की व्युत्पत्ति यहाँ दी गई है — 'इरा' (अन्न) को फाड़ने/देने/धारण करने से, या इन्दु (सोम) की ओर दौड़ने से, अथवा 'इन्धे' (प्रज्वलित करना) से — जब प्राणों ने उसे प्रज्वलित किया, तभी उसका इन्द्रत्व हुआ।
श्लोक 10.9
अदर्दरुत्समसृजो वि खानि त्वमर्णवान्बद्बधानाँ अरम्णाः । महान्तमिन्द्र पर्वतं वि यद्वः सृजो वि धारा अव दानवं हन् ॥ अदृणा उत्सम् । उत्सरणाद्वा । उत्सदनाद्वा । उत्स्यन्दनाद्वा । उनत्तेर्वा । व्यसृजोऽस्य खानि । त्वमर्णवानर्णस्वतः । एतान्माध्यमिकान्त्संस्त्यायान् । बाबध्यमानानरम्णाः । रम्णातिः संयमनकर्मा । विसर्जनकर्मा वा । महान्तमिन्द्र पर्वतं मेघं यद्यवृणोः । व्यसृजोऽस्य धाराः । अवाहन्नेनं दानकर्माणम् । तस्यैषापरा भवति
adardarutsamasṛjo vi khāni tvamarṇavānbadbadhānām̐ aramṇāḥ | mahāntamindra parvataṁ vi yadvaḥ sṛjo vi dhārā ava dānavaṁ han || adṛṇā utsam | utsaraṇādvā | utsadanādvā | utsyandanādvā | unattervā | vyasṛjo'sya khāni | tvamarṇavānarṇasvataḥ | etānmādhyamikāntsaṁstyāyān | bābadhyamānānaramṇāḥ | ramṇātiḥ saṁyamanakarmā | visarjanakarmā vā | mahāntamindra parvataṁ meghaṁ yadyavṛṇoḥ | vyasṛjo'sya dhārāḥ | avāhannenaṁ dānakarmāṇam | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'तुमने स्रोत को खोला, इसके छिद्र खोल दिए; तुमने बँधे हुए समुद्रों (मध्यम-देवगणों) को शान्त किया; हे इन्द्र, जब तुमने महान् पर्वत (मेघ) को खोला, इसकी धाराएँ छोड़ीं, दानव को नीचे मार गिराया।'
श्लोक 10.10
यो जात एव प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत् । यस्य शुष्माद्रोदसी अभ्यसेतां नृम्णस्य॑ म॒ह्ना स जनास इन्द्रः ॥ यो जात एव प्रथमो मनस्वी देवो देवान् । क्रतुना कर्मणा । पर्यभवत्पर्यगृह्णात्पर्यरक्षदत्यक्रामदिति वा । यस्य बलाद् द्यावापृथिव्यावप्यबिभीतां नृम्णस्य मह्ना बलस्य महत्त्वेन । स जनास इन्द्र इति । ऋषेर्दृष्टार्थस्य प्रीतिर्भवत्याख्यानसंयुक्ता । पर्जन्यस्तृपेः । आद्यन्तविपरीतस्य । तर्पयिता जन्यः । परो जेता वा । परो जनयिता वा । प्रार्जयिता वा रसानाम् । तस्यैषा भवति
yo jāta eva prathamo manasvāndevo devānkratunā paryabhūṣat | yasya śuṣmādrodasī abhyasetāṁ nṛmṇasya mahnā sa janāsa indraḥ || yo jāta eva prathamo manasvī devo devān | kratunā karmaṇā | paryabhavatparyagṛhṇātparyarakṣadatyakrāmaditi vā | yasya balād dyāvāpṛthivyāvapyabibhītāṁ nṛmṇasya mahnā balasya mahattvena | sa janāsa indra iti | ṛṣerdṛṣṭārthasya prītirbhavatyākhyānasaṁyuktā | parjanyastṛpeḥ | ādyantaviparītasya | tarpayitā janyaḥ | paro jetā vā | paro janayitā vā | prārjayitā vā rasānām | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'जो जन्म लेते ही सर्वप्रथम बुद्धिमान् देव, अपने कर्म से देवताओं को घेर लेता (रक्षा करता) है, जिसके बल से द्यावापृथिवी दोनों भयभीत हो गईं, अपने पौरुष-बल की महानता से — वही, हे जनो, इन्द्र है।' पर्जन्य 'तृप्ति' (सन्तोष देने वाला) या 'जनयिता' (उत्पन्न करने वाला) के अर्थ में समझाया गया है।
श्लोक 10.11
वि वृक्षान्हन्त्युत हन्ति रक्षसो विश्वं बिभाय भुवनं महावधात् । उतानागा ईषते॒ वृष्णयावतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः ॥ विहन्ति वृक्षान् । विहन्ति च रक्षांसि । सर्वाणि चास्माद्भूतानि बिभ्यति महावधात् । महान्ह्यस्य वधः । अप्यनपराधो भीतः पलायते वर्षकर्मवतो यत्पर्जन्यः स्तनयन्हन्ति दुष्कृतः पापकृतः । बृहस्पतिर्बृहतः पाता वा । पालयिता वा । तस्यैषा भवति
vi vṛkṣānhantyuta hanti rakṣaso viśvaṁ bibhāya bhuvanaṁ mahāvadhāt | utānāgā īṣate vṛṣṇayāvato yatparjanyaḥ stanayanhanti duṣkṛtaḥ || vihanti vṛkṣān | vihanti ca rakṣāṁsi | sarvāṇi cāsmādbhūtāni bibhyati mahāvadhāt | mahānhyasya vadhaḥ | apyanaparādho bhītaḥ palāyate varṣakarmavato yatparjanyaḥ stanayanhanti duṣkṛtaḥ pāpakṛtaḥ | bṛhaspatirbṛhataḥ pātā vā | pālayitā vā | tasyaiṣā bhavati
इस ऋचा में पर्जन्य की स्तुति है: 'वह वृक्षों को तोड़ता है, राक्षसों को मारता है, समस्त लोक उसके महान् वध से भयभीत रहता है; निरपराध भी भयभीत होकर भाग जाता है, जब गरजता हुआ पर्जन्य पापकर्मियों को मारता है।' बृहस्पति 'महान् का रक्षक' के अर्थ में है।
श्लोक 10.12
अश्नापिनद्धं मधु पर्यपश्यन्मत्स्यं न दीन उदनि क्षियन्तम् । निष्टज्जभार चमसं न वृक्षाद्ब्रहस्पतिर्विरवेणा विकृत्य ॥ अशनवता मेघेनापिनद्धं मधु पर्यपश्यत् । मत्स्यमिव दीन उदके निवसन्तम् । निर्जहार तच्चमसमिव वृक्षात् । चमसः कस्मात् । चमन्त्यस्मिन्निति । बृहस्पतिर्विरवेण शब्देन विकृत्य । ब्रह्मणस्पतिर्ब्रह्मणः पाता वा । पालयिता वा । तस्यैषा भवति
aśnāpinaddhaṁ madhu paryapaśyanmatsyaṁ na dīna udani kṣiyantam | niṣṭajjabhāra camasaṁ na vṛkṣādbrahaspatirviraveṇā vikṛtya || aśanavatā meghenāpinaddhaṁ madhu paryapaśyat | matsyamiva dīna udake nivasantam | nirjahāra taccamasamiva vṛkṣāt | camasaḥ kasmāt | camantyasminniti | bṛhaspatirviraveṇa śabdena vikṛtya | brahmaṇaspatirbrahmaṇaḥ pātā vā | pālayitā vā | tasyaiṣā bhavati
इस ऋचा में बृहस्पति की स्तुति है: 'उसने बादल से आवृत मधु देखा, जो मछली के समान जल में दीन बसा हुआ था; उसने उसे वृक्ष से चमसे के समान निकाल लिया, गर्जनध्वनि से विदीर्ण करके।' 'चमस' 'जिसमें चूसा जाता है' के अर्थ से।
श्लोक 10.13
अश्मा॑स्यमव॒तं ब्रह्मणस्पतिर्मधुधारम॒भि यमोजसातृणत् । तमेव विश्वे पपिरे स्वर्दृशो बहु साकं सिसिचुरुत्समुद्रिणम् ॥ अशनवन्तमास्यन्दनवन्तम् । अवातितं ब्रह्मणस्पतिर्मधुधारम् । अभि यमोजसा बलेनाभ्यतृणत्तमेव सर्वे पिबन्ति रश्मयः सूर्यदृशः । बह्वेनं सह सिञ्चन्त्युत्समुद्रिणमुदकवन्तम्
aśmāsyamavataṁ brahmaṇaspatirmadhudhāramabhi yamojasātṛṇat | tameva viśve papire svardṛśo bahu sākaṁ sisicurutsamudriṇam || aśanavantamāsyandanavantam | avātitaṁ brahmaṇaspatirmadhudhāram | abhi yamojasā balenābhyatṛṇattameva sarve pibanti raśmayaḥ sūryadṛśaḥ | bahvenaṁ saha siñcantyutsamudriṇamudakavantam
इस ऋचा में कहा गया है: 'पत्थर-मुख वाले, मधु-धारा से भरे कूप को बृहस्पति ने बल से खोला; उसी से सभी सूर्य-दर्शी किरणें पीती हैं, और वे उसमें बहुत मिलकर समुद्रवान् बना देते हैं।'
श्लोक 10.14
क्षेत्रस्य पतिः । क्षेत्रं क्षियतेर्निवासकर्मणः । तस्य पाता वा पालयिता वा । तस्यैषा भवति
kṣetrasya patiḥ | kṣetraṁ kṣiyaternivāsakarmaṇaḥ | tasya pātā vā pālayitā vā | tasyaiṣā bhavati
'क्षेत्रस्य पति' — 'क्षेत्र' निवास-कर्म से, और उसका पालक/रक्षक ही क्षेत्रपति है।
श्लोक 10.15
क्षेत्रस्य पतिना वयं हितेनैव जयामसि । गामश्वं पोषयित्न्वा स नौ मृळातीदृशे ॥ क्षेत्रस्य पतिना वयं सुहितेनेव जयामः । गामश्वं पुष्टं पोषयितृ चाहरेति । स नो मृळातीदृशे । बलेन वा धनेन वा । मृळतिर्दानकर्मा । तस्यैषापरा भवति
kṣetrasya patinā vayaṁ hitenaiva jayāmasi | gāmaśvaṁ poṣayitnvā sa nau mṛḷātīdṛśe || kṣetrasya patinā vayaṁ suhiteneva jayāmaḥ | gāmaśvaṁ puṣṭaṁ poṣayitṛ cāhareti | sa no mṛḷātīdṛśe | balena vā dhanena vā | mṛḷatirdānakarmā | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'क्षेत्रपति के साथ ही हम सुहित होकर विजय पाते हैं; गौ और अश्व को पोषित करते हुए, वह हमें सुख दे।'
श्लोक 10.16
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतमिव सुपूतमृतस्य॑ नः पतयो मृळयन्तु । क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुरिव पयोऽस्मासु धुक्ष्वेति । मधुश्चुतं घृतमिवोदकं सुपूतम् । ऋतस्य नः पातारो वा पालयितारो वा मृळयन्तु । मृळयतिरुपदयाकर्मा । पूजाकर्मा वा । तद्यत्समान्यामृचि समानाभिव्याहारं भवति तज्जामि भवतीत्येकम् । मधुमन्तं मधुश्चुतमिति यथा । यदेव समाने पादे समानाभिव्याहारं भवति तज्जामि भवतीत्यपरम् । हिरण्यरूपः स हिरण्यसंदृग् । इति यथा । यथा कथा च विशेषोऽजामि भवतीत्यपरम् । मण्डूको इवोदकान्मण्डूको उदकादिव । इति यथा । वास्तोष्पतिः । वास्तुर्वसतेर्निवासकर्मणः । तस्य पाता वा पालयिता वा । तस्यैषा भवति
kṣetrasya pate madhumantamūrmiṁ dhenuriva payo asmāsu dhukṣva | madhuścutaṁ ghṛtamiva supūtamṛtasya naḥ patayo mṛḷayantu | kṣetrasya pate madhumantamūrmiṁ dhenuriva payo'smāsu dhukṣveti | madhuścutaṁ ghṛtamivodakaṁ supūtam | ṛtasya naḥ pātāro vā pālayitāro vā mṛḷayantu | mṛḷayatirupadayākarmā | pūjākarmā vā | tadyatsamānyāmṛci samānābhivyāhāraṁ bhavati tajjāmi bhavatītyekam | madhumantaṁ madhuścutamiti yathā | yadeva samāne pāde samānābhivyāhāraṁ bhavati tajjāmi bhavatītyaparam | hiraṇyarūpaḥ sa hiraṇyasaṁdṛg | iti yathā | yathā kathā ca viśeṣo'jāmi bhavatītyaparam | maṇḍūko ivodakānmaṇḍūko udakādiva | iti yathā | vāstoṣpatiḥ | vāsturvasaternivāsakarmaṇaḥ | tasya pātā vā pālayitā vā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे क्षेत्रपति, धेनु के समान मधुमय ऊर्मि (जलधारा) हमें दूध की तरह दो; घृत के समान सुपूत ऋत के पति हम पर कृपा करें।' यहाँ 'जामि' (पुनरावृत्ति) और 'अजामि' (विविधता) के व्याकरणिक भेद भी उदाहरणों सहित दिखाए गए हैं।
श्लोक 10.17
अमीवहा वास्तोष्पते॒ विश्वा रूपाण्याविशन् । सखा सुशेव एधि नः ॥ अभ्यमनहा वास्तोष्पते सर्वाणि रूपाण्याविशन्त्सखा नः सुसुखो भव । शेव इति सुखनाम । शिष्यतेः । वकारो नामकरणः । अन्तस्थान्तरोपलिङ्गी । विभाषितगुणः । शिवमित्यप्यस्य भवति । यद्यद्रूपं कामयते तत्तद्देवता भवति । रूपं रूपं मघवा बोभवीति । इत्यपि निगमो भवति । वाचस्पतिर्वाचः पाता वा पालयिता वा । तस्यैषा भवति
amīvahā vāstoṣpate viśvā rūpāṇyāviśan | sakhā suśeva edhi naḥ || abhyamanahā vāstoṣpate sarvāṇi rūpāṇyāviśantsakhā naḥ susukho bhava | śeva iti sukhanāma | śiṣyateḥ | vakāro nāmakaraṇaḥ | antasthāntaropaliṅgī | vibhāṣitaguṇaḥ | śivamityapyasya bhavati | yadyadrūpaṁ kāmayate tattaddevatā bhavati | rūpaṁ rūpaṁ maghavā bobhavīti | ityapi nigamo bhavati | vācaspatirvācaḥ pātā vā pālayitā vā | tasyaiṣā bhavati
इस ऋचा में गृह-देवता 'वास्तोष्पति' की स्तुति है: 'हे वास्तोष्पति, रोग-नाशक, सभी रूपों में प्रविष्ट, हमारे सुखद सखा बनो।' 'शेव' सुख का नाम है, 'शिव' भी इसी से बनता है।
श्लोक 10.18
पुनरेहि वाचस्पते देवेन मनसा सह । वसोष्पते नि रामय मय्येव तन्वं १ मम ॥ इति सा निगदव्याख्याता । अपां नपात्तनूनप्त्रा व्याख्यातः । तस्यैषा भवति
punarehi vācaspate devena manasā saha | vasoṣpate ni rāmaya mayyeva tanvaṁ 1 mama || iti sā nigadavyākhyātā | apāṁ napāttanūnaptrā vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे वाचस्पति, दिव्य मन के साथ पुनः आओ; हे वसोष्पते (धन के स्वामी), मेरे शरीर में स्थिर होकर विश्राम करो।' अगला देवता 'अपां नपात्' (जल-पुत्र) है, जिसकी व्याख्या 'तनूनपात्' के साथ हो चुकी है।
श्लोक 10.19
यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळते अध्वरेषु । अपां नपान्मधुमतीपो दा याभिरिन्द्रो वावृधे वीर्याय ॥ योऽनिध्मो दीप्यतेऽभ्यन्तरमप्सु यं मेधाविनः स्तुवन्ति यज्ञेषु सोऽपांनपान्मधुमतीरपो देह्यभिषवाय । याभिरिन्द्रो वर्धते । वीर्याय वीरकर्मणे । यमो यच्छतीति सतः । तस्यैषा भवति
yo anidhmo dīdayadapsvantaryaṁ viprāsa īḷate adhvareṣu | apāṁ napānmadhumatīpo dā yābhirindro vāvṛdhe vīryāya || yo'nidhmo dīpyate'bhyantaramapsu yaṁ medhāvinaḥ stuvanti yajñeṣu so'pāṁnapānmadhumatīrapo dehyabhiṣavāya | yābhirindro vardhate | vīryāya vīrakarmaṇe | yamo yacchatīti sataḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'जो बिना समिधा के जल के भीतर चमकता है, जिसकी बुद्धिमान् यज्ञों में स्तुति करते हैं, वह अपां नपात् मधुमय जल दे अभिषवण के लिए, जिससे इन्द्र वीर्य के लिए बढ़ता है।'
श्लोक 10.20
परेयिवाँसं प्रवतो महीरनु बहुभ्यः पन्थामनुपस्पशानम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा दुवस्य ॥ परेयिवांसं पर्यागतवन्तम् । प्रवत उद्वतो निवत इति । अवतिर्गतिकर्मा । बहुभ्यः पन्थानमनुपस्पाशयमानम् । वैवस्वतम् । संगमनं जनानाम् । यमं राजानं हविषा दुवस्येति । दुवस्यतिराप्नोतिकर्मा ।। अग्निरपि यम उच्यते । तमेता ऋचोऽनुप्रवदन्ति
pareyivām̐saṁ pravato mahīranu bahubhyaḥ panthāmanupaspaśānam | vaivasvataṁ saṁgamanaṁ janānāṁ yamaṁ rājānaṁ haviṣā duvasya || pareyivāṁsaṁ paryāgatavantam | pravata udvato nivata iti | avatirgatikarmā | bahubhyaḥ panthānamanupaspāśayamānam | vaivasvatam | saṁgamanaṁ janānām | yamaṁ rājānaṁ haviṣā duvasyeti | duvasyatirāpnotikarmā || agnirapi yama ucyate | tametā ṛco'nupravadanti
इस ऋचा में यम की स्तुति है: 'ऊँचे-नीचे मार्गों से बहुतों के लिए मार्ग खोजते हुए, विवस्वान्-पुत्र, प्रजाओं को एकत्र करने वाला यम राजा — हविष्य से उसका सत्कार करो।' अग्नि को भी 'यम' कहा जाता है।
श्लोक 10.21
सेनेव सृष्टामं दधात्यस्तुर्न दिद्युत्त्वेषप्रतीका ॥ यमो ह जातो यमो जनित्वं जारः कनीनां पतिर्जनीनाम् ॥ तं वश्चराथा वयं वसत्यास्तं न गावो नक्षन्त इद्धम् ॥ इति द्विपदाः । सेनेव सृष्टा भयं वा बलं वा दधाति । अस्तुरिव दिद्युत्त्वेषप्रतीका । भयप्रतीका । बलप्रतीका यशःप्रतीका महाप्रतीका दीप्तप्रतीका वा । यमो ह जात इन्द्रेण सह संगतः । यमाविहेह मातरा ॥ इत्यपि निगमो भवति । यम इव जातः । यमो जनिष्यमाणः । जारः कनीनाम् । जरयिता कन्यानाम् । पतिर्जनीनाम् । पालयिता जायानाम् । तत्प्रधाना हि यज्ञसंयोगेन भवन्ति । तृतीयौ अग्निष्टे पतिः । इत्यपि निगमो भवति । तं वः । चराथा चरन्त्या । पश्वाहुत्या । वसत्या च । निवसन्त्या । औषधाहुत्या । अस्तं यथा गाव प्राप्नुवन्ति तथाप्नुयाम । इद्धं समृद्धं भोगैः । मित्रः प्रमीतेः । त्रायते । संमिन्वानो द्रवतीति वा । मेदयतेर्वा । तस्यैषा भवति
seneva sṛṣṭāmaṁ dadhātyasturna didyuttveṣapratīkā || yamo ha jāto yamo janitvaṁ jāraḥ kanīnāṁ patirjanīnām || taṁ vaścarāthā vayaṁ vasatyāstaṁ na gāvo nakṣanta iddham || iti dvipadāḥ | seneva sṛṣṭā bhayaṁ vā balaṁ vā dadhāti | asturiva didyuttveṣapratīkā | bhayapratīkā | balapratīkā yaśaḥpratīkā mahāpratīkā dīptapratīkā vā | yamo ha jāta indreṇa saha saṁgataḥ | yamāviheha mātarā || ityapi nigamo bhavati | yama iva jātaḥ | yamo janiṣyamāṇaḥ | jāraḥ kanīnām | jarayitā kanyānām | patirjanīnām | pālayitā jāyānām | tatpradhānā hi yajñasaṁyogena bhavanti | tṛtīyau agniṣṭe patiḥ | ityapi nigamo bhavati | taṁ vaḥ | carāthā carantyā | paśvāhutyā | vasatyā ca | nivasantyā | auṣadhāhutyā | astaṁ yathā gāva prāpnuvanti tathāpnuyāma | iddhaṁ samṛddhaṁ bhogaiḥ | mitraḥ pramīteḥ | trāyate | saṁminvāno dravatīti vā | medayatervā | tasyaiṣā bhavati
इस द्विपदा ऋचा में कहा गया है: 'सेना के समान भय या बल धारण करता है, बाण-सदृश तेजस्वी-रूप; यम जन्म लेते ही इन्द्र से मिल गया, वह कन्याओं का प्रेमी, विवाहिताओं का पति है; तुम्हारे लिए हम गमन और निवास से, जैसे गौएँ सन्ध्या-स्थान पहुँचती हैं, समृद्ध स्थान पहुँचें।' मित्र 'रक्षा करने वाला' के अर्थ में है।
श्लोक 10.22
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय॑ ह॒व्यं घृतवज्जुहोत ॥ मित्रो जनानायातयति प्रब्रुवाणः शब्दं कुर्वन् । मित्र एव धारयति पृथिवीं च दिवं च । मित्रं कृष्टीरनिमिषन्नभिविपश्यतीति । कृष्टय इति मनुष्यनाम । कर्मवन्तो भवन्ति । विकृष्टदेहा वा । मित्राय हव्यं घृतवज्जुहोतेति व्याख्यातम् । जुहोतिर्दानकर्मा । कः कमनो वा । क्रमणो वा । सुखो वा । तस्यैषा भवति
mitro janānyātayati bruvāṇo mitro dādhāra pṛthivīmuta dyām | mitraḥ kṛṣṭīranimiṣābhi caṣṭe mitrāya havyaṁ ghṛtavajjuhota || mitro janānāyātayati prabruvāṇaḥ śabdaṁ kurvan | mitra eva dhārayati pṛthivīṁ ca divaṁ ca | mitraṁ kṛṣṭīranimiṣannabhivipaśyatīti | kṛṣṭaya iti manuṣyanāma | karmavanto bhavanti | vikṛṣṭadehā vā | mitrāya havyaṁ ghṛtavajjuhoteti vyākhyātam | juhotirdānakarmā | kaḥ kamano vā | kramaṇo vā | sukho vā | tasyaiṣā bhavati
इस ऋचा में मित्र की स्तुति है: 'मित्र लोगों को नियन्त्रित करता है, वाणी से घोषित करता हुआ; मित्र ही पृथिवी और द्युलोक को धारण करता है; मित्र अनिमेष होकर मनुष्यों को देखता है — मित्र के लिए घृत-युक्त हविष्य अर्पित करो।'
श्लोक 10.23
हिरण्यगर्भः समवर्तताग्रे भूतस्य॑ जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै दे॒वाय॑ ह॒विषा विधेम ॥ हिरण्यगर्भो हिरण्यमयो गर्भः । हिरण्यमयो गर्भोऽस्येति वा । गर्भो गृभेः । गृणात्यर्थे । गिरत्यनर्थानिति वा । यदा हि स्त्री गुणान्गृह्णाति गुणाश्चास्या गृह्यन्तेऽथ गर्भो भवति । समभवदग्रे भूतस्य जातः पतिरेको बभूव । स धारयति पृथिवीं च दिवं च । कस्मै देवाय हविषा विधेमेति व्याख्यातम् । विधतिर्दानकर्मा । सरस्वान्व्याख्यातः । तस्यैषा भवति
hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt | sa dādhāra pṛthivīṁ dyāmutemāṁ kasmai devāya haviṣā vidhema || hiraṇyagarbho hiraṇyamayo garbhaḥ | hiraṇyamayo garbho'syeti vā | garbho gṛbheḥ | gṛṇātyarthe | giratyanarthāniti vā | yadā hi strī guṇāngṛhṇāti guṇāścāsyā gṛhyante'tha garbho bhavati | samabhavadagre bhūtasya jātaḥ patireko babhūva | sa dhārayati pṛthivīṁ ca divaṁ ca | kasmai devāya haviṣā vidhemeti vyākhyātam | vidhatirdānakarmā | sarasvānvyākhyātaḥ | tasyaiṣā bhavati
यह प्रसिद्ध हिरण्यगर्भ-सूक्त की ऋचा है: 'हिरण्यगर्भ आदि में उत्पन्न हुआ, समस्त सृष्टि का एकमात्र स्वामी बना; उसने ही पृथिवी और इस द्युलोक को धारण किया — हम किस देव के लिए हविष्य से पूजा करें?' 'गर्भ' 'ग्रहण करना' धातु से है — जब स्त्री गुण ग्रहण करती है तभी गर्भ बनता है।
श्लोक 10.24
ये ते सरस्व ऊर्मयो मधुमन्तो घृतश्चुतः । तेभिर्नोऽविता भव ॥ इति सा निगदव्याख्याता
ye te sarasva ūrmayo madhumanto ghṛtaścutaḥ | tebhirno'vitā bhava || iti sā nigadavyākhyātā
इस ऋचा में सरस्वान् (जल-देवता) से कहा जाता है: 'हे सरस्वान्, तुम्हारी जो मधुमय, घृत-वर्षी तरंगें हैं, उन्हीं से हमारे रक्षक बनो।'
श्लोक 10.25
विश्वकर्मा सर्वस्य कर्ता । तस्यैषा भवति
viśvakarmā sarvasya kartā | tasyaiṣā bhavati
'विश्वकर्मा' — सबका रचयिता।
श्लोक 10.26
विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् । तेषामिष्टानि समिषा मदन्ति यत्रा सप्तऋषीन्पर एकमाहुः ॥ विश्वकर्मा विभूतमना व्याप्ता धाता च । विधाता च । परमश्च संद्रष्टा भूतानाम् । तेषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा । अद्भिः सह संमोदन्ते यत्रैतानि सप्तऋषीणानि ज्योतींषि । तेभ्यः पर आदित्यः । तान्येतस्मिन्नेकं भवन्तीत्यधिदैवतम् । अथाध्यात्मम् । विश्वकर्मा विभूतमना व्याप्ता धाता च । विधाता च । परमश्च संदर्शयितेन्द्रियाणाम् । एषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा । अन्नेन सह संमोदन्ते यत्रेमानि सप्तऋषीणानीन्द्रियाणि । एभ्यः पर आत्मा । तान्यस्मिन्नेकं भवन्तीत्यात्मगतिमाचष्टे । तत्रेतिहासमाचक्षते । विश्वकर्मा भौवनः सर्वमेधे सर्वाणि भूतानि जुहवाञ्चकार । स आत्मानमप्यन्ततो जुहवाञ्चकार । तदभिवादिन्येषर्ग्भवति । य इमा विश्वा भुवनानि जुह्वत् । इति । तस्योत्तरा भूयसे निर्वचनाय
viśvakarmā vimanā ādvihāyā dhātā vidhātā paramota saṁdṛk | teṣāmiṣṭāni samiṣā madanti yatrā saptaṛṣīnpara ekamāhuḥ || viśvakarmā vibhūtamanā vyāptā dhātā ca | vidhātā ca | paramaśca saṁdraṣṭā bhūtānām | teṣāmiṣṭāni vā kāntāni vā krāntāni vā gatāni vā matāni vā natāni vā | adbhiḥ saha saṁmodante yatraitāni saptaṛṣīṇāni jyotīṁṣi | tebhyaḥ para ādityaḥ | tānyetasminnekaṁ bhavantītyadhidaivatam | athādhyātmam | viśvakarmā vibhūtamanā vyāptā dhātā ca | vidhātā ca | paramaśca saṁdarśayitendriyāṇām | eṣāmiṣṭāni vā kāntāni vā krāntāni vā gatāni vā matāni vā natāni vā | annena saha saṁmodante yatremāni saptaṛṣīṇānīndriyāṇi | ebhyaḥ para ātmā | tānyasminnekaṁ bhavantītyātmagatimācaṣṭe | tatretihāsamācakṣate | viśvakarmā bhauvanaḥ sarvamedhe sarvāṇi bhūtāni juhavāñcakāra | sa ātmānamapyantato juhavāñcakāra | tadabhivādinyeṣargbhavati | ya imā viśvā bhuvanāni juhvat | iti | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'विश्वकर्मा विशाल-मन वाला, व्यापक, धाता, विधाता और सर्वोच्च द्रष्टा है; उनकी इष्ट वस्तुएँ अन्न-सहित आनन्दित होती हैं जहाँ सप्तर्षियों को एक कहा जाता है।' यास्क इसे अधिदैवत रूप में सात ज्योतियों (सूर्य से परे) के, और अध्यात्म रूप में सात इन्द्रियों (आत्मा से परे) के एकत्व के रूप में समझाते हैं। भौवन विश्वकर्मा के सर्वमेध-यज्ञ में स्वयं को भी होम कर देने का आख्यान भी दिया गया है।
श्लोक 10.27
विश्वकर्मन्हविषा वावृधानः स्वयं य॑जस्व पृथिवीमुत द्याम् । मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ विश्वकर्मन्हविषा वर्धयमानः स्वयं यजस्व पृथिवीं च दिवं च । मुह्यन्त्वन्ये अभितो जनाः सपत्नाः । इहास्माकं मघवा सूरिरस्तु प्रज्ञाता । तार्क्ष्यस्त्वष्ट्रा व्याख्यातः । तीर्णेऽन्तरिक्षे क्षियति । तूर्णमर्थं रक्षति । अश्नोतेर्वा । तस्यैषा भवति
viśvakarmanhaviṣā vāvṛdhānaḥ svayaṁ yajasva pṛthivīmuta dyām | muhyantvanye abhito janāsa ihāsmākaṁ maghavā sūrirastu || viśvakarmanhaviṣā vardhayamānaḥ svayaṁ yajasva pṛthivīṁ ca divaṁ ca | muhyantvanye abhito janāḥ sapatnāḥ | ihāsmākaṁ maghavā sūrirastu prajñātā | tārkṣyastvaṣṭrā vyākhyātaḥ | tīrṇe'ntarikṣe kṣiyati | tūrṇamarthaṁ rakṣati | aśnotervā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे विश्वकर्मन्, हविष्य से बढ़ते हुए, स्वयं पृथिवी और द्युलोक को यजो; हमारे चारों ओर के अन्य लोग भ्रमित हों, यहाँ हमारा मघवान् ही प्रज्ञाता बने।' तार्क्ष्य त्वष्टा के रूप में व्याख्यायित है — 'तीर्ण अन्तरिक्ष में वास करने वाला'।
श्लोक 10.28
त्यमू षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् । अरिष्टनेमिं पृतनाजमाशुं स्वस्तये तार्क्ष्यमिहा हुवेम ॥ तं भृशमन्नवन्तम् । जूतिर्गतिः । प्रीतिर्वा । देवजूतं देवगतं देवप्रीतं वा । सहस्वन्तं तारयितारं रथानामरिष्टनेमिं पृतनाजितम् । आशुं स्वस्तये तार्क्ष्यमिह ह्वयेमेति । कमन्यं मध्यमादेवमवक्ष्यत् । तस्यैषापरा भवति
tyamū ṣu vājinaṁ devajūtaṁ sahāvānaṁ tarutāraṁ rathānām | ariṣṭanemiṁ pṛtanājamāśuṁ svastaye tārkṣyamihā huvema || taṁ bhṛśamannavantam | jūtirgatiḥ | prītirvā | devajūtaṁ devagataṁ devaprītaṁ vā | sahasvantaṁ tārayitāraṁ rathānāmariṣṭanemiṁ pṛtanājitam | āśuṁ svastaye tārkṣyamiha hvayemeti | kamanyaṁ madhyamādevamavakṣyat | tasyaiṣāparā bhavati
इस ऋचा में तार्क्ष्य की स्तुति है: 'उस अन्नवान्, देव-प्रिय, बलशाली, रथों के उत्तारक, अखण्डित-चक्र, युद्ध-विजयी, वेगवान् तार्क्ष्य को हम कल्याण के लिए यहाँ पुकारें।'
श्लोक 10.29
सद्यश्चिद्यः शवसा पञ्च कृष्टीः सूर्य इव ज्योतिषापस्ततान । सहस्रसाः शतसा अस्य॒ रंहिर्न स्मा वरन्ते युवतिं न शर्याम् ॥ सद्योऽपि यः शवसा बलेन तनोत्यपः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि । सहस्रसानिनी शतसानिन्यस्य सा गतिः । न स्मैनां वारयन्ति प्रयुवतीमिव शरमयीमिषुम् । मन्युर्मन्यतेः । दीप्तिकर्मणः । क्रोधकर्मणः वा । मन्यन्त्यस्मादिषवः । तस्यैषा भवति
sadyaścidyaḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna | sahasrasāḥ śatasā asya raṁhirna smā varante yuvatiṁ na śaryām || sadyo'pi yaḥ śavasā balena tanotyapaḥ sūrya iva jyotiṣā pañca manuṣyajātāni | sahasrasāninī śatasāninyasya sā gatiḥ | na smaināṁ vārayanti prayuvatīmiva śaramayīmiṣum | manyurmanyateḥ | dīptikarmaṇaḥ | krodhakarmaṇaḥ vā | manyantyasmādiṣavaḥ | tasyaiṣā bhavati
इस ऋचा में मन्यु (क्रोध-देवता) की स्तुति है: 'जो तुरन्त ही बल से पाँच मनुष्य-जातियों को सूर्य के समान ज्योति से व्याप्त करता है, सहस्रों-शतों अर्जित करने वाली उसकी गति है — उसे कोई नहीं रोक सकता, जैसे युवती को बाण।'
श्लोक 10.30
त्वया मन्यो सरथमारुजन्तो हर्षमाणासोऽधृषिता मरुत्वः । तिग्मेषव आयुधा संशिशाना अभि प्र यन्तु नरो अग्निरूपाः ॥ त्वया मन्यो सरथमारुह्य रुजन्तो हर्षमाणासोऽधृषिता मरुत्वस्तिग्मेषव आयुधानि संशिश्यमाना अभिप्रयन्तु नरः । अग्निरूपा अग्निकर्माणः । सन्नद्धाः कवचिन इति वा । दधिक्रा व्याख्यातः । तस्यैषा भवति
tvayā manyo sarathamārujanto harṣamāṇāso'dhṛṣitā marutvaḥ | tigmeṣava āyudhā saṁśiśānā abhi pra yantu naro agnirūpāḥ || tvayā manyo sarathamāruhya rujanto harṣamāṇāso'dhṛṣitā marutvastigmeṣava āyudhāni saṁśiśyamānā abhiprayantu naraḥ | agnirūpā agnikarmāṇaḥ | sannaddhāḥ kavacina iti vā | dadhikrā vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में मन्यु से आह्वान है: 'तुम्हारे साथ रथ में चढ़कर, तोड़ते हुए, हर्षित, अजेय, हे मरुद्युक्त मन्यु, तीक्ष्ण-बाण और आयुध धारण किए अग्नि-सम नर आगे बढ़ें।'
श्लोक 10.31
आ दधिक्राः शव॑सा पञ्च कृष्टीः सूर्य इव॒ ज्योतिषापस्ततान । सहस्रसाः शतसा वाज्यर्वा पृणक्तु मध्वा समिमा वचाँसि ॥ आतनोति दधिक्राः शवसा बलेनापः सूर्य इव ज्योतिषा पञ्च मनुष्यजातानि । सहस्रसाः शतसा । वाजी वेजनवान् । अर्वा ईरणवान् । संपृणक्तु नो मधुनोदकेन वचनानीमानीति । मधु धमतेर्विपरीतस्य । सविता सर्वस्य प्रसविता । तस्यैषा भवति
ā dadhikrāḥ śavasā pañca kṛṣṭīḥ sūrya iva jyotiṣāpastatāna | sahasrasāḥ śatasā vājyarvā pṛṇaktu madhvā samimā vacām̐si || ātanoti dadhikrāḥ śavasā balenāpaḥ sūrya iva jyotiṣā pañca manuṣyajātāni | sahasrasāḥ śatasā | vājī vejanavān | arvā īraṇavān | saṁpṛṇaktu no madhunodakena vacanānīmānīti | madhu dhamaterviparītasya | savitā sarvasya prasavitā | tasyaiṣā bhavati
इस ऋचा में दधिक्रा की स्तुति है: 'दधिक्रा बल से पाँच मनुष्य-जातियों को सूर्य के समान ज्योति से व्याप्त करता है; सहस्रों-शतों जीतने वाला, वेगवान्, अश्व-सम, हमारी इन वाणियों को मधु से परिपूर्ण करे।'
श्लोक 10.32
सविता यन्त्रैः पृथिवीमरम्णादस्कम्भने सविता द्यामदृंहत् । अश्वमिवाधुक्षद्धुनिमन्तरिक्षमतूर्ते बद्धं सविता समुद्रम् ॥ सविता यन्त्रैः पृथिवीमरमयदनारम्भणेऽन्तरिक्षे । सविता द्यामदृंहत् । अश्वमिवाधुक्षद्धुनिमन्तरिक्षे मेघम् । बद्धमतूर्ते । बद्धमतूर्ण इति वा । अत्वरमाण इति वा । सविता समुदितारमिति । कमन्यं मध्यमादेवमवक्ष्यत् । आदित्योऽपि सवितोच्यते । तथा च हैरण्यस्तूपे स्तुतः । अर्चन्हिरण्यस्तूप ऋषिरिदं सूक्तं प्रोवाच । तदभिवादिन्येषर्ग्भवति
savitā yantraiḥ pṛthivīmaramṇādaskambhane savitā dyāmadṛṁhat | aśvamivādhukṣaddhunimantarikṣamatūrte baddhaṁ savitā samudram || savitā yantraiḥ pṛthivīmaramayadanārambhaṇe'ntarikṣe | savitā dyāmadṛṁhat | aśvamivādhukṣaddhunimantarikṣe megham | baddhamatūrte | baddhamatūrṇa iti vā | atvaramāṇa iti vā | savitā samuditāramiti | kamanyaṁ madhyamādevamavakṣyat | ādityo'pi savitocyate | tathā ca hairaṇyastūpe stutaḥ | arcanhiraṇyastūpa ṛṣiridaṁ sūktaṁ provāca | tadabhivādinyeṣargbhavati
इस ऋचा में सविता की स्तुति है: 'सविता ने यन्त्रों से पृथिवी को थामा, अनाश्रित अन्तरिक्ष में द्युलोक को दृढ़ किया; उसने मेघ को अन्तरिक्ष में अश्व के समान गर्जनशील दुहा, और अशीघ्र-बद्ध समुद्र को बाँधा।' आदित्य को भी 'सविता' कहते हैं, जैसा हिरण्यस्तूप ऋषि की स्तुति में मिलता है।
श्लोक 10.33
हिरण्यस्तूपः सवितर्यथा त्वाङ्गिरसो जुह्वे वाजे अस्मिन् । एवा त्वार्चन्नवसे वन्दमानः सोम॑स्येवांशुं प्रति जागराहम् ॥ हिरण्यस्तूपो हिरण्यमयः स्तूपः । हिरण्यमयः स्तूपोऽस्येति वा । स्तूपः स्त्यायतेः संघातः । सवितर्यथा त्वाङ्गिरसो जुह्वे वाजेऽन्नेऽस्मिन्नेवं त्वार्चन् । अवनाय वन्दमानः सोमस्येवांशुं प्रतिजागर्म्यहम् । त्वष्टा व्याख्यातः । तस्यैषा भवति
hiraṇyastūpaḥ savitaryathā tvāṅgiraso juhve vāje asmin | evā tvārcannavase vandamānaḥ somasyevāṁśuṁ prati jāgarāham || hiraṇyastūpo hiraṇyamayaḥ stūpaḥ | hiraṇyamayaḥ stūpo'syeti vā | stūpaḥ styāyateḥ saṁghātaḥ | savitaryathā tvāṅgiraso juhve vāje'nne'sminnevaṁ tvārcan | avanāya vandamānaḥ somasyevāṁśuṁ pratijāgarmyaham | tvaṣṭā vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे सविता, जैसे हिरण्यस्तूप आंगिरस ने इस अन्न-सूक्त में तुम्हें आहूत किया, वैसे ही मैं तुम्हें रक्षा के लिए स्तुत करता हुआ, सोम की डण्डी के समान जागरूक रहता हूँ।' 'हिरण्यस्तूप' 'स्वर्ण-समूह' के अर्थ में है।
श्लोक 10.34
देवस्त्वष्टा सविता विश्वरूपः पुपोष प्रजाः पुरुधा जजान । इमा च विश्वा भुव॑नान्यस्य महद्देवानामसुरत्वमेकम् ॥ देवस्त्वष्टा सविता सर्वरूपः पोषति प्रजा रसानुप्रदानेन । बहुधा चेमा जनयति । इमानि च सर्वाणि भूतान्युदकान्यस्य । महच्चास्मै देवानामसुरत्वमेकम् । प्रज्ञावत्त्वं वा । अनवत्त्वं वा । अपि वासुरिति प्रज्ञानाम । अस्यत्यनर्थान् । अस्ताश्चास्यामर्थाः । असुरत्वमादिलुप्तम् । वातो वातीति सतः । तस्यैषा भवति
devastvaṣṭā savitā viśvarūpaḥ pupoṣa prajāḥ purudhā jajāna | imā ca viśvā bhuvanānyasya mahaddevānāmasuratvamekam || devastvaṣṭā savitā sarvarūpaḥ poṣati prajā rasānupradānena | bahudhā cemā janayati | imāni ca sarvāṇi bhūtānyudakānyasya | mahaccāsmai devānāmasuratvamekam | prajñāvattvaṁ vā | anavattvaṁ vā | api vāsuriti prajñānāma | asyatyanarthān | astāścāsyāmarthāḥ | asuratvamādiluptam | vāto vātīti sataḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'देव त्वष्टा सविता, सर्वरूप, रसों के अनुप्रदान से प्रजाओं को पोषित करता है, बहुविध जन्म देता है; ये समस्त लोक उसी के हैं; देवताओं का जो महान् असुरत्व है, वह एक उसी में है।' 'असुर' को यहाँ प्रज्ञावत्ता या अनवत्ता (न मरणशीलता) के अर्थ में लिया गया है।
श्लोक 10.35
वात या वातु भेषजं शंभु मयोभु नो हृदे । प्र ण आयूँषि तारिषत् ॥ वात आवातु भैषज्यानि । शंभु मयोभु च नो हृदयाय । प्रवर्धयतु च न आयुः । अग्निर्व्याख्यातः । तस्यैषा भवति
vāta yā vātu bheṣajaṁ śaṁbhu mayobhu no hṛde | pra ṇa āyūm̐ṣi tāriṣat || vāta āvātu bhaiṣajyāni | śaṁbhu mayobhu ca no hṛdayāya | pravardhayatu ca na āyuḥ | agnirvyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में वात (वायु) से कहा जाता है: 'हे वात, जो औषध रूप बहे, वह हमारे हृदय के लिए सुखद, कल्याणकारी हो; हमारी आयु बढ़ा दो।'
श्लोक 10.36
प्रति त्यं चारुमध्वरं गोपीथाय॒ प्र हूयसे । मरुद्भिरग्न आ गहि ॥ तं प्रति चारुमध्वरं सोमपानाय प्रहूयसे । सोऽग्ने मरुद्भिः सहागच्छेति । कमन्यं मध्यमादेवमवक्ष्यत् । तस्यैषापरा भवति
prati tyaṁ cārumadhvaraṁ gopīthāya pra hūyase | marudbhiragna ā gahi || taṁ prati cārumadhvaraṁ somapānāya prahūyase | so'gne marudbhiḥ sahāgaccheti | kamanyaṁ madhyamādevamavakṣyat | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'उस सुन्दर यज्ञ के लिए, गौ-रक्षण हेतु, तुम्हें पुकारा जाता है; हे अग्नि, मरुतों के साथ आओ।'
श्लोक 10.37
अभि त्वा पूर्वपीतये सृजामि सोम्यं मधु । मरुद्भिरग्न आ गहि ॥ अभिसृजामि त्वा पूर्वपीतये पूर्वपानाय । सोम्यं मधु सोममयम् । सोऽग्ने मरुद्भिः सहागच्छेति
abhi tvā pūrvapītaye sṛjāmi somyaṁ madhu | marudbhiragna ā gahi || abhisṛjāmi tvā pūrvapītaye pūrvapānāya | somyaṁ madhu somamayam | so'gne marudbhiḥ sahāgaccheti
इस ऋचा में कहा गया है: 'मैं तुम्हारे लिए प्रथम-पान हेतु सोम्य मधु अर्पित करता हूँ; हे अग्नि, मरुतों के साथ आओ।'
श्लोक 10.38
वेनो वेनतेः कान्तिकर्मणः । तस्यैषा भवति
veno venateḥ kāntikarmaṇaḥ | tasyaiṣā bhavati
'वेन' कान्ति (चमक) की धातु से है।
श्लोक 10.39
अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इममपां संगमे सूर्यस्य॒ शिशुं न विप्रा मतिभी रिहन्ति ॥ अयं वेनश्चोदयत् । पृश्निगर्भाः प्राष्टवर्णगर्भाः । आप इति वा । ज्योतिर्जरायुः । ज्योतिरस्य जरायुस्थानीयं भवति । जरायु जरया गर्भस्य । जरया यूयत इति वा । इममपां च संगमने सूर्यस्य च शिशुमिव विप्रा मतिभी रिहन्ति । लिहन्ति । स्तुवन्ति । वर्धयन्ति । पूजयन्तीति वा । शिशुः शंसनीयो भवति । शिशीतेर्वा स्यात् दानकर्मणः । चिरलब्धो गर्भो भवति । असुनीतिः । असून्नयति । तस्यैषा भवति
ayaṁ venaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne | imamapāṁ saṁgame sūryasya śiśuṁ na viprā matibhī rihanti || ayaṁ venaścodayat | pṛśnigarbhāḥ prāṣṭavarṇagarbhāḥ | āpa iti vā | jyotirjarāyuḥ | jyotirasya jarāyusthānīyaṁ bhavati | jarāyu jarayā garbhasya | jarayā yūyata iti vā | imamapāṁ ca saṁgamane sūryasya ca śiśumiva viprā matibhī rihanti | lihanti | stuvanti | vardhayanti | pūjayantīti vā | śiśuḥ śaṁsanīyo bhavati | śiśītervā syāt dānakarmaṇaḥ | ciralabdho garbho bhavati | asunītiḥ | asūnnayati | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'यह वेन प्रेरित करता है, पृश्नि (चितकबरे) के गर्भ, ज्योति को गर्भ-आवरण बनाए, रज (अन्तरिक्ष) के विस्तार में; जल के संगम में और सूर्य के इस शिशु को बुद्धिमान् मन्त्रों से चूमते हैं।' 'असुनीति' 'प्राणों को ले जाने वाली' है।
श्लोक 10.40
असुनीते मनो अस्मासु धारय जीवातवे सु प्र तिरा न आयुः । रारन्धि नः सूर्यस्य संदृशि घृतेन त्वं तन्वं वर्धयस्व ॥ असुनीते मनोऽस्मासु धारय । चिरं जीवनाय । प्रवर्धय च न आयू रन्धय च नः सूर्यस्य संदर्शनाय । रध्यतिर्वशगमनेऽपि दृश्यते । मा रधाम द्विषते सोम राजन् । इत्यपि निगमो भवति । घृतेन त्वमात्मानं तन्वं वर्धयस्व । ऋतो व्याख्यातः । तस्यैषा भवति
asunīte mano asmāsu dhāraya jīvātave su pra tirā na āyuḥ | rārandhi naḥ sūryasya saṁdṛśi ghṛtena tvaṁ tanvaṁ vardhayasva || asunīte mano'smāsu dhāraya | ciraṁ jīvanāya | pravardhaya ca na āyū randhaya ca naḥ sūryasya saṁdarśanāya | radhyatirvaśagamane'pi dṛśyate | mā radhāma dviṣate soma rājan | ityapi nigamo bhavati | ghṛtena tvamātmānaṁ tanvaṁ vardhayasva | ṛto vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में असुनीति से कहा जाता है: 'हे असुनीति, हमारे मन को हममें स्थिर रखो जीवन के लिए; हमारी आयु बढ़ाओ, हमें सूर्य-दर्शन के लिए समर्थ करो, घृत से अपने शरीर को पुष्ट करो।'
श्लोक 10.41
ऋतस्य॒ हि शुरुधः सन्ति पूर्वीर्ऋतस्य॑ धीतिर्वृजिनानि हन्ति । ऋतस्य श्लोको बधिरा ततर्द कर्णा बुधानः शुचमान आयोः ॥ ऋतस्य हि शुरुधः सन्ति पूर्वीः । तस्य प्रज्ञा वर्जनीयानि हन्ति । ऋतस्य श्लोको बधिरस्यापि कर्णावातृणत्ति । बधिरो बद्धश्रोत्रः । कर्णौ बोधयन् । दीप्यमानश्च । आयोः अयनस्य मनुष्यस्य । ज्योतिषो वोदकस्य वा । इन्दुरिन्धेः । उनत्तेर्वा । तस्यैषा भवति
ṛtasya hi śurudhaḥ santi pūrvīrṛtasya dhītirvṛjināni hanti | ṛtasya śloko badhirā tatarda karṇā budhānaḥ śucamāna āyoḥ || ṛtasya hi śurudhaḥ santi pūrvīḥ | tasya prajñā varjanīyāni hanti | ṛtasya śloko badhirasyāpi karṇāvātṛṇatti | badhiro baddhaśrotraḥ | karṇau bodhayan | dīpyamānaśca | āyoḥ ayanasya manuṣyasya | jyotiṣo vodakasya vā | indurindheḥ | unattervā | tasyaiṣā bhavati
इस ऋचा में ऋत (नियम/जल) की स्तुति है: 'ऋत की बहुत-सी रोकें हैं; ऋत की बुद्धि वर्जनीय को नष्ट करती है; ऋत का श्लोक बधिर के भी कान खोल देता है, जागृत करता हुआ, दीप्तिमान् मनुष्य के लिए।' 'इन्दु' 'इन्धन' या 'सींचना' धातु से है।
श्लोक 10.42
प्र तद्वोचेयं भव्यायेन्दवे हव्यो न य इषवान्मन्म रेजति रक्षोहा मन्म रेजति । स्वयं सो अस्मदा निदो वधैरजेत दुर्मतिम् । अव स्रवेदघशंसोऽवतरमव क्षुद्रमिव स्रवेत् ॥ प्रब्रवीमि तद् भव्यायेन्दवे । हवनार्ह इव । य इषवानन्नवान् । कामवान्वा । मननानि च नो रेजयति । रक्षोहा च । बलेन रेजयति । स्वयं सोऽस्मदभिनिन्दितारम् । वधैरजेत दुर्मतिम् । अवस्रवेदघशंसः । ततश्चावतरं क्षुद्रमिवावस्रवेत् । अभ्यासे भूयाँसमर्थं मन्यन्ते । यथा । अहो दर्शनीय । अहो दर्शनीय इति । तत्परुच्छेपस्य शीलम् । परुच्छेप ऋषिः । पर्ववच्छेपः । परुषिपरुषि शेपोऽस्येति वा । इतीमानि सप्तविंशतिर्देवतानामधेयान्यनुक्रान्तानि । सूक्तभाञ्जि हविर्भाञ्जि । तेषामेतान्यहविर्भाञ्जि । वेनः । असुनीतिः । ऋतः । इन्दुः । प्रजापतिः प्रजानां पाता वा पालयिता वा । तस्यैषा भवति
pra tadvoceyaṁ bhavyāyendave havyo na ya iṣavānmanma rejati rakṣohā manma rejati | svayaṁ so asmadā nido vadhairajeta durmatim | ava sravedaghaśaṁso'vataramava kṣudramiva sravet || prabravīmi tad bhavyāyendave | havanārha iva | ya iṣavānannavān | kāmavānvā | mananāni ca no rejayati | rakṣohā ca | balena rejayati | svayaṁ so'smadabhininditāram | vadhairajeta durmatim | avasravedaghaśaṁsaḥ | tataścāvataraṁ kṣudramivāvasravet | abhyāse bhūyām̐samarthaṁ manyante | yathā | aho darśanīya | aho darśanīya iti | tatparucchepasya śīlam | parucchepa ṛṣiḥ | parvavacchepaḥ | paruṣiparuṣi śepo'syeti vā | itīmāni saptaviṁśatirdevatānāmadheyānyanukrāntāni | sūktabhāñji havirbhāñji | teṣāmetānyahavirbhāñji | venaḥ | asunītiḥ | ṛtaḥ | induḥ | prajāpatiḥ prajānāṁ pātā vā pālayitā vā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'मैं यह घोषित करूँ भव्य इन्दु के लिए, आह्वान-योग्य, जो अन्नवान्, हमारे विचारों को कम्पित करता है, राक्षस-नाशक, बल से कम्पित करता है; स्वयं वह हमारे निन्दक को अपने वधों से पराजित करे, दुर्बुद्धि को; पापवादी नीचे बह जाए, क्षुद्र जल की भाँति नीचे बह जाए।' यह परुच्छेप ऋषि की शैली है। यहाँ सत्ताईस देवताओं के नामों का अनुक्रम पूर्ण होता है — इनमें से वेन, असुनीति, ऋत और इन्दु 'अहविर्भाज्' (जिन्हें प्रत्यक्ष हविष्य नहीं मिलता) हैं।
श्लोक 10.43
प्रजापते॒ न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्या॑म पतयो रयीणाम् ॥ प्रजापते न हि त्वदेतान्यन्यः सर्वाणि जातानि तानि परिबभूव । यत्कामास्ते जुहुमः । तन्नो अस्तु । वयं स्याम पतयो रयीणाम् । इत्याशीः । अहिर्व्याख्यातः । तस्यैषा भवति
prajāpate na tvadetānyanyo viśvā jātāni pari tā babhūva | yatkāmāste juhumastanno astu vayaṁ syāma patayo rayīṇām || prajāpate na hi tvadetānyanyaḥ sarvāṇi jātāni tāni paribabhūva | yatkāmāste juhumaḥ | tanno astu | vayaṁ syāma patayo rayīṇām | ityāśīḥ | ahirvyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में प्रजापति की स्तुति है: 'हे प्रजापति, तुमसे भिन्न किसी अन्य ने इन सब उत्पन्न वस्तुओं को घेरा नहीं है; जिस कामना से हम आहुति देते हैं, वह हमारी पूर्ण हो — हम धनों के स्वामी बनें।' यह एक आशीर्वचन है।
श्लोक 10.44
अब्जामुक्थैरहिं गृणीषे बुध्ने नदीनां रजःसु षीदन् ॥ अप्सुजमुक्थैरहिं गृणीषे बुध्ने नदीनां रजस्सु उदकेषु सीदन् । बुध्नमन्तरिक्षम् । बद्धा अस्मिन्धृता आप इति वा । इदमपीतरद् बुध्नमेतस्मादेव । बद्धा अस्मिन्धृताः प्राणा इति । योऽहिः स बुध्न्यः । बुध्नमन्तरिक्षम् । तन्निवासात् । तस्यैषा भवति
abjāmukthairahiṁ gṛṇīṣe budhne nadīnāṁ rajaḥsu ṣīdan || apsujamukthairahiṁ gṛṇīṣe budhne nadīnāṁ rajassu udakeṣu sīdan | budhnamantarikṣam | baddhā asmindhṛtā āpa iti vā | idamapītarad budhnametasmādeva | baddhā asmindhṛtāḥ prāṇā iti | yo'hiḥ sa budhnyaḥ | budhnamantarikṣam | tannivāsāt | tasyaiṣā bhavati
इस ऋचा में अहि बुध्न्य (अन्तरिक्ष-सर्प) की स्तुति है: 'जल में उत्पन्न सर्प को स्तोत्रों से स्तुत करता हूँ, नदियों के मूल में, रज (अन्तरिक्ष के जल) में बैठे हुए।' 'बुध्न' अन्तरिक्ष का नाम है — जिसमें जल या प्राण बँधे रहते हैं।
श्लोक 10.45
मा नोऽहिर्बुध्न्यो रिषे धान्मा यज्ञो अस्य स्रिधदृतायोः । मा च नोऽहिर्बुध्न्यो रेषणाय धात् । मास्य यज्ञोखा च स्रिधत् । यज्ञकामस्य । सुपर्णो व्याख्यातः । तस्यैषा भवति
mā no'hirbudhnyo riṣe dhānmā yajño asya sridhadṛtāyoḥ | mā ca no'hirbudhnyo reṣaṇāya dhāt | māsya yajñokhā ca sridhat | yajñakāmasya | suparṇo vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'अहि बुध्न्य हमें पीड़ा न दे, और यज्ञ-कामी के यज्ञ को व्यर्थ न करे।' सुपर्ण की व्याख्या पहले हो चुकी है।
श्लोक 10.46
एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे । तं पाकेन मनसापश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरम् ॥ एकं सुपर्णः स समुद्रमाविशति । स इमानि सर्वाणि भूतान्यभिविपश्यति । तं पाकेन मनसापश्यमन्तितः । इत्यृषेर्दृष्टार्थस्य प्रीतिर्भवति । आख्यानसंयुक्ता । तं माता रेळ्हि । वागेषा माध्यमिका । स उ मातरं रेळ्हि । पुरूरवा बहुधा रोरूयते । तस्यैषा भवति
ekaḥ suparṇaḥ sa samudramā viveśa sa idaṁ viśvaṁ bhuvanaṁ vi caṣṭe | taṁ pākena manasāpaśyamantitastaṁ mātā reḷhi sa u reḷhi mātaram || ekaṁ suparṇaḥ sa samudramāviśati | sa imāni sarvāṇi bhūtānyabhivipaśyati | taṁ pākena manasāpaśyamantitaḥ | ityṛṣerdṛṣṭārthasya prītirbhavati | ākhyānasaṁyuktā | taṁ mātā reḷhi | vāgeṣā mādhyamikā | sa u mātaraṁ reḷhi | purūravā bahudhā rorūyate | tasyaiṣā bhavati
इस प्रसिद्ध ऋचा में कहा गया है: 'एक सुपर्ण (पक्षी) समुद्र में प्रवेश करता है, वह इस समस्त लोक को देखता है; उसे मैं पाक (अपरिपक्व) मन से निकट देखता हूँ — ऋषि के इस दर्शन में सन्तोष होता है, यह आख्यान से जुड़ा है — उसकी माता उसे चूमती है, वह भी माता को चूमता है।' यह मध्यम वाणी है। 'पुरूरवा' बहुविध गर्जने वाला।
श्लोक 10.47
समस्मिञ्जायमान आसत ग्ना उतेमवर्धन्नद्य स्वगूर्ताः । महे यत्त्वा पुरूरवो रणायावर्धयन्दस्युहत्या॑य देवाः ॥ समासतास्मिञ्जायमाने । ग्ना गमनादापः । देवपत्नयो वा । अपि चैनमवर्धयन् । नद्यः स्वगूर्ताः स्वयंगामिन्यः । महते च यत् त्वा पुरूरवः । रणाय रमणीयाय संग्रामायावर्धयन् दस्युहत्याय च देवा देवाः
samasmiñjāyamāna āsata gnā utemavardhannadya svagūrtāḥ | mahe yattvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ || samāsatāsmiñjāyamāne | gnā gamanādāpaḥ | devapatnayo vā | api cainamavardhayan | nadyaḥ svagūrtāḥ svayaṁgāminyaḥ | mahate ca yat tvā purūravaḥ | raṇāya ramaṇīyāya saṁgrāmāyāvardhayan dasyuhatyāya ca devā devāḥ
इस ऋचा में कहा गया है: 'जब वह उत्पन्न हुआ, तब देव-पत्नियाँ (या जल) उसके पास आ बैठीं; स्वयं-गामिनी नदियों ने भी उसे बढ़ाया; हे पुरूरवा, महान् और मनोहर संग्राम के लिए, दस्यु-वध के लिए, देवताओं ने तुम्हें बढ़ाया।' इस प्रकार दसवाँ अध्याय पूर्ण होता है।
श्लोक 11.1
श्येनो व्याख्यातः । तस्यैषा भवति
śyeno vyākhyātaḥ | tasyaiṣā bhavati
'श्येन' (बाज) की व्याख्या पहले हो चुकी है।
श्लोक 11.2
आदाय श्ये॒नो अभरत्सोम सहस्रं सवाँ अयुतं च साकम् । अत्रा पुरन्धिरजहादरातीर्मदे सोमस्य मूरा अमूरः ॥ आदय श्येनोऽहरत्सोमम् । सहस्रं सवान् । अयुतं च सह । सहस्रं सहस्रसाव्यमभिप्रेत्य । तत्रायुतं सोमभक्षाः । तत्संबन्धेनायुतं दक्षिणा इति वा । तत्र पुरन्धिरजहादमित्रानदानानिति वा । मदे सोमस्य मूरा अमूरः इति । ऐन्द्रे च सूक्ते सोमपानेन च स्तुतः । तस्मादिन्द्रं मन्यन्ते । ओषधिः सोमः सुनोतेः । यदेनमभिषुण्वन्ति । बहुलमस्य नैघण्टुकं वृत्तम् । आश्चर्यमिव प्राधान्येन । तस्य पावमानीषु निदर्शनायोदाहरिष्यामः
ādāya śyeno abharatsoma sahasraṁ savām̐ ayutaṁ ca sākam | atrā purandhirajahādarātīrmade somasya mūrā amūraḥ || ādaya śyeno'haratsomam | sahasraṁ savān | ayutaṁ ca saha | sahasraṁ sahasrasāvyamabhipretya | tatrāyutaṁ somabhakṣāḥ | tatsaṁbandhenāyutaṁ dakṣiṇā iti vā | tatra purandhirajahādamitrānadānāniti vā | made somasya mūrā amūraḥ iti | aindre ca sūkte somapānena ca stutaḥ | tasmādindraṁ manyante | oṣadhiḥ somaḥ sunoteḥ | yadenamabhiṣuṇvanti | bahulamasya naighaṇṭukaṁ vṛttam | āścaryamiva prādhānyena | tasya pāvamānīṣu nidarśanāyodāhariṣyāmaḥ
इस ऋचा में कहा गया है: 'श्येन ने सोम को ग्रहण कर लाया, सहस्र और अयुत सोम-अभिषवणों सहित; वहाँ पुरन्धि (बहुविधा) ने शत्रुओं को त्याग दिया, सोम के मद में अमूढ़ (बुद्धिमान्) बना।' यह सूक्त इन्द्र-सम्बन्धी भी है और सोमपान से स्तुत होने के कारण इन्द्र माना जाता है। 'सोम' ओषधि है, 'सुनोति' (निचोड़ना) से। इसकी व्याख्या पवमानी सूक्तों में विस्तार से की जाएगी।
श्लोक 11.3
स्वादिष्ठया मदिष्ठया पवस्व सोम धार॑या । इन्द्राय पातवे सुतः ॥ इति सा निगदव्याख्याता । अथैषापरा भवति । चन्द्रमसो वा । एतस्य वा
svādiṣṭhayā madiṣṭhayā pavasva soma dhārayā | indrāya pātave sutaḥ || iti sā nigadavyākhyātā | athaiṣāparā bhavati | candramaso vā | etasya vā
इस ऋचा में कहा गया है: 'हे सोम, स्वादिष्ट, मदमय धारा से बहो, इन्द्र के पान के लिए अभिषुत।' यह अगली ऋचा चन्द्रमा की भी हो सकती है, या इसी सोम की।
श्लोक 11.4
सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिम् । सोमं यं ब्रह्माणो विदुर्न तस्याश्नाति कश्चन ॥ सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिमिति वृथासुतमसोममाह । सोमं यं ब्रह्माणो विदुरिति । न तस्याश्नाति कश्चनायज्वेत्यधियज्ञम् । अथाधिदैवतम् । सोमं मन्यते पपिवान्यत्संपिंषन्त्योषधिमिति यजुःसुतमसोममाह । सोमं यं ब्रह्माणो विदुश्चन्द्रमसम् । न तस्याश्नाति कश्चनादेव इति । अथैषापरा भवति । चन्द्रमसो वा । एतस्य वा
somaṁ manyate papivānyatsaṁpiṁṣantyoṣadhim | somaṁ yaṁ brahmāṇo vidurna tasyāśnāti kaścana || somaṁ manyate papivānyatsaṁpiṁṣantyoṣadhimiti vṛthāsutamasomamāha | somaṁ yaṁ brahmāṇo viduriti | na tasyāśnāti kaścanāyajvetyadhiyajñam | athādhidaivatam | somaṁ manyate papivānyatsaṁpiṁṣantyoṣadhimiti yajuḥsutamasomamāha | somaṁ yaṁ brahmāṇo viduścandramasam | na tasyāśnāti kaścanādeva iti | athaiṣāparā bhavati | candramaso vā | etasya vā
इस ऋचा में कहा गया है: 'व्यर्थ ओषधि पीसने वाला सोचता है कि उसने सोम पिया; जिसे ब्राह्मण जानते हैं वह सोम है, उसे कोई नहीं खाता।' अधियज्ञ (यज्ञ-सम्बन्धी) अर्थ में यह व्यर्थ-अभिषुत असली-सोम-रहित द्रव्य को इंगित करता है — जिसका यज्ञ में उपयोग नहीं होता। अधिदैवत अर्थ में इसका दूसरा पाठ है — जहाँ 'सोम' चन्द्रमा को इंगित करता है, जिसे कोई देव नहीं खाता।
श्लोक 11.5
यत्त्वा देव प्र पिबन्ति तत आ प्यायसे पुनः । वायुः सोमस्य रक्षिता समानां मास आकृतिः ॥ यत् त्वा देव प्रपिबन्ति तत आप्यायसे पुनरिति नाराशंसानभिप्रेत्य । पूर्वपक्षापरपक्षाविति वा । वायुः सोमस्य रक्षिता । वायुमस्य रक्षितारमाह । साहचर्यात् । रसहरणाद्वा । समानां संवत्सराणां मास आकृतिः सोमः । रूपविशेषैरोषधिः । चन्द्रमा वा । चन्द्रमाश्चायन्द्रमति । चन्द्रो माता । चान्द्रं मानमस्येति वा । चन्द्रश्चन्दतेः । कान्तिकर्मणः । चन्दनमित्यप्यस्य भवति । चारु द्रमति । चिरं द्रमति । चमेर्वा पूर्वम् । चारु रुचेर्विपरीतस्य । तस्यैषा भवति
yattvā deva pra pibanti tata ā pyāyase punaḥ | vāyuḥ somasya rakṣitā samānāṁ māsa ākṛtiḥ || yat tvā deva prapibanti tata āpyāyase punariti nārāśaṁsānabhipretya | pūrvapakṣāparapakṣāviti vā | vāyuḥ somasya rakṣitā | vāyumasya rakṣitāramāha | sāhacaryāt | rasaharaṇādvā | samānāṁ saṁvatsarāṇāṁ māsa ākṛtiḥ somaḥ | rūpaviśeṣairoṣadhiḥ | candramā vā | candramāścāyandramati | candro mātā | cāndraṁ mānamasyeti vā | candraścandateḥ | kāntikarmaṇaḥ | candanamityapyasya bhavati | cāru dramati | ciraṁ dramati | camervā pūrvam | cāru rucerviparītasya | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे देव, जब वे तुम्हें पीते हैं, तब तुम पुनः पूर्ण हो जाते हो; वायु सोम का रक्षक है, महीनों की आकृति समान है।' 'चन्द्रमा' की व्युत्पत्ति भी यहीं दी गई है — 'कान्ति' (चमक) या 'चारु द्रवण' (सुन्दर गति) से।
श्लोक 11.6
नवोनवो भवति जाय॑मानोऽह्नां केतुरुषामेत्यग्रम् । भागं देवेभ्यो वि दधात्यायन्प्र चन्द्रमास्तिरते दीर्घमायुः ॥ नवोनवो भवति जायमानः । इति पूर्वपक्षादिमभिप्रेत्य । अह्नां केतुरुषसामेत्यग्रम् । इत्यपरपक्षान्तमभिप्रेत्य । आदित्यदैवतो द्वितीयः पाद इत्येके । भागं देवेभ्यो विदधात्यायन् । इत्यर्धमासेज्यामभिप्रेत्य । प्रवर्धयते चन्द्रमा दीर्घमायुः । मृत्युर्मारयतीति सतः । मृतं च्यावयतीति वा शतबलाक्षो मौद्गल्यः । तस्यैषा भवति
navonavo bhavati jāyamāno'hnāṁ keturuṣāmetyagram | bhāgaṁ devebhyo vi dadhātyāyanpra candramāstirate dīrghamāyuḥ || navonavo bhavati jāyamānaḥ | iti pūrvapakṣādimabhipretya | ahnāṁ keturuṣasāmetyagram | ityaparapakṣāntamabhipretya | ādityadaivato dvitīyaḥ pāda ityeke | bhāgaṁ devebhyo vidadhātyāyan | ityardhamāsejyāmabhipretya | pravardhayate candramā dīrghamāyuḥ | mṛtyurmārayatīti sataḥ | mṛtaṁ cyāvayatīti vā śatabalākṣo maudgalyaḥ | tasyaiṣā bhavati
इस ऋचा में चन्द्रमा की स्तुति है: 'नित नया होकर जन्म लेता है, दिनों का ध्वज, उषाओं के अग्रभाग में जाता है; जाते हुए देवताओं को भाग बाँटता है, चन्द्रमा दीर्घ आयु को बढ़ाता है।' यहाँ पूर्वपक्ष और अपरपक्ष (चन्द्रमास के दो पखवाड़े) दोनों का संकेत है।
श्लोक 11.7
परं मृत्यो अनु परेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषो मोत वीरान् ॥ परं मृत्यो । ध्रुवं मृत्यो । ध्रुवं परेहि मृत्यो । कथितं तेन मृत्यो । मृतं च्यावयते भवति मृत्यो । मदेर्वा मुदेर्वा । तेषामेषा भवति
paraṁ mṛtyo anu parehi panthāṁ yaste sva itaro devayānāt | cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṁ rīriṣo mota vīrān || paraṁ mṛtyo | dhruvaṁ mṛtyo | dhruvaṁ parehi mṛtyo | kathitaṁ tena mṛtyo | mṛtaṁ cyāvayate bhavati mṛtyo | madervā mudervā | teṣāmeṣā bhavati
इस ऋचा में मृत्यु से कहा जाता है: 'हे मृत्यु, दूसरा मार्ग अपनाओ, जो देवयान से भिन्न, तुम्हारा अपना मार्ग है; देखने-सुनने वाले तुमसे मैं कहता हूँ — हमारी सन्तति और वीरों को कभी पीड़ा मत दो।' 'मृत्यु' 'मृत को हटाने वाला' के अर्थ में है।
श्लोक 11.8
त्वेषमित्था समरणं शिमीवतोरिन्द्राविष्णू सुतपा वामुरुष्यति । या मर्त्याय प्रतिधीयानमित्कृशानोरस्तुरसनामुरुष्यथः ॥ इति सा निगदव्याख्याता । विश्वानरो व्याख्यातः । तस्यैषा भवति
tveṣamitthā samaraṇaṁ śimīvatorindrāviṣṇū sutapā vāmuruṣyati | yā martyāya pratidhīyānamitkṛśānorasturasanāmuruṣyathaḥ || iti sā nigadavyākhyātā | viśvānaro vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'यह उग्र, तेजस्वी युद्ध बलशाली इन्द्र-विष्णु का है, जो सोम-रक्षक दोनों तुम्हें बचाते हैं — जो मर्त्य के लिए स्थापित कृशानु के बाण को तुम दोनों रोक लेते हो।' विश्वानर की व्याख्या पहले हो चुकी है।
श्लोक 11.9
प्र वो महे मन्दमानायान्धसोऽर्चा विश्वानराय विश्वाभुवे । इन्द्रस्य यस्य सुमखं सहो महि श्रवो नृम्णं च रोदसी सपर्यतः ॥ प्रार्चत यूयं स्तुतिं महतेऽन्धसोऽन्नस्य दात्रे । मन्दमानाय मोदमानाय स्तूयमानाय शब्दायमानायेति वा । विश्वानराय सर्वं विभूताय । इन्द्रस्य यस्य प्रीतौ सुमहद्बलम् । महच्च श्रवणीयं यशः । नृम्णं च बलं नृन्नतम् । द्यावापृथिव्यौ वः परिचरत इति । कमन्यं मध्यमादेवमवक्ष्यत् । तस्यैषापरा भवति
pra vo mahe mandamānāyāndhaso'rcā viśvānarāya viśvābhuve | indrasya yasya sumakhaṁ saho mahi śravo nṛmṇaṁ ca rodasī saparyataḥ || prārcata yūyaṁ stutiṁ mahate'ndhaso'nnasya dātre | mandamānāya modamānāya stūyamānāya śabdāyamānāyeti vā | viśvānarāya sarvaṁ vibhūtāya | indrasya yasya prītau sumahadbalam | mahacca śravaṇīyaṁ yaśaḥ | nṛmṇaṁ ca balaṁ nṛnnatam | dyāvāpṛthivyau vaḥ paricarata iti | kamanyaṁ madhyamādevamavakṣyat | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'हे स्तोतागण, महान्, हर्षित, विश्वानर, सर्वव्याप्त देव के लिए अन्न की स्तुति गाओ, जिस इन्द्र की प्रसन्नता में महान् बल है, महान् यशस्वी और वीरोचित शक्ति है, और द्यावापृथिवी उसकी सेवा करते हैं।' संकेत है कि अब अगले मध्यम देवता की चर्चा होगी।
श्लोक 11.10
उदु ज्योतिरमृतं विश्वजन्यं विश्वानरः सविता देवो अश्रेत् ॥ उदशिश्रियत् । ज्योतिः । अमृतम् । सर्वजन्यम् । विश्वानरः सविता देव इति । धाता सर्वस्य विधाता । तस्यैषा भवति
udu jyotiramṛtaṁ viśvajanyaṁ viśvānaraḥ savitā devo aśret || udaśiśriyat | jyotiḥ | amṛtam | sarvajanyam | viśvānaraḥ savitā deva iti | dhātā sarvasya vidhātā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'विश्वानर सविता देव ने अमृत, सर्वजनहितकारी ज्योति को ऊपर उठाया।' सविता 'सबका धाता-विधाता' है।
श्लोक 11.11
धाता ददातु दाशुषे प्राची जीवातुमक्षिताम् । वयं देवस्य धीमहि सुमतिं सत्यधर्मणः ॥ धाता ददातु दत्तवते प्रवृद्धां जीविकामनुपक्षीणाम् । वयं देवस्य धीमहि सुमतिं कल्याणीं मतिं सत्यधर्मणः । विधाता धात्रा व्याख्यातः । तस्यैष निपातो भवति बहुदेवतायामृचि
dhātā dadātu dāśuṣe prācī jīvātumakṣitām | vayaṁ devasya dhīmahi sumatiṁ satyadharmaṇaḥ || dhātā dadātu dattavate pravṛddhāṁ jīvikāmanupakṣīṇām | vayaṁ devasya dhīmahi sumatiṁ kalyāṇīṁ matiṁ satyadharmaṇaḥ | vidhātā dhātrā vyākhyātaḥ | tasyaiṣa nipāto bhavati bahudevatāyāmṛci
इस ऋचा में कहा गया है: 'धाता दाता को अक्षय, समृद्ध जीविका प्रदान करे; हम सत्य-धर्मी देव की कल्याणी बुद्धि का ध्यान करें।' विधाता की व्याख्या धाता के साथ हो चुकी है; यह निपात बहु-देवतापरक ऋचा में मिलता है।
श्लोक 11.12
सोम॑स्य राज्ञो वरुणस्य धर्मणि बृहस्पते॒रनुमत्या शर्मणि । तवाहमद्य म॑घवन्नुप॑स्तुतौ धातर्विधातः कलशाँ अभक्षयम् ॥ इत्येताभिर्देवताभिरभिप्रसूतः सोमकलशानभक्षयमिति । कलशः कस्मात् । कला अस्मिन्छेरते मात्राः । कलिश्च कलाश्च किरतेः । विकीर्णमात्राः
somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā śarmaṇi | tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśām̐ abhakṣayam || ityetābhirdevatābhirabhiprasūtaḥ somakalaśānabhakṣayamiti | kalaśaḥ kasmāt | kalā asmincherate mātrāḥ | kaliśca kalāśca kirateḥ | vikīrṇamātrāḥ
इस ऋचा में कहा गया है: 'राजा सोम, वरुण के धर्म में, बृहस्पति की अनुमति और शरण में — हे मघवन्, आज तुम्हारी उपस्तुति में, हे धातः, विधातः, मैंने सोम-कलश भक्षित किए।' 'कलश' 'जिसमें अंश (मात्राएँ) समाए हों' के अर्थ में है।
श्लोक 11.13
अथातो मध्यस्थाना देवगणाः । तेषां मरुतः प्रथमागामिनो भवन्ति । मरुतो मितराविणो वा । मितरोचिनो वा । महद् द्रवन्तीति वा । तेषामेषा भवति
athāto madhyasthānā devagaṇāḥ | teṣāṁ marutaḥ prathamāgāmino bhavanti | maruto mitarāviṇo vā | mitarocino vā | mahad dravantīti vā | teṣāmeṣā bhavati
अब मध्यम-स्थान के देवगणों (समूह-देवताओं) का प्रकरण है। इनमें मरुद्गण सबसे पहले आते हैं — 'मरुत्' 'मित-रावी' (मिलकर गर्जने वाले), 'मित-रोचि' (मिलकर चमकने वाले), या 'महान् दौड़ने वाले' के अर्थ में।
श्लोक 11.14
आ विद्युन्मद्भिर्मरुतः स्वर्कै रथेभिर्यात ऋष्टिमद्भिरश्वपर्णैः । आ वर्षिष्ठया न इषा वयो न पप्तता सुमायाः ॥ विद्युन्मद्भिर्मरुतः । स्वर्कैः स्वञ्चनैरिति वा । स्वर्चनैरिति वा । स्वर्चिभिरिति वा । रथैरायात । ऋष्टिमद्भिः । अश्वपर्णैरश्वपतनैः । वर्षिष्ठेन च नोऽन्नेन वय इवापतत । सुमायाः कल्याणकर्माणो वा । कल्याणप्रज्ञा वा । रुद्रा व्याख्याताः । तेषामेषा भवति
ā vidyunmadbhirmarutaḥ svarkai rathebhiryāta ṛṣṭimadbhiraśvaparṇaiḥ | ā varṣiṣṭhayā na iṣā vayo na paptatā sumāyāḥ || vidyunmadbhirmarutaḥ | svarkaiḥ svañcanairiti vā | svarcanairiti vā | svarcibhiriti vā | rathairāyāta | ṛṣṭimadbhiḥ | aśvaparṇairaśvapatanaiḥ | varṣiṣṭhena ca no'nnena vaya ivāpatata | sumāyāḥ kalyāṇakarmāṇo vā | kalyāṇaprajñā vā | rudrā vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में मरुतों से आह्वान है: 'बिजली-युक्त, स्वर्ण-अलंकृत, भाले-युक्त, अश्व-पंखी रथों से आओ; अत्यन्त वर्षा-दायक अन्न से, पक्षियों के समान उड़ते हुए, कल्याणकारी बुद्धि वाले।'
श्लोक 11.15
आ रुद्रास इन्द्रवन्तः सजोषसो हिरण्यरथाः सुविताय गन्तन । इयं वो अस्मत्प्रति हर्यते मतिस्तृष्णजे न दिव उत्सा उदन्यवे ॥ आगच्छत रुद्रा इन्द्रेण । सहजोषणाः । सुविताय कर्मणे । इयं वोऽस्मदपि प्रतिकामयते मतिः । तृष्णज इव दिव उत्सा उदन्यवे । तृष्णक् तृष्यतेः । उदन्युरुदन्यतेः । ऋभव उरु भान्तीति वा । ऋतेन भान्तीति वा । ऋतेन भवन्तीति वा । तेषामेषा भवति
ā rudrāsa indravantaḥ sajoṣaso hiraṇyarathāḥ suvitāya gantana | iyaṁ vo asmatprati haryate matistṛṣṇaje na diva utsā udanyave || āgacchata rudrā indreṇa | sahajoṣaṇāḥ | suvitāya karmaṇe | iyaṁ vo'smadapi pratikāmayate matiḥ | tṛṣṇaja iva diva utsā udanyave | tṛṣṇak tṛṣyateḥ | udanyurudanyateḥ | ṛbhava uru bhāntīti vā | ṛtena bhāntīti vā | ṛtena bhavantīti vā | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'हे रुद्रगण, इन्द्र के साथ मिलकर, स्वर्ण-रथी, सुखद कर्म के लिए आओ; हमारी यह बुद्धि तुम्हारे लिए वैसे ही प्रिय हो जैसे प्यासे के लिए द्युलोक के जल-स्रोत।' 'ऋभु' 'विस्तृत चमकने वाले' के अर्थ में है।
श्लोक 11.16
विष्ट्वी शमी तरणित्वेन वाघतो मर्तासः सन्तो अमृतत्वमानशुः । सौधन्वना ऋभवः सूरचक्षसः संवत्सरे सम॑पृच्यन्त धीतिभिः ॥ कृत्वा कर्माणि क्षिप्रत्वेन । वोळ्हारो मेधाविनो वा । मर्तासः सन्तोऽमृतत्वमानशिरे । सौधन्वना ऋभवः सूरख्याना वा । सूरप्रज्ञा वा । संवत्सरे समपृच्यन्त धीतिभिः कर्मभिः । ऋभुर्विभ्वा वाज इति सुधन्वन आङ्गिरसस्य त्रयः पुत्रा बभूवुः । तेषां प्रथमोत्तमाभ्यां बहुवन्निगमा भवन्ति न मध्यमेन । तदेतदृभोश्च बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु सूक्तानि भवन्ति । आदित्यरश्मयोऽप्यृभव उच्यन्ते । अगोह्यस्य॒ यदसस्तना गृहे तदद्येदमृभवो नानु गच्छथ । अगोह्य आदित्योऽगूहनीयः । तस्य यदस्वपथ गृहे । यावत्तत्र भवथ न तावदिह भवथेति । अङ्गिरसो व्याख्याताः । तेषामेषा भवति
viṣṭvī śamī taraṇitvena vāghato martāsaḥ santo amṛtatvamānaśuḥ | saudhanvanā ṛbhavaḥ sūracakṣasaḥ saṁvatsare samapṛcyanta dhītibhiḥ || kṛtvā karmāṇi kṣipratvena | voḷhāro medhāvino vā | martāsaḥ santo'mṛtatvamānaśire | saudhanvanā ṛbhavaḥ sūrakhyānā vā | sūraprajñā vā | saṁvatsare samapṛcyanta dhītibhiḥ karmabhiḥ | ṛbhurvibhvā vāja iti sudhanvana āṅgirasasya trayaḥ putrā babhūvuḥ | teṣāṁ prathamottamābhyāṁ bahuvannigamā bhavanti na madhyamena | tadetadṛbhośca bahuvacanena camasasya ca saṁstavena bahūni daśatayīṣu sūktāni bhavanti | ādityaraśmayo'pyṛbhava ucyante | agohyasya yadasastanā gṛhe tadadyedamṛbhavo nānu gacchatha | agohya ādityo'gūhanīyaḥ | tasya yadasvapatha gṛhe | yāvattatra bhavatha na tāvadiha bhavatheti | aṅgiraso vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में ऋभुओं की स्तुति है: 'कर्म करके शीघ्रता से, कुशल शिल्पी, मरणधर्मा होते हुए भी अमृतत्व प्राप्त किया; सुधन्वा के पुत्र, सूर्य-सम प्रज्ञ ऋभुगण, संवत्सर में कर्मों से मिलकर संयुक्त हुए।' यह ऋभु, विभ्वा और वाज — सुधन्वा आंगिरस के तीन पुत्रों का आख्यान है।
श्लोक 11.17
विरूपास इदृषयस्त इद्गम्भीरवेपसः । ते अङ्गिरसः सूनव॒स्ते अग्नेः परि जज्ञिरे ॥ बहुरूपा ऋषयः । ते गम्भीरकर्माणो वा । गम्भीरप्रज्ञा वा । तेऽङ्गिरसः पुत्राः । तेऽग्नेरधिजज्ञिरे । इत्यग्निजन्म । पितरो व्याख्याताः । तेषामेषा भवति
virūpāsa idṛṣayasta idgambhīravepasaḥ | te aṅgirasaḥ sūnavaste agneḥ pari jajñire || bahurūpā ṛṣayaḥ | te gambhīrakarmāṇo vā | gambhīraprajñā vā | te'ṅgirasaḥ putrāḥ | te'gneradhijajñire | ityagnijanma | pitaro vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'विभिन्न रूप वाले ही ऋषि हैं, गम्भीर-कर्मा; वे अंगिरस के पुत्र हैं, वे अग्नि से उत्पन्न हुए।' यह अग्नि-जन्म का आख्यान है — पितरों की व्याख्या पहले हो चुकी है।
श्लोक 11.18
उदीरतामवर उत्परास उन्मध्यमाः पितरः सोम्यासः । असुं य ईयुरवृका ऋतज्ञास्ते नोऽवन्तु पितरो हवेषु ॥ उदीरतामवरे । उदीरतां परे । उदीरतां मध्यमाः पितरः । सोम्याः सोमसंपादिनस्तेऽसुं ये प्राणमन्वीयुः । अवृका अनमित्राः । सत्यज्ञा वा यज्ञज्ञा वा । ते न आगच्छन्तु पितरो ह्वानेषु । माध्यमिको यम इत्याहुः । तस्मान्माध्यमिकान्पितॄन्मन्यन्ते । अङ्गिरसो व्याख्याताः । पितरो व्याख्याताः । भृगवो व्याख्याताः । अथर्वाणोऽथनवन्तः । थर्वतिश्चरतिकर्मा । तत्प्रतिषेधः । तेषामेषा साधारणा भवति
udīratāmavara utparāsa unmadhyamāḥ pitaraḥ somyāsaḥ | asuṁ ya īyuravṛkā ṛtajñāste no'vantu pitaro haveṣu || udīratāmavare | udīratāṁ pare | udīratāṁ madhyamāḥ pitaraḥ | somyāḥ somasaṁpādinaste'suṁ ye prāṇamanvīyuḥ | avṛkā anamitrāḥ | satyajñā vā yajñajñā vā | te na āgacchantu pitaro hvāneṣu | mādhyamiko yama ityāhuḥ | tasmānmādhyamikānpitṝnmanyante | aṅgiraso vyākhyātāḥ | pitaro vyākhyātāḥ | bhṛgavo vyākhyātāḥ | atharvāṇo'thanavantaḥ | tharvatiścaratikarmā | tatpratiṣedhaḥ | teṣāmeṣā sādhāraṇā bhavati
इस ऋचा में पितरों से आह्वान है: 'उठें अवर (निकटतर), उठें पर (दूरतर), उठें मध्यम सोमप्रिय पितर; जो प्राण को प्राप्त हो चुके, अशत्रु, सत्य-ज्ञ — वे पितर हमारे आह्वान में सहायता करें।' मध्यम यम को कहा जाता है, इसलिए मध्यम पितरों को उसी से जोड़ा जाता है। अथर्वा 'न चलने वाला' के अर्थ में है।
श्लोक 11.19
अङ्गिरसो न पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयं सुमतौ यज्ञिानामपि भद्रे सौमनसे स्या॑म ॥ अङ्गिरसो नः पितरः । नवगतयो नवनीतगतयो वा । अथर्वाणो भृगवः । सोम्याः सोमसम्पादिनः । तेषां वयम् । सुमतौ कल्याण्यां मतौ । यज्ञियानामपि चैषाम् । भद्रे भन्दनीये । भाजनवति वा । कल्याणे मनसि । स्यामेति । माध्यमिको देवगण इति नैरुक्ताः । पितर इत्याख्यानम् । अथाप्यृषयः स्तूयन्ते
aṅgiraso na pitaro navagvā atharvāṇo bhṛgavaḥ somyāsaḥ | teṣāṁ vayaṁ sumatau yajñināmapi bhadre saumanase syāma || aṅgiraso naḥ pitaraḥ | navagatayo navanītagatayo vā | atharvāṇo bhṛgavaḥ | somyāḥ somasampādinaḥ | teṣāṁ vayam | sumatau kalyāṇyāṁ matau | yajñiyānāmapi caiṣām | bhadre bhandanīye | bhājanavati vā | kalyāṇe manasi | syāmeti | mādhyamiko devagaṇa iti nairuktāḥ | pitara ityākhyānam | athāpyṛṣayaḥ stūyante
इस ऋचा में कहा गया है: 'अंगिरस हमारे पितर, नवग्व, अथर्वा, भृगु, सोम-सम्पादक — उनकी कल्याणी बुद्धि में, यज्ञिय भद्र और सुमनस्क्ता में हम रहें।' नैरुक्तों के अनुसार यह मध्यम देवगण है; यह भी एक आख्यान है — इसके पश्चात् ऋषियों की स्तुति होती है।
श्लोक 11.20
सूर्यस्येव वक्षथो ज्योतिरेषां समुद्रस्येव महिमा गभीरः । वातस्येव प्रजवो नान्येन स्तोमो वसिष्ठा अन्वेतवे वः ॥ इति यथा । आप्त्या आप्नोतेः । तेषामेष निपातो भवत्यैन्द्र्यामृचि
sūryasyeva vakṣatho jyotireṣāṁ samudrasyeva mahimā gabhīraḥ | vātasyeva prajavo nānyena stomo vasiṣṭhā anvetave vaḥ || iti yathā | āptyā āpnoteḥ | teṣāmeṣa nipāto bhavatyaindryāmṛci
इस ऋचा में कहा गया है: 'सूर्य के समान इनकी ज्योति है, समुद्र के समान इनकी गहरी महिमा है, वायु के समान इनका वेग है — कोई अन्य स्तोम तुम्हारा अनुसरण नहीं कर सकता, हे वसिष्ठगण।' आप्त्य (जल-सम्बन्धी) की व्याख्या इस उदाहरण से दी गई है; यह निपात इन्द्र-सम्बन्धी ऋचा में मिलता है।
श्लोक 11.21
स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानाम् । आ दर्षते॒ शव॑सा स॒प्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥ स्तोतव्यम् । बहुरूपम् । उरुभूतम् । ईश्वरतमम् । आप्तव्यम् । आप्तव्यानाम् । आदृणाति । यः । शवसा बलेन । सप्तदातॄनिति वा । सप्तदानवानिति वा । प्रसाक्षते । प्रतिमानानि । बहूनि । साक्षतिराप्नोतिकर्मा
stuṣeyyaṁ puruvarpasamṛbhvaminatamamāptyamāptyānām | ā darṣate śavasā sapta dānūnpra sākṣate pratimānāni bhūri || stotavyam | bahurūpam | urubhūtam | īśvaratamam | āptavyam | āptavyānām | ādṛṇāti | yaḥ | śavasā balena | saptadātṝniti vā | saptadānavāniti vā | prasākṣate | pratimānāni | bahūni | sākṣatirāpnotikarmā
इस ऋचा में कहा गया है: 'बहुरूप, अत्यन्त शक्तिशाली, आप्त्यों में सर्वाधिक आप्तव्य को स्तुत करना योग्य है; जो बल से सात दात्रियों (या दानवों) को विदीर्ण करता है, अनेक प्रतिस्पर्धियों को पराजित करता है।'
श्लोक 11.22
अथातो मध्यस्थानाः स्त्रियः । तासामदितिः प्रथमागामिनी भवति। अदितिर्व्याख्याता । तस्या एषा भवति
athāto madhyasthānāḥ striyaḥ | tāsāmaditiḥ prathamāgāminī bhavati| aditirvyākhyātā | tasyā eṣā bhavati
अब मध्यम-स्थान की स्त्री-देवताओं का प्रकरण है। इनमें अदिति सबसे पहले आती है; अदिति की व्याख्या पहले हो चुकी है।
श्लोक 11.23
दक्षस्य वादिते जन्मनि व्रते राजाना मित्रावरुणा विवाससि । अतूर्तपन्थाः पुरुरथो अर्यमा सप्तहोता विषुरूपेषु जन्मसु ॥ दक्षस्य वादिते जन्मनि । व्रते कर्मणि । राजानौ । मित्रावरुणौ । परिचरसि । विवासतिः परिचर्यायाम् । हविष्माँ आविवासति । इत्याशास्तेर्वा । अतूर्तपन्था अत्वरमाणपन्थाः । बहुरथः । अर्यमादित्यः । अरीन्नियच्छति । सप्तहोता । सप्तास्मै रश्मयो रसानभिसन्नामयन्ति । सप्तैनमृषयः स्तुवन्तीति वा । विषमरूपेषु जन्मसु । कर्मसूदयेषु । आदित्यो दक्षः । इत्याहुः । आदित्यमध्ये च स्तुतः । अदितिर्दाक्षायणी । अदितेर्दक्षो अजायत दक्षाद्वदितिः परि । इति च । तत्कथमुपपद्यते । समानजन्मानौ स्यातामिति । अपि वा देवधर्मेणेतरेतरजन्मानौ स्याताम् । इतरेतरप्रकृती । अग्निरप्यदितिरुच्यते । तस्यैषा भवति
dakṣasya vādite janmani vrate rājānā mitrāvaruṇā vivāsasi | atūrtapanthāḥ pururatho aryamā saptahotā viṣurūpeṣu janmasu || dakṣasya vādite janmani | vrate karmaṇi | rājānau | mitrāvaruṇau | paricarasi | vivāsatiḥ paricaryāyām | haviṣmām̐ āvivāsati | ityāśāstervā | atūrtapanthā atvaramāṇapanthāḥ | bahurathaḥ | aryamādityaḥ | arīnniyacchati | saptahotā | saptāsmai raśmayo rasānabhisannāmayanti | saptainamṛṣayaḥ stuvantīti vā | viṣamarūpeṣu janmasu | karmasūdayeṣu | ādityo dakṣaḥ | ityāhuḥ | ādityamadhye ca stutaḥ | aditirdākṣāyaṇī | aditerdakṣo ajāyata dakṣādvaditiḥ pari | iti ca | tatkathamupapadyate | samānajanmānau syātāmiti | api vā devadharmeṇetaretarajanmānau syātām | itaretaraprakṛtī | agnirapyaditirucyate | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'दक्ष के घोषित जन्म-कर्म में, तुम राजा मित्र-वरुण की सेवा करती हो; अतूर्त-पथ, बहु-रथ, अर्यमा — सप्त-होता — विविध जन्मों में।' यहाँ अदिति-दक्ष के पारस्परिक जन्म का विरोधाभासी आख्यान भी दिया गया है — देव-धर्म से दोनों परस्पर उत्पन्न हो सकते हैं। अग्नि को भी 'अदिति' कहते हैं।
श्लोक 11.24
यस्मै त्वं सुद्रविणो ददाशोऽनागास्त्वमदिते सर्वताता । यं भद्रेण शवसा चोदयासि प्रजावता राधसा ते स्या॑म ॥ यस्मै त्वं सुद्रविणो ददासि । अनागास्त्वम् । अनपराधत्वम् । अदिते । सर्वासु कर्मततिषु । आग आङ्पूर्वाद्गमेः । एन एतेः । किल्बिषं किल्भिदम् । सुकृतकर्मणो भयम् । कीर्तिमस्य भिनत्तीति वा । यं भद्रेण । शवसा बलेन । चोदयसि । प्रजावता च राधसा धनेन ते वयमिह स्यामेति । सरमा सरणात् । तस्या एषा भवति
yasmai tvaṁ sudraviṇo dadāśo'nāgāstvamadite sarvatātā | yaṁ bhadreṇa śavasā codayāsi prajāvatā rādhasā te syāma || yasmai tvaṁ sudraviṇo dadāsi | anāgāstvam | anaparādhatvam | adite | sarvāsu karmatatiṣu | āga āṅpūrvādgameḥ | ena eteḥ | kilbiṣaṁ kilbhidam | sukṛtakarmaṇo bhayam | kīrtimasya bhinattīti vā | yaṁ bhadreṇa | śavasā balena | codayasi | prajāvatā ca rādhasā dhanena te vayamiha syāmeti | saramā saraṇāt | tasyā eṣā bhavati
इस ऋचा में अदिति से कहा जाता है: 'जिसे तुम धन देती हो, हे अदिति, वह सम्पूर्ण कर्मों में अपराध-रहित रहे; जिसे तुम कल्याणकारी बल से प्रेरित करती हो, प्रजा-सहित धन से, हम वही बनें।' सरमा 'गति' धातु से है।
श्लोक 11.25
किमिच्छन्ती सरमा प्रेदमानड् दूरे ह्यध्वा जगुरिः पराचैः । कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयाँसि ॥ किमिच्छन्ती सरमेदं प्रानट् । दूरे ह्यध्वा । जगुरिर्जङ्गम्यतेः । पराञ्चनैरचितः । का तेऽस्मास्वर्थहितिरासीत् । किं परितकनम् । परितक्म्या रात्रिः । परित एनां तक्म । तक्मेत्युष्णनाम । तकत इति सतः । कथं रसाया अतरः पयाँसीति । रसा नदी रसतेः शब्दकर्मणः । कथं रसानि तान्युदकानीति वा । देवशुनीन्द्रेण प्रहिता पणिभिरसुरैः समूदे । इत्याख्यानम् । सरस्वती व्याख्याता । तस्या एषा भवति
kimicchantī saramā predamānaḍ dūre hyadhvā jaguriḥ parācaiḥ | kāsmehitiḥ kā paritakmyāsītkathaṁ rasāyā ataraḥ payām̐si || kimicchantī saramedaṁ prānaṭ | dūre hyadhvā | jagurirjaṅgamyateḥ | parāñcanairacitaḥ | kā te'smāsvarthahitirāsīt | kiṁ paritakanam | paritakmyā rātriḥ | parita enāṁ takma | takmetyuṣṇanāma | takata iti sataḥ | kathaṁ rasāyā ataraḥ payām̐sīti | rasā nadī rasateḥ śabdakarmaṇaḥ | kathaṁ rasāni tānyudakānīti vā | devaśunīndreṇa prahitā paṇibhirasuraiḥ samūde | ityākhyānam | sarasvatī vyākhyātā | tasyā eṣā bhavati
यह प्रसिद्ध सरमा-पणि संवाद ऋचा है: 'क्या चाहती हुई सरमा यहाँ पहुँची? मार्ग तो दूर और भटकाने वाला है; तुम्हारा हमारे लिए क्या प्रयोजन था? रात्रि में क्या भ्रमण था? रसा नदी के जल को कैसे पार किया?' यह इन्द्र द्वारा भेजी गई देव-श्वा (सरमा) के पणि-असुरों से संवाद का आख्यान है।
श्लोक 11.26
पावका नः सरस्वती वाजेभिर्वाजिनीवती । यज्ञं वष्टु धियावसुः ॥ पावका नः सरस्वती । अन्नैरन्नवती । यज्ञं वष्टु धियावसुः कर्मवसुः । तस्या एषापरा भवति
pāvakā naḥ sarasvatī vājebhirvājinīvatī | yajñaṁ vaṣṭu dhiyāvasuḥ || pāvakā naḥ sarasvatī | annairannavatī | yajñaṁ vaṣṭu dhiyāvasuḥ karmavasuḥ | tasyā eṣāparā bhavati
इस ऋचा में सरस्वती की स्तुति है: 'शुद्धिकारी सरस्वती हमारे लिए, अन्न-सम्पन्ना, बल-सहित; यज्ञ को चाहे, कर्म-धनी।'
श्लोक 11.27
महो अर्णः सरस्वती प्र चेतयति केतुना । धियो विश्वा वि राजति ॥ महदर्णः सरस्वती प्रचेतयति प्रज्ञापयति केतुना कर्मणा प्रज्ञया वा । इमानि च सर्वाणि प्रज्ञानान्यभिविराजति । वागर्थेषु विधीयते । तस्मान्माध्यमिकां वाचं मन्यन्ते । वाग्व्याख्याता । तस्या एषा भवति
maho arṇaḥ sarasvatī pra cetayati ketunā | dhiyo viśvā vi rājati || mahadarṇaḥ sarasvatī pracetayati prajñāpayati ketunā karmaṇā prajñayā vā | imāni ca sarvāṇi prajñānānyabhivirājati | vāgartheṣu vidhīyate | tasmānmādhyamikāṁ vācaṁ manyante | vāgvyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'महान् प्रवाह वाली सरस्वती अपने ध्वज (कर्म/प्रज्ञा) से प्रकाशित करती है, सब बुद्धियों को विशेष रूप से शोभित करती है।' चूँकि यह वाक्-अर्थ में भी प्रयुक्त होती है, इसे मध्यम-वाणी भी माना जाता है — वाक् की व्याख्या पहले हो चुकी है।
श्लोक 11.28
यद्वाग्वदन्त्यविचेतनानि राष्ट्री देवानां निषसाद मन्द्रा । चतस्र ऊर्जं दुदुहे पयाँसि क्व स्विदस्याः परमं जगाम ॥ यद्वाग्वदन्ति । अविचेतनान्यविज्ञातानि । राष्ट्री देवानां निषसाद मदना । चतस्रोऽनुदिश ऊर्जं दुदुहे पयाँसि । क्व स्विदस्याः परमं जगामेति । यत्पृथिवीं गच्छतीति वा । यदादित्यरश्मयो हरन्तीति वा । तस्या एषापरा भवति
yadvāgvadantyavicetanāni rāṣṭrī devānāṁ niṣasāda mandrā | catasra ūrjaṁ duduhe payām̐si kva svidasyāḥ paramaṁ jagāma || yadvāgvadanti | avicetanānyavijñātāni | rāṣṭrī devānāṁ niṣasāda madanā | catasro'nudiśa ūrjaṁ duduhe payām̐si | kva svidasyāḥ paramaṁ jagāmeti | yatpṛthivīṁ gacchatīti vā | yadādityaraśmayo harantīti vā | tasyā eṣāparā bhavati
इस ऋचा में कहा गया है: 'जब वाणी अज्ञात वस्तुओं को बोलती है, देवताओं की राष्ट्री, हर्षदायिनी, बैठ गई; चार दिशाओं से ऊर्जा और जल दुहती है — कहाँ उसका परम स्थान गया?'
श्लोक 11.29
देवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति । सा नो मन्द्रेषमूर्जं दुहाना धेनुर्वागस्मानुप सुष्टुतैतु ॥ देवीं वाचमजनयन्त देवाः । तां सर्वरूपाः पशवो वदन्ति । व्यक्तवाचश्चाव्यक्तवाचश्च । सा नो मदनान्नं च रसं च दुहाना धेनुर्वागस्मानुपैतु सुष्टता । अनुमति राकेति देवपत्नयाविति नैरुक्ताः । पौर्णमास्याविति याज्ञिकाः । या पूर्वा पौर्णमासी सानुमतिः । योत्तरा सा राका । इति विज्ञायते । अनुमतिरनुमननात् । तस्या एषा भवति
devīṁ vācamajanayanta devāstāṁ viśvarūpāḥ paśavo vadanti | sā no mandreṣamūrjaṁ duhānā dhenurvāgasmānupa suṣṭutaitu || devīṁ vācamajanayanta devāḥ | tāṁ sarvarūpāḥ paśavo vadanti | vyaktavācaścāvyaktavācaśca | sā no madanānnaṁ ca rasaṁ ca duhānā dhenurvāgasmānupaitu suṣṭatā | anumati rāketi devapatnayāviti nairuktāḥ | paurṇamāsyāviti yājñikāḥ | yā pūrvā paurṇamāsī sānumatiḥ | yottarā sā rākā | iti vijñāyate | anumatiranumananāt | tasyā eṣā bhavati
इस प्रसिद्ध वाक्-सूक्त ऋचा में कहा गया है: 'देवताओं ने दिव्य वाणी को उत्पन्न किया, उसे सर्वरूप पशु बोलते हैं; वह हर्षदायिनी, अन्न-रस दुहती हुई, धेनु-वाणी हमारे पास सुस्तुत होकर आए।' अनुमति और राका को देव-पत्नियाँ या पूर्णिमा के दो अर्ध कहा गया है।
श्लोक 11.30
अन्विदनुमते त्वं मन्यासै शं च नस्कृधि । क्रत्वे दक्षाय नो हिनु प्र ण आयूँषि तारिषः ॥ अनुमन्यस्वानुमते । त्वं सुखं च नः कुरु । अन्नं च नोऽपत्याय धेहि । प्रवर्धय च न आयुः । राका रातेर्दानकर्मणः । तस्या एषा भवति
anvidanumate tvaṁ manyāsai śaṁ ca naskṛdhi | kratve dakṣāya no hinu pra ṇa āyūm̐ṣi tāriṣaḥ || anumanyasvānumate | tvaṁ sukhaṁ ca naḥ kuru | annaṁ ca no'patyāya dhehi | pravardhaya ca na āyuḥ | rākā rāterdānakarmaṇaḥ | tasyā eṣā bhavati
इस ऋचा में अनुमति से कहा जाता है: 'हे अनुमति, तुम स्वीकार करो, हमें सुख दो; हमें अपत्य के लिए अन्न दो, हमारी आयु बढ़ाओ।' राका 'दान' धातु से है।
श्लोक 11.31
राकामहं सुहवां सुष्टुती हुवे शृणोतु नः सुभगा बोधतु त्मना । सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं शतदायमुक्थ्यम् ॥ राकामहं सुह्वानां सुष्टत्या ह्वये । शृणोतु नः सुभगा । बोधत्वात्मना । सीव्यत्वपः प्रजननकर्म । सूच्याछिद्यमानया । सूची सीव्यतेः । ददातु वीरम् । शतप्रदम् । उक्थ्यं वक्तव्यप्रशंसम् । सिनीवाली कुहूरिति देवपत्न्याविति नैरुक्ताः । अमावास्ये इति याज्ञिकाः । या पूर्वामावास्या सा सिनीवाली । योत्तरा सा कुहूः । इति विज्ञायते । सिनीवाली सिनमन्नं भवति । सिनाति भूतानि । वालं पर्वं वृणोतेः । तस्मिन्नन्नवती । वालिनी वा । वालेनेवास्यामणुत्वाच्चन्द्रमाः सेवितव्यो भवतीति वा । तस्या एषा भवति
rākāmahaṁ suhavāṁ suṣṭutī huve śṛṇotu naḥ subhagā bodhatu tmanā | sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṁ śatadāyamukthyam || rākāmahaṁ suhvānāṁ suṣṭatyā hvaye | śṛṇotu naḥ subhagā | bodhatvātmanā | sīvyatvapaḥ prajananakarma | sūcyāchidyamānayā | sūcī sīvyateḥ | dadātu vīram | śatapradam | ukthyaṁ vaktavyapraśaṁsam | sinīvālī kuhūriti devapatnyāviti nairuktāḥ | amāvāsye iti yājñikāḥ | yā pūrvāmāvāsyā sā sinīvālī | yottarā sā kuhūḥ | iti vijñāyate | sinīvālī sinamannaṁ bhavati | sināti bhūtāni | vālaṁ parvaṁ vṛṇoteḥ | tasminnannavatī | vālinī vā | vālenevāsyāmaṇutvāccandramāḥ sevitavyo bhavatīti vā | tasyā eṣā bhavati
इस ऋचा में राका को पुकारा जाता है: 'सुहूत राका को मैं सुस्तुति से बुलाता हूँ, वह सौभाग्यशाली सुने, स्वयं जागे; सूई से छिद्रित करते हुए वस्त्र सीए, वह हमें शत-दान योग्य, स्तुत्य वीर दे।' सिनीवाली और कुहू को देव-पत्नियाँ या अमावस्या के दो अर्ध कहा गया है।
श्लोक 11.32
सिनीवालि पृथुष्टके या देवानामसि स्वसा । जुषस्व हव्यमाहुतं प्र॒जां देवि दिदिड्ढि नः ॥ सिनीवालि । पृथुजघने । स्तुकः स्त्यायतेः संघातः । पृथुकेशस्तुके । पृथुष्टुते वा । या त्वं देवानामसि स्वसा । स्वसा सु असा । स्वेषु सीदतीति वा । जुषस्व हव्यमदनम् । प्रजां च देवि दिश नः । कुहूर्गूहतेः । क्वाभूदिति वा । क्व सती हूयत इति वा । क्वाहुतं हविर्जुहोतीति वा । तस्या एषा भवति
sinīvāli pṛthuṣṭake yā devānāmasi svasā | juṣasva havyamāhutaṁ prajāṁ devi didiḍḍhi naḥ || sinīvāli | pṛthujaghane | stukaḥ styāyateḥ saṁghātaḥ | pṛthukeśastuke | pṛthuṣṭute vā | yā tvaṁ devānāmasi svasā | svasā su asā | sveṣu sīdatīti vā | juṣasva havyamadanam | prajāṁ ca devi diśa naḥ | kuhūrgūhateḥ | kvābhūditi vā | kva satī hūyata iti vā | kvāhutaṁ havirjuhotīti vā | tasyā eṣā bhavati
इस ऋचा में सिनीवाली से कहा जाता है: 'हे सिनीवाली, विस्तृत-केश वाली, तुम देवताओं की बहन हो; हविष्य को स्वीकार करो, हे देवी, हमें सन्तान प्रदान करो।'
श्लोक 11.33
कुहूमहं सुकृतं विद्मनाप॑समस्मिन्य॒ज्ञे सुहवां जोहवीमि । सा नो ददातु श्रवणं पितॄणां तस्यै ते देवि हविषा विधेम ॥ कुहूमहं सुकृतं विदितकर्माणमस्मिन्यज्ञे सुह्वानामाह्वये । सा नो ददातु श्रवणं पितॄणाम् । पित्र्यं धनमिति वा । पित्र्यं यश इति वा । तस्यै ते देवि हविषा विधेमेति व्याख्यातम् । यमी व्याख्याता । तस्या एषा भवति
kuhūmahaṁ sukṛtaṁ vidmanāpasamasminyajñe suhavāṁ johavīmi | sā no dadātu śravaṇaṁ pitṝṇāṁ tasyai te devi haviṣā vidhema || kuhūmahaṁ sukṛtaṁ viditakarmāṇamasminyajñe suhvānāmāhvaye | sā no dadātu śravaṇaṁ pitṝṇām | pitryaṁ dhanamiti vā | pitryaṁ yaśa iti vā | tasyai te devi haviṣā vidhemeti vyākhyātam | yamī vyākhyātā | tasyā eṣā bhavati
इस ऋचा में कुहू से कहा जाता है: 'सुकर्मा कुहू को मैं इस यज्ञ में सुह्वान बुलाता हूँ; वह हमें पितरों का श्रवण (कीर्ति/धन) दे — हे देवी, तुम्हारे लिए हम हविष्य से सेवा करें।' यमी की व्याख्या पहले हो चुकी है।
श्लोक 11.34
अन्यमू षु त्वं यम्यन्य उ त्वां परि ष्वजाते लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छा स वा तवाधा कृणुष्व संविदं सुभद्राम् ॥ अन्यमेव हि त्वं यमि । अन्यस्त्वां परिष्वङ्क्ष्यते । लिबुजेव वृक्षम् । तस्य वा त्वं मन इच्छ । स वा तव । अधानेन कुरुष्व संविदम् । सुभद्रां कल्याणभद्राम् । यमी यमं चकमे । तां प्रत्याचचक्षे । इत्याख्यानम्
anyamū ṣu tvaṁ yamyanya u tvāṁ pari ṣvajāte libujeva vṛkṣam | tasya vā tvaṁ mana icchā sa vā tavādhā kṛṇuṣva saṁvidaṁ subhadrām || anyameva hi tvaṁ yami | anyastvāṁ pariṣvaṅkṣyate | libujeva vṛkṣam | tasya vā tvaṁ mana iccha | sa vā tava | adhānena kuruṣva saṁvidam | subhadrāṁ kalyāṇabhadrām | yamī yamaṁ cakame | tāṁ pratyācacakṣe | ityākhyānam
यह प्रसिद्ध यम-यमी संवाद ऋचा है: 'हे यमी, तुम किसी और को ही चाहती हो, और कोई और ही तुम्हें आलिंगन करेगा, जैसे लता वृक्ष को; उसी के मन की तुम कामना करो, अथवा वह तुम्हारी — इस प्रकार कल्याणकारी सद्भाव स्थापित करो।' यह आख्यान है कि यमी ने यम की कामना की, और यम ने उसे अस्वीकार कर दिया।
श्लोक 11.35
उर्वशी व्याख्याता । तस्या एषा भवति
urvaśī vyākhyātā | tasyā eṣā bhavati
उर्वशी की व्याख्या पहले हो चुकी है।
श्लोक 11.36
विद्युन्न या पतन्ती दविद्योद्भर॑न्ती मे अप्या काम्या॑नि । जनिष्ठो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥ विद्युदिव या । पतन्त्यद्योतत । हरन्ती मे अप्या काम्यानि । उदकान्यन्तरिक्षलोकस्य । यदा नूनमयं जायेताद्भ्योऽध्यप इति । नर्यो मनुष्यो नृभ्यो हितः । नरापत्यमिति वा । सुजातः सुजाततरः । अथोर्वशी प्रवर्धयते दीर्घमायुः । पृथिवी व्याख्याता । तस्या एषा भवति
vidyunna yā patantī davidyodbharantī me apyā kāmyāni | janiṣṭho apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ || vidyudiva yā | patantyadyotata | harantī me apyā kāmyāni | udakānyantarikṣalokasya | yadā nūnamayaṁ jāyetādbhyo'dhyapa iti | naryo manuṣyo nṛbhyo hitaḥ | narāpatyamiti vā | sujātaḥ sujātataraḥ | athorvaśī pravardhayate dīrghamāyuḥ | pṛthivī vyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'बिजली के समान चमकती हुई, मेरी प्रिय अन्तरिक्ष-जल की कामनाएँ लाती हुई; मानव-हितकारी सुजात पुत्र उत्पन्न हो — उर्वशी दीर्घ आयु बढ़ाए।' पृथिवी की व्याख्या पहले हो चुकी है।
श्लोक 11.37
बळित्था पर्वतानां खिद्रं बिभर्षि पृथिवि । प्र या भूमिं प्रवत्वति मह्ना जिनोषि महिनि ॥ सत्यं त्वं पर्वतानां मेघानां खेदनं छेदनं बलममुत्र धारयसि पृथिवि । प्रजिन्वसि या भूमिम् । प्रवणवति । महत्त्वेन । महतीत्युदकवतीति वा । इन्द्राणी । इन्द्रस्य पत्नी । तस्या एषा भवति
baḷitthā parvatānāṁ khidraṁ bibharṣi pṛthivi | pra yā bhūmiṁ pravatvati mahnā jinoṣi mahini || satyaṁ tvaṁ parvatānāṁ meghānāṁ khedanaṁ chedanaṁ balamamutra dhārayasi pṛthivi | prajinvasi yā bhūmim | pravaṇavati | mahattvena | mahatītyudakavatīti vā | indrāṇī | indrasya patnī | tasyā eṣā bhavati
इस ऋचा में पृथिवी से कहा जाता है: 'निश्चय ही तुम पर्वतों के भार को धारण करती हो, हे पृथिवी; जो विस्तृत भूमि को महत्ता से प्रेरित करती हो।' इन्द्राणी इन्द्र की पत्नी है।
श्लोक 11.38
इन्द्राणीमासु नारिषु सुभगामहमश्रवम् । नह्यस्या अपरं चन जरसा मरते पतिः । विश्वस्मादिन्द्र उत्तरः ॥ इन्द्राणीमासु नारिषु सुभगामहमशृणवम् । न ह्यस्या अपरामपि समां जरया म्रियते पतिः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूमः । तस्या एषापरा भवति
indrāṇīmāsu nāriṣu subhagāmahamaśravam | nahyasyā aparaṁ cana jarasā marate patiḥ | viśvasmādindra uttaraḥ || indrāṇīmāsu nāriṣu subhagāmahamaśṛṇavam | na hyasyā aparāmapi samāṁ jarayā mriyate patiḥ | sarvasmād ya indra uttarastametad brūmaḥ | tasyā eṣāparā bhavati
इस ऋचा में कहा गया है: 'मैंने सुना है कि इन्द्राणी इन स्त्रियों में सौभाग्यशाली है, क्योंकि इसका पति बुढ़ापे से कभी नहीं मरता; जो सबसे उच्च है, हे इन्द्र, उसे हम यह कहते हैं।'
श्लोक 11.39
नाहमिन्द्राणि रारण सख्युर्वृषाकपेर्ऋते । यस्येदमप्यं हविः प्रियं देवेषु गच्छति । विश्वस्मादिन्द्र उत्तरः ॥ नाहमिन्द्राणि रमे । सख्युर्वृषाकपेर्ऋते । यस्येदमप्यं हविः । अप्सु शृतम् । अद्भिः संस्कृतमिति वा । प्रियं देवेषु निगच्छति । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूमः । गौरी रोचतेः । ज्वलतिकर्मणः । अयमपीतरो गौरो वर्ण एतस्मादेव । प्रशस्यो भवति । तस्या एषा भवति
nāhamindrāṇi rāraṇa sakhyurvṛṣākaperṛte | yasyedamapyaṁ haviḥ priyaṁ deveṣu gacchati | viśvasmādindra uttaraḥ || nāhamindrāṇi rame | sakhyurvṛṣākaperṛte | yasyedamapyaṁ haviḥ | apsu śṛtam | adbhiḥ saṁskṛtamiti vā | priyaṁ deveṣu nigacchati | sarvasmād ya indra uttarastametad brūmaḥ | gaurī rocateḥ | jvalatikarmaṇaḥ | ayamapītaro gauro varṇa etasmādeva | praśasyo bhavati | tasyā eṣā bhavati
इस ऋचा में इन्द्राणी कहती है: 'मैं वृषाकपि सखा के बिना आनन्दित नहीं होती, जिसका यह प्रिय जल-संस्कृत हविष्य देवताओं में जाता है — सबसे उच्च, हे इन्द्र, उसे हम यह कहते हैं।' 'गौरी' रोचन (चमकना) धातु से है।
श्लोक 11.40
गौरीर्मिमाय सलिलानि तक्षत्येकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूवुषी सहस्राक्षरा परमे व्योमन् ॥ गौरीर्निर्मिमाय सलिलानि । तक्षती कुर्वती । एकपदी मध्यमेन । द्विपदी मध्यमेन चादित्येन च । चतुष्पदी दिग्भिः । अष्टापदी दिग्भिश्चावान्तरदिग्भिश्च । नवपदी दिग्भिश्चावान्तरदिग्भिश्चादित्येन च । सहस्राक्षरा बहूदका । परमे व्यवने । तस्या एषापरा भवति
gaurīrmimāya salilāni takṣatyekapadī dvipadī sā catuṣpadī | aṣṭāpadī navapadī babhūvuṣī sahasrākṣarā parame vyoman || gaurīrnirmimāya salilāni | takṣatī kurvatī | ekapadī madhyamena | dvipadī madhyamena cādityena ca | catuṣpadī digbhiḥ | aṣṭāpadī digbhiścāvāntaradigbhiśca | navapadī digbhiścāvāntaradigbhiścādityena ca | sahasrākṣarā bahūdakā | parame vyavane | tasyā eṣāparā bhavati
इस ऋचा में गौरी (कॉस्मिक गौ) की स्तुति है: 'गौरी ने जलों को रचा, उन्हें आकार दिया — एक-पद, द्वि-पद, चतुष्पद, अष्ट-पद, नव-पद होती हुई, सहस्र-अक्षरा, परम व्योम में।' यास्क इसे मध्यम, आदित्य, दिशाओं और उनके उप-भेदों से जोड़कर समझाते हैं।
श्लोक 11.41
तस्याः समुद्रा अधि वि क्षरन्ति तेन जीवन्ति प्रदिशश्चतस्रः । ततः क्षरत्यक्षरं तद्विश्वमुप॑ जीवति ॥ तस्याः समुद्रा अधिविक्षरन्ति । वर्षन्ति मेघाः । तेन जीवन्ति दिगाश्रयाणि भूतानि । ततः क्षरत्यक्षरमुदकम् । तत्सर्वाणि भूतान्युपजीवन्ति । गौर्व्याख्याता । तस्या एषा भवति
tasyāḥ samudrā adhi vi kṣaranti tena jīvanti pradiśaścatasraḥ | tataḥ kṣaratyakṣaraṁ tadviśvamupa jīvati || tasyāḥ samudrā adhivikṣaranti | varṣanti meghāḥ | tena jīvanti digāśrayāṇi bhūtāni | tataḥ kṣaratyakṣaramudakam | tatsarvāṇi bhūtānyupajīvanti | gaurvyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'उससे समुद्र (मेघ) बरसते हैं, उसी से चारों दिशाएँ जीवित रहती हैं; वहाँ से अक्षय जल बहता है, उसी पर समस्त संसार जीवित रहता है।' 'गौः' की व्याख्या पहले हो चुकी है।
श्लोक 11.42
गौरमीमेदनु वत्सं मिषन्तं मूर्धानं हिङकृणोन्मातवा उ । सृक्वाणं घर्ममभि वावशाना मिमाति मायुं पयते पयोभिः ॥ गौरन्वमीमेद्वत्सम् । मिषन्तमनिमिषन्तम् । आदित्यमिति वा । मूर्धानमस्याभिहिङ्ङकरोन्मननाय । सृक्वाणं सरणम् । घर्मं हरणम् । अभिवावशाना मिमाति मायुम् । प्रप्यायते पयोभिः । मायुमिवादित्यमिति वा । वागेषा माध्यमिका । घर्मधुगिति याज्ञिकाः । धेनुर्धयतेर्वा । धिनोतेर्वा । तस्या एषा भवति
gauramīmedanu vatsaṁ miṣantaṁ mūrdhānaṁ hiṅakṛṇonmātavā u | sṛkvāṇaṁ gharmamabhi vāvaśānā mimāti māyuṁ payate payobhiḥ || gauranvamīmedvatsam | miṣantamanimiṣantam | ādityamiti vā | mūrdhānamasyābhihiṅṅakaronmananāya | sṛkvāṇaṁ saraṇam | gharmaṁ haraṇam | abhivāvaśānā mimāti māyum | prapyāyate payobhiḥ | māyumivādityamiti vā | vāgeṣā mādhyamikā | gharmadhugiti yājñikāḥ | dhenurdhayatervā | dhinotervā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'गौ ने अपने अनिमेष वत्स (सूर्य) की ओर रँभाकर, उसके शिर पर हिंकार किया, ध्यान हेतु; सरणशील घर्म (मेघ) की ओर गर्जती हुई, अपने दुग्ध से तृप्त होती है।' 'धेनु' 'दुहती' या 'तृप्त करती' धातु से है।
श्लोक 11.43
उप ह्वये सुदुघां धेनुमेतां सुहस्तो गोधुगुत दोहदेनाम् । श्रेष्ठं सवं सविता साविषन्नोऽभीद्धो घर्मस्तदु षु प्र वोचम् ॥ उपह्वये सुदोहनां धेनुमेताम् । कल्याणहस्तो गोधुगपि च दोग्ध्येनाम् । श्रेष्ठं सवं सविता सुनोतु न इति । एष हि श्रेष्ठः सर्वेषां सवानां यदुदकं यद्वा पयो यजुष्मत् । अभीद्धो घर्मः । तं सु प्रब्रवीमि । वागेषा माध्यमिका । घर्मधुगिति याज्ञिकाः । अघ्न्याहन्तव्या भवति । अघघ्नीति वा । तस्या एषा भवति
upa hvaye sudughāṁ dhenumetāṁ suhasto godhuguta dohadenām | śreṣṭhaṁ savaṁ savitā sāviṣanno'bhīddho gharmastadu ṣu pra vocam || upahvaye sudohanāṁ dhenumetām | kalyāṇahasto godhugapi ca dogdhyenām | śreṣṭhaṁ savaṁ savitā sunotu na iti | eṣa hi śreṣṭhaḥ sarveṣāṁ savānāṁ yadudakaṁ yadvā payo yajuṣmat | abhīddho gharmaḥ | taṁ su prabravīmi | vāgeṣā mādhyamikā | gharmadhugiti yājñikāḥ | aghnyāhantavyā bhavati | aghaghnīti vā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'मैं इस सुदोहन धेनु को बुलाता हूँ, सुहस्त गोदुह इसे दुहे; सविता श्रेष्ठ अभिषव हमारे लिए उत्पन्न करे — यह जो प्रज्वलित घर्म है, उसे मैं भली-भाँति कहता हूँ।' 'अघ्न्या' गौ का नाम है — 'न मारने योग्य'।
श्लोक 11.44
सूयवसाद्भगवती हि भूया अथो वयं भगवन्तः स्याम । अद्धि तृणमघ्न्ये विश्वदानीं पिब शुद्धमुदकमाचरन्ती ॥ सूयवसादिनी भगवती हि भव । अथेदानीं वयं भगवन्तः स्याम । अद्धि तृणमघ्न्े३ । सर्वदा पिब च शुद्धमुदकमाचरन्ती । तस्या एषापरा भवति
sūyavasādbhagavatī hi bhūyā atho vayaṁ bhagavantaḥ syāma | addhi tṛṇamaghnye viśvadānīṁ piba śuddhamudakamācarantī || sūyavasādinī bhagavatī hi bhava | athedānīṁ vayaṁ bhagavantaḥ syāma | addhi tṛṇamaghn3 | sarvadā piba ca śuddhamudakamācarantī | tasyā eṣāparā bhavati
इस ऋचा में गौ से कहा जाता है: 'सुन्दर चरागाह वाली, भाग्यशाली बनो; हम भी भाग्यशाली बनें; हे अघ्न्ये, सदा घास खाओ, विचरण करती हुई शुद्ध जल पीओ।'
श्लोक 11.45
हिङ्कृण्वती वसुपत्नी वसूनां वत्समिच्छन्ती मनसाभ्यागात् । दुहामश्विभ्यां पयो अघ्न्येयं सा वर्धतां महते सौभगाय ॥ इति सा निगदव्याख्याता । पथ्या स्वस्तिः । पन्था अन्तरिक्षम् । तन्निवासात् । तस्या एषा भवति
hiṅkṛṇvatī vasupatnī vasūnāṁ vatsamicchantī manasābhyāgāt | duhāmaśvibhyāṁ payo aghnyeyaṁ sā vardhatāṁ mahate saubhagāya || iti sā nigadavyākhyātā | pathyā svastiḥ | panthā antarikṣam | tannivāsāt | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'हिंकार करती हुई, वसुओं की पत्नी, अपने वत्स को चाहती हुई मन से आई; अश्विनों के लिए दूध दुहे यह अघ्न्या, वह महान् सौभाग्य के लिए बढ़े।' 'पथ्या स्वस्ति' अन्तरिक्ष-निवासिनी है।
श्लोक 11.46
स्वस्तिरिद्धि प्रपथे श्रेष्ठा रेक्णस्वत्यभि या वाममेति । सा नो अमा सो अरणे नि पातु स्वावेशा भवतु देवगोपा ॥ स्वस्तिरेव हि प्रपथे श्रेष्ठा । रेक्णस्वती धनवती । अभ्येति या । वसूनि वननीयानि । सा नोऽमा गृहे । सा निरमणे । सा निर्गमने पातु । स्वावेशा भवतु । देवी गोप्त्री देवान्गोपायत्विति । देवा एनां गोपायन्त्विति वा । उषा व्याख्याता । तस्या एषा भवति
svastiriddhi prapathe śreṣṭhā rekṇasvatyabhi yā vāmameti | sā no amā so araṇe ni pātu svāveśā bhavatu devagopā || svastireva hi prapathe śreṣṭhā | rekṇasvatī dhanavatī | abhyeti yā | vasūni vananīyāni | sā no'mā gṛhe | sā niramaṇe | sā nirgamane pātu | svāveśā bhavatu | devī goptrī devāngopāyatviti | devā enāṁ gopāyantviti vā | uṣā vyākhyātā | tasyā eṣā bhavati
इस ऋचा में पथ्या स्वस्ति से कहा जाता है: 'सुख-मार्ग में श्रेष्ठ है स्वस्ति, धनवती, जो कल्याण की ओर आती है; वह हमें घर में, निर्गमन में रक्षा करे, सुप्रविष्ट और देव-रक्षित बने।' उषा की व्याख्या पहले हो चुकी है।
श्लोक 11.47
अपोषा अनसः सरत्संपिष्टादह बिभ्युषी । नि यत्सीं शिश्नथद्वृषा ॥ अपासरदुषाः । अनसः संपिष्टान्मेघाद् बिभ्युषी । अनो वायुरनितेः । अपि वोपमार्थे स्यात् । अनस इव शकटादिव । अनः शकटम् । आनद्धमस्मिंश्चीवरम् । अनितेर्वा स्यात् । जीवनकर्मणः । उपजीवन्त्येनत् । मेघोऽप्यन एतस्मादेव । यन्निरशिश्नथत् । वृषा वर्षिता मध्यमः । तस्या एषापरा भवति
apoṣā anasaḥ saratsaṁpiṣṭādaha bibhyuṣī | ni yatsīṁ śiśnathadvṛṣā || apāsaraduṣāḥ | anasaḥ saṁpiṣṭānmeghād bibhyuṣī | ano vāyuraniteḥ | api vopamārthe syāt | anasa iva śakaṭādiva | anaḥ śakaṭam | ānaddhamasmiṁścīvaram | anitervā syāt | jīvanakarmaṇaḥ | upajīvantyenat | megho'pyana etasmādeva | yanniraśiśnathat | vṛṣā varṣitā madhyamaḥ | tasyā eṣāparā bhavati
इस ऋचा में कहा गया है: 'उषा गाड़ी-पिसे (मेघ) से दूर हट गई, भयभीत होकर, जब वृषा (मध्यम देवता) ने उसे बेध डाला।' 'अनस्' गाड़ी या वायु दोनों के अर्थ में है।
श्लोक 11.48
एतदस्या अनः शये सुसंपिष्टं विपाश्या । ससार सीं परावतः ॥ एतदस्या अन आशेते सुसंपिष्टम् । इतरदिव । विपाशि विमुक्तपाशि । ससारोषाः । परावतः प्रेरितवतः । परागताद्वा । इळा व्याख्याता । तस्या एषा भवति
etadasyā anaḥ śaye susaṁpiṣṭaṁ vipāśyā | sasāra sīṁ parāvataḥ || etadasyā ana āśete susaṁpiṣṭam | itaradiva | vipāśi vimuktapāśi | sasāroṣāḥ | parāvataḥ preritavataḥ | parāgatādvā | iḷā vyākhyātā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'यह उसकी सुपिसी गाड़ी विपाशा तट पर पड़ी है; वह उषा दूर देश से दौड़ी।' इळा की व्याख्या पहले हो चुकी है।
श्लोक 11.49
अभि न इळा यूथस्य माता स्मन्नदीभिरुर्वशी वा गृणातु । उर्वशी वा बृहद्दिवा गृणानाभ्यूर्वावशना प्रभृथस्यायोः । सिषक्तु न ऊर्जव्यस्य पुष्टेः ॥ - ५.४१.१९-२० अभिगृणात् न इळा । यूथस्य माता । सर्वस्य माता । स्मदभि नदीभिः । उर्वशी वा गृणातु । उर्वशी वा । बृहद्दिवा महद्दिवा । गृणाना । अभ्यूर्ण्वाना । प्रभृथस्य प्रभृतस्य । आयोरयनस्य मनुष्यस्य ज्योतिषो वोदकस्य वा । सेवतां नोऽन्नस्य पुष्टेः । रोदसी रुद्रस्य पत्नी । तस्या एषा भवति
abhi na iḷā yūthasya mātā smannadībhirurvaśī vā gṛṇātu | urvaśī vā bṛhaddivā gṛṇānābhyūrvāvaśanā prabhṛthasyāyoḥ | siṣaktu na ūrjavyasya puṣṭeḥ || - 5.41.19-20 abhigṛṇāt na iḷā | yūthasya mātā | sarvasya mātā | smadabhi nadībhiḥ | urvaśī vā gṛṇātu | urvaśī vā | bṛhaddivā mahaddivā | gṛṇānā | abhyūrṇvānā | prabhṛthasya prabhṛtasya | āyorayanasya manuṣyasya jyotiṣo vodakasya vā | sevatāṁ no'nnasya puṣṭeḥ | rodasī rudrasya patnī | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'हमारे लिए इळा, समूह की माता, नदियों के साथ, अथवा उर्वशी, महा-द्युलोक वाली, हमारी स्तुति करे; वह मनुष्य की ज्योति या जल की पुष्टि के लिए हमारी सेवा करे।' रोदसी रुद्र की पत्नी है।
श्लोक 11.50
रथं नु मारुतं वयं श्रव॒स्युमा हुवामहे ।। आ यस्मिन्तस्थौ सुरणानि बिभ्रती सचा मरुत्सु रोदसी ॥ रथं षिप्रं मारुतं मेघं वयं श्रवणीयमाह्वयामहे । प्रा यस्मिन्तस्थौ सुरमणीयान्युदकानि बिभ्रती सचा मरुद्भिः सह रोदसी रोदसी
rathaṁ nu mārutaṁ vayaṁ śravasyumā huvāmahe || ā yasmintasthau suraṇāni bibhratī sacā marutsu rodasī || rathaṁ ṣipraṁ mārutaṁ meghaṁ vayaṁ śravaṇīyamāhvayāmahe | prā yasmintasthau suramaṇīyānyudakāni bibhratī sacā marudbhiḥ saha rodasī rodasī
इस अन्तिम ऋचा में मरुतों के रथ की स्तुति है: 'हम मारुत रथ को, यशस्वी, बुलाते हैं, जिस पर सवार होकर, सुखद जल धारण करती हुई, रोदसी मरुतों के साथ रहती है।' इस प्रकार ग्यारहवाँ अध्याय पूर्ण होता है।
श्लोक 12.1
अथातो द्युस्थाना देवताः । तासामश्विनौ प्रथमागामिनौ भवतः । अश्विनौ यद्व्यश्नुवाते सर्वम् । रसेनान्यः । ज्योतिषान्यः । अश्वैरश्विनावित्यौर्णवाभः । तत्कावश्विनौ । द्यावापृथिव्यावित्येके । अहोरात्रावित्येके । सूर्याचन्द्रमसावित्येके । राजानौ पुण्यकृतावित्यैतिहासिकाः । तयोः काल ऊर्ध्वमर्धरात्रात्प्रकाशीभावस्यानुविष्टम्भम् । अनुतमोभागो हि मध्यमो ज्योतिर्भाग आदित्यः । तयोरेषा भवति
athāto dyusthānā devatāḥ | tāsāmaśvinau prathamāgāminau bhavataḥ | aśvinau yadvyaśnuvāte sarvam | rasenānyaḥ | jyotiṣānyaḥ | aśvairaśvināvityaurṇavābhaḥ | tatkāvaśvinau | dyāvāpṛthivyāvityeke | ahorātrāvityeke | sūryācandramasāvityeke | rājānau puṇyakṛtāvityaitihāsikāḥ | tayoḥ kāla ūrdhvamardharātrātprakāśībhāvasyānuviṣṭambham | anutamobhāgo hi madhyamo jyotirbhāga ādityaḥ | tayoreṣā bhavati
अब द्यु-स्थान की देवताओं का प्रकरण है। इनमें अश्विनौ सबसे पहले आते हैं — दोनों अश्विन मिलकर सम्पूर्ण व्याप्त करते हैं, एक रस से, दूसरा ज्योति से (और्णवाभ के अनुसार अश्व-सहचर्य से 'अश्विन' नाम)। अश्विनौ कौन हैं — द्यावापृथिवी, अहोरात्र, सूर्य-चन्द्रमा, या दो पुण्यकर्मी राजा — इन पर विविध मत हैं। उनका काल अर्धरात्रि के बाद, प्रकाश होने से पूर्व का सन्धिकाल है, क्योंकि आदित्य अन्धकार का मध्यम भाग होता है।
श्लोक 12.2
वसातिषु स्म चरथोऽसितौ पेत्वाविव । कदेदमश्विना युवमभि दे॒वाँ अगच्छतम् ॥ इति सा निगदव्याख्याता । तयोः समानकालयोः समानकर्मणोः संस्तुतप्राययोरसंस्तवेनैषोऽर्धर्चो भवति । वासात्यो अन्य उच्यते । उषः पुत्रस्त्वन्य इति । तयोरेषापरा भवति
vasātiṣu sma caratho'sitau petvāviva | kadedamaśvinā yuvamabhi devām̐ agacchatam || iti sā nigadavyākhyātā | tayoḥ samānakālayoḥ samānakarmaṇoḥ saṁstutaprāyayorasaṁstavenaiṣo'rdharco bhavati | vāsātyo anya ucyate | uṣaḥ putrastvanya iti | tayoreṣāparā bhavati
इस ऋचा में कहा गया है: 'तुम दोनों निवास-स्थानों में विचरते हो, जैसे दो अन्धे पक्षी; हे अश्विनौ, कब तुम देवताओं के पास पहुँचते हो?' समान-काल, समान-कर्म वाले, साथ-साथ स्तुत होने वाले इन दोनों के लिए यह असंस्तव (पृथक् उल्लेख) वाला अर्ध-ऋचा भी है — एक को 'वासात्य' (रात्रि-सम्बन्धी) और दूसरे को 'उषा-पुत्र' कहा जाता है।
श्लोक 12.3
इहेह जाता समवावशीतामरेपसा तन्वा ३ नामभिः स्वैः । जिष्णुर्वाम॒न्यः सुमखस्य सूरिर्दिवो अन्यः सुभगः पुत्र ऊहे ॥ इह चेह च जातौ संस्तूयेते पापेनालिप्यमानया तन्वा नामभिश्च स्वैः । जिष्णुर्वामन्यः सुमहतो बलस्येरयिता मध्यमः । दिवोऽन्यः सुभगः पुत्र ऊह्यत आदित्यः । तयोरेषापरा भवति
iheha jātā samavāvaśītāmarepasā tanvā 3 nāmabhiḥ svaiḥ | jiṣṇurvāmanyaḥ sumakhasya sūrirdivo anyaḥ subhagaḥ putra ūhe || iha ceha ca jātau saṁstūyete pāpenālipyamānayā tanvā nāmabhiśca svaiḥ | jiṣṇurvāmanyaḥ sumahato balasyerayitā madhyamaḥ | divo'nyaḥ subhagaḥ putra ūhyata ādityaḥ | tayoreṣāparā bhavati
इस ऋचा में कहा गया है: 'यहाँ-यहाँ जन्मे, निष्पाप शरीर से, अपने-अपने नामों से स्तुत होते हैं; एक विजयी, महान् बल का प्रेरक, मध्यम देवता; दूसरा द्युलोक का सौभाग्यशाली पुत्र, आदित्य कहा जाता है।'
श्लोक 12.4
प्रातर्युजा वि बोधयाश्विनावेह गच्छताम् । अस्य सोम॑स्य पीतये ॥ प्रातर्योगिनौ विबोधयाश्विनाविहागच्छतामस्य सोमस्य पानाय । तयोरेषापरा भवति
prātaryujā vi bodhayāśvināveha gacchatām | asya somasya pītaye || prātaryoginau vibodhayāśvināvihāgacchatāmasya somasya pānāya | tayoreṣāparā bhavati
इस ऋचा में कहा गया है: 'प्रातःकाल के सहयोगी अश्विनौ को जगाओ, वे यहाँ इस सोम के पान के लिए आएँ।'
श्लोक 12.5
प्रातर्यजध्वमश्विना हिनोत न सायमस्ति देवया अजुष्टम् । उतान्यो अस्मद्यजते वि चावः पूर्वःपूर्वो यज॑मानो वनीयान् ॥ प्रातर्यजध्वमश्विनौ प्रहिणुत न सायमस्ति देवेज्या अजुष्टमेतत् । अप्यन्योऽस्मद्यजते वि चावः । पूर्वःपूर्वो यजमानो वनीयान्वनयितृतमः । तयोः कालः सूर्योदयपर्यन्तः । तस्मिन्नन्या देवता ओप्यन्ते । उषा वष्टेः कान्तिकर्मणः । उच्छतेरितरा माध्यमिका । तस्या एषा भवति
prātaryajadhvamaśvinā hinota na sāyamasti devayā ajuṣṭam | utānyo asmadyajate vi cāvaḥ pūrvaḥpūrvo yajamāno vanīyān || prātaryajadhvamaśvinau prahiṇuta na sāyamasti devejyā ajuṣṭametat | apyanyo'smadyajate vi cāvaḥ | pūrvaḥpūrvo yajamāno vanīyānvanayitṛtamaḥ | tayoḥ kālaḥ sūryodayaparyantaḥ | tasminnanyā devatā opyante | uṣā vaṣṭeḥ kāntikarmaṇaḥ | ucchateritarā mādhyamikā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'प्रातःकाल यजन करो, हे अश्विनौ, भेजो — सन्ध्या में देव-यजन प्रिय नहीं होता; कोई अन्य भी हमसे भिन्न यजन करता है — पहले-पहले यजमान ही सबसे लाभान्वित होता है।' अश्विनों का काल सूर्योदय तक है। इसी में अन्य देवता भी जुड़ते हैं — उषा 'कान्ति' धातु से।
श्लोक 12.6
उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति । येन तोकं च तनयं च धामहे ॥ उषस्तत् चायनीयं धनमाहर । अस्मभ्यमन्नवति । येन पुत्राँश्च पौत्राँश्च दधीमहि । तस्या एषापरा भवति
uṣastaccitramā bharāsmabhyaṁ vājinīvati | yena tokaṁ ca tanayaṁ ca dhāmahe || uṣastat cāyanīyaṁ dhanamāhara | asmabhyamannavati | yena putrām̐śca pautrām̐śca dadhīmahi | tasyā eṣāparā bhavati
इस ऋचा में उषा से कहा जाता है: 'हे उषा, वह चायनीय धन हमें दो, हे अन्नवती, जिससे हम पुत्र-पौत्र धारण करें।'
श्लोक 12.7
एता उ त्या उषसः केतुम॑क्रत पूर्वे अर्धे रज॑सो भानुमञ्जते । निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ एतास्ता उषसः केतुमकृषत प्रज्ञानम् । एकस्या एव पूजनार्थे बहुवचनं स्यात् । पूर्वेऽर्धेऽन्तरिक्षलोकस्य समञ्जते भानुना । निष्कृण्वाना आयुधानीव धृष्णवः । निरित्येष समित्येतस्य स्थाने । एमीदेषां निष्कृतं जारिणीव । इत्यपि निगमो भवति । प्रति यन्ति । गावो गमनात् । अरुषीरारोचनात् । मातरो भासो निर्मात्र्यः । सूर्या सूर्यस्य पत्नी । एषैवाभिसृष्टकालतमा । तस्या एषा भवति
etā u tyā uṣasaḥ ketumakrata pūrve ardhe rajaso bhānumañjate | niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ prati gāvo'ruṣīryanti mātaraḥ || etāstā uṣasaḥ ketumakṛṣata prajñānam | ekasyā eva pūjanārthe bahuvacanaṁ syāt | pūrve'rdhe'ntarikṣalokasya samañjate bhānunā | niṣkṛṇvānā āyudhānīva dhṛṣṇavaḥ | nirityeṣa samityetasya sthāne | emīdeṣāṁ niṣkṛtaṁ jāriṇīva | ityapi nigamo bhavati | prati yanti | gāvo gamanāt | aruṣīrārocanāt | mātaro bhāso nirmātryaḥ | sūryā sūryasya patnī | eṣaivābhisṛṣṭakālatamā | tasyā eṣā bhavati
इस ऋचा में कहा गया है: 'इन उषाओं ने अपनी प्रज्ञा प्रकट की, अन्तरिक्ष के पूर्वार्ध में किरणों से सज्जित होती हैं, जैसे आयुध सजाने वाले साहसी योद्धा; गमनशील, अरुण-वर्णा, ये माताएँ (किरणें) लौट आती हैं।' सूर्या सूर्य की पत्नी है, जो अभिसृष्ट-काल (विवाह-योग्य) की सर्वाधिक प्रतीक है।
श्लोक 12.8
सुकिंशुकं शल्मलिं विश्वरूपं हिर॑ण्यवर्णं सुवृतं सुचक्रम् । आ रोह सूर्ये अमृतस्य लोकं स्योनं पत्ये वह॒तुं कृणुष्व ॥ सुकाशनं शन्नमलं सर्वरूपम् । अपि वोपमार्थे स्यात् । सुकिंशुकमिव शल्मलिमिति । किंशुकं क्रंशतेः प्रकाशयतिकर्मणः । शल्मलिः सुशरो भवति । शरवान्वा । आरोह सूर्ये अमृतस्य लोकमुदकस्य । सुखं पत्ये वहतुं कुरुष्व । सविता सूर्यां प्रायच्छत्सोमाय राज्ञे प्रजापतये वा । इति च ब्राह्मणम् । वृषाकपायी वृषाकपेः पत्नी । एषैवाभिसृष्टकालतमा । तस्या एषा भवति
sukiṁśukaṁ śalmaliṁ viśvarūpaṁ hiraṇyavarṇaṁ suvṛtaṁ sucakram | ā roha sūrye amṛtasya lokaṁ syonaṁ patye vahatuṁ kṛṇuṣva || sukāśanaṁ śannamalaṁ sarvarūpam | api vopamārthe syāt | sukiṁśukamiva śalmalimiti | kiṁśukaṁ kraṁśateḥ prakāśayatikarmaṇaḥ | śalmaliḥ suśaro bhavati | śaravānvā | āroha sūrye amṛtasya lokamudakasya | sukhaṁ patye vahatuṁ kuruṣva | savitā sūryāṁ prāyacchatsomāya rājñe prajāpataye vā | iti ca brāhmaṇam | vṛṣākapāyī vṛṣākapeḥ patnī | eṣaivābhisṛṣṭakālatamā | tasyā eṣā bhavati
यह प्रसिद्ध सूर्या-विवाह सूक्त की ऋचा है: 'सुन्दर पलाश-फूल-वर्ण, शाल्मलि-वृक्ष-सदृश, विश्वरूप, स्वर्ण-वर्ण, सुगोल पहिये वाले रथ पर आरोहण करो, हे सूर्या, अमृत-जल के लोक में; अपने पति के लिए सुखद वधू-यात्रा करो।' वृषाकपायी वृषाकपि की पत्नी है, जो विवाह-काल की भी प्रतीक है।
श्लोक 12.9
वृषाकपायि रेवति सुपुत्र आदु सुस्नुषे । घसत्त इन्द्र उक्षणः प्रियं काचित्करं हविर्विश्वस्मादिन्द्र उत्तरः ॥ वृषाकपायि रेवति सुपुत्रे मध्यमेन सुस्नुषे माध्यमिकया वाचा । स्नुषा साधुसादिनीति वा । साधुसानिनीति वा । स्वपत्यं तत्सनोतीति वा । प्राश्नातु त इन्द्र उक्षण एतान्माध्यमिकान्त्संस्त्यायान् । उक्षण उक्षतेर्वृद्धिकर्मणः । उक्षन्त्युदकेनेति वा । प्रियं कुरुष्व सुखाचयकरं हविः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद्ब्रूम आदित्यम् । सरण्यूः सरणात् । तस्या एषा भवति
vṛṣākapāyi revati suputra ādu susnuṣe | ghasatta indra ukṣaṇaḥ priyaṁ kācitkaraṁ havirviśvasmādindra uttaraḥ || vṛṣākapāyi revati suputre madhyamena susnuṣe mādhyamikayā vācā | snuṣā sādhusādinīti vā | sādhusāninīti vā | svapatyaṁ tatsanotīti vā | prāśnātu ta indra ukṣaṇa etānmādhyamikāntsaṁstyāyān | ukṣaṇa ukṣatervṛddhikarmaṇaḥ | ukṣantyudakeneti vā | priyaṁ kuruṣva sukhācayakaraṁ haviḥ | sarvasmād ya indra uttarastametadbrūma ādityam | saraṇyūḥ saraṇāt | tasyā eṣā bhavati
इस प्रसिद्ध वृषाकपि-सूक्त की ऋचा में कहा गया है: 'हे वृषाकपायि, धनवती, सुपुत्रे, सुस्नुषे! हे इन्द्र, बैल खाओ, तुम्हारे लिए यह प्रिय हविष्य हो — सबसे उच्च इन्द्र है।' 'स्नुषा' (पुत्रवधू) मध्यम-वाणी से जुड़ी है — सरण्यू (नीचे वर्णित) की व्युत्पत्ति भी दी गई है।
श्लोक 12.10
अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । उताश्विनावभरद्यत्तदासीदजहादु द्वा मिथुना सरण्यूः ॥ अपागूहन्नमृतां मर्त्येभ्यः कृत्वी सवर्णामददुर्विवस्वते । अप्यश्विनाभरत् यत्तदासीत् । अजहाद् द्वौ मिथुनौ सरण्यूः । मध्यमं च माध्यमिकां च वाचमिति नैरुक्ताः । यमं च यमीं चेत्यैतिहासिकाः । तत्रेतिहासमाचक्षते । त्वाष्ट्री सरण्यूर्विवस्वत आदित्याद्यमौ मिथुनौ जनयाञ्चकार । स सवर्णामन्यां प्रतिनिधायाश्वं रूपं कृत्वा प्रदुद्राव । स विवस्वानादित्य आश्वमेव रूपं कृत्वा तामनुसृत्य संबभूव । ततोऽश्विनौ जज्ञाते । सवर्णायां मनुः । तदभिवादिन्येषर्ग्भवति
apāgūhannamṛtāṁ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate | utāśvināvabharadyattadāsīdajahādu dvā mithunā saraṇyūḥ || apāgūhannamṛtāṁ martyebhyaḥ kṛtvī savarṇāmadadurvivasvate | apyaśvinābharat yattadāsīt | ajahād dvau mithunau saraṇyūḥ | madhyamaṁ ca mādhyamikāṁ ca vācamiti nairuktāḥ | yamaṁ ca yamīṁ cetyaitihāsikāḥ | tatretihāsamācakṣate | tvāṣṭrī saraṇyūrvivasvata ādityādyamau mithunau janayāñcakāra | sa savarṇāmanyāṁ pratinidhāyāśvaṁ rūpaṁ kṛtvā pradudrāva | sa vivasvānāditya āśvameva rūpaṁ kṛtvā tāmanusṛtya saṁbabhūva | tato'śvinau jajñāte | savarṇāyāṁ manuḥ | tadabhivādinyeṣargbhavati
इस ऋचा में कहा गया है: 'अमृता को मर्त्यों से छिपाकर, उसकी समरूप प्रतिकृति विवस्वान् को दी गई; अश्विनों को भी वह ले आई; सरण्यू ने युगल सन्तान को छोड़ दिया।' यह त्वाष्ट्री सरण्यू का प्रसिद्ध आख्यान है — उसने विवस्वान् आदित्य से यम-यमी युगल को जन्म दिया, फिर अपनी प्रतिकृति छोड़कर अश्व-रूप धारण कर भाग गई; विवस्वान् ने भी अश्व-रूप धारण कर उसका अनुसरण किया, जिससे अश्विनौ उत्पन्न हुए, और प्रतिकृति से मनु।
श्लोक 12.11
त्वष्टा दुहित्रे वह॒तुं कृणोतीतीदं विश्वं भुवनं समेति । यमस्य माता पर्युह्यमाना महो जाया विवस्वतो ननाश ॥ त्वष्टा दुहितुर्वहनं करोतीति इदं विश्वं भुवनं समेति । इमानि च सर्वाणि भूतान्यभिसमागच्छन्ति । यमस्य माता पर्युह्यमाना महतो जाया विवस्वतो ननाश । रात्रिरादित्यस्य । आदित्योदयेऽन्तर्धीयते
tvaṣṭā duhitre vahatuṁ kṛṇotītīdaṁ viśvaṁ bhuvanaṁ sameti | yamasya mātā paryuhyamānā maho jāyā vivasvato nanāśa || tvaṣṭā duhiturvahanaṁ karotīti idaṁ viśvaṁ bhuvanaṁ sameti | imāni ca sarvāṇi bhūtānyabhisamāgacchanti | yamasya mātā paryuhyamānā mahato jāyā vivasvato nanāśa | rātrirādityasya | ādityodaye'ntardhīyate
इस ऋचा में कहा गया है: 'त्वष्टा अपनी पुत्री के लिए विवाह-यात्रा रचता है — इसी में यह समस्त लोक समाहित हो जाता है; यम की माता, विवाहित होती हुई, विवस्वान् की महती पत्नी, अदृश्य हो गई।' यह रात्रि है, जो आदित्य के उदय होने पर छिप जाती है।
श्लोक 12.12
सविता व्याख्यातः । तस्य कालो यदा द्यौरपहततमस्काकीर्णरश्मिर्भवति । तस्यैषा भवति
savitā vyākhyātaḥ | tasya kālo yadā dyaurapahatatamaskākīrṇaraśmirbhavati | tasyaiṣā bhavati
सविता की व्याख्या पहले हो चुकी है — उसका काल वह है जब द्युलोक अन्धकार-रहित, किरणों से व्याप्त हो जाता है।
श्लोक 12.13
विश्वा रूपाणि प्रति मुञ्चते कविः प्रासावीद्भद्रं द्विपदे चतुष्पदे । वि नाकमख्यत्सविता वरेण्योऽनु प्रयाणमुषसो वि राजति ॥ सर्वाणि प्रज्ञानानि प्रतिमुञ्चते मेधावी । कविः क्रान्तदर्शनो भवति । कवतेर्वा । प्रसुवति भद्रं द्विपाद्भ्यश्च चतुष्पाद्भ्यश्च । व्यचिख्यपन्नाकं सविता वरणीयः । प्रयाणमनूषसो विराजति । अधोरामः सावित्रः । इति पशुसमाम्नाये विज्ञायते । कस्मात्सामान्यादिति । अधस्तात्तद्वेलायां तमो भवत्येतस्मात्सामान्यात् । अधस्ताद्रामोऽधस्तात्कृष्णः । कस्मात्सामान्यादिति । अग्निं चित्वा न रामामुपेयात् । रामा रमणायोपेयते न धर्माय । कृष्णजातीयैतस्मात्सामान्यात् । कृकवाकुः सावित्रः । इति पशुसमाम्नाये विज्ञायते । कस्मात्सामान्यादिति । कालानुवादं परीत्य । कृकवाकोः पूर्वं शब्दानुकरणं वचेरुत्तरम् । भगो व्याख्यातः । तस्य कालः प्रागुत्सर्पणात् । तस्यैषा भवति
viśvā rūpāṇi prati muñcate kaviḥ prāsāvīdbhadraṁ dvipade catuṣpade | vi nākamakhyatsavitā vareṇyo'nu prayāṇamuṣaso vi rājati || sarvāṇi prajñānāni pratimuñcate medhāvī | kaviḥ krāntadarśano bhavati | kavatervā | prasuvati bhadraṁ dvipādbhyaśca catuṣpādbhyaśca | vyacikhyapannākaṁ savitā varaṇīyaḥ | prayāṇamanūṣaso virājati | adhorāmaḥ sāvitraḥ | iti paśusamāmnāye vijñāyate | kasmātsāmānyāditi | adhastāttadvelāyāṁ tamo bhavatyetasmātsāmānyāt | adhastādrāmo'dhastātkṛṣṇaḥ | kasmātsāmānyāditi | agniṁ citvā na rāmāmupeyāt | rāmā ramaṇāyopeyate na dharmāya | kṛṣṇajātīyaitasmātsāmānyāt | kṛkavākuḥ sāvitraḥ | iti paśusamāmnāye vijñāyate | kasmātsāmānyāditi | kālānuvādaṁ parītya | kṛkavākoḥ pūrvaṁ śabdānukaraṇaṁ vaceruttaram | bhago vyākhyātaḥ | tasya kālaḥ prāgutsarpaṇāt | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'बुद्धिमान् कवि सब रूप धारण करता है, द्विपाद और चतुष्पाद के लिए कल्याण उत्पन्न करता है; वरणीय सविता ने स्वर्ग को प्रकट किया, वह उषा के प्रयाण के अनुसार शोभित होता है।' पशु-सूची में 'अधोराम' और 'कृकवाकु' (मुर्गा) को सविता से जोड़ा गया है — काल-सामान्य से। भग की व्याख्या पहले हो चुकी है — उसका काल सूर्योदय से पहले का है।
श्लोक 12.14
प्रातर्जितं भगमुग्रं हुवेम वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चिद्राजा चिद्यं भगं भक्षीत्याह ॥ प्रातर्जितं भगमुग्रं ह्वयेम वयं पुत्रमदितेर्यो विधारयिता सर्वस्य । आध्रश्चिद्यं मन्यमान आढ्यालुर्दरिद्रः । तुरश्चित् । तुर इति यमनाम । तरतेर्वा । त्वरतेर्वा । त्वरया तूर्णगतिर्यमः । राजा चिद्यं भगं भक्षीत्याह । अन्धो भग इत्याहुरनुत्सृप्तो न दृश्यते । प्राशित्रमस्याक्षिणी निर्जघान । इति च ब्राह्मणम् । जनं भगो गच्छति । इति वा विज्ञायते । जनं गच्छत्यादित्य उदयेन । सूर्यः सर्तेर्वा । सुवतेर्वा । स्वीर्यतेर्वा । तस्यैषा भवति
prātarjitaṁ bhagamugraṁ huvema vayaṁ putramaditeryo vidhartā | ādhraścidyaṁ manyamānasturaścidrājā cidyaṁ bhagaṁ bhakṣītyāha || prātarjitaṁ bhagamugraṁ hvayema vayaṁ putramaditeryo vidhārayitā sarvasya | ādhraścidyaṁ manyamāna āḍhyālurdaridraḥ | turaścit | tura iti yamanāma | taratervā | tvaratervā | tvarayā tūrṇagatiryamaḥ | rājā cidyaṁ bhagaṁ bhakṣītyāha | andho bhaga ityāhuranutsṛpto na dṛśyate | prāśitramasyākṣiṇī nirjaghāna | iti ca brāhmaṇam | janaṁ bhago gacchati | iti vā vijñāyate | janaṁ gacchatyāditya udayena | sūryaḥ sartervā | suvatervā | svīryatervā | tasyaiṣā bhavati
इस ऋचा में भग की स्तुति है: 'हम प्रातः-विजयी, उग्र भग को पुकारें, अदिति के पुत्र को, जो सबका विधाता है; दरिद्र भी जिसे कामना करता है, वेगवान् भी, राजा भी कहता है — भग को भोग करूँ।' 'अन्ध भग' का ब्राह्मण-वचन भी उद्धृत है — भग जन्म-समय दिखाई नहीं देता।
श्लोक 12.15
उदु त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वा॑य॒ सूर्यम् ॥ उद्वहन्ति तं जातवेदसं रश्मयः केतवः । सर्वेषां भूतानां दर्शनाय सूर्यमिति । कमन्यमादित्यादेवमवक्ष्यत् । तस्यैषापरा भवति
udu tyaṁ jātavedasaṁ devaṁ vahanti ketavaḥ | dṛśe viśvāya sūryam || udvahanti taṁ jātavedasaṁ raśmayaḥ ketavaḥ | sarveṣāṁ bhūtānāṁ darśanāya sūryamiti | kamanyamādityādevamavakṣyat | tasyaiṣāparā bhavati
इस ऋचा में कहा गया है: 'किरणें उस जातवेदा देव को ऊपर उठाती हैं, सूर्य को, सबके दर्शन के लिए।' यह आदित्य-सम्बन्धी अगली देवता की ओर संकेत करता है।
श्लोक 12.16
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य॒ वरुणस्याग्नेः ।। आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्च ॥ चायनीयं देवानामुदगमदनीकम् । ख्यानं मित्रस्य वरुणस्याग्नेश्च । आपूपुरद् द्यावापृथिव्यौ चान्तरिक्षं च महत्त्वेन । सूर्य आत्मा जङ्गमस्य च स्थावरस्य च । अथ यद्रश्मिपोषं पुष्यति तत्पूषा भवति । तस्यैषा भवति
citraṁ devānāmudagādanīkaṁ cakṣurmitrasya varuṇasyāgneḥ || āprā dyāvāpṛthivī antarikṣaṁ sūrya ātmā jagatastasthuṣaśca || cāyanīyaṁ devānāmudagamadanīkam | khyānaṁ mitrasya varuṇasyāgneśca | āpūpurad dyāvāpṛthivyau cāntarikṣaṁ ca mahattvena | sūrya ātmā jaṅgamasya ca sthāvarasya ca | atha yadraśmipoṣaṁ puṣyati tatpūṣā bhavati | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'देवताओं का विचित्र अनीक (मुख) उदित हुआ, मित्र, वरुण और अग्नि का नेत्र; उसने द्यावापृथिवी और अन्तरिक्ष को महत्ता से भर दिया — सूर्य ही चर और अचर का आत्मा है।' जो रश्मि-पोषण करता है वही पूषा कहलाता है।
श्लोक 12.17
शुक्रं ते अन्यद्यजतं ते अन्यद्विषरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावो भद्रा ते पूषन्निह रातिरस्तु ॥ शुक्रं ते अन्यत् । लोहितं ते अन्यत् । यजतं ते अन्यत् । यज्ञियं ते अन्यत् । विषमरूपे ते अहनी कर्म द्यौरिव चासि । सर्वाणि प्रज्ञानाम्यवसि । अन्नवन् । भाजनवती ते पूषन्निह दत्तिरस्तु । तस्यैषापरा भवति
śukraṁ te anyadyajataṁ te anyadviṣarūpe ahanī dyaurivāsi | viśvā hi māyā avasi svadhāvo bhadrā te pūṣanniha rātirastu || śukraṁ te anyat | lohitaṁ te anyat | yajataṁ te anyat | yajñiyaṁ te anyat | viṣamarūpe te ahanī karma dyauriva cāsi | sarvāṇi prajñānāmyavasi | annavan | bhājanavatī te pūṣanniha dattirastu | tasyaiṣāparā bhavati
इस ऋचा में पूषा की स्तुति है: 'तुम्हारा एक रूप शुक्ल है, दूसरा रक्त; एक यज्ञ-योग्य, दूसरा यज्ञिय; तुम्हारे दो विषम-रूप अहन् (दिन-रात) द्यु के समान हैं; तुम समस्त माया की रक्षा करते हो, हे स्वधावान् पूषन्, यहाँ तुम्हारा कल्याणकारी दान हो।'
श्लोक 12.18
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्या॑नळर्कम् । स नो रासच्छुरुधश्चन्द्राग्रा धियंधियं सीषधाति प्र पूषा ॥ पथस्पथः । अधिपतिम् । वचनेन । कामेन कृतः । अभ्यानळर्कम् । अभ्यापन्नोऽर्कमिति वा । स नो ददातु चायनीयाग्राणि धनानि । कर्मकर्म च नः प्रसाधयतु पूषेति । अथ यद्विषितो भवति तद्विष्णुर्भवति । विष्णुर्विशतेर्वा । व्यश्नोतेर्वा । तस्यैषा भवति
pathaspathaḥ paripatiṁ vacasyā kāmena kṛto abhyānaḷarkam | sa no rāsacchurudhaścandrāgrā dhiyaṁdhiyaṁ sīṣadhāti pra pūṣā || pathaspathaḥ | adhipatim | vacanena | kāmena kṛtaḥ | abhyānaḷarkam | abhyāpanno'rkamiti vā | sa no dadātu cāyanīyāgrāṇi dhanāni | karmakarma ca naḥ prasādhayatu pūṣeti | atha yadviṣito bhavati tadviṣṇurbhavati | viṣṇurviśatervā | vyaśnotervā | tasyaiṣā bhavati
इस ऋचा में पूषा से कहा जाता है: 'प्रत्येक मार्ग के अधिपति, वचन से और कामना से रचित, अर्क (सूर्य) तक पहुँचे हुए; वह हमें उत्तम धन दे, प्रत्येक कर्म को सिद्ध करे, पूषा।' जो व्याप्त होता है वह विष्णु कहलाता है।
श्लोक 12.19
इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदम् । समूळ्हमस्य पाँसुरे ॥ यदिदं किं च तद्विक्रमते विष्णुः । त्रिधा निधत्ते पदम् । त्रेधाभावाय । पृथिव्यामन्तरिक्षे दिवीति शाकपूणिः ।। समारोहणे विष्णुपदे गयशिरसीत्यौर्णवाभः । समूळ्हमस्य पाँसुरे प्यायनेऽन्तरिक्षे पदं न दृश्यते । अपि वोपमार्थे स्यात् । समूळ्हमस्य पाँसुल इव पदं न दृश्यत इति । पाँसवः पादैः सूयन्त इति वा । पन्नाः शेरत इति वा । पंसनीया भवन्तीति वा
idaṁ viṣṇurvi cakrame tredhā ni dadhe padam | samūḷhamasya pām̐sure || yadidaṁ kiṁ ca tadvikramate viṣṇuḥ | tridhā nidhatte padam | tredhābhāvāya | pṛthivyāmantarikṣe divīti śākapūṇiḥ || samārohaṇe viṣṇupade gayaśirasītyaurṇavābhaḥ | samūḷhamasya pām̐sure pyāyane'ntarikṣe padaṁ na dṛśyate | api vopamārthe syāt | samūḷhamasya pām̐sula iva padaṁ na dṛśyata iti | pām̐savaḥ pādaiḥ sūyanta iti vā | pannāḥ śerata iti vā | paṁsanīyā bhavantīti vā
इस प्रसिद्ध ऋचा में विष्णु के त्रिविक्रम का वर्णन है: 'यह विष्णु तीन पगों में चला, तीन प्रकार अपना पद स्थापित किया; उसका (तीसरा) पद धूलि में छिपा हुआ है।' शाकपूणि के अनुसार यह पृथिवी, अन्तरिक्ष और द्यु में है; और्णवाभ के अनुसार यह विष्णु-पद पर्वत-शिखर पर है, जो अन्तरिक्ष में धूल-सदृश अदृश्य रहता है।
श्लोक 12.20
विश्वानरो व्याख्यातः । तस्यैष निपातो भवत्यैन्द्र्यामृचि
viśvānaro vyākhyātaḥ | tasyaiṣa nipāto bhavatyaindryāmṛci
विश्वानर की व्याख्या पहले हो चुकी है — यह उल्लेख इन्द्र-सम्बन्धी एक ऋचा में मिलता है।
श्लोक 12.21
विश्वानरस्य वस्पतिमानतस्य॒ शव॑सः । एवैश्च चर्षणीनामूती हुवे रथानाम् ॥ विश्वानरस्यादित्यस्य । अनानतस्य । शवसो महतो बलस्य । एवैश्च कामैरयनैरवनैर्वा । चर्षणीनां मनुष्याणाम् । ऊत्या च पथा रथानाम् । इन्द्रमस्मिन्यज्ञे ह्वयामि । वरुणो व्याख्यातः । तस्यैषा भवति
viśvānarasya vaspatimānatasya śavasaḥ | evaiśca carṣaṇīnāmūtī huve rathānām || viśvānarasyādityasya | anānatasya | śavaso mahato balasya | evaiśca kāmairayanairavanairvā | carṣaṇīnāṁ manuṣyāṇām | ūtyā ca pathā rathānām | indramasminyajñe hvayāmi | varuṇo vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'विश्वानर आदित्य के, अनम्य महान् बल के, कामनाओं और मार्गों से, मनुष्यों और रथों की रक्षा के लिए, मैं इस यज्ञ में इन्द्र को पुकारता हूँ।' वरुण की व्याख्या पहले हो चुकी है।
श्लोक 12.22
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥ भुरण्युरिति क्षिप्रनाम । भुरण्युः शकुनिः । भूरिमध्वानं नयति । स्वर्गस्य लोकस्यापि वोळ्हा । तत्संपाती भुरण्युः । अनेन । पावकख्यानेन । भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि । तत्ते वयं स्तुम इति वाक्यशेषः । अपि वोत्तरस्याम्
yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || bhuraṇyuriti kṣipranāma | bhuraṇyuḥ śakuniḥ | bhūrimadhvānaṁ nayati | svargasya lokasyāpi voḷhā | tatsaṁpātī bhuraṇyuḥ | anena | pāvakakhyānena | bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi | tatte vayaṁ stuma iti vākyaśeṣaḥ | api vottarasyām
इस ऋचा में वरुण से कहा जाता है: 'जिस पावक दृष्टि से तुम, हे वरुण, वेगवान् मनुष्यों को देखते हो।' 'भुरण्यु' शीघ्रता का नाम है, पक्षी के लिए भी प्रयुक्त — 'दूर मार्ग ले जाने वाला', स्वर्ग-लोक का वाहक।
श्लोक 12.23
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥ वि द्यामेषि रज॑स्पृथ्वहा मिमा॑नो अक्तुभिः । पश्यञ्जन्मानि सूर्य ॥ व्येषि द्याम् । रजश्च । पृथु महान्तं लोकम् । अहानि च मिमानोऽक्तुभी रात्रिभिः सह । पश्यञ्जन्मानि जातानि सूर्य । अपि वा पूर्वस्याम्
yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || vi dyāmeṣi rajaspṛthvahā mimāno aktubhiḥ | paśyañjanmāni sūrya || vyeṣi dyām | rajaśca | pṛthu mahāntaṁ lokam | ahāni ca mimāno'ktubhī rātribhiḥ saha | paśyañjanmāni jātāni sūrya | api vā pūrvasyām
इस ऋचा में कहा गया है: 'तुम द्युलोक में, विस्तृत रज (अन्तरिक्ष) में, दिनों को रात्रियों सहित नापते हुए विचरते हो; हे सूर्य, समस्त उत्पन्न वस्तुओं को देखते हुए।'
श्लोक 12.24
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥ प्रत्यङ् दे॒वानां विशः प्रत्यङ्ङुदेषि मानुषान् । प्रत्यङ् विश्वं स्वर्दृशे ॥ प्रत्यङ्ङिदं सर्वम् । उदेषि । प्रत्यङ्ङिदं ज्योतिरुच्यते । प्रत्यङ्ङिदं सर्वमिदमभिविपश्यसीति । अपि वैतस्यामेव
yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || pratyaṅ devānāṁ viśaḥ pratyaṅṅudeṣi mānuṣān | pratyaṅ viśvaṁ svardṛśe || pratyaṅṅidaṁ sarvam | udeṣi | pratyaṅṅidaṁ jyotirucyate | pratyaṅṅidaṁ sarvamidamabhivipaśyasīti | api vaitasyāmeva
इस ऋचा में कहा गया है: 'देवताओं की प्रजाओं के सम्मुख, मनुष्यों के सम्मुख तुम उदित होते हो; समस्त विश्व के सम्मुख, आकाश-दर्शन के लिए।'
श्लोक 12.25
येना पावक चक्षसा भुरण्यन्तं जनाँ अनु । त्वं वरुण पश्यसि ॥ तेन नो जनानभिविपश्यसि । केशी केशा रश्मयः । तैस्तद्वान्भवति । काशनाद्वा । प्रकाशनाद्वा । तस्यैषा भवति
yenā pāvaka cakṣasā bhuraṇyantaṁ janām̐ anu | tvaṁ varuṇa paśyasi || tena no janānabhivipaśyasi | keśī keśā raśmayaḥ | taistadvānbhavati | kāśanādvā | prakāśanādvā | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'उसी दृष्टि से तुम हम मनुष्यों को देखते हो।' 'केशी' (केश-धारी) किरणों के अर्थ में है — प्रकाशन-धातु से।
श्लोक 12.26
केश्य १ ग्निं केशी विषं केशी बिभर्ति रोदसी । केशी विश्वं स्वर्दृशे केशीदं ज्योतिरुच्यते ॥ केश्यग्निं च विषं च । विषमित्युदकनाम । विष्णातेः । विपूर्वस्य स्नातेः शुद्ध्यर्थस्य । विपूर्वस्य वा सचतेः । द्यावापृथिव्यौ च धारयति । केशीदं सर्वमिदमभिविपश्यति । केशीदं ज्योतिरुच्यत इत्यादित्यमाह ।। अथाप्येते इतरे ज्योतिषी केशिनी उच्येते । धूमेनाग्नी । रजसा च मध्यमः । तयोरेषा साधारणा भवति
keśya 1 gniṁ keśī viṣaṁ keśī bibharti rodasī | keśī viśvaṁ svardṛśe keśīdaṁ jyotirucyate || keśyagniṁ ca viṣaṁ ca | viṣamityudakanāma | viṣṇāteḥ | vipūrvasya snāteḥ śuddhyarthasya | vipūrvasya vā sacateḥ | dyāvāpṛthivyau ca dhārayati | keśīdaṁ sarvamidamabhivipaśyati | keśīdaṁ jyotirucyata ityādityamāha || athāpyete itare jyotiṣī keśinī ucyete | dhūmenāgnī | rajasā ca madhyamaḥ | tayoreṣā sādhāraṇā bhavati
इस ऋचा में कहा गया है: 'केशी अग्नि को और विष (जल) को धारण करता है, केशी द्यावापृथिवी को धारण करता है; केशी समस्त विश्व को स्वर्ग-दर्शन के लिए देखता है — केशी ही ज्योति कहलाता है।' अन्य दो ज्योतियाँ (अग्नि — धूम्र से, मध्यम — रज से) भी 'केशिनी' कहलाती हैं।
श्लोक 12.27
त्रयः केशिन ऋतुथा वि चक्षते संवत्सरे वपत एक एषाम् । विश्वमेको अभि चष्टे शचीभिर्ध्राजिरेकस्य ददृशे न रूपम् ॥ त्रयः केशिन ऋतुथा विचक्षते । कालेकालेऽभिविपश्यन्ति । संवत्सरे वपत एक एषाम् । इत्यग्निः पृथिवीं दहति । सर्वमेकोऽभिविपश्यति कर्मभिरादित्यः । गतिरेकस्य दृश्यते न रूपं मध्यमस्य । अथ यद् रश्मिभिरभिप्रकम्पयन्नेति तद् वृषाकपिर्भवति । वृषाकम्पनः । तस्यैषा भवति
trayaḥ keśina ṛtuthā vi cakṣate saṁvatsare vapata eka eṣām | viśvameko abhi caṣṭe śacībhirdhrājirekasya dadṛśe na rūpam || trayaḥ keśina ṛtuthā vicakṣate | kālekāle'bhivipaśyanti | saṁvatsare vapata eka eṣām | ityagniḥ pṛthivīṁ dahati | sarvameko'bhivipaśyati karmabhirādityaḥ | gatirekasya dṛśyate na rūpaṁ madhyamasya | atha yad raśmibhirabhiprakampayanneti tad vṛṣākapirbhavati | vṛṣākampanaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'तीन केशी काल-क्रम से देखते हैं, इनमें से एक संवत्सर में बोता है; एक अपनी शक्तियों से समस्त विश्व को देखता है, एक की गति तो दीखती है, रूप नहीं।' 'वृषाकपि' उस रूप को कहते हैं जब सूर्य किरणों से कम्पित होता हुआ चलता है — 'वृषा-कम्पन'।
श्लोक 12.28
पुनरेहि वृषाकपे सुविता कल्पयावहै । य एष स्वप्ननंशनोऽस्तमेषि पथा पुनः । विश्वस्मादिन्द्र उत्तरः ॥ पुनरेहि वृषाकपे सुप्रसूतानि वः कर्माणि कल्पयावहै । य एष स्वप्ननंशनः । स्वप्नान्नाशयति । आदित्य उदयेन । सोऽस्तमेषि पथा पुनः । सर्वस्माद् य इन्द्र उत्तरस्तमेतद् ब्रूम आदित्यम् । यमो व्याख्यातः । तस्यैषा भवति
punarehi vṛṣākape suvitā kalpayāvahai | ya eṣa svapnanaṁśano'stameṣi pathā punaḥ | viśvasmādindra uttaraḥ || punarehi vṛṣākape suprasūtāni vaḥ karmāṇi kalpayāvahai | ya eṣa svapnanaṁśanaḥ | svapnānnāśayati | āditya udayena | so'stameṣi pathā punaḥ | sarvasmād ya indra uttarastametad brūma ādityam | yamo vyākhyātaḥ | tasyaiṣā bhavati
इस ऋचा में कहा गया है: 'हे वृषाकपि, फिर आओ, हम कल्याणकारी कर्म रचें; जो स्वप्न-नाशक (सूर्योदय से स्वप्न नष्ट करने वाला) है, वह पुनः अस्त-पथ से जाता है — सबसे उच्च इन्द्र है।' यम की व्याख्या पहले हो चुकी है।
श्लोक 12.29
यस्मिन्वृक्षे सुपलाशे देवैः सं पिबते यमः । अत्रा नो विश्पतिः पिता पुराणाँ अनु वेनति ॥ यस्मिन्वृक्षे सुपलाशे स्थाने वृतक्षये वा । अपि वोपमार्थे स्यात् । वृक्ष इव सुपलाश इति । वृक्षो व्रश्चनात् । पलाशं पलाशनात् । देवैः संगच्छते यमः । रश्मिभिरादित्यः । तत्र नः सर्वस्य पाता वा पालयिता वा पुराणाननुकामयेत । अज एकपादजन एकः पादः । एकेन पादेन पातीति वा । एकेन पादेन पिबतीति वा । एकोऽस्य पाद इति वा । एकं पादं नोत्खिदति । इत्यपि निगमो भवति । तस्यैष निपातो भवति वैश्वदेव्यामृचि
yasminvṛkṣe supalāśe devaiḥ saṁ pibate yamaḥ | atrā no viśpatiḥ pitā purāṇām̐ anu venati || yasminvṛkṣe supalāśe sthāne vṛtakṣaye vā | api vopamārthe syāt | vṛkṣa iva supalāśa iti | vṛkṣo vraścanāt | palāśaṁ palāśanāt | devaiḥ saṁgacchate yamaḥ | raśmibhirādityaḥ | tatra naḥ sarvasya pātā vā pālayitā vā purāṇānanukāmayeta | aja ekapādajana ekaḥ pādaḥ | ekena pādena pātīti vā | ekena pādena pibatīti vā | eko'sya pāda iti vā | ekaṁ pādaṁ notkhidati | ityapi nigamo bhavati | tasyaiṣa nipāto bhavati vaiśvadevyāmṛci
इस ऋचा में कहा गया है: 'जिस सुन्दर-पर्ण वृक्ष में यम देवताओं के साथ मिलकर पीता है, वहाँ हमारा पिता विश्पति (प्रजा-रक्षक) पूर्वजों की कामना करे।' अज एकपाद् (एक-पद बकरा) की व्युत्पत्ति भी दी गई है — 'एक पैर से रक्षा/पान करने वाला'। यह बहुदेवता-ऋचा में मिलता है।
श्लोक 12.30
पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापः समुद्रियः । विश्वे देवासः शृणवन्वचाँसि मे सरस्वती सह धीभिः पुरन्ध्या ॥ पविः शल्यो भवति । यद्विपुनाति कायम् । तद्वत् । पवीरमायुधम् । तद्वानिन्द्रः पवीरवान् । अतितस्थौ पवीरवान् । इत्यपि निगमो भवति । तद् देवता वाक्पावीरवी । पावीरवी च दिव्या वाक् । तन्यतुस्तनित्री वाचोऽन्यस्याः । अजश्चैकपाद् दिवो धारयिता । सिन्धुश्च । आपश्च समुद्रियाश्च । सर्वे च देवाः । सरस्वती च सह पुरन्ध्या स्तुत्या । प्रयुक्तानि धीभिः कर्मभिर्युक्तानि । शृण्वन्तु वचनानीमानीति । पृथिवी व्याख्याता । तस्या एष निपातो भवत्यैन्द्राग्न्यामृचि
pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥ samudriyaḥ | viśve devāsaḥ śṛṇavanvacām̐si me sarasvatī saha dhībhiḥ purandhyā || paviḥ śalyo bhavati | yadvipunāti kāyam | tadvat | pavīramāyudham | tadvānindraḥ pavīravān | atitasthau pavīravān | ityapi nigamo bhavati | tad devatā vākpāvīravī | pāvīravī ca divyā vāk | tanyatustanitrī vāco'nyasyāḥ | ajaścaikapād divo dhārayitā | sindhuśca | āpaśca samudriyāśca | sarve ca devāḥ | sarasvatī ca saha purandhyā stutyā | prayuktāni dhībhiḥ karmabhiryuktāni | śṛṇvantu vacanānīmānīti | pṛthivī vyākhyātā | tasyā eṣa nipāto bhavatyaindrāgnyāmṛci
इस ऋचा में कहा गया है: 'वज्र-ध्वनि करने वाली, गर्जनशील, एक-पद् से उत्पन्न, द्युलोक की धारक, सिन्धु, जल और समुद्रीय देवता; सभी विश्वेदेव मेरी वाणी सुनें, सरस्वती पुरन्धि की स्तुति के साथ।' यह पृथिवी-सम्बद्ध ऋचा में मिलता है।
श्लोक 12.31
यदिन्द्राग्नी परमस्यां पृथिव्यां मध्यमस्या॑मवमस्या॑मुत स्थः । अतः परि वृषणावा हि यातमा सोम॑स्य पिबतं सुतस्य॑ ॥ इति सा निगदव्याख्याता ।। समुद्रो व्याख्यातः । तस्यैष निपातो भवति पावमान्यामृचि
yadindrāgnī paramasyāṁ pṛthivyāṁ madhyamasyāmavamasyāmuta sthaḥ | ataḥ pari vṛṣaṇāvā hi yātamā somasya pibataṁ sutasya || iti sā nigadavyākhyātā || samudro vyākhyātaḥ | tasyaiṣa nipāto bhavati pāvamānyāmṛci
इस ऋचा में कहा गया है: 'हे इन्द्र-अग्नि, जब तुम परम पृथिवी में, मध्यम में, या अवम (निकटतम) में होते हो, वहाँ से आकर, हे वृषभौ, अभिषुत सोम को पीओ।' समुद्र की व्याख्या पहले हो चुकी है — यह पवमानी ऋचा में मिलता है।
श्लोक 12.32
पवित्रवन्तः परि वाचमासते पितैषां प्रत्नो अभि रक्षति व्रतम् । महः समुद्रं वरुणस्तिरो दधे धीरा इच्छेकुर्धरुणेष्वारभम् ॥ पवित्रवन्तो रश्मिवन्तो माध्यमिका देवगणाः पर्यासते माध्यमिकां वाचम् । मध्यमः पितैषां प्रत्नः पुराणोऽभिरक्षति व्रतं कर्म । महः समुद्रं वरुणस्तिरोऽन्तर्दधाति । अथ धीराः शक्नुवन्ति धरुणेषूदकेषु कर्मण आरभमारब्धुम् । अज एकपाद् व्याख्यातः । पृथिवी व्याख्याता । समुद्रो व्याख्यातः । तेषामेष निपातो भवत्यपरस्यां बहुदेवतायामृचि
pavitravantaḥ pari vācamāsate pitaiṣāṁ pratno abhi rakṣati vratam | mahaḥ samudraṁ varuṇastiro dadhe dhīrā icchekurdharuṇeṣvārabham || pavitravanto raśmivanto mādhyamikā devagaṇāḥ paryāsate mādhyamikāṁ vācam | madhyamaḥ pitaiṣāṁ pratnaḥ purāṇo'bhirakṣati vrataṁ karma | mahaḥ samudraṁ varuṇastiro'ntardadhāti | atha dhīrāḥ śaknuvanti dharuṇeṣūdakeṣu karmaṇa ārabhamārabdhum | aja ekapād vyākhyātaḥ | pṛthivī vyākhyātā | samudro vyākhyātaḥ | teṣāmeṣa nipāto bhavatyaparasyāṁ bahudevatāyāmṛci
इस ऋचा में कहा गया है: 'शोधक-युक्त मध्यम देवगण मध्यम वाणी के चारों ओर बैठते हैं; उनका प्राचीन पिता (मध्यम देवता) कर्म की रक्षा करता है; वरुण महान् समुद्र को अन्तर्हित रखता है — तभी धीर पुरुष जलों में कर्म आरम्भ कर सकते हैं।' अज एकपाद्, पृथिवी और समुद्र की व्याख्या पहले हो चुकी है।
श्लोक 12.33
उत नोऽहिर्बुध्न्यः शृणोत्वज एकपात्पृथिवी समुद्रः । विश्वे देवा ऋतावृधो हुवानाः स्तुता मन्त्राः कविशस्ता अवन्तु ॥ अपि च नोऽहिर्बुध्ध्यः शृणोतु । अजश्चैकपात्पृथिवी च समुद्रश्च सर्वे च देवाः । सत्यवृधो वा । यज्ञवृधो वा । हूयमाना मन्त्रैः स्तुताः । मन्त्राः कविशस्ताः । अवन्तु । मेधाविशस्ताः । दध्यङ् प्रत्यक्तो ध्यानमिति वा । प्रत्यक्तमस्मिन्ध्यानमिति वा । अथर्वा व्याख्यातः । मनुर्मननात् । तेषामेष निपातो भवत्यैन्द्र्यामृचि
uta no'hirbudhnyaḥ śṛṇotvaja ekapātpṛthivī samudraḥ | viśve devā ṛtāvṛdho huvānāḥ stutā mantrāḥ kaviśastā avantu || api ca no'hirbudhdhyaḥ śṛṇotu | ajaścaikapātpṛthivī ca samudraśca sarve ca devāḥ | satyavṛdho vā | yajñavṛdho vā | hūyamānā mantraiḥ stutāḥ | mantrāḥ kaviśastāḥ | avantu | medhāviśastāḥ | dadhyaṅ pratyakto dhyānamiti vā | pratyaktamasmindhyānamiti vā | atharvā vyākhyātaḥ | manurmananāt | teṣāmeṣa nipāto bhavatyaindryāmṛci
इस ऋचा में कहा गया है: 'अहि बुध्न्य, अज एकपाद्, पृथिवी और समुद्र हमें सुनें; ऋत या यज्ञ को बढ़ाने वाले, सभी देवता, पुकारे गए, मन्त्रों से स्तुत — ये कवि-कथित मन्त्र हमारी रक्षा करें।' दध्यङ् (प्रत्यक्ष-ध्यानी) और अथर्वा की व्याख्या भी संकेतित है; मनु 'मनन' धातु से है।
श्लोक 12.34
यामथर्वा मनुष्पिता दध्यङ् धियमत्नत । तस्मिन्ब्रह्माणि पूर्वथेन्द्र उक्था सम॑ग्मतार्चन्ननु स्वराज्यम् ॥ यामथर्वा च । मनुश्च पिता मानवानाम् । दध्यङ् च । धियमतनिषत । तस्मिन्ब्रह्माणि कर्माणि पूर्वेन्द्र उक्थानि च संगच्छन्ताम् । अर्चन्योऽनूपास्ते स्वाराज्यम्
yāmatharvā manuṣpitā dadhyaṅ dhiyamatnata | tasminbrahmāṇi pūrvathendra ukthā samagmatārcannanu svarājyam || yāmatharvā ca | manuśca pitā mānavānām | dadhyaṅ ca | dhiyamataniṣata | tasminbrahmāṇi karmāṇi pūrvendra ukthāni ca saṁgacchantām | arcanyo'nūpāste svārājyam
इस ऋचा में कहा गया है: 'जो अथर्वा और मनुष्यों के पिता मनु और दध्यङ् ने बुद्धि से रचा, उसमें प्राचीन ब्रह्म-कर्म और इन्द्र के उक्थ (स्तुतियाँ) मिल गईं — स्वराज्य की स्तुति करता हुआ।' इस प्रकार बारहवें अध्याय के आरम्भिक (मध्यम-देवगण) भाग के साथ अब द्यु-स्थान के देवगणों की चर्चा आरम्भ होगी।
श्लोक 12.35
अथातो द्युस्थाना देवगणाः । तेषामादित्याः प्रथमागामिनो भवन्ति । आदित्या व्याख्याताः । तेषामेषा भवति
athāto dyusthānā devagaṇāḥ | teṣāmādityāḥ prathamāgāmino bhavanti | ādityā vyākhyātāḥ | teṣāmeṣā bhavati
अब द्यु-स्थान के देवगणों का प्रकरण है। इनमें आदित्यगण सबसे पहले आते हैं; आदित्यों की व्याख्या पहले हो चुकी है।
श्लोक 12.36
इमा गिर आदित्येभ्यो घृतस्नूः सनाद्राज॑भ्यो जुह्वा जुहोमि । शृणोतु मित्रो अर्यमा भगौ नस्तुविजातो वरुणो दक्षो अंशः ॥ घृतस्नूर्घृतप्रस्नाविन्यः । घृतप्रस्राविण्यः । घृतसानिन्यः । घृतसारिण्यः इति वा । आहुतीरादित्येभ्यश्चिरं जुह्वा जुहोमि । चिरं जीवनाय । चिरं राजभ्य इति वा । शृणोतु न इमा गिरो मित्रश्चार्यमा च भगश्च बहुजातश्च धाता दक्षो वरुणोंऽशश्च । अंशोंऽशुना व्याख्यातः । सप्त ऋषयो व्याख्याताः । तेषामेषा भवति
imā gira ādityebhyo ghṛtasnūḥ sanādrājabhyo juhvā juhomi | śṛṇotu mitro aryamā bhagau nastuvijāto varuṇo dakṣo aṁśaḥ || ghṛtasnūrghṛtaprasnāvinyaḥ | ghṛtaprasrāviṇyaḥ | ghṛtasāninyaḥ | ghṛtasāriṇyaḥ iti vā | āhutīrādityebhyaściraṁ juhvā juhomi | ciraṁ jīvanāya | ciraṁ rājabhya iti vā | śṛṇotu na imā giro mitraścāryamā ca bhagaśca bahujātaśca dhātā dakṣo varuṇoṁ'śaśca | aṁśoṁ'śunā vyākhyātaḥ | sapta ṛṣayo vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'ये घृत-सिक्त वाणियाँ मैं आदित्य राजाओं के लिए चिरकाल से जिह्वा से अर्पित करता हूँ; मित्र, अर्यमा, भग, बहुजात, धाता, दक्ष, वरुण और अंश हमारी सुनें।' 'अंश' अंशु (सोम-लता) से जुड़ा है; सप्त-ऋषियों की व्याख्या पहले हो चुकी है।
श्लोक 12.37
सप्त ऋषयः प्रतिहिताः शरीरे सप्त रक्षन्ति समप्रमादम् । सप्तापः स्वपतो लोकमीयुस्तत्र जागृतो अस्वप्नजौ सत्रसदौ च देवौ सप्त ऋषयः प्रतिहिताः शरीरे । रश्मय आदित्ये । सप्त रक्षन्ति सदमप्रमादम् । संवत्सरमप्रमाद्यन्तः । सप्तापनास्त एव स्वपतो लोकमस्तमितमादित्यं यन्ति । तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ वाय्वादित्यौ । इत्यधिदैवतम् । अथाध्यात्मम् । सप्त ऋषयः प्रतिहिताः शरीरे । षडिन्द्रियाणि विद्या सप्तम्यात्मनि । सप्त रक्षन्ति सदमप्रमादम् । शरीरमप्रमाद्यन्ति । सप्तापनानीमान्येव स्वपतो लोकमस्तमितमात्मानं यन्ति । तत्र जागृतोऽस्वप्नजौ सत्रसदौ च देवौ प्राज्ञश्चात्मा तैजसश्च । इत्यात्मगतिमाचष्टे । तेषामेषापरा भवति
sapta ṛṣayaḥ pratihitāḥ śarīre sapta rakṣanti samapramādam | saptāpaḥ svapato lokamīyustatra jāgṛto asvapnajau satrasadau ca devau sapta ṛṣayaḥ pratihitāḥ śarīre | raśmaya āditye | sapta rakṣanti sadamapramādam | saṁvatsaramapramādyantaḥ | saptāpanāsta eva svapato lokamastamitamādityaṁ yanti | tatra jāgṛto'svapnajau satrasadau ca devau vāyvādityau | ityadhidaivatam | athādhyātmam | sapta ṛṣayaḥ pratihitāḥ śarīre | ṣaḍindriyāṇi vidyā saptamyātmani | sapta rakṣanti sadamapramādam | śarīramapramādyanti | saptāpanānīmānyeva svapato lokamastamitamātmānaṁ yanti | tatra jāgṛto'svapnajau satrasadau ca devau prājñaścātmā taijasaśca | ityātmagatimācaṣṭe | teṣāmeṣāparā bhavati
इस ऋचा में कहा गया है: 'सात ऋषि शरीर में स्थापित हैं, वे निरन्तर रक्षा करते हैं; सात अप (जल) सोते हुए लोक को प्राप्त करते हैं, वहाँ दो जागृत, अस्वप्न, सह-स्थित देव हैं।' यास्क इसे अधिदैवत रूप में सात आदित्य-किरणों (जो अस्त होते समय भी वायु-आदित्य जागृत रहते हैं) से, और अध्यात्म रूप में छह इन्द्रियों+विद्या (सातवीं, आत्मा में) से — जहाँ प्राज्ञ और तैजस आत्मा जागृत रहते हैं — समझाते हैं।
श्लोक 12.38
तिर्यग्बिलश्चमस ऊर्ध्वबुध्नो यस्मिन्यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त साकं ये अस्य गोपा महतो बभूवुः ॥ तिर्यग्बिलश्चमस ऊर्ध्वबन्धन ऊर्ध्वबोधनो वा । यस्मिन्यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त सहादित्यरश्मयः । ये अस्य गोपा महतो बभूवुः । इत्यधिदैवतम् । अथाध्यात्मम् । तिर्यग्बिलश्चमस ऊर्ध्वबन्धन ऊर्ध्वबोधनो वा । यस्मिन्यशो निहितं विश्वरूपम् । अत्रासत ऋषयः सप्त सहेन्द्रियाणि । यान्यस्य गोप्तॄणि महतो बभूवुः । इत्यात्मगतिमाचष्टे । देवा व्याख्याताः । तेषामेषा भवति
tiryagbilaścamasa ūrdhvabudhno yasminyaśo nihitaṁ viśvarūpam | atrāsata ṛṣayaḥ sapta sākaṁ ye asya gopā mahato babhūvuḥ || tiryagbilaścamasa ūrdhvabandhana ūrdhvabodhano vā | yasminyaśo nihitaṁ viśvarūpam | atrāsata ṛṣayaḥ sapta sahādityaraśmayaḥ | ye asya gopā mahato babhūvuḥ | ityadhidaivatam | athādhyātmam | tiryagbilaścamasa ūrdhvabandhana ūrdhvabodhano vā | yasminyaśo nihitaṁ viśvarūpam | atrāsata ṛṣayaḥ sapta sahendriyāṇi | yānyasya goptṝṇi mahato babhūvuḥ | ityātmagatimācaṣṭe | devā vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'तिरछे मुख वाला, ऊर्ध्व-आधार चमस (पात्र), जिसमें विश्वरूप यश स्थापित है; उसमें सात ऋषि एक साथ बैठे, जो इसके महान् रक्षक बने।' अधिदैवत रूप में ये सात आदित्य-किरणें हैं, अध्यात्म रूप में सात इन्द्रियाँ।
श्लोक 12.39
देवानां भद्रा सुमतिर्ऋजूयतां देवानां रातिरभि नो नि वर्तताम् । देवानां सख्यमुप सेदिमा वयं देवा न आयुः प्र तिरन्तु जीवसे ॥ देवानां वयं सुमतौ कल्याण्यां मतौ । ऋजुगामिनाम् । ऋतुगामिनामिति वा । देवानां दानमभि नो निवर्तताम् । देवानां सख्यमुपसीदेम वयम् । देवा न आयुः प्रवर्धयन्तु चिरं जीवनाय । विश्वेदेवाः सर्वेदेवाः । तेषामेषा भवति
devānāṁ bhadrā sumatirṛjūyatāṁ devānāṁ rātirabhi no ni vartatām | devānāṁ sakhyamupa sedimā vayaṁ devā na āyuḥ pra tirantu jīvase || devānāṁ vayaṁ sumatau kalyāṇyāṁ matau | ṛjugāminām | ṛtugāmināmiti vā | devānāṁ dānamabhi no nivartatām | devānāṁ sakhyamupasīdema vayam | devā na āyuḥ pravardhayantu ciraṁ jīvanāya | viśvedevāḥ sarvedevāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'देवताओं की कल्याणी बुद्धि सीधे मार्ग वालों के लिए हो; देवताओं का दान हमारी ओर लौटे; हम देवताओं की मित्रता के निकट बैठें; देवता हमारी आयु दीर्घ जीवन के लिए बढ़ाएँ।' 'विश्वेदेवाः' सभी देवताओं के अर्थ में है।
श्लोक 12.40
ओमासश्चर्षणीधृतो विश्वे देवास आ गत । दाश्वाँसो दाशुषः सुतम् ॥ अवितारो वा । अवनीया वा । मनुष्यधृतः सर्वे च देवा इहागच्छत । दत्तवन्तः । दत्तवतः सुतमिति । तदेतदेकमेव वैश्वदेवं गायत्रं तृचं दशतयीषु विद्यते । यत्तु किंचिद् बहुदैवतं तद् वैश्वदेवानां स्थाने युज्यते । यदेव विश्वलिङ्गमिति शाकपूणिः । अनत्यन्तगतस्त्वेष उद्देशो भवति । बभ्रुरेको । इति दश द्विपदा अलिङ्गाः । भूताँशः काश्यप आशिनमेकलिङ्गम् । अभितष्टीयं सूक्तमेकलिङ्गम् । साध्या देवाः साधनात् । तेषामेषा भवति
omāsaścarṣaṇīdhṛto viśve devāsa ā gata | dāśvām̐so dāśuṣaḥ sutam || avitāro vā | avanīyā vā | manuṣyadhṛtaḥ sarve ca devā ihāgacchata | dattavantaḥ | dattavataḥ sutamiti | tadetadekameva vaiśvadevaṁ gāyatraṁ tṛcaṁ daśatayīṣu vidyate | yattu kiṁcid bahudaivataṁ tad vaiśvadevānāṁ sthāne yujyate | yadeva viśvaliṅgamiti śākapūṇiḥ | anatyantagatastveṣa uddeśo bhavati | babhrureko | iti daśa dvipadā aliṅgāḥ | bhūtām̐śaḥ kāśyapa āśinamekaliṅgam | abhitaṣṭīyaṁ sūktamekaliṅgam | sādhyā devāḥ sādhanāt | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'हे मनुष्यों के धारक, सहायक विश्वेदेवगण, यहाँ आओ, दाताओं के अभिषुत सोम को ग्रहण करते हुए।' यहाँ विश्वेदेव-सम्बन्धी दस द्विपदा (द्विपद छन्द) उद्धरणों की सूची भी दी गई है, जिनमें कोई निश्चित लिंग-देवता नहीं है, तथा कुछ एकलिंग सूक्तों का भी उल्लेख है। साध्य देवता 'साधन' (सिद्धि) से जुड़े हैं।
श्लोक 12.41
यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ यज्ञेन यज्ञमयजन्त देवाः । अग्निनाग्निमयजन्त देवाः । अग्निः पशुरासीत् । तमालभन्त । तेनायजन्त । इति च ब्राह्मणम् । तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमानः संसेव्यन्त । यत्र पूर्वे साध्याः सन्ति देवाः साधनाः । द्युस्थानो देवगण इति नैरुक्ताः । पूर्वं देवयुगमित्याख्यानम् । वसवो यद् विवसते सर्वम् । अग्निर्वसुभिर्वासव इति समाख्या । तस्मात्पृथिवीस्थानाः । इन्द्रो वसुभिर्वासव इति समाख्या । तस्मान्मध्यस्थानाः । वसव आदित्यरश्मयो विवासनात् । तस्माद् द्युस्थानाः । तेषामेषा भवति
yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan | te ha nākaṁ mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ || yajñena yajñamayajanta devāḥ | agnināgnimayajanta devāḥ | agniḥ paśurāsīt | tamālabhanta | tenāyajanta | iti ca brāhmaṇam | tāni dharmāṇi prathamānyāsan | te ha nākaṁ mahimānaḥ saṁsevyanta | yatra pūrve sādhyāḥ santi devāḥ sādhanāḥ | dyusthāno devagaṇa iti nairuktāḥ | pūrvaṁ devayugamityākhyānam | vasavo yad vivasate sarvam | agnirvasubhirvāsava iti samākhyā | tasmātpṛthivīsthānāḥ | indro vasubhirvāsava iti samākhyā | tasmānmadhyasthānāḥ | vasava ādityaraśmayo vivāsanāt | tasmād dyusthānāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'देवताओं ने यज्ञ से यज्ञ को यजा — ये पहले धर्म (नियम) थे; वे स्वर्ग की महिमा में स्थित हुए, जहाँ पूर्व साध्य देवगण हैं।' ब्राह्मण-वचन है कि अग्नि ही पशु था, जिसे यज्ञ में अर्पित कर देवताओं ने यज्ञ किया। वसुओं का नाम 'विवसन' (व्याप्ति) से जुड़ा है — अग्नि पृथिवी-स्थान का 'वासव', इन्द्र मध्यम-स्थान का 'वासव', और आदित्य-किरणें द्यु-स्थान की 'वसु' कहलाती हैं।
श्लोक 12.42
सुगा वो देवाः सदनमकर्म य आजग्मुः सवनमिदं जुषाणाः । जक्षिवाँसः पपिवाँसश्च विश्वेऽस्मे धत्त वसवो वसूनि ॥ स्वागमनानि वो देवाः सुपथान्यकर्म य आगच्छत सवनानीमानि । जुषाणाः खादितवन्तः । पीतवन्तश्च । सर्वेऽस्मासु धत्त वसवो वसूनि । तेषामेषापरा भवति
sugā vo devāḥ sadanamakarma ya ājagmuḥ savanamidaṁ juṣāṇāḥ | jakṣivām̐saḥ papivām̐saśca viśve'sme dhatta vasavo vasūni || svāgamanāni vo devāḥ supathānyakarma ya āgacchata savanānīmāni | juṣāṇāḥ khāditavantaḥ | pītavantaśca | sarve'smāsu dhatta vasavo vasūni | teṣāmeṣāparā bhavati
इस ऋचा में कहा गया है: 'हे देवगण, तुम्हारे लिए हमने सुगम आवास बनाया, जो इन सवनों में आए हुए प्रसन्नतापूर्वक; खा चुके, पी चुके, सब देवगण, हम में धन स्थापित करो, हे वसुगण।'
श्लोक 12.43
ज्मया अत्र वसवो रन्त दे॒वा उरावन्तरिक्षे मर्जयन्त शुभ्राः । अर्वाक्पथ उरुज्रयः कृणुध्वं श्रोता दूतस्य॑ जग्मुषो नो अस्य ॥ ज्मया अत्र वसवोऽरमन्त देवाः । ज्मा पृथिवी । तस्यां भवा उरौ चान्तरिक्षे मर्जयन्त गमयन्त रमयन्त । शुभ्राः शोभमानाः । अर्वाच एनान्पथो बहुजवाः कुरुध्वम् । शृणुत दूतस्य जग्मुषो नोऽस्याग्नेः । वाजिनो व्याख्याताः । तेषामेषा भवति
jmayā atra vasavo ranta devā urāvantarikṣe marjayanta śubhrāḥ | arvākpatha urujrayaḥ kṛṇudhvaṁ śrotā dūtasya jagmuṣo no asya || jmayā atra vasavo'ramanta devāḥ | jmā pṛthivī | tasyāṁ bhavā urau cāntarikṣe marjayanta gamayanta ramayanta | śubhrāḥ śobhamānāḥ | arvāca enānpatho bahujavāḥ kurudhvam | śṛṇuta dūtasya jagmuṣo no'syāgneḥ | vājino vyākhyātāḥ | teṣāmeṣā bhavati
इस ऋचा में कहा गया है: 'यहाँ पृथिवी पर वसुगण विश्राम करें, विस्तृत अन्तरिक्ष में शोभित देवगण; हमारे लिए मार्ग विस्तृत बनाओ, हमारे इस दूत (अग्नि) के, जो आ चुका है, सुनो।' वाजिन् (अश्व-सम्बन्धी) की व्याख्या पहले हो चुकी है।
श्लोक 12.44
शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तोऽहिं वृकं रक्षाँसि सनेम्यस्मद्युयवन्नमीवाः ॥ सुखा नो भवन्तु वाजिनो ह्वानेषु देवतातौ यज्ञे । मितद्रवः सुमितद्रवः । स्वर्काः स्वञ्चना इति वा । स्वर्चना इति वा । स्वर्चिष इति वा । जम्भयन्तोऽहिं च वृकं च रक्षाँसि च । क्षिप्रमस्मद्यावयन्तु । अमीवा देवाश्वा इति वा । देवपत्न्यो देवानां पत्न्यः । तासामेषा भवति
śaṁ no bhavantu vājino haveṣu devatātā mitadravaḥ svarkāḥ | jambhayanto'hiṁ vṛkaṁ rakṣām̐si sanemyasmadyuyavannamīvāḥ || sukhā no bhavantu vājino hvāneṣu devatātau yajñe | mitadravaḥ sumitadravaḥ | svarkāḥ svañcanā iti vā | svarcanā iti vā | svarciṣa iti vā | jambhayanto'hiṁ ca vṛkaṁ ca rakṣām̐si ca | kṣipramasmadyāvayantu | amīvā devāśvā iti vā | devapatnyo devānāṁ patnyaḥ | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'वाजिन् (अश्व-देवगण) हमारी पुकारों में सुखद हों, यज्ञ में समुचित-गति और स्व-दीप्त; सर्प, भेड़िये और राक्षसों को कुचलते हुए, वे रोगों को हमसे दूर भगाएँ।' देव-पत्नियाँ देवताओं की पत्नियों के अर्थ में हैं।
श्लोक 12.45
देवानां पत्नीरुशतीरवन्तु नः प्रावन्तु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते ता नो देवीः सुहवाः शर्म यच्छत देवानां पत्न्य उशत्योऽवन्तु नः । प्रावन्तु नः । अपत्यजननाय चान्नसंसननाय च । याः पार्थिवासो या अपामपि व्रते कर्मणि ता नो देव्यः सुहवाः शर्म यच्छन्तु शरणम् । तासामेषापरा भवति
devānāṁ patnīruśatīravantu naḥ prāvantu nastujaye vājasātaye | yāḥ pārthivāso yā apāmapi vrate tā no devīḥ suhavāḥ śarma yacchata devānāṁ patnya uśatyo'vantu naḥ | prāvantu naḥ | apatyajananāya cānnasaṁsananāya ca | yāḥ pārthivāso yā apāmapi vrate karmaṇi tā no devyaḥ suhavāḥ śarma yacchantu śaraṇam | tāsāmeṣāparā bhavati
इस ऋचा में देव-पत्नियों से आह्वान है: 'देवताओं की कामनावती पत्नियाँ हमारी रक्षा करें, हमें सहायता दें विजय और अन्न-प्राप्ति के लिए; जो पार्थिव हैं, जो जल के कर्म में हैं, वे देवियाँ, सुहूत, हमें शरण दें।'
श्लोक 12.46
उत ग्ना व्यन्तु देवपत्नीरिन्द्राण्य १ ग्नाय्यश्विनी राट् । आ रोदसी वरुणानी शृणोतु व्यन्तु देवीर्य ऋतुर्जनीनाम् ॥ अपि च ग्ना व्यन्तु देवपत्न्यः । इन्द्राणीन्द्रस्य पत्नी । अग्नाय्यग्नेः पत्नी । अश्विन्यश्विनोः पत्नी । राड् राजते । रोदसी रुद्रस्य पत्नी । वरुणानी च वरुणस्य पत्नी । व्यन्तु देव्यः कामयन्तां य ऋतुकालो जायानां य ऋतुकालो जायानाम्
uta gnā vyantu devapatnīrindrāṇya 1 gnāyyaśvinī rāṭ | ā rodasī varuṇānī śṛṇotu vyantu devīrya ṛturjanīnām || api ca gnā vyantu devapatnyaḥ | indrāṇīndrasya patnī | agnāyyagneḥ patnī | aśvinyaśvinoḥ patnī | rāḍ rājate | rodasī rudrasya patnī | varuṇānī ca varuṇasya patnī | vyantu devyaḥ kāmayantāṁ ya ṛtukālo jāyānāṁ ya ṛtukālo jāyānām
इस अन्तिम ऋचा में कहा गया है: 'देव-पत्नियाँ भी कामना करें — इन्द्राणी, अग्नायी, अश्विनी-राट्; रोदसी और वरुणानी हमारी सुनें — देवियाँ कामना करें, जो पत्नियों का ऋतुकाल है, जो पत्नियों का ऋतुकाल है।' इस प्रकार बारहवाँ अध्याय, और इसके साथ मूल बारह-अध्याय निरुक्त, पूर्ण होता है।
श्लोक 13.1
अथेमा अतिस्तुतय इत्याचक्षते । अपि वा संप्रत्यय एव स्यात् । माहाभाग्याद् देवतायाः । सोऽग्निमेव प्रथममाह । त्वमग्ने द्युभिस्त्वमाशुशुक्षणिः । इति यथैतस्मिन्सूक्ते । न हि त्वदारे निमिषश्च नेशै । इति वरुणस्य । अथैषेन्द्रस्य
athemā atistutaya ityācakṣate | api vā saṁpratyaya eva syāt | māhābhāgyād devatāyāḥ | so'gnimeva prathamamāha | tvamagne dyubhistvamāśuśukṣaṇiḥ | iti yathaitasminsūkte | na hi tvadāre nimiṣaśca neśai | iti varuṇasya | athaiṣendrasya
अब यहाँ से 'अतिस्तुतियाँ' (अतिशय-स्तुतियाँ) कही जाती हैं — अथवा यह केवल 'सम्प्रत्यय' (सहमति-वाक्य) मात्र भी हो सकती हैं, देवता की महाभाग्यता के कारण। सबसे पहले अग्नि की यह स्तुति है: 'तुम, हे अग्नि, दिनों से हो, तुम आशुशुक्षणि हो' — जैसा इसी सूक्त में मिलता है। फिर वरुण की: 'तुमसे दूर न पलक झपकना, न शासन है।' फिर इन्द्र की।
श्लोक 13.2
यद्याव॑ इन्द्र ते शतं शतं भूमीरुत स्युः । न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातम॑ष्ट रोदसी ॥ यदि त इन्द्र शतं दिवः शतं भूमयः प्रतिमानानि स्युर्न त्वा वज्रिन्त्सहस्रमपि सूर्या न द्यावापृथिव्यावप्यभ्यश्नुवीतामिति । अथैषादित्यस्य
yadyāva indra te śataṁ śataṁ bhūmīruta syuḥ | na tvā vajrintsahasraṁ sūryā anu na jātamaṣṭa rodasī || yadi ta indra śataṁ divaḥ śataṁ bhūmayaḥ pratimānāni syurna tvā vajrintsahasramapi sūryā na dyāvāpṛthivyāvapyabhyaśnuvītāmiti | athaiṣādityasya
इस ऋचा में कहा गया है: 'हे इन्द्र, यदि तुम्हारे लिए सौ द्युलोक और सौ पृथिवियाँ भी प्रतिमान होतीं, तो भी हे वज्रिन्, सहस्र सूर्य भी और द्यावापृथिवी भी तुम्हें प्राप्त नहीं कर पातीं।' फिर आदित्य की यह ऋचा है।
श्लोक 13.3
यदुदञ्चो वृषाकपे गृहमिन्द्राजगन्तन ।। क्व १ स्य पुल्वघो मृगः कमगञ्जनयोपनो विश्वस्मादिन्द्र उत्तरः ॥ यदुदञ्चो वृषाकपे गृहमिन्द्राजगमत । क्व स्य पुल्वघो मृगः । क्व स वह्वादी मृगः । मृगो मार्ष्टेर्गतिकर्मणः । कमगमद्देशं जनयोपनः । सर्वस्माद्य इन्द्र उत्तरस्तमेतद्ब्रूम आदित्यम् । अथैषादित्यरश्मीनाम्
yadudañco vṛṣākape gṛhamindrājagantana || kva 1 sya pulvagho mṛgaḥ kamagañjanayopano viśvasmādindra uttaraḥ || yadudañco vṛṣākape gṛhamindrājagamata | kva sya pulvagho mṛgaḥ | kva sa vahvādī mṛgaḥ | mṛgo mārṣṭergatikarmaṇaḥ | kamagamaddeśaṁ janayopanaḥ | sarvasmādya indra uttarastametadbrūma ādityam | athaiṣādityaraśmīnām
यह प्रसिद्ध वृषाकपि-सूक्त की ऋचा है: 'जब तुम उत्तर दिशा से घर आए, हे वृषाकपि इन्द्र — वह बहु-भक्षी मृग कहाँ है? किस देश गया, हे जनयोपन? — सबसे उच्च इन्द्र है।' इसके बाद आदित्य-किरणों की यह ऋचा है।
श्लोक 13.4
वि हि सोतोरसृक्षत नेन्द्रं देवममंसत । यत्राम॑दद्वृषाकपिर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्र उत्तरः ॥ व्यसृक्षत हि प्रसवाय । न चेन्द्रं देवममंसत । यत्रामाद्यद्वृषाकपिः । अर्य ईश्वरः । पुष्टेषु पोषेषु । मत्सखा मम सखा । मदनसखा । ये नः सखायस्तैः सहेति वा । सर्वस्माद्य इन्द्र उत्तरस्तमेतद्ब्रूम आदित्यम् । अथैषाश्विनोः
vi hi sotorasṛkṣata nendraṁ devamamaṁsata | yatrāmadadvṛṣākapiryaḥ puṣṭeṣu matsakhā viśvasmādindra uttaraḥ || vyasṛkṣata hi prasavāya | na cendraṁ devamamaṁsata | yatrāmādyadvṛṣākapiḥ | arya īśvaraḥ | puṣṭeṣu poṣeṣu | matsakhā mama sakhā | madanasakhā | ye naḥ sakhāyastaiḥ saheti vā | sarvasmādya indra uttarastametadbrūma ādityam | athaiṣāśvinoḥ
इस ऋचा में कहा गया है: 'वे अभिषवकर्ताओं ने (सोम) छोड़ दिया, इन्द्र को देव नहीं माना, जहाँ वृषाकपि, मेरा मद-सखा, पुष्टि-कर्मों में आनन्दित हुआ — सबसे उच्च इन्द्र है।' इसके बाद अश्विनों की यह ऋचा है।
श्लोक 13.5
सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका । उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥ सृण्येवेति द्विविधा सृणिर्भवति । भर्ता च हन्ता च । तथाश्विनौ चापि भर्तारौ । जर्भरी भर्तारावित्यर्थः । तुर्फरीतू हन्तारौ । नैतोशेव तुर्फरी पर्फरीका । नितोशस्यापत्यं नैतोशम् । नैतोशेव तुर्फरी क्षिप्रहन्तारौ । उदन्यजेव जेमना मदेरू । उदन्यजेवेत्युदकजे इव । रत्ने सामुद्रे चान्द्रमसे वा । जेमने जयमने । जेमना मदेरू । ता मे जराय्वजरं मरायु । एतज्जरायुजं शरीरं शरदमजीर्णम् । अथैषा सोमस्य
sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā | udanyajeva jemanā maderū tā me jarāyvajaraṁ marāyu || sṛṇyeveti dvividhā sṛṇirbhavati | bhartā ca hantā ca | tathāśvinau cāpi bhartārau | jarbharī bhartārāvityarthaḥ | turpharītū hantārau | naitośeva turpharī parpharīkā | nitośasyāpatyaṁ naitośam | naitośeva turpharī kṣiprahantārau | udanyajeva jemanā maderū | udanyajevetyudakaje iva | ratne sāmudre cāndramase vā | jemane jayamane | jemanā maderū | tā me jarāyvajaraṁ marāyu | etajjarāyujaṁ śarīraṁ śaradamajīrṇam | athaiṣā somasya
यह अश्विनों के लिए दुर्बोध, ध्वन्यात्मक स्तुति-शब्दों वाली ऋचा है — 'जर्भरी', 'तुर्फरीतू' आदि — जिन्हें यास्क अंकुश के दो रूपों (धारक और हन्ता) के समान अश्विनों के दो रूपों (पालक और नाशक) के प्रतीक मानते हैं। अन्त में यह शरीर की जरायु-जन्य नश्वरता की प्रार्थना है — 'यह मेरा जरायु-जात शरीर अजर हो, अक्षय हो'। इसके बाद सोम की यह ऋचा है।
श्लोक 13.6
तरत्स मन्दी धावति धारा सुतस्यान्धसः । तरत्स मन्दी धावति ॥ तरति स पापं सर्वं मन्दी यः स्तौति धावति गच्छत्यूर्ध्वां गतिम् । धारा सुतस्यान्धसः । धारयाभिषुतस्य सोमस्य मन्त्रपूतस्य वाचा स्तुतस्य । अथैषा यज्ञस्य
taratsa mandī dhāvati dhārā sutasyāndhasaḥ | taratsa mandī dhāvati || tarati sa pāpaṁ sarvaṁ mandī yaḥ stauti dhāvati gacchatyūrdhvāṁ gatim | dhārā sutasyāndhasaḥ | dhārayābhiṣutasya somasya mantrapūtasya vācā stutasya | athaiṣā yajñasya
इस ऋचा में कहा गया है: 'वह आनन्दित होकर पार हो जाता है, अभिषुत ओषधि की धारा दौड़ती है; वह आनन्दित पार हो जाता है।' जो स्तुति करता है वह सब पाप से पार हो जाता है, ऊर्ध्व गति पाता है — यह मन्त्र-पवित्र सोम की धारा है। इसके बाद यज्ञ की यह ऋचा है।
श्लोक 13.7
चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्तहस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥ चत्वारि शृङ्गेति वेदा वा एत उक्ताः । त्रयोऽस्य पादा इति सवनानि त्रीणि । द्वे शीर्षे प्रायणीयोदयनीये । सप्त हस्तासः सप्त छन्दांसि । त्रिधा बद्धस्त्रेधा बद्धो मन्त्रब्राह्मणकल्पैः । वृषभो रोरवीति । रोरवणमस्य सवनक्रमेण ऋग्भिर्यजुर्भिः सामभिर्यदेनमृग्भिः शंसन्ति यजुर्भिर्यजन्ति सामभिः स्तुवन्ति । महो देव इत्येष हि महान्देवो यद्यज्ञो मर्त्याँ आविवेशेति । एष हि मनुष्यानाविशति यजनाय । तस्योत्तराभूयसे निर्वचनाय
catvāri śṛṅgā trayo asya pādā dve śīrṣe saptahastāso asya | tridhā baddho vṛṣabho roravīti maho devo martyām̐ ā viveśa || catvāri śṛṅgeti vedā vā eta uktāḥ | trayo'sya pādā iti savanāni trīṇi | dve śīrṣe prāyaṇīyodayanīye | sapta hastāsaḥ sapta chandāṁsi | tridhā baddhastredhā baddho mantrabrāhmaṇakalpaiḥ | vṛṣabho roravīti | roravaṇamasya savanakrameṇa ṛgbhiryajurbhiḥ sāmabhiryadenamṛgbhiḥ śaṁsanti yajurbhiryajanti sāmabhiḥ stuvanti | maho deva ityeṣa hi mahāndevo yadyajño martyām̐ āviveśeti | eṣa hi manuṣyānāviśati yajanāya | tasyottarābhūyase nirvacanāya
इस प्रसिद्ध यज्ञ-रूपक ऋचा में कहा गया है: 'चार सींग, तीन पाँव, दो सिर, सात हाथ वाला यह वृषभ त्रिविध बँधा हुआ गर्जता है — यह महान् देव मर्त्यों में प्रविष्ट हुआ है।' यास्क समझाते हैं: चार सींग चार वेद हैं, तीन पाँव तीन सवन, दो सिर प्रायणीय-उदयनीय (आरम्भ-अन्त), सात हाथ सात छन्द, त्रिविध बन्धन मन्त्र-ब्राह्मण-कल्प से; और यज्ञ मनुष्यों में प्रवेश कर उन्हें यजन के योग्य बनाता है।
श्लोक 13.8
स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी । यज्ञं ये विश्वतोधारं सुविद्वाँसो वितेनिरे ॥ स्वर्गच्छन्त ईजाना वा नेक्षन्ते । तेऽमुमेव लोकं गतवन्तमीक्षन्तमिति । आ द्यां रोहन्ति रोदसी । यज्ञं ये विश्वतोधारं सर्वतोधारं सुविद्वांसो वितेनिर इति । अथैषा वाचः प्रवल्हितेव
svaryanto nāpekṣanta ā dyāṁ rohanti rodasī | yajñaṁ ye viśvatodhāraṁ suvidvām̐so vitenire || svargacchanta ījānā vā nekṣante | te'mumeva lokaṁ gatavantamīkṣantamiti | ā dyāṁ rohanti rodasī | yajñaṁ ye viśvatodhāraṁ sarvatodhāraṁ suvidvāṁso vitenira iti | athaiṣā vācaḥ pravalhiteva
इस ऋचा में कहा गया है: 'स्वर्ग जाते हुए, बिना पीछे देखे, वे द्युलोक पर चढ़ते हैं, जो यज्ञ को सर्वतः-धारक जानकर विस्तृत करते हैं।' जो यज्ञ करके स्वर्ग जाते हैं वे पीछे नहीं देखते, मानो उसी लोक को देख रहे हों जहाँ वे पहुँचे हैं। इसके बाद वाणी की यह ऋचा है।
श्लोक 13.9
चत्वारि वाक्परिमिता पदानि तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ चत्वारि वाचः परिमितानि पदानि । तानि विदुर्ब्राह्मणा ये मेधाविनः । गुहायां त्रीणि निहितानि नार्थं वेदयन्ते । गुहा गूहतेः । तुरीयं त्वरतेः । कतमानि तानि चत्वारि पदानि । ओंकारो महाव्याहृतयश्चेत्यार्षम् । नामाख्याते चोपसर्गनिपाताश्चेति वैयाकरणाः । मन्त्रः कल्पो ब्राह्मणं चतुर्थी व्यावहारिकीति याज्ञिकाः । ऋचो यजूंषि सामानि चतुर्थी व्यावहारिकीति नैरुक्ताः । सर्पाणां वाग्वयसां क्षुद्रस्य सरीसृपस्य चतुर्थी व्यावहारिकीत्येके । पशुषु तूणवेषु मृगेष्वात्मनि चेत्यात्मप्रवादाः । अथापि ब्राह्मणं भवति । सा वै वाक्सृष्टा चतुर्धा व्यभवत् । एष्वेव लोकेषु त्रीणि पशुषु तुरीयम् । या पृथिव्यां साग्नौ सा रथन्तरे । यान्तरिक्षे सा वायौ सा वामदेव्ये । या दिवि सादित्ये सा बृहति सा स्तनयित्नौ । अथ पशुषु ततो या वागत्यरिच्यत तां ब्राह्मणेष्वदधुः । तस्माद्ब्राह्मणा उभयीं वाचं वदन्ति या च देवानां या च मनुष्याणाम् । इति । अथैषाक्षरस्य
catvāri vākparimitā padāni tāni vidurbrāhmaṇā ye manīṣiṇaḥ | guhā trīṇi nihitā neṅgayanti turīyaṁ vāco manuṣyā vadanti || catvāri vācaḥ parimitāni padāni | tāni vidurbrāhmaṇā ye medhāvinaḥ | guhāyāṁ trīṇi nihitāni nārthaṁ vedayante | guhā gūhateḥ | turīyaṁ tvarateḥ | katamāni tāni catvāri padāni | oṁkāro mahāvyāhṛtayaścetyārṣam | nāmākhyāte copasarganipātāśceti vaiyākaraṇāḥ | mantraḥ kalpo brāhmaṇaṁ caturthī vyāvahārikīti yājñikāḥ | ṛco yajūṁṣi sāmāni caturthī vyāvahārikīti nairuktāḥ | sarpāṇāṁ vāgvayasāṁ kṣudrasya sarīsṛpasya caturthī vyāvahārikītyeke | paśuṣu tūṇaveṣu mṛgeṣvātmani cetyātmapravādāḥ | athāpi brāhmaṇaṁ bhavati | sā vai vāksṛṣṭā caturdhā vyabhavat | eṣveva lokeṣu trīṇi paśuṣu turīyam | yā pṛthivyāṁ sāgnau sā rathantare | yāntarikṣe sā vāyau sā vāmadevye | yā divi sāditye sā bṛhati sā stanayitnau | atha paśuṣu tato yā vāgatyaricyata tāṁ brāhmaṇeṣvadadhuḥ | tasmādbrāhmaṇā ubhayīṁ vācaṁ vadanti yā ca devānāṁ yā ca manuṣyāṇām | iti | athaiṣākṣarasya
यह प्रसिद्ध वाक्-सूक्त की ऋचा है: 'वाणी के चार परिमित पद हैं, जिन्हें बुद्धिमान् ब्राह्मण जानते हैं; तीन गुह्य रूप से छिपे हैं, अर्थ प्रकट नहीं करते; चौथे को ही मनुष्य बोलते हैं।' 'चार पद' किसे कहते हैं इस पर अनेक मत हैं — आर्षों के अनुसार ओंकार+महाव्याहृतियाँ, वैयाकरणों के अनुसार नाम-आख्यात-उपसर्ग-निपात, याज्ञिकों के अनुसार मन्त्र-कल्प-ब्राह्मण+व्यावहारिकी, नैरुक्तों के अनुसार ऋक्-यजुः-साम+व्यावहारिकी। ब्राह्मण-वचन है कि सृष्ट वाणी चतुर्विध हुई — तीन भाग लोकों में (पृथिवी-अग्नि-रथन्तर, अन्तरिक्ष-वायु-वामदेव्य, द्यु-आदित्य-बृहत्-स्तनयित्नु में), और चौथा शेष भाग ब्राह्मणों में रखा गया — इसीलिए ब्राह्मण दोनों वाणियाँ (देवों की और मनुष्यों की) बोलते हैं।
श्लोक 13.10
ऋचो अक्षरै परमे व्योमन्यस्मिन्देवा अधि विश्वे निषेदुः । यस्तन्न वेद किमृचा करिष्यति य इत्तद्विदुस्त इमे समासते ॥ ऋचो अक्षरे परमे व्यवने यस्मिन्देवा अधिनिषण्णाः सर्वे । यस्तन्न वेद किं स ऋचा करिष्यति । य इत्तद्विदुस्त इमे समासत इति विदुष उपदिशति । कतमत्तदेतदक्षरम् । ओमित्येषा वागिति शाकपूणिः । ऋचश्च ह्यक्षरे परमे व्यवने धीयन्ते नानादेवतेषु च मन्त्रेषु । एतद्ध वा एतदक्षरं यत्सर्वां त्रयीं विद्यां प्रतिप्रति । इति च ब्राह्मणम्
ṛco akṣarai parame vyomanyasmindevā adhi viśve niṣeduḥ | yastanna veda kimṛcā kariṣyati ya ittadvidusta ime samāsate || ṛco akṣare parame vyavane yasmindevā adhiniṣaṇṇāḥ sarve | yastanna veda kiṁ sa ṛcā kariṣyati | ya ittadvidusta ime samāsata iti viduṣa upadiśati | katamattadetadakṣaram | omityeṣā vāgiti śākapūṇiḥ | ṛcaśca hyakṣare parame vyavane dhīyante nānādevateṣu ca mantreṣu | etaddha vā etadakṣaraṁ yatsarvāṁ trayīṁ vidyāṁ pratiprati | iti ca brāhmaṇam
इस ऋचा में कहा गया है: 'ऋचाएँ परम व्योम के अक्षर में टिकी हैं, जिसमें सभी देवता बसते हैं; जो उसे नहीं जानता, वह ऋचा से क्या करेगा? जो उसे जानते हैं, वे ही समागत होते हैं।' 'अक्षर' क्या है — शाकपूणि के अनुसार यह वाक् (ॐ) है, जिसमें ऋचाएँ और विविध देवताओं के मन्त्र स्थापित हैं। ब्राह्मण-वचन है कि यही अक्षर सम्पूर्ण त्रयी विद्या का सार है।
श्लोक 13.11
आदित्य इति पुत्रः शाकपूणेः । एषर्ग्भवति यदेनमर्चन्ति प्रत्यृचः सर्वाणि भूतानि तस्य यदन्यन्मन्त्रेभ्यस्तदक्षरं भवति । रश्मयोऽत्र देवा उच्यन्ते य एतस्मिन्नधिनिषण्णा इत्यधिदैवतम् । अथाध्यात्मम् । शरीरमत्र ऋगुच्यते यदेनेनार्चन्ति प्रत्यृचः सर्वाणीन्द्रियाणि तस्य यदविनाशिधर्म तदक्षरं भवति । इन्द्रियाण्यत्र देवा उच्यन्ते यान्यस्मिन्नात्मन्येकं भवन्तीत्यात्मप्रवादाः
āditya iti putraḥ śākapūṇeḥ | eṣargbhavati yadenamarcanti pratyṛcaḥ sarvāṇi bhūtāni tasya yadanyanmantrebhyastadakṣaraṁ bhavati | raśmayo'tra devā ucyante ya etasminnadhiniṣaṇṇā ityadhidaivatam | athādhyātmam | śarīramatra ṛgucyate yadenenārcanti pratyṛcaḥ sarvāṇīndriyāṇi tasya yadavināśidharma tadakṣaraṁ bhavati | indriyāṇyatra devā ucyante yānyasminnātmanyekaṁ bhavantītyātmapravādāḥ
शाकपूणि के पुत्र का मत है कि यह 'अक्षर' आदित्य है — सभी प्राणी उसी की ओर अर्चना करते हैं, प्रत्येक ऋचा से; जो मन्त्रों से भिन्न है वही उसका 'अक्षर' रूप है — यहाँ किरणें ही देवता कहलाती हैं जो उसमें बसती हैं (अधिदैवत)। अध्यात्म रूप में यहाँ शरीर ही 'ऋक्' है, जिसे सब इन्द्रियाँ अर्चती हैं; उसका अविनाशी धर्म ही 'अक्षर' है — इन्द्रियाँ ही यहाँ देवता कहलाती हैं, जो आत्मा में एक हो जाती हैं।
श्लोक 13.12
अक्षरं न क्षरति । न क्षीयते वा । अक्षयं भवति । वाचोऽक्ष इति वा । अक्षो यानस्याञ्जनात् । तत्प्रकृतीतरद्वर्तनसामान्यादिति । अयं मन्त्रार्थचिन्ताभ्यूहोऽभ्यूळ्हः । अपि श्रुतितोऽपि तर्कतः । न तु पृथक्त्वेन मन्त्रा निर्वक्तव्याः । प्रकरणश एव तु निर्वक्तव्याः । न ह्येषु प्रत्यक्षमस्त्यनृषेरतपसो वा । पारोवर्यवित्सु तु खलु वेदितृषु भूयोविद्यः प्रशस्यो भवतीत्युक्तं पुरस्तात् । मनुष्या वा ऋषिषूत्क्रामत्सु देवानब्रुवन् । को न ऋषिर्भविष्यतीति । तेभ्य एतं तर्कमृषिं प्रायच्छन्मन्त्रार्थचिन्ताभ्यूहमभ्यूळ्हम् । तस्माद्यदेव किंचानूचानोऽभ्यूहत्यार्षं तद्भवति
akṣaraṁ na kṣarati | na kṣīyate vā | akṣayaṁ bhavati | vāco'kṣa iti vā | akṣo yānasyāñjanāt | tatprakṛtītaradvartanasāmānyāditi | ayaṁ mantrārthacintābhyūho'bhyūḷhaḥ | api śrutito'pi tarkataḥ | na tu pṛthaktvena mantrā nirvaktavyāḥ | prakaraṇaśa eva tu nirvaktavyāḥ | na hyeṣu pratyakṣamastyanṛṣeratapaso vā | pārovaryavitsu tu khalu veditṛṣu bhūyovidyaḥ praśasyo bhavatītyuktaṁ purastāt | manuṣyā vā ṛṣiṣūtkrāmatsu devānabruvan | ko na ṛṣirbhaviṣyatīti | tebhya etaṁ tarkamṛṣiṁ prāyacchanmantrārthacintābhyūhamabhyūḷham | tasmādyadeva kiṁcānūcāno'bhyūhatyārṣaṁ tadbhavati
'अक्षर' 'न क्षरने वाला' या 'न क्षीण होने वाला', अक्षय — अथवा 'वाणी की धुरी' (अक्ष) के अर्थ में है। यह मन्त्रार्थ पर तर्क-आधारित विचार है, श्रुति और तर्क दोनों से समर्थित। मन्त्रों को अलग-अलग नहीं, प्रसंग के अनुसार ही निर्वचन करना चाहिए, क्योंकि इनमें बिना ऋषि-तप के प्रत्यक्ष ज्ञान सम्भव नहीं — 'बहुविद्य ही श्रेष्ठ माना जाता है' यह पहले कहा जा चुका है। आख्यान है कि जब ऋषि उत्क्रमण कर गए, तब मनुष्यों ने देवताओं से पूछा 'अब हमारा ऋषि कौन होगा?' — तब देवताओं ने उन्हें 'तर्क' नामक ऋषि प्रदान किया, जो मन्त्रार्थ-चिन्तन का अभ्यूह (तार्किक अनुमान) है। इसीलिए अध्येता जो भी तर्कसंगत अनुमान करता है, वही 'आर्ष' (ऋषि-सम्मत) माना जाता है।
श्लोक 13.13
हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजन्ते सखायः । अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरन्त्यु त्वे ॥ हृदा तष्टेषु मनसां प्रजवेषु यद्ब्राह्मणाः संयजन्ते समानाख्याना ऋत्विजः । अत्राह त्वं विजहुर्वेद्याभिर्वेदितव्याभिः प्रवृत्तिभिः । ओहब्रह्माण ऊहब्रह्माणः । ऊह एषां ब्रह्मेति वा । सेयं विद्या श्रुतिमतिबुद्धिः । तस्यास्तपसा पारमीप्सितव्यम् । तदिदमायुरिच्छता न निर्वक्तव्यम् । तस्माच्छन्दस्सु शेषा उपेक्षितव्याः । अथागमो यां यां देवतां निराह तस्यास्तस्यास्ताद्भाव्यमनुभवत्यनुभवति
hṛdā taṣṭeṣu manaso javeṣu yadbrāhmaṇāḥ saṁyajante sakhāyaḥ | atrāha tvaṁ vi jahurvedyābhirohabrahmāṇo vi carantyu tve || hṛdā taṣṭeṣu manasāṁ prajaveṣu yadbrāhmaṇāḥ saṁyajante samānākhyānā ṛtvijaḥ | atrāha tvaṁ vijahurvedyābhirveditavyābhiḥ pravṛttibhiḥ | ohabrahmāṇa ūhabrahmāṇaḥ | ūha eṣāṁ brahmeti vā | seyaṁ vidyā śrutimatibuddhiḥ | tasyāstapasā pāramīpsitavyam | tadidamāyuricchatā na nirvaktavyam | tasmācchandassu śeṣā upekṣitavyāḥ | athāgamo yāṁ yāṁ devatāṁ nirāha tasyāstasyāstādbhāvyamanubhavatyanubhavati
इस ऋचा में कहा गया है: 'हृदय से गढ़े गए, मन के वेगों में, जब ब्राह्मण मिलकर यजन करते हैं, सखागण — यहाँ तुम वेदनीय प्रवृत्तियों से पृथक् हो गए, ऊह-ब्रह्म वाले विविध चलते हैं।' यह विद्या श्रुति और बुद्धि की अतिशय है, इसका पार तप से ही पाया जाना चाहिए। जीवन चाहने वाले को इसका पूर्ण निर्वचन नहीं करना चाहिए; इसलिए छन्दों में शेष भाग की उपेक्षा (विस्तार से न जाना) उचित है। आगम जिस-जिस देवता का निर्देश करता है, उपासक उसी-उसी भाव का अनुभव करता है।
श्लोक 13.14
व्याख्यातं दैवतं यज्ञाङ्गं च । अथात ऊर्ध्वमार्गगतिं व्याख्यास्यामः । सूर्य आत्मा । इत्युदितस्य हि कर्मद्रष्टा । अथैतदनुप्रवदन्ति । अथैतं महान्तमात्मानमेषर्ग्गणः प्रवदति । इन्द्रं मित्रं वरुणमग्निमाहुः । इति ।। अथैष महानात्मात्मजिज्ञासयात्मानं प्रोवाच । अग्निरस्मि जन्मना जातवेदाः । अहमस्मि प्रथमजा इत्येताभ्याम्
vyākhyātaṁ daivataṁ yajñāṅgaṁ ca | athāta ūrdhvamārgagatiṁ vyākhyāsyāmaḥ | sūrya ātmā | ityuditasya hi karmadraṣṭā | athaitadanupravadanti | athaitaṁ mahāntamātmānameṣarggaṇaḥ pravadati | indraṁ mitraṁ varuṇamagnimāhuḥ | iti || athaiṣa mahānātmātmajijñāsayātmānaṁ provāca | agnirasmi janmanā jātavedāḥ | ahamasmi prathamajā ityetābhyām
देवता और यज्ञांग की व्याख्या पूर्ण हो चुकी है। अब हम ऊर्ध्व-मार्ग-गति (उच्चतर आत्म-ज्ञान की दिशा) की व्याख्या करेंगे। 'सूर्य आत्मा है' — यह कहे जाने पर ही उसके कर्म का द्रष्टा बनता है। ऋषि-गण इस महान् आत्मा को ही अनुवाद करते हैं — 'इन्द्र, मित्र, वरुण, अग्नि' कहते हैं। यह महान् आत्मा आत्म-जिज्ञासा से स्वयं को बताता है — 'मैं जन्म से जातवेदा अग्नि हूँ', 'मैं प्रथम-जात हूँ' — इन दो मन्त्रों से।
श्लोक 13.15
अग्निरस्मि जन्म॑ना जातवेदा घृतं मे चक्षुरमृतं म आसन् । अर्कस्त्रिधातू रजसो विमानोऽजस्रो घर्मो हविरस्मि नाम ॥ अहमस्मि प्रथमजा ऋतस्य पूर्वं देवेभ्यो अमृतस्य नाम । यो मा ददाति स इदेवमावद अहमन्नमन्नमदन्तमद्मि ॥ इति स ह ज्ञात्वा प्रादुर्बभूव । एवं तं व्याजहारायन्तमात्मानमध्यात्मजमन्तिकमन्यस्मा आचक्ष्वेति
agnirasmi janmanā jātavedā ghṛtaṁ me cakṣuramṛtaṁ ma āsan | arkastridhātū rajaso vimāno'jasro gharmo havirasmi nāma || ahamasmi prathamajā ṛtasya pūrvaṁ devebhyo amṛtasya nāma | yo mā dadāti sa idevamāvada ahamannamannamadantamadmi || iti sa ha jñātvā prādurbabhūva | evaṁ taṁ vyājahārāyantamātmānamadhyātmajamantikamanyasmā ācakṣveti
इस गहन आत्म-घोषणा ऋचा में आत्मा कहता है: 'मैं जन्म से जातवेदा अग्नि हूँ, घृत मेरा नेत्र है, अमृत मेरा मुख है; अर्क, त्रिधातु, रज का मापक, अजस्र घर्म — हविष्य ही मेरा नाम है। मैं ऋत का प्रथम-जात हूँ, देवताओं से पूर्व अमृत का नाम; जो मुझे देता है, वही सत्य कहता है — मैं अन्न हूँ, अन्न खाने वाले को खाता हूँ।' यह जानकर वह स्वयं प्रकट हुआ — इस प्रकार उसने अपने भीतर के आत्मा को, निकट-स्थित अध्यात्म-रूप को, किसी अन्य के लिए वर्णित किया।
श्लोक 13.16
अपश्यं गोपामनिपद्यमानमा च परा च पथिभिश्चर॑न्तम् । स सध्रीचीः स विषूचीर्वसान आ वरीवर्ति भुवनेष्वन्तः ॥ आवरीवर्ति भुवनेष्वन्तरिति । अथैष महानात्मा सत्त्वलक्षणस्तत्परं तद्ब्रह्म तत्सत्यं तत्सलिलं तदव्यक्तं तदस्पर्शं तदरूपं तदरसं तदगन्धं तदमृतं तच्छुक्लं तन्निष्ठो भूतात्मा । सैषा भूतप्रकृतिरित्येके । तत्क्षेत्रं तज्ज्ञानात्क्षेत्रज्ञमनुप्राप्य निरात्मकम् । अथैष महानात्मा त्रिविधो भवति । सत्त्वं रजस्तम इति । सत्त्वं तु मध्ये विशुद्धं तिष्ठति । अभितो रजस्तमसी इति कामद्वेषस्तम इत्यविज्ञातस्य विशुध्यतो विभूतिं कुर्वतः क्षेत्रज्ञपृथक्त्वाय कल्पते । प्रतिभातिलिङ्गो महानात्मा तमोलिङ्गो विद्या प्रकाशलिङ्गस्तमः । अपि निश्चयलिङ्ग आकाशः
apaśyaṁ gopāmanipadyamānamā ca parā ca pathibhiścarantam | sa sadhrīcīḥ sa viṣūcīrvasāna ā varīvarti bhuvaneṣvantaḥ || āvarīvarti bhuvaneṣvantariti | athaiṣa mahānātmā sattvalakṣaṇastatparaṁ tadbrahma tatsatyaṁ tatsalilaṁ tadavyaktaṁ tadasparśaṁ tadarūpaṁ tadarasaṁ tadagandhaṁ tadamṛtaṁ tacchuklaṁ tanniṣṭho bhūtātmā | saiṣā bhūtaprakṛtirityeke | tatkṣetraṁ tajjñānātkṣetrajñamanuprāpya nirātmakam | athaiṣa mahānātmā trividho bhavati | sattvaṁ rajastama iti | sattvaṁ tu madhye viśuddhaṁ tiṣṭhati | abhito rajastamasī iti kāmadveṣastama ityavijñātasya viśudhyato vibhūtiṁ kurvataḥ kṣetrajñapṛthaktvāya kalpate | pratibhātiliṅgo mahānātmā tamoliṅgo vidyā prakāśaliṅgastamaḥ | api niścayaliṅga ākāśaḥ
इस गम्भीर ऋचा में कहा गया है: 'मैंने उस अनपतित रक्षक को देखा, जो निकट और दूर दोनों मार्गों से विचरता है; वह एकत्र और पृथक् दोनों रूप धारण किए, सभी लोकों में घूमता है।' यास्क आगे इस महान् आत्मा (सत्त्व-लक्षण) को परब्रह्म, सत्य, जल-सम, अव्यक्त, अस्पर्श, अरूप, अरस, अगन्ध, अमृत, शुक्ल, भूतात्म-निष्ठ के रूप में वर्णित करते हैं — कुछ इसे 'भूत-प्रकृति' कहते हैं। वह क्षेत्र (शरीर) उस ज्ञान से क्षेत्रज्ञ (आत्मा) को प्राप्त कर आत्म-रहित हो जाता है। यह महान् आत्मा त्रिविध है — सत्त्व, रज, तम; सत्त्व मध्य में विशुद्ध रहता है, रज-तम दोनों ओर — काम-द्वेष तम के रूप में अज्ञात को क्षेत्रज्ञ से पृथक् करने में सहायक होते हैं। महान् आत्मा प्रतिभा-लिंग है, अविद्या तम-लिंग, विद्या प्रकाश-लिंग, और आकाश निश्चय-लिंग है।
श्लोक 13.17
आकाशगुणः शब्दः । आकाशाद्वायुर्द्विगुणः स्पर्शेन । वायोर्ज्योतिस्त्रिगुणं रूपेण । ज्योतिष आपश्चतुर्गुणा रसेन । अद्भ्यः पृथिवी पञ्चगुणा गन्धेन । पृथिव्या भूतग्रामस्थावरजङ्गमाः । तदेतदहर्युगसहस्रं जागर्ति । तस्यान्ते सुषुप्स्यन्नङ्गानि प्रत्याहरति । भूतग्रामाः पृथिवीमपि यन्ति । पृथिव्यपः । आपो ज्योतिषम् । ज्योतिर्वायुम् । वायुराकाशम् । आकाशो मनः । मनो विद्याम् । विद्या महान्तमात्मानम् । महानात्मा प्रतिभाम् । प्रतिभा प्रकृतिम् । सा स्वपिति युगसहस्त्रं रात्रिः । तावेतावहोरात्रावजस्रं परिवर्तेते । स कालस्तदेतदहर्भवति । युगसहस्रपर्यन्तमहर्यद्ब्रह्मणो विदुः । रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ॥ इति ॥
ākāśaguṇaḥ śabdaḥ | ākāśādvāyurdviguṇaḥ sparśena | vāyorjyotistriguṇaṁ rūpeṇa | jyotiṣa āpaścaturguṇā rasena | adbhyaḥ pṛthivī pañcaguṇā gandhena | pṛthivyā bhūtagrāmasthāvarajaṅgamāḥ | tadetadaharyugasahasraṁ jāgarti | tasyānte suṣupsyannaṅgāni pratyāharati | bhūtagrāmāḥ pṛthivīmapi yanti | pṛthivyapaḥ | āpo jyotiṣam | jyotirvāyum | vāyurākāśam | ākāśo manaḥ | mano vidyām | vidyā mahāntamātmānam | mahānātmā pratibhām | pratibhā prakṛtim | sā svapiti yugasahastraṁ rātriḥ | tāvetāvahorātrāvajasraṁ parivartete | sa kālastadetadaharbhavati | yugasahasraparyantamaharyadbrahmaṇo viduḥ | rātriṁ yugasahasrāntāṁ te'horātravido janāḥ || iti ||
यह विस्तृत ब्रह्माण्ड-विज्ञान है: आकाश का गुण शब्द है; आकाश से वायु दो गुण (स्पर्श सहित); वायु से ज्योति तीन गुण (रूप सहित); ज्योति से जल चार गुण (रस सहित); जल से पृथिवी पाँच गुण (गन्ध सहित); पृथिवी से स्थावर-जंगम प्राणी-समूह उत्पन्न होते हैं। यह सब एक सहस्र-युग तक जागृत रहता है, फिर प्रलय-काल में पृथिवी जल में, जल ज्योति में, ज्योति वायु में, वायु आकाश में, आकाश मन में, मन विद्या में, विद्या महान् आत्मा में, महान् आत्मा प्रतिभा में, प्रतिभा प्रकृति में लीन होती है — वह प्रकृति सहस्र-युग की रात्रि तक सोती है। ये दोनों अहोरात्र (जागरण-रात्रि) निरन्तर घूमते रहते हैं — यही काल है। 'जो सहस्र-युग तक चलने वाले दिन और सहस्र-युग तक चलने वाली रात्रि को ब्रह्मा का जानते हैं, वही सच्चे अहोरात्र-ज्ञानी हैं।'
श्लोक 13.18
तं परिवर्तमानमन्योऽनुप्रवर्तते । स्रष्टा द्रष्टा विभक्तातिमात्रोऽहमिति गम्यते । स मिथ्यादर्शनेदं पावकं महाभूतेषु चिरोण्वाकाशाद्वायोः प्राणश्चक्षुश्च वक्तारं च तेजसोऽद्भ्यः स्नेहं पृथिव्या मूर्तिः । पार्थिवाँस्त्वष्टौ गुणान्विद्यात् । त्रीन्मातृतस्त्रीन्पितृतः । अस्थिस्नायुमज्जानः पितृतः । त्वङ्मांसशोणितानि मातृतः । अन्नपान्नमित्यष्टौ । सोऽयं पुरुषः सर्वमयः सर्वज्ञानोऽपि क्लृप्तः
taṁ parivartamānamanyo'nupravartate | sraṣṭā draṣṭā vibhaktātimātro'hamiti gamyate | sa mithyādarśanedaṁ pāvakaṁ mahābhūteṣu ciroṇvākāśādvāyoḥ prāṇaścakṣuśca vaktāraṁ ca tejaso'dbhyaḥ snehaṁ pṛthivyā mūrtiḥ | pārthivām̐stvaṣṭau guṇānvidyāt | trīnmātṛtastrīnpitṛtaḥ | asthisnāyumajjānaḥ pitṛtaḥ | tvaṅmāṁsaśoṇitāni mātṛtaḥ | annapānnamityaṣṭau | so'yaṁ puruṣaḥ sarvamayaḥ sarvajñāno'pi klṛptaḥ
उस घूमते हुए चक्र का अनुसरण एक अन्य (जीव) करता है — वह स्वयं को 'सृष्टा, द्रष्टा, विभक्त, अतिमात्र' (यानी पृथक्, सीमातीत) मानने लगता है। वह मिथ्या-दर्शन से इस पावक शरीर को महाभूतों से — आकाश से प्राण और वाणी, तेज-जल से स्नेह, पृथिवी से मूर्ति — रचता हुआ मानता है। पार्थिव आठ गुणों को जानना चाहिए — तीन माता से, तीन पिता से (अस्थि-स्नायु-मज्जा पिता से, त्वचा-मांस-शोणित माता से), और अन्न-पान — यों आठ। इस प्रकार यह पुरुष सर्वमय, सर्वज्ञान-सम्पन्न होकर भी सीमित बना दिया जाता है।
श्लोक 13.19
स यद्यनुरुध्यते तद्भवति । यदि धर्ममनुरुध्यते तद्देवो भवति । यदि ज्ञानमनुरुध्यते तदमृतो भवति । यदि काममनुरुध्यते संच्यवते । इमां योनिं संदध्यात् । तदिदमत्र मतम् । श्लेष्मा रेतसः संभवति । श्लेष्मणो रसः । रसाच्छोणितम् । शोणितान्माँसम् । माँसान्मेदः । मेदसः स्नावा । स्नाव्नोऽस्थीनि । अस्थिभ्यो मज्जा । मज्जातो रेतः । तदिदं योनौ रेतः सिक्तं पुरुषः संभवति । शुक्रातिरेके पुमान्भवति । शोणितातिरेके स्त्री भवति । द्वाभ्यां समेन नपुंसको भवति । शुक्रेण भिन्नेन यमो भवति । शुक्रशोणितसंयोगान्मातृपितृसंयोगाच्च । तत्कथमिदं शरीरं परं संयम्यते । सौम्यो भवति । एकरात्रोषितं कललं भवति । पञ्चरात्राद् बुद्बुदाः । सप्तरात्रात्पेशी । द्विसप्तरात्रादर्बुदः । पञ्चविंशतिरात्रः स्वस्थितो घनो भवति । मासमात्रात्कठिनो भवति । द्विमासाभ्यन्तरे शिरः संपद्यते । मासत्रयेण ग्रीवाव्यादेशः । मासचतुष्केण त्वग्व्यादेशः । पञ्चमे मासे नखरोमव्यादेशः । षष्ठे मुखनासिकाक्षिश्रोत्रं च संभवति । सप्तमे चलनसमर्थो भवति । अष्टमे बुध्याध्यवस्यति । नवमे सर्वाङ्गसंपूर्णो भवति । मृतश्चाहं पुनर्जातो जातश्चाहं पुनर्मृतः । नाना योनिसहस्राणि मयोषितानि यानि वै ॥ आहारा विविधा भुक्ताः पीता नानाविधाः स्तनाः । मातरो विविधा दृष्टाः पितरः सुहृदस्तथा ॥ अवाङ्मुखः पीडयमानो जन्तुश्चैव समन्वितः । सांख्यं योगं समभ्यस्येत्पुरुषं वा पञ्चविंशकम् ॥ इति । ततश्च दशमे मासे प्रजायते । जातश्च वायुना स्पृष्टो न स्मरति जन्ममरणम् । अन्ते च शुभाशुभं कर्मैतच्छरीरस्य प्रामाण्यम्
sa yadyanurudhyate tadbhavati | yadi dharmamanurudhyate taddevo bhavati | yadi jñānamanurudhyate tadamṛto bhavati | yadi kāmamanurudhyate saṁcyavate | imāṁ yoniṁ saṁdadhyāt | tadidamatra matam | śleṣmā retasaḥ saṁbhavati | śleṣmaṇo rasaḥ | rasācchoṇitam | śoṇitānmām̐sam | mām̐sānmedaḥ | medasaḥ snāvā | snāvno'sthīni | asthibhyo majjā | majjāto retaḥ | tadidaṁ yonau retaḥ siktaṁ puruṣaḥ saṁbhavati | śukrātireke pumānbhavati | śoṇitātireke strī bhavati | dvābhyāṁ samena napuṁsako bhavati | śukreṇa bhinnena yamo bhavati | śukraśoṇitasaṁyogānmātṛpitṛsaṁyogācca | tatkathamidaṁ śarīraṁ paraṁ saṁyamyate | saumyo bhavati | ekarātroṣitaṁ kalalaṁ bhavati | pañcarātrād budbudāḥ | saptarātrātpeśī | dvisaptarātrādarbudaḥ | pañcaviṁśatirātraḥ svasthito ghano bhavati | māsamātrātkaṭhino bhavati | dvimāsābhyantare śiraḥ saṁpadyate | māsatrayeṇa grīvāvyādeśaḥ | māsacatuṣkeṇa tvagvyādeśaḥ | pañcame māse nakharomavyādeśaḥ | ṣaṣṭhe mukhanāsikākṣiśrotraṁ ca saṁbhavati | saptame calanasamartho bhavati | aṣṭame budhyādhyavasyati | navame sarvāṅgasaṁpūrṇo bhavati | mṛtaścāhaṁ punarjāto jātaścāhaṁ punarmṛtaḥ | nānā yonisahasrāṇi mayoṣitāni yāni vai || āhārā vividhā bhuktāḥ pītā nānāvidhāḥ stanāḥ | mātaro vividhā dṛṣṭāḥ pitaraḥ suhṛdastathā || avāṅmukhaḥ pīḍayamāno jantuścaiva samanvitaḥ | sāṁkhyaṁ yogaṁ samabhyasyetpuruṣaṁ vā pañcaviṁśakam || iti | tataśca daśame māse prajāyate | jātaśca vāyunā spṛṣṭo na smarati janmamaraṇam | ante ca śubhāśubhaṁ karmaitaccharīrasya prāmāṇyam
यह विस्तृत गर्भ-विज्ञान है: जो कुछ अनुसरण किया जाता है वही बन जाता है — धर्म का अनुसरण देव बनाता है, ज्ञान का अनुसरण अमृत बनाता है, काम का अनुसरण पतन कराता है और नई योनि में बाँधता है। रेतस् कफ से, कफ रस से, रस शोणित से, शोणित मांस से, मांस मेद से, मेद स्नायु से, स्नायु अस्थि से, अस्थि मज्जा से, मज्जा रेतस् से बनती है — यही रेतस् योनि में सिक्त होकर पुरुष बनता है। शुक्र-अधिक्य से पुरुष, शोणित-अधिक्य से स्त्री, दोनों समान होने पर नपुंसक, शुक्र-भिन्नता से यमल सन्तान बनती है। गर्भ-विकास का क्रम — एक रात्रि में कलल, पाँच रात्रि में बुद्बुद, सात में पेशी, चौदह में अर्बुद, पच्चीस में घन, एक मास में कठिन, दो मास में शिर, तीन में ग्रीवा, चार में त्वचा, पाँच में नख-रोम, छह में मुख-नासिका-नेत्र-कर्ण, सात में गति-सामर्थ्य, आठ में बुद्धि-निश्चय, नौ में सर्वांग-पूर्णता — विस्तार से वर्णित है, तथा जन्म-मरण के अगणित चक्रों की स्मृति का उल्लेख भी है — अन्ततः दसवें मास में जन्म होता है, और वायु-स्पर्श से पूर्व-जन्म-स्मृति खो जाती है; अन्त में शुभाशुभ कर्म ही शरीर का प्रमाण बनता है।
श्लोक 13.20
अष्टोत्तरं संधिशतमष्टाकपालं शिरः संपद्यते । षोडश वपापलानि । नव स्नायुशतानि । सप्त शतं पुरुषस्य मर्मणाम् । अर्धचतस्रो रोमाणि कोट्यः । हृदयं ह्यष्टकपालानि । द्वादशकपालानि जिह्वा । वृषणौ ह्यष्टसुपर्णौ । तथोपस्थगुदपाय्वेतन्मूत्रपुरीषं कस्मादाहारपानसिक्तत्वादनुपचितकर्माणावन्योन्यं जयेते इति । तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च । महत्यज्ञानतमसि मग्नौ जरामरणक्षुत्पिपासाशोकक्रोधलोभमोहमदभयमत्सरहर्षविषादेर्ष्यासूयात्मकैर्द्वन्द्वैरभिभूयमानः सोऽस्मादार्जवं जवीभावानां तन्निर्मुच्यते । सोऽस्मापान्नं महाभूमिकावच्छरीरान्निमेषमात्रैः प्रक्रम्य प्रकृतिरधिपरीत्य तैजसं शरीरं कृत्वा कर्मणोऽनुरूपं फलमनुभूय तस्य संक्षये पुनरिमँल्लोकं प्रतिपद्यते
aṣṭottaraṁ saṁdhiśatamaṣṭākapālaṁ śiraḥ saṁpadyate | ṣoḍaśa vapāpalāni | nava snāyuśatāni | sapta śataṁ puruṣasya marmaṇām | ardhacatasro romāṇi koṭyaḥ | hṛdayaṁ hyaṣṭakapālāni | dvādaśakapālāni jihvā | vṛṣaṇau hyaṣṭasuparṇau | tathopasthagudapāyvetanmūtrapurīṣaṁ kasmādāhārapānasiktatvādanupacitakarmāṇāvanyonyaṁ jayete iti | taṁ vidyākarmaṇī samanvārabhete pūrvaprajñā ca | mahatyajñānatamasi magnau jarāmaraṇakṣutpipāsāśokakrodhalobhamohamadabhayamatsaraharṣaviṣāderṣyāsūyātmakairdvandvairabhibhūyamānaḥ so'smādārjavaṁ javībhāvānāṁ tannirmucyate | so'smāpānnaṁ mahābhūmikāvaccharīrānnimeṣamātraiḥ prakramya prakṛtiradhiparītya taijasaṁ śarīraṁ kṛtvā karmaṇo'nurūpaṁ phalamanubhūya tasya saṁkṣaye punarimam̐llokaṁ pratipadyate
यहाँ शरीर के अंग-विन्यास की विस्तृत गणना है — शिर में एक सौ आठ सन्धियाँ और आठ खण्ड, सोलह पल वपा, नौ सौ स्नायु, सात सौ मर्म, साढ़े तीन करोड़ रोम, हृदय आठ खण्डों का, जिह्वा बारह खण्डों की, वृषण दो खण्डों के — तथा उपस्थ-गुद-मूत्र-पुरीष का भी उल्लेख, जो आहार-पान से सिंचित होकर परस्पर स्पर्धा करते हैं। पूर्वजन्म की प्रज्ञा और कर्म-विद्या दोनों उसका अनुसरण करते हैं। महान् अज्ञान-अन्धकार में डूबा हुआ, जरा-मरण-क्षुधा-तृष्णा-शोक-क्रोध-लोभ-मोह-मद-भय-ईर्ष्या-असूया आदि द्वन्द्वों से अभिभूत होते हुए भी, वह इनसे मुक्ति पाकर सरलता को प्राप्त होता है — शरीर से क्षणमात्र में निकलकर, प्रकृति को पार कर, तैजस शरीर धारण कर, कर्मानुरूप फल भोगकर, उसके क्षय होने पर पुनः इस लोक को प्राप्त करता है।
श्लोक 13.21
अथ ये हिंसामाश्रित्य विद्यामुत्सृज्य महत्तपस्तेपिरे चिरेण वेदोक्तानि वा कर्माणि कुर्वन्ति ते धूममभिसंभवन्ति । धूमाद्रात्रिम् । रात्रेरपक्षीयमाणपक्षम् । अपक्षीयमाणपक्षाद् दक्षिणायनम् । दक्षिणायनात्पितृलोकम् । पितृलोकाच्चन्द्रमसम् । चन्द्रमसो वायुम् । वायोर्वृष्टिम् । वृष्टेरोषधयश्चैतद्भूत्वा तस्य संक्षये पुनरेवेमँल्लोकं प्रतिपद्यते
atha ye hiṁsāmāśritya vidyāmutsṛjya mahattapastepire cireṇa vedoktāni vā karmāṇi kurvanti te dhūmamabhisaṁbhavanti | dhūmādrātrim | rātrerapakṣīyamāṇapakṣam | apakṣīyamāṇapakṣād dakṣiṇāyanam | dakṣiṇāyanātpitṛlokam | pitṛlokāccandramasam | candramaso vāyum | vāyorvṛṣṭim | vṛṣṭeroṣadhayaścaitadbhūtvā tasya saṁkṣaye punarevemam̐llokaṁ pratipadyate
जो लोग हिंसा का आश्रय लेकर, विद्या त्यागकर लम्बे समय तक कठोर तप करते हैं, या केवल वेदोक्त कर्म करते हैं, वे धूम को प्राप्त होते हैं — धूम से रात्रि, रात्रि से कृष्ण पक्ष, कृष्ण पक्ष से दक्षिणायन, दक्षिणायन से पितृलोक, पितृलोक से चन्द्रमा, चन्द्रमा से वायु, वायु से वृष्टि, वृष्टि से ओषधियों में परिणत होकर — इनके क्षय होने पर पुनः इसी लोक को प्राप्त होते हैं।
श्लोक 13.22
अथ ये हिंसामुत्सृज्य विद्यामाश्रित्य महत्तपस्तेपिरे ज्ञानोक्तानि वा कर्माणि कुर्वन्ति तेऽर्चिरभिसंभवन्ति । अर्चिषोऽहः । अह्न आपूर्यमाणपक्षम् । आपूर्यमाणपक्षादुदगयनम् । उदगयनाद्देवलोकम् । देवलोकादादित्यम् । आदित्याद्वैद्युतम् । वैद्युतान्मानसम् । मानसः पुरुषो भूत्वा ब्रह्मलोकमभिसंभवन्ति । ते न पुनरावर्तन्ते । शिष्टा दन्दशूका यत इदं न जानन्ति तस्मादिदं वेदितव्यम् । अथाप्याह
atha ye hiṁsāmutsṛjya vidyāmāśritya mahattapastepire jñānoktāni vā karmāṇi kurvanti te'rcirabhisaṁbhavanti | arciṣo'haḥ | ahna āpūryamāṇapakṣam | āpūryamāṇapakṣādudagayanam | udagayanāddevalokam | devalokādādityam | ādityādvaidyutam | vaidyutānmānasam | mānasaḥ puruṣo bhūtvā brahmalokamabhisaṁbhavanti | te na punarāvartante | śiṣṭā dandaśūkā yata idaṁ na jānanti tasmādidaṁ veditavyam | athāpyāha
जो लोग हिंसा त्यागकर, विद्या का आश्रय लेकर महान् तप करते हैं, या ज्ञान-प्रधान कर्म करते हैं, वे अर्चि (ज्योति) को प्राप्त होते हैं — अर्चि से दिन, दिन से शुक्ल पक्ष, शुक्ल पक्ष से उत्तरायण, उत्तरायण से देवलोक, देवलोक से आदित्य, आदित्य से वैद्युत, वैद्युत से मानस, और मानस पुरुष होकर ब्रह्मलोक को प्राप्त होते हैं — वे पुनः नहीं लौटते। शेष जन (दन्दशूक — विषधर-सदृश) इसे नहीं जानते, इसीलिए यह ज्ञातव्य है।
श्लोक 13.23
न तं विदाथ य इमा जजानान्यद्युष्माकमन्तरं बभूव । नीहारेण प्रावृता जल्प्या चासुतृपं उक्थशासश्चरन्ति ॥ न तं विद्यया विदुषो यमेवं विद्वाँसो वदन्ति । अक्षरं ब्रह्मणस्पतिमन्यद्युष्माकमन्तरमन्यदेषामन्तरं बभूवेति । नीहारेण प्रावृतास्तमसा जल्प्या चासुतृप उक्थशासः प्राणं सूर्यं यत्पथगामिनश्चरन्ति । अविद्वांसः क्षेत्रज्ञमनुप्रवदन्ति । अथाहो विद्वाँसः क्षेत्रज्ञोऽनुकल्पते । तस्य तपसा सहाप्रमादमेति । अथाप्तव्यो भवति । तेनासन्ततमिच्छेत् । तेन सख्यमिच्छेत् । एष हे सखा श्रेष्ठः संजानाति भूतं भवद्भविष्यदिति । ज्ञाता कस्मात् । ज्ञायतेः । सखा कस्मात् । सख्यतेः । सह भूतेन्द्रियैः शेरते । महाभूतानि सेन्द्रियाणि । प्रज्ञया कर्म कारयतीति । तस्य यदापः प्रतिष्ठाशीलमुपशम आत्मा ब्रह्मेति स ब्रह्मभूतो भवति । साक्षिमात्रो व्यवतिष्ठतेऽबन्धो ज्ञानकृतः ॥ अथात्मनो महतः प्रथमं भूतानामधेयान्यनुक्रमिष्यामः
na taṁ vidātha ya imā jajānānyadyuṣmākamantaraṁ babhūva | nīhāreṇa prāvṛtā jalpyā cāsutṛpaṁ ukthaśāsaścaranti || na taṁ vidyayā viduṣo yamevaṁ vidvām̐so vadanti | akṣaraṁ brahmaṇaspatimanyadyuṣmākamantaramanyadeṣāmantaraṁ babhūveti | nīhāreṇa prāvṛtāstamasā jalpyā cāsutṛpa ukthaśāsaḥ prāṇaṁ sūryaṁ yatpathagāminaścaranti | avidvāṁsaḥ kṣetrajñamanupravadanti | athāho vidvām̐saḥ kṣetrajño'nukalpate | tasya tapasā sahāpramādameti | athāptavyo bhavati | tenāsantatamicchet | tena sakhyamicchet | eṣa he sakhā śreṣṭhaḥ saṁjānāti bhūtaṁ bhavadbhaviṣyaditi | jñātā kasmāt | jñāyateḥ | sakhā kasmāt | sakhyateḥ | saha bhūtendriyaiḥ śerate | mahābhūtāni sendriyāṇi | prajñayā karma kārayatīti | tasya yadāpaḥ pratiṣṭhāśīlamupaśama ātmā brahmeti sa brahmabhūto bhavati | sākṣimātro vyavatiṣṭhate'bandho jñānakṛtaḥ || athātmano mahataḥ prathamaṁ bhūtānāmadheyānyanukramiṣyāmaḥ
इस गहन ऋचा में कहा गया है: 'तुम उसे नहीं जानते जिसने इन्हें (लोकों को) रचा — तुमसे भिन्न कोई और है; कुहासे से ढके, वाचाल, प्राण-तृप्ति चाहने वाले, ये उक्थ-पाठक केवल घूमते रहते हैं।' अज्ञानी क्षेत्रज्ञ (जीव) का ही अनुवाद करते हैं, प्राण और सूर्य के मार्ग पर चलते हुए; विद्वान् ही क्षेत्रज्ञ की सच्ची स्थिति पाता है, तप के साथ अप्रमाद को प्राप्त होता है। वह प्राप्तव्य बनकर, उससे निरन्तरता और मित्रता चाहता है — वह श्रेष्ठ मित्र भूत-वर्तमान-भविष्य सबको जानता है। इसके पश्चात् जल के समान शान्त-स्वभाव, आत्मा ही ब्रह्म है — यह जानकर वह ब्रह्म-भूत हो जाता है, केवल साक्षी-रूप में स्थित, ज्ञान-कृत बन्धन-रहित। अब हम महान् आत्मा के भूत-सम्बन्धी नामों की सूची देंगे।
श्लोक 13.24
हंसः । घर्मः । यज्ञः । वेनः । मेधः । कृमिः । भूमिः । विभुः । प्रभुः । शंभुः । राभुः । वधकर्मा । सोमः । भूतम् । भुवनम् । भविष्यत् । आपः । महत् । व्योम । यशः । महः । स्वर्णीकम् । स्मृतीकम् । स्वृतीकम् । सतीकम्। सतीनम्। गहनम् । गभीरम् । गह्वरम् । कम् । अन्नम् । हविः । सद्म । सदनम् । ऋतम् । योनिः । ऋतस्य योनिः । सत्यम् । नीरम् । हविः । रयिः । सत् । पूर्णम् । सर्वम् । अक्षितम् । बर्हिः । नाम । सर्पिः ।। अपः । पवित्रम् । अमृतम् । इन्दुः । हेम । स्वः । सर्गाः । शम्बरम् । अन्बरम् । वियत् । व्योम । बर्हिः । धन्व । अन्तरिक्षम् । आकाशम् । आपः । पृथिवी । भूः । स्वयम्भूः । अध्वा । पुष्करम् । सगरः । समुद्रः । तपः । तेजः । सिन्धुः । अर्णवः । नाभिः । ऊधः । वृक्षः । तत् । यत् । किम् । ब्रह्म । वरेण्यम् । हंसः । आत्मा । भवन्ति । वधन्ति । अध्वानम् । यद्वाहिष्ट्या । शरीराणि । अव्ययं च संस्कुरुते । य॒ज्ञः । आत्मा । भवति । यदेनं तन्वते । अथैतं महान्तमात्मानमेतानि सूक्तान्येता ऋचोऽनुप्रवदन्ति
haṁsaḥ | gharmaḥ | yajñaḥ | venaḥ | medhaḥ | kṛmiḥ | bhūmiḥ | vibhuḥ | prabhuḥ | śaṁbhuḥ | rābhuḥ | vadhakarmā | somaḥ | bhūtam | bhuvanam | bhaviṣyat | āpaḥ | mahat | vyoma | yaśaḥ | mahaḥ | svarṇīkam | smṛtīkam | svṛtīkam | satīkam| satīnam| gahanam | gabhīram | gahvaram | kam | annam | haviḥ | sadma | sadanam | ṛtam | yoniḥ | ṛtasya yoniḥ | satyam | nīram | haviḥ | rayiḥ | sat | pūrṇam | sarvam | akṣitam | barhiḥ | nāma | sarpiḥ || apaḥ | pavitram | amṛtam | induḥ | hema | svaḥ | sargāḥ | śambaram | anbaram | viyat | vyoma | barhiḥ | dhanva | antarikṣam | ākāśam | āpaḥ | pṛthivī | bhūḥ | svayambhūḥ | adhvā | puṣkaram | sagaraḥ | samudraḥ | tapaḥ | tejaḥ | sindhuḥ | arṇavaḥ | nābhiḥ | ūdhaḥ | vṛkṣaḥ | tat | yat | kim | brahma | vareṇyam | haṁsaḥ | ātmā | bhavanti | vadhanti | adhvānam | yadvāhiṣṭyā | śarīrāṇi | avyayaṁ ca saṁskurute | yajñaḥ | ātmā | bhavati | yadenaṁ tanvate | athaitaṁ mahāntamātmānametāni sūktānyetā ṛco'nupravadanti
यहाँ महान् आत्मा के अनेक पर्यायवाची नामों की एक लम्बी सूची दी गई है — हंस, घर्म, यज्ञ, वेन, मेध, कृमि, भूमि, विभु, प्रभु, शम्भु, सोम, भूत, भुवन, भविष्यत्, आपः, महत्, व्योम, अन्न, हविष्, सत्य, रयि, सर्व, अक्षित, अमृत, स्वः, अन्तरिक्ष, आकाश, पृथिवी, स्वयम्भू, समुद्र, तपस्, तेजस्, ब्रह्म, वरेण्य, आत्मा — इनमें से कुछ यज्ञ के अर्थ में हैं ('जब वे इसे तानते हैं, तब यह यज्ञ बन जाता है'), कुछ आत्मा के अर्थ में। इसके बाद इन नामों से जुड़े सूक्तों और ऋचाओं का अनुवाद किया जाएगा।
श्लोक 13.25
सोमः पवते जनिता मतीनां जनिता दिवो जनिता पृथिव्याः । जनिताग्नेर्जनिता सूर्यस्य जनितेन्द्रस्य जनितोत विष्णोः ॥ सोमः पवते जनयिता मतीनां जनयिता दिवो जनयिता पृथिव्या जनयिताग्नेर्जनयिता सूर्यस्य जनयितेन्द्रस्य जनयितोत विष्णोः
somaḥ pavate janitā matīnāṁ janitā divo janitā pṛthivyāḥ | janitāgnerjanitā sūryasya janitendrasya janitota viṣṇoḥ || somaḥ pavate janayitā matīnāṁ janayitā divo janayitā pṛthivyā janayitāgnerjanayitā sūryasya janayitendrasya janayitota viṣṇoḥ
इस ऋचा में सोम की स्तुति है: 'सोम बहता है, विचारों का जनक, द्युलोक का जनक, पृथिवी का जनक; अग्नि का जनक, सूर्य का जनक, इन्द्र का जनक, और विष्णु का भी जनक।'
श्लोक 13.26
ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम् । श्येनो गृध्राणां स्वधितर्वनानां सोमः पवित्रमत्येति रेभन् ॥ ब्रह्मा देवानामिति । एष हि ब्रह्मा भवति । देवानां देवनकर्मणामादित्यरश्मीनाम् । पदवीः कवीनामिति । एष हि पदं वेत्ति । कवीनां कवीयमानानामादित्यरश्मीनाम् । ऋषिर्विप्राणामिति । एष हि ऋषिणो भवति । विप्राणां व्यापनकर्मणामादित्यरश्मीनाम् । महिषो मृगाणामिति । एष हि महान्भवति । मृगाणां मार्गणकर्मणामादित्यरश्मीनाम् । श्येनो गृध्राणामिति । श्येन आदित्यो भवति । श्यायतेर्गतिकर्मणः । गृध्र आदित्यो भवति । गृध्यतेः स्थानकर्मणः । यत एतस्मिंस्तिष्ठति । स्वधितिर्वनानामिति । एष हि स्वयं कर्माण्यादित्यो धत्ते । वनानां वननकर्मणामादित्यरश्मीनाम् । सोमः पवित्रमत्येति रेभन्निति । एष हि पवित्रं रश्मीनामत्येति । स्तूयमान एष एवैतत्सर्वमक्षरम् । इत्यधिदैवतम् । अथाध्यात्मम् । ब्रह्मा देवानामिति । अयमपि ब्रह्मा भवति । देवानां देवनकर्मणामिन्द्रियाणाम् । पदवीः कवीनामिति । अयमपि पदं वेत्ति । कवीनां कवीयमानानामिन्द्रियाणाम् । ऋषिर्विप्राणामिति । अयमपि ऋषिणो भवति । विप्राणां व्यापनकर्मणामिन्द्रियाणाम् । महिषो मृगाणामिति । अयमपि महान्भवति । मृगाणां मार्गणकर्मणामिन्द्रियाणाम् । श्येनो गृध्राणामिति । श्येन आत्मा भवति । श्यायतेर्ज्ञानकर्मणः । गृध्राणीन्द्रियाणि । गृध्यतेर्ज्ञानकर्मणः । यत एतस्मिंस्तिष्ठन्ति । स्वधितिर्वनानामिति । अयमपि स्वयं कर्माण्यात्मनि धत्ते । वनानां वननकर्मणामिन्द्रियाणाम् । सोमः पवित्रमत्येति रेभन्निति । अयमपि पवित्रमिन्द्रियाण्यत्येति । स्तूयमानोऽयमेवैतत्सर्वमनुभवति । इत्यात्मगतिमाचष्टे
brahmā devānāṁ padavīḥ kavīnāmṛṣirviprāṇāṁ mahiṣo mṛgāṇām | śyeno gṛdhrāṇāṁ svadhitarvanānāṁ somaḥ pavitramatyeti rebhan || brahmā devānāmiti | eṣa hi brahmā bhavati | devānāṁ devanakarmaṇāmādityaraśmīnām | padavīḥ kavīnāmiti | eṣa hi padaṁ vetti | kavīnāṁ kavīyamānānāmādityaraśmīnām | ṛṣirviprāṇāmiti | eṣa hi ṛṣiṇo bhavati | viprāṇāṁ vyāpanakarmaṇāmādityaraśmīnām | mahiṣo mṛgāṇāmiti | eṣa hi mahānbhavati | mṛgāṇāṁ mārgaṇakarmaṇāmādityaraśmīnām | śyeno gṛdhrāṇāmiti | śyena ādityo bhavati | śyāyatergatikarmaṇaḥ | gṛdhra ādityo bhavati | gṛdhyateḥ sthānakarmaṇaḥ | yata etasmiṁstiṣṭhati | svadhitirvanānāmiti | eṣa hi svayaṁ karmāṇyādityo dhatte | vanānāṁ vananakarmaṇāmādityaraśmīnām | somaḥ pavitramatyeti rebhanniti | eṣa hi pavitraṁ raśmīnāmatyeti | stūyamāna eṣa evaitatsarvamakṣaram | ityadhidaivatam | athādhyātmam | brahmā devānāmiti | ayamapi brahmā bhavati | devānāṁ devanakarmaṇāmindriyāṇām | padavīḥ kavīnāmiti | ayamapi padaṁ vetti | kavīnāṁ kavīyamānānāmindriyāṇām | ṛṣirviprāṇāmiti | ayamapi ṛṣiṇo bhavati | viprāṇāṁ vyāpanakarmaṇāmindriyāṇām | mahiṣo mṛgāṇāmiti | ayamapi mahānbhavati | mṛgāṇāṁ mārgaṇakarmaṇāmindriyāṇām | śyeno gṛdhrāṇāmiti | śyena ātmā bhavati | śyāyaterjñānakarmaṇaḥ | gṛdhrāṇīndriyāṇi | gṛdhyaterjñānakarmaṇaḥ | yata etasmiṁstiṣṭhanti | svadhitirvanānāmiti | ayamapi svayaṁ karmāṇyātmani dhatte | vanānāṁ vananakarmaṇāmindriyāṇām | somaḥ pavitramatyeti rebhanniti | ayamapi pavitramindriyāṇyatyeti | stūyamāno'yamevaitatsarvamanubhavati | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'ब्रह्मा देवताओं में, पदवी कवियों में, ऋषि विप्रों में, महिष मृगों में, श्येन गिद्धों में, स्वधिति वनों में — सोम गर्जते हुए पवित्र को पार करता है।' अधिदैवत रूप में ये सब आदित्य-किरणों के भिन्न-भिन्न कर्मों के लिए हैं; अध्यात्म रूप में यही इन्द्रियों के भिन्न-भिन्न कर्मों के लिए — दोनों ही रूपों में यह वही एक अक्षर तत्त्व है जो स्तुत होकर सब कुछ अनुभव करता है।
श्लोक 13.27
तिस्रो वाच ईरयति॒ प्र वह्निर्ऋतस्य॑ धीतिं ब्रह्मणो मनीषाम् । गावो यन्ति गोप॑तिं पृच्छमा॑नाः सोमं यन्ति मतयो वावशानाः ॥ वह्निरादित्यो भवति । स तिस्रो वाचः प्रेरयति । ऋचो यजूँषि सामान्यृतस्यादित्यस्य कर्माणि ब्रह्मणो मतानि । एष एवैतत्सर्वमक्षरम् । इत्यधिदैवतम् । अथाध्यात्मम् । वह्निरात्मा भवति । स तिस्रो वाच ईरयति । विद्यामतिबुद्धिमतामृतस्यात्मनः कर्माणि ब्रह्मणो मतानि । अयमेवैतत्सर्वमनुभवति । इत्यात्मगतिमाचष्टे
tisro vāca īrayati pra vahnirṛtasya dhītiṁ brahmaṇo manīṣām | gāvo yanti gopatiṁ pṛcchamānāḥ somaṁ yanti matayo vāvaśānāḥ || vahnirādityo bhavati | sa tisro vācaḥ prerayati | ṛco yajūm̐ṣi sāmānyṛtasyādityasya karmāṇi brahmaṇo matāni | eṣa evaitatsarvamakṣaram | ityadhidaivatam | athādhyātmam | vahnirātmā bhavati | sa tisro vāca īrayati | vidyāmatibuddhimatāmṛtasyātmanaḥ karmāṇi brahmaṇo matāni | ayamevaitatsarvamanubhavati | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'वह वाहक तीन वाणियाँ, ऋत की धारणा और ब्रह्मा की मनीषा को प्रेरित करता है; गौएँ गोपति से पूछती हुई जाती हैं, विचार गर्जते हुए सोम की ओर जाते हैं।' अधिदैवत रूप में 'वाहक' आदित्य है, तीन वाणियाँ ऋक्-यजुः-साम; अध्यात्म रूप में 'वाहक' आत्मा है, तीन वाणियाँ विद्या-मति-बुद्धि।
श्लोक 13.28
सोमं गावो धेनवो वावशानाः सोमं विप्रा मतिभिः पृच्छमा॑नाः । सोमः सुतः पूयते अज्यमानः सोमै अर्कास्त्रिष्टुभः सं नवन्ते ॥ एत एव सोमं गावो धेनवो रश्मयो वावश्यमानाः कामयमाना आदित्यं यन्ति । एवमेव सोमं विप्रा रश्मयो मतिभिः पृच्छमानाः कामयमाना आदित्यं यन्ति । एवमेव सोमः सुतः पूयते अज्यमानः । एतमेवार्काश्च त्रिष्टुभश्च संनवन्ते । तत एतस्मिन्नादित्य एकं भवन्ति । इत्यधिदैवतम् । अथाध्यात्मम् । एत एव सोमं गावो धेनव इन्द्रियाणि वावश्यमानानि कामयमानान्यात्मानं यन्ति । एवमेव सोमं विप्रा इन्द्रियाणि मतिभिः पृच्छमानानि कामयमानान्यात्मानं यन्ति । एवमेव सोमः सुतः पूयते अज्यमानः । इममेवात्मा च सप्त ऋषयश्च संनवन्ते । तान्येतस्मिन्नात्मन्येकं भवन्ति । इत्यात्मगतिमाचष्टे
somaṁ gāvo dhenavo vāvaśānāḥ somaṁ viprā matibhiḥ pṛcchamānāḥ | somaḥ sutaḥ pūyate ajyamānaḥ somai arkāstriṣṭubhaḥ saṁ navante || eta eva somaṁ gāvo dhenavo raśmayo vāvaśyamānāḥ kāmayamānā ādityaṁ yanti | evameva somaṁ viprā raśmayo matibhiḥ pṛcchamānāḥ kāmayamānā ādityaṁ yanti | evameva somaḥ sutaḥ pūyate ajyamānaḥ | etamevārkāśca triṣṭubhaśca saṁnavante | tata etasminnāditya ekaṁ bhavanti | ityadhidaivatam | athādhyātmam | eta eva somaṁ gāvo dhenava indriyāṇi vāvaśyamānāni kāmayamānānyātmānaṁ yanti | evameva somaṁ viprā indriyāṇi matibhiḥ pṛcchamānāni kāmayamānānyātmānaṁ yanti | evameva somaḥ sutaḥ pūyate ajyamānaḥ | imamevātmā ca sapta ṛṣayaśca saṁnavante | tānyetasminnātmanyekaṁ bhavanti | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'गौएँ, धेनुएँ, सोम को गर्जती हुई चाहती हैं; विप्रगण अपनी बुद्धियों से सोम को पूछते हुए चाहते हैं; अभिषुत सोम शुद्ध होता जाता है; अर्क और त्रिष्टुभ सोम के साथ मिलकर गर्जते हैं।' अधिदैवत रूप में ये किरणें आदित्य की ओर, अध्यात्म रूप में इन्द्रियाँ आत्मा की ओर जाती हैं — अन्ततः वे उसी एक में मिल जाती हैं।
श्लोक 13.29
अक्रान्त्समुद्रः प्रथमे विधर्मञ्जनयन्प्र॒जा भुवनस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः ॥ अत्यक्रमीत्समुद्र आदित्यः परमे व्यवने वर्षकर्मणा जनयन्प्रजा भुवनस्य राजा सर्वस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः । इत्यधिदैवतम् । अथाध्यात्मम् । अत्यक्रमीत्समुद्र आत्मा परमे व्यवने ज्ञानकर्मणा जनयन्प्रजा भुवनस्य राजा सर्वस्य राजा । वृषा पवित्रे अधि सानो अव्ये बृहत्सोमो वावृधे सुवान इन्दुः । इत्यात्मगतिमाचष्टे
akrāntsamudraḥ prathame vidharmañjanayanprajā bhuvanasya rājā | vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ || atyakramītsamudra ādityaḥ parame vyavane varṣakarmaṇā janayanprajā bhuvanasya rājā sarvasya rājā | vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ | ityadhidaivatam | athādhyātmam | atyakramītsamudra ātmā parame vyavane jñānakarmaṇā janayanprajā bhuvanasya rājā sarvasya rājā | vṛṣā pavitre adhi sāno avye bṛhatsomo vāvṛdhe suvāna induḥ | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'समुद्र प्रथम विधान में आगे बढ़ा, प्रजाओं को जन्म देता हुआ, लोक का राजा; वृषा, पवित्र में, ऊन-छाने पात्र पर, महान् सोम, अभिषुत होता हुआ, इन्दु, बढ़ता गया।' अधिदैवत रूप में यह समुद्र आदित्य है, वर्षा-कर्म से प्रजा-जनक; अध्यात्म रूप में यह समुद्र आत्मा है, ज्ञान-कर्म से प्रजा-जनक।
श्लोक 13.30
महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् । अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥ महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवानामाधिपत्यम् । अदधादिन्द्रे पवमान ओजः । अजनयत्सूर्ये ज्योतिरिन्दुरादित्यः । इन्दुरात्मा
mahattatsomo mahiṣaścakārāpāṁ yadgarbho'vṛṇīta devān | adadhādindre pavamāna ojo'janayatsūrye jyotirinduḥ || mahattatsomo mahiṣaścakārāpāṁ yadgarbho'vṛṇīta devānāmādhipatyam | adadhādindre pavamāna ojaḥ | ajanayatsūrye jyotirindurādityaḥ | indurātmā
इस ऋचा में कहा गया है: 'वह महान् सोम बना जलों का महिष, जब गर्भ ने देवताओं का वरण किया; पवमान सोम ने इन्द्र में ओज स्थापित किया, इन्दु ने सूर्य में ज्योति उत्पन्न की।' इन्दु यहाँ आत्मा भी है।
श्लोक 13.31
विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार । देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ विधुं विधमनशीलम् । दद्राणं दमनशीलम् । युवानं चन्द्रमसम् । पलित आदित्यो गिरति । सद्यो म्रियते । स दिवा समुदिता । इत्यधिदैवतम् । अथाध्यात्मम् । विधुं विधमनशीलम् । दद्राणं दमनशीलम् । युवानं महान्तम् । पलित आत्मा गिरति । रात्रौ म्रियते । रात्रिः समुदिता । इत्यात्मगतिमाचष्टे
vidhuṁ dadrāṇaṁ samane bahūnāṁ yuvānaṁ santaṁ palito jagāra | devasya paśya kāvyaṁ mahitvādyā mamāra sa hyaḥ samāna || vidhuṁ vidhamanaśīlam | dadrāṇaṁ damanaśīlam | yuvānaṁ candramasam | palita ādityo girati | sadyo mriyate | sa divā samuditā | ityadhidaivatam | athādhyātmam | vidhuṁ vidhamanaśīlam | dadrāṇaṁ damanaśīlam | yuvānaṁ mahāntam | palita ātmā girati | rātrau mriyate | rātriḥ samuditā | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'विधु, जो हिलाने वाला है, दद्राण, जो दमन करने वाला है, युवा चन्द्रमा को पलित (जरावृद्ध सूर्य) निगल जाता है; देखो इस देव की महिमा-भरी काव्य-कुशलता — जो आज मरा वही कल फिर समान बन जाता है।' अधिदैवत रूप में सूर्य चन्द्रमा को दिन में निगलता है और तुरन्त मरता (अस्त होता) है; अध्यात्म रूप में आत्मा मन को रात्रि में निगलता है।
श्लोक 13.32
साकञ्जानां सप्तथमाहुरेकजं षळिद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः स्थात्रे रेजन्ते विकृतानि रूपशः ॥ सहजातानां षण्णामृषीणामादित्यः सप्तमः । तेषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा । अद्भिः सह संमोदन्ते । यत्रैतानि सप्तऋषीणानि ज्योतींषि तेभ्यः पर आदित्यः । तान्येतस्मिन्नेकं भवन्ति । इत्यधिदैवतम् । अथाध्यात्मम् । सहजातानां षण्णामिन्द्रियाणामात्मा सप्तमः । तेषामिष्टानि वा कान्तानि वा क्रान्तानि वा गतानि वा मतानि वा नतानि वा । अन्नेन सह संमोदन्ते । यत्रेमानि सप्तऋषीणानीन्द्रियाण्येभ्यः पर आत्मा । तान्येतस्मिन्नेकं भवन्ति । इत्यात्मगतिमाचष्टे
sākañjānāṁ saptathamāhurekajaṁ ṣaḷidyamā ṛṣayo devajā iti | teṣāmiṣṭāni vihitāni dhāmaśaḥ sthātre rejante vikṛtāni rūpaśaḥ || sahajātānāṁ ṣaṇṇāmṛṣīṇāmādityaḥ saptamaḥ | teṣāmiṣṭāni vā kāntāni vā krāntāni vā gatāni vā matāni vā natāni vā | adbhiḥ saha saṁmodante | yatraitāni saptaṛṣīṇāni jyotīṁṣi tebhyaḥ para ādityaḥ | tānyetasminnekaṁ bhavanti | ityadhidaivatam | athādhyātmam | sahajātānāṁ ṣaṇṇāmindriyāṇāmātmā saptamaḥ | teṣāmiṣṭāni vā kāntāni vā krāntāni vā gatāni vā matāni vā natāni vā | annena saha saṁmodante | yatremāni saptaṛṣīṇānīndriyāṇyebhyaḥ para ātmā | tānyetasminnekaṁ bhavanti | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'सह-जात सातवें को कहते हैं जो अकेला जन्मा — ये छह ऋषिगण देव-जात हैं; इनकी इष्ट वस्तुएँ स्थानों के अनुसार विहित हैं, वे स्थान-भेद से विविध रूपों में कम्पित होती हैं।' अधिदैवत रूप में सहजात छह ऋषि (नक्षत्र) हैं, आदित्य सातवाँ; अध्यात्म रूप में सहजात छह इन्द्रियाँ हैं, आत्मा सातवाँ — दोनों ही रूपों में वे एक में मिल जाते हैं।
श्लोक 13.33
स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः । कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥ स्त्रिय एवैताः शब्दस्पर्शरूपरसगन्धहारिण्यस्ता अमुं पुंशब्दे निराहारः प्राण इति पश्यन्कष्टान्न विजानात्यन्धः । कविर्यः पुत्रः स इमा जानाति । यः स इमा जानाति स पितुष्पितासत् । इत्यात्मगतिमाचष्टे
striyaḥ satīstām̐ u me puṁsa āhuḥ paśyadakṣaṇvānna vi cetadandhaḥ | kaviryaḥ putraḥ sa īmā ciketa yastā vijānātsa pituṣpitāsat || striya evaitāḥ śabdasparśarūparasagandhahāriṇyastā amuṁ puṁśabde nirāhāraḥ prāṇa iti paśyankaṣṭānna vijānātyandhaḥ | kaviryaḥ putraḥ sa imā jānāti | yaḥ sa imā jānāti sa pituṣpitāsat | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'ये स्त्रियाँ हैं — उन्हें ही वे मुझसे पुरुष कहते हैं; आँख वाला देखता है, अन्धा नहीं जान पाता; जो पुत्र-कवि है वही इन्हें जानता है — जो इन्हें जानता है वही पिता का पिता बनता है।' यहाँ शब्द-स्पर्श-रूप-रस-गन्ध को हरण करने वाली इन्द्रियों को 'स्त्रियाँ' कहा गया है, और उनका आधार-प्राण-चेतना 'पुरुष' — जो इस भेद को नहीं जानता वह अन्धा है, जो जानता है वही सच्चा ज्ञाता है।
श्लोक 13.34
सप्तार्धगर्भा भुवनस्य रेतो विष्णोस्तिष्ठन्ति प्रदिशा विधर्मणि । ते धीतिभिर्मनसा ते विपश्चितः परिभुवः परि भवन्ति विश्वतः ॥ सप्तैतानादित्यरश्मीनयमादित्यो गिरति । मध्यस्थानोर्ध्वशब्दः । यान्यस्मिंस्तिष्ठति तानि धीतिभिश्च मनसा च विपर्ययन्ति परिभुवः परिभवन्ति सर्वाणि कर्माणि वर्षकर्मणा । इत्यधिदैवतम् । अथाध्यात्मम् । सप्तेमानीन्द्रियाण्ययमात्मा गिरति मध्यस्थानोर्ध्वशब्दः । यान्यस्मिंस्तिष्ठन्ति तानि धीतिभिश्च मनसा च विपर्ययन्ति परिभुवः परिभवन्ति सर्वाणीन्द्रियाणि ज्ञानकर्मणा । इत्यात्मगतिमाचष्टे
saptārdhagarbhā bhuvanasya reto viṣṇostiṣṭhanti pradiśā vidharmaṇi | te dhītibhirmanasā te vipaścitaḥ paribhuvaḥ pari bhavanti viśvataḥ || saptaitānādityaraśmīnayamādityo girati | madhyasthānordhvaśabdaḥ | yānyasmiṁstiṣṭhati tāni dhītibhiśca manasā ca viparyayanti paribhuvaḥ paribhavanti sarvāṇi karmāṇi varṣakarmaṇā | ityadhidaivatam | athādhyātmam | saptemānīndriyāṇyayamātmā girati madhyasthānordhvaśabdaḥ | yānyasmiṁstiṣṭhanti tāni dhītibhiśca manasā ca viparyayanti paribhuvaḥ paribhavanti sarvāṇīndriyāṇi jñānakarmaṇā | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'सात अर्ध-गर्भ, लोक के बीज, विष्णु की दिशा-व्यवस्था में स्थित रहते हैं; वे बुद्धि और मन से सर्वत्र विचरण करते हुए, सब कुछ पराभूत कर लेते हैं।' अधिदैवत रूप में सात आदित्य-किरणों को आदित्य ही समेट लेता है, वर्षा-कर्म से सब कर्मों को पराभूत करता हुआ; अध्यात्म रूप में सात इन्द्रियों को आत्मा समेट लेता है, ज्ञान-कर्म से।
श्लोक 13.35
न वि जानामि यदिवेदमस्मि निण्यः संनद्धो मनसा चरामि । न विजानामि यदि वेदमस्मि निण्यः संनद्धो मनसा चरामि । न हि जानन्बुद्धिमतः परिवेदयन्तेऽयमादित्योऽयमात्मा
na vi jānāmi yadivedamasmi niṇyaḥ saṁnaddho manasā carāmi | na vijānāmi yadi vedamasmi niṇyaḥ saṁnaddho manasā carāmi | na hi jānanbuddhimataḥ parivedayante'yamādityo'yamātmā
इस ऋचा में कहा गया है: 'मैं नहीं जानता कि मैं यह हूँ या नहीं; रहस्यमय होकर, बद्ध होकर, मन से विचरण करता हूँ।' जो जानता है वह बुद्धिमानों में परिगणित नहीं होता — यही आदित्य है, यही आत्मा है।
श्लोक 13.36
अपाङ् प्राङेति स्वधया गृभीतोऽम॑र्त्यो मर्त्येना सयोनिः । ता शश्व॑न्ता विषूचीना वियन्ता न्य १ न्यं चिक्युर्न नि चिक्युरन्यम् ॥ अपाञ्चयति प्राञ्चयति स्वधया गृभीतोऽमर्त्य आदित्यो मर्त्येन चन्द्रमसा सह । तौ शश्वद्गामिनौ विश्वगामिनौ बहुगामिनौ वा । पश्यत्यादित्यं न चन्द्रमसम् । इत्यधिदैवतम् । अथाध्यात्मम् । अपाञ्चयति प्राञ्चयति स्वधया गृभीतोऽमर्त्य आत्मा मर्त्येन मनसा सह । तौ शश्वद्गामिनौ विश्वगामिनौ बहुगामिनौ वा । पश्यत्यात्मानं न मनः । इत्यात्मगतिमाचष्टे
apāṅ prāṅeti svadhayā gṛbhīto'martyo martyenā sayoniḥ | tā śaśvantā viṣūcīnā viyantā nya 1 nyaṁ cikyurna ni cikyuranyam || apāñcayati prāñcayati svadhayā gṛbhīto'martya ādityo martyena candramasā saha | tau śaśvadgāminau viśvagāminau bahugāminau vā | paśyatyādityaṁ na candramasam | ityadhidaivatam | athādhyātmam | apāñcayati prāñcayati svadhayā gṛbhīto'martya ātmā martyena manasā saha | tau śaśvadgāminau viśvagāminau bahugāminau vā | paśyatyātmānaṁ na manaḥ | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'नीचे और ऊपर जाता है, अपनी ही स्वधा से गृहीत, अमर्त्य, मर्त्य के साथ सह-योनि; वे दोनों सदा-गामी, सर्वगामी, पथ अलग करते हुए, एक-दूसरे को नहीं पहचान पाते।' अधिदैवत रूप में अमर्त्य आदित्य है, मर्त्य चन्द्रमा; अध्यात्म रूप में अमर्त्य आत्मा है, मर्त्य मन — एक दूसरे को नहीं देखता।
श्लोक 13.37
तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥ तद्भवति भूतेषु भुवनेषु ज्येष्ठमादित्यं यतो जज्ञ उग्रस्त्वेषनृम्णो दीप्तिनृम्णः । सद्यो जज्ञानो निरिणाति शत्रूनिति । रिणातिः प्रीतिकर्मा दीप्तिकर्मा वा । अनुमदन्ति यं विश्व ऊमाः । इत्यधिदैवतम् । अथाध्यात्मम् । तद्भवति भूतेषु भुवनेषु ज्येष्ठमव्यक्तं यतो जायत उग्रस्त्वेषनृम्णो ज्ञाननृम्णः । सद्यो जज्ञानो निरिणाति शत्रूनिति । रिणातिः प्रीतिकर्मा दीप्तिकर्मा वा । अनुमदन्ति यं सर्वे ऊमाः । इत्यात्मगतिमाचष्टे
tadidāsa bhuvaneṣu jyeṣṭhaṁ yato jajña ugrastveṣanṛmṇaḥ | sadyo jajñāno ni riṇāti śatrūnanu yaṁ viśve madantyūmāḥ || tadbhavati bhūteṣu bhuvaneṣu jyeṣṭhamādityaṁ yato jajña ugrastveṣanṛmṇo dīptinṛmṇaḥ | sadyo jajñāno niriṇāti śatrūniti | riṇātiḥ prītikarmā dīptikarmā vā | anumadanti yaṁ viśva ūmāḥ | ityadhidaivatam | athādhyātmam | tadbhavati bhūteṣu bhuvaneṣu jyeṣṭhamavyaktaṁ yato jāyata ugrastveṣanṛmṇo jñānanṛmṇaḥ | sadyo jajñāno niriṇāti śatrūniti | riṇātiḥ prītikarmā dīptikarmā vā | anumadanti yaṁ sarve ūmāḥ | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'वह भूतों में सर्वश्रेष्ठ था, जिससे उग्र, तेजस्वी-बल वाला उत्पन्न हुआ; जन्म लेते ही वह शत्रुओं को नष्ट करता है, जिसे सभी रक्षक-शक्तियाँ अनुमोदित करती हैं।' अधिदैवत रूप में यह आदित्य है, जो दीप्ति-बल से उत्पन्न है; अध्यात्म रूप में यह अव्यक्त आत्मा है, जो ज्ञान-बल से जन्म लेता है।
श्लोक 13.38
को अद्य युङ्क्ते धुरि गा ऋतस्य शिमीवतो भामिनो दुर्हृणायून् । आसन्निषून्हृत्स्वसो मयोभून्य एषां भृत्यामृणधत्स जीवात् ॥ क आदित्यो धुरि गा युङ्क्ते । रश्मीन्कर्मवतो भानुमतो दुराधर्षानसून्यसुनवन्तीषूनिषुणवन्ति मयोभूनि सुखभूनि । य इमं संभृतं वेद कथं स जीवति । इत्यधिदैवतम् । अथाध्यात्मम् । क आत्मा धुरि गा युङ्क्ते । इन्द्रियाणि कर्मवन्ति भानुमन्ति दुराधर्षानसून्यसुनवन्तीषूनिषुणवन्ति मयोभूनि सुखभूनि । य इमं संभृतं वेद चिरं जीवति । इत्यात्मगतिमाचष्टे
ko adya yuṅkte dhuri gā ṛtasya śimīvato bhāmino durhṛṇāyūn | āsanniṣūnhṛtsvaso mayobhūnya eṣāṁ bhṛtyāmṛṇadhatsa jīvāt || ka ādityo dhuri gā yuṅkte | raśmīnkarmavato bhānumato durādharṣānasūnyasunavantīṣūniṣuṇavanti mayobhūni sukhabhūni | ya imaṁ saṁbhṛtaṁ veda kathaṁ sa jīvati | ityadhidaivatam | athādhyātmam | ka ātmā dhuri gā yuṅkte | indriyāṇi karmavanti bhānumanti durādharṣānasūnyasunavantīṣūniṣuṇavanti mayobhūni sukhabhūni | ya imaṁ saṁbhṛtaṁ veda ciraṁ jīvati | ityātmagatimācaṣṭe
इस ऋचा में कहा गया है: 'कौन आज ऋत के धुरी में गौओं को जोतता है, जो शक्तिशाली, तेजस्वी, दुर्दम्य प्राणों वाली हैं? जो इस संचित सम्पदा को जानता है, वह कैसे जीता है?' अधिदैवत रूप में आदित्य किरणों को जोतता है; अध्यात्म रूप में आत्मा इन्द्रियों को जोतता है — जो इसे जानता है वह दीर्घजीवी होता है।
श्लोक 13.39
क ईषते तुज्यते को बिभाय को मंसते सन्तमिन्द्रं को अन्ति । कस्तोकाय क इभायोत रायेऽधि ब्रवत्तन्वे३ को जनाय ॥ क एव गच्छति को ददाति को बिभेति को मंसते सन्तमिन्द्रम् । कस्तोकायापत्याय महते च नो रणाय रमणीयाय दर्शनीयाय
ka īṣate tujyate ko bibhāya ko maṁsate santamindraṁ ko anti | kastokāya ka ibhāyota rāye'dhi bravattanve3 ko janāya || ka eva gacchati ko dadāti ko bibheti ko maṁsate santamindram | kastokāyāpatyāya mahate ca no raṇāya ramaṇīyāya darśanīyāya
इस ऋचा में प्रश्न पूछे जाते हैं: 'कौन गति करता है, कौन कम्पित होता है, कौन डरता है, कौन विद्यमान इन्द्र को मानता है, कौन निकट है? किसके लिए, किस सन्तान के लिए, किस धनार्थ, किस के लिए वह वाणी और शरीर के लिए बोलता है?' — ये गति, दान, भय, आदि के भिन्न-भिन्न कर्ताओं की जिज्ञासा है, महान् और रमणीय संग्राम की कामना में।
श्लोक 13.40
को अग्निमीट्टे हविषा घृतेन स्रुचा यजाता ऋतुभिर्ध्रुवेभिः । कस्मै देवा आ वहानाशु होम को मंसते वीतिहोत्रः सुदेवः ॥ क आदित्यं पूरयति हविषा च घृतेन च स्रुचा यजाता ऋतुभिर्ध्रुवेभिरिति । कस्मै देवा आवहानाशु होमार्थान्को मंसते वीतिहोत्रः सुदेवः कल्याणदेवः । इत्यधिदैवतम् । अथाध्यात्मम् । क आत्मानं पूरयति हविषा च घृतेन च स्रुचा यजाता ऋतुभिर्ध्रुवेभिरिति । कस्मै देवा आवहानाशु होमार्थान्को मंसते वीतिहोत्रः सुप्रज्ञः कल्याणप्रज्ञः । इत्यात्मगतिमाचष्टे
ko agnimīṭṭe haviṣā ghṛtena srucā yajātā ṛtubhirdhruvebhiḥ | kasmai devā ā vahānāśu homa ko maṁsate vītihotraḥ sudevaḥ || ka ādityaṁ pūrayati haviṣā ca ghṛtena ca srucā yajātā ṛtubhirdhruvebhiriti | kasmai devā āvahānāśu homārthānko maṁsate vītihotraḥ sudevaḥ kalyāṇadevaḥ | ityadhidaivatam | athādhyātmam | ka ātmānaṁ pūrayati haviṣā ca ghṛtena ca srucā yajātā ṛtubhirdhruvebhiriti | kasmai devā āvahānāśu homārthānko maṁsate vītihotraḥ suprajñaḥ kalyāṇaprajñaḥ | ityātmagatimācaṣṭe
इस ऋचा में प्रश्न है: 'कौन अग्नि को हविष्य, घृत, स्रुवा से, स्थिर ऋतुओं के साथ यजन करता है? किसके लिए देवता शीघ्र होम लाते हैं? कौन वीति-होत्र, कल्याणकारी देव को मानता है?' अधिदैवत रूप में आदित्य को हविष्य से भरना; अध्यात्म रूप में आत्मा को हविष्य से भरना — समान अर्थ में।
श्लोक 13.41
त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यम् । न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ त्वमङ्ग प्रशंसीर्देवः शविष्ठ मर्त्यं न त्वदन्योऽस्ति मघवन्पाता वा पालयिता वा जेता वा सुखयिता वा । इन्द्र ब्रवीमि ते वचः स्तुतियुक्तम्
tvamaṅga pra śaṁsiṣo devaḥ śaviṣṭha martyam | na tvadanyo maghavannasti marḍitendra bravīmi te vacaḥ || tvamaṅga praśaṁsīrdevaḥ śaviṣṭha martyaṁ na tvadanyo'sti maghavanpātā vā pālayitā vā jetā vā sukhayitā vā | indra bravīmi te vacaḥ stutiyuktam
इस ऋचा में कहा गया है: 'तुम ही, हे देव, सबसे शक्तिशाली, मर्त्य की प्रशंसा करते हो; तुमसे भिन्न कोई रक्षक, पालक, विजेता या सुखदाता नहीं है, हे मघवन्; हे इन्द्र, मैं तुम्हारे लिए यह स्तुति-वचन कहता हूँ।'
श्लोक 13.42
द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परि षस्वजाते । तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभि चाकशीति ॥ द्वौ द्वौ प्रतिष्ठितौ सुकृतौ धर्मकर्तारौ । दुष्कृतं पापं परिसारकमित्याचक्षते । सुपर्णा सयुजाः सखायेत्यात्मानं परमात्मानं प्रत्युत्तिष्ठति । शरीर एव तज्जायते वृक्षम् । ऋक्षं शरीरम् । वृक्षे पक्षौ प्रतिष्ठापयति । तयोरन्यद्भुक्त्वान्यदनश्नन्नन्यां सरूपतां सलोकतामश्नुते । य एवं वेदानश्नन्नन्योऽभिचाकशीति । इत्यात्मगतिमाचष्टे
dvā suparṇā sayujā sakhāyā samānaṁ vṛkṣaṁ pari ṣasvajāte | tayoranyaḥ pippalaṁ svādvattyanaśnannanyo abhi cākaśīti || dvau dvau pratiṣṭhitau sukṛtau dharmakartārau | duṣkṛtaṁ pāpaṁ parisārakamityācakṣate | suparṇā sayujāḥ sakhāyetyātmānaṁ paramātmānaṁ pratyuttiṣṭhati | śarīra eva tajjāyate vṛkṣam | ṛkṣaṁ śarīram | vṛkṣe pakṣau pratiṣṭhāpayati | tayoranyadbhuktvānyadanaśnannanyāṁ sarūpatāṁ salokatāmaśnute | ya evaṁ vedānaśnannanyo'bhicākaśīti | ityātmagatimācaṣṭe
यह प्रसिद्ध 'दो पक्षी' ऋचा है: 'दो सुपर्ण, संयुक्त सखा, एक ही वृक्ष को घेरे बैठे हैं; उनमें से एक मीठा फल खाता है, दूसरा बिना खाए देखता रहता है।' यास्क समझाते हैं कि ये दोनों पक्षी आत्मा और परमात्मा हैं — शरीर ही वह वृक्ष है (ऋक्ष=शरीर), जिसमें दोनों पंख जमाए बैठे हैं। जो फल भोगकर और बिना भोगे, अन्य समरूपता और सलोकता प्राप्त करता है — जो इसे जानता है, वह अभोक्ता होकर ही सब देखता है।
श्लोक 13.43
आ याहीन्द्र पथिभिरीळितेभिर्यज्ञमिमं नो भागधेयं जुषस्व । तृप्तां जुहुर्मातुळस्येव योषा भागस्ते पैतृष्वसेयी वपामिव ॥ आगमिष्यन्ति शक्रो देवतास्तास्त्रिभिस्तीर्थेभिः शक्रप्रतरैरीळितेभिस्त्रिभिस्तीथैर्यज्ञमिमं नो यज्ञभागमग्नीषोमभागाविन्द्रो जुषस्व । तृप्तामेवं मातुलयोगकन्या भागं सर्तृकेव सा या देवतास्तास्त्त्स्थाने शक्रं निदर्शनम् ॥ विप्रं विप्रासोऽव॑से देवं मर्तास ऊतये । अग्निं गीर्भिर्हवामहे ॥ विप्रं विप्रासोऽवसे विदुः । वेद विन्दतेर्वेदितव्यम् । विमलं शरीरं वायुना । विप्रस्तु पद्मनिलयं हृदिस्थितमकारसंहारितमुकारं पूरयन्मकारनिलयं गमयति । विप्रं प्राणेषु बिन्दुः सिक्तं विकसितं वह्नितेजः प्रभुं कनकं पद्येष्वमृतशरीरममृतजातस्थितममृतवादममृतमुखा वदन्ति । अग्निं गीर्भिर्हवामहे । अग्निं संबोधयेत् । अग्निः सर्वा देवताः । इति । तस्योत्तरा भूयसे निर्वचनाय
ā yāhīndra pathibhirīḷitebhiryajñamimaṁ no bhāgadheyaṁ juṣasva | tṛptāṁ juhurmātuḷasyeva yoṣā bhāgaste paitṛṣvaseyī vapāmiva || āgamiṣyanti śakro devatāstāstribhistīrthebhiḥ śakrapratarairīḷitebhistribhistīthairyajñamimaṁ no yajñabhāgamagnīṣomabhāgāvindro juṣasva | tṛptāmevaṁ mātulayogakanyā bhāgaṁ sartṛkeva sā yā devatāstāsttsthāne śakraṁ nidarśanam || vipraṁ viprāso'vase devaṁ martāsa ūtaye | agniṁ gīrbhirhavāmahe || vipraṁ viprāso'vase viduḥ | veda vindaterveditavyam | vimalaṁ śarīraṁ vāyunā | viprastu padmanilayaṁ hṛdisthitamakārasaṁhāritamukāraṁ pūrayanmakāranilayaṁ gamayati | vipraṁ prāṇeṣu binduḥ siktaṁ vikasitaṁ vahnitejaḥ prabhuṁ kanakaṁ padyeṣvamṛtaśarīramamṛtajātasthitamamṛtavādamamṛtamukhā vadanti | agniṁ gīrbhirhavāmahe | agniṁ saṁbodhayet | agniḥ sarvā devatāḥ | iti | tasyottarā bhūyase nirvacanāya
इस ऋचा में कहा गया है: 'हे इन्द्र, पूज्य मार्गों से आओ, इस यज्ञ में अपना भाग स्वीकार करो; जैसे तृप्त, मामा-योग्य कन्या पितृष्वसा के भाग को अपने ही अंश की भाँति ग्रहण करती है।' यह शक्र (इन्द्र) देवताओं के तीन तीर्थों से आगमन का आख्यान है। इसके बाद एक अन्य ऋचा में विप्र (अग्नि) का रक्षा हेतु आह्वान है: 'हम विप्रगण, रक्षा के लिए, मर्त्य सहायता के लिए, वाणियों से अग्नि को बुलाते हैं।' यहाँ 'विप्र' की गूढ़ योग-सम्बन्धी व्याख्या भी दी गई है — हृदय-स्थित कमल-निवास, प्राणों में बिन्दु, अमृत-शरीर — और अन्त में उद्धृत है: 'अग्नि ही समस्त देवता है।'
श्लोक 13.44
हंसः शुचिषद्वसुरन्तरिक्षसद्धोता वेदिषदतिथिर्दुरोणसत् । नृषद्वरसदृतसद्व्योमसदब्जा गोजा ऋतजा अद्रिजा ऋतम् ॥ हंस इति हंसाः सूर्यरश्मयः । परमात्मा परं ज्योतिः । पृथिव्याप्तेति व्याप्तं सर्वं व्याप्तं वननकर्माभ्यासेनादित्यमण्डलेनेति । त्यजतीति लोकः । त्यजतीति हंसः । त्यजन्तीति हंसाः । परमहंसाः परमात्मा सूर्यरश्मिभिः प्रभूतगभीतवसतीति । त्रिभिर्वसतीति वा । वह्निर्वसतीति वा । रश्मिभिर्वसतीति वा । सुवर्णरेताः पूषा गर्भाः । रिफिरिति रिफता चमकुटिलानि कुटन्ता रेफन्तान्तरिक्षं चरेदर्थेति । अन्तरिक्षं चरतीति दिवि । भूमिगमनं वा । स्वर्भानुः सुप्रसूतो होता । होतादित्यस्यगता भवन्ति । अतिथिर्दुरोणसत् । रवन्ति सर्वे रसाश्चिकीर्षयन्ति रश्मिभिश्चिकीर्षयन्तीति वा । वह्निर्विकर्षयति । नतं भवतीत्यश्वगोजा अद्रिगोजा धनगोजा सर्वगोजातिर्ऋच इति तेजो बहुजो शब्दो भवति । निगमो निगमव्यो भवत्यृषिनिर्वचनाय
haṁsaḥ śuciṣadvasurantarikṣasaddhotā vediṣadatithirduroṇasat | nṛṣadvarasadṛtasadvyomasadabjā gojā ṛtajā adrijā ṛtam || haṁsa iti haṁsāḥ sūryaraśmayaḥ | paramātmā paraṁ jyotiḥ | pṛthivyāpteti vyāptaṁ sarvaṁ vyāptaṁ vananakarmābhyāsenādityamaṇḍaleneti | tyajatīti lokaḥ | tyajatīti haṁsaḥ | tyajantīti haṁsāḥ | paramahaṁsāḥ paramātmā sūryaraśmibhiḥ prabhūtagabhītavasatīti | tribhirvasatīti vā | vahnirvasatīti vā | raśmibhirvasatīti vā | suvarṇaretāḥ pūṣā garbhāḥ | riphiriti riphatā camakuṭilāni kuṭantā rephantāntarikṣaṁ caredartheti | antarikṣaṁ caratīti divi | bhūmigamanaṁ vā | svarbhānuḥ suprasūto hotā | hotādityasyagatā bhavanti | atithirduroṇasat | ravanti sarve rasāścikīrṣayanti raśmibhiścikīrṣayantīti vā | vahnirvikarṣayati | nataṁ bhavatītyaśvagojā adrigojā dhanagojā sarvagojātirṛca iti tejo bahujo śabdo bhavati | nigamo nigamavyo bhavatyṛṣinirvacanāya
इस गूढ़ ऋचा में कहा गया है: 'हंस शुचि में बैठा है, वसु अन्तरिक्ष में बैठा है, होता वेदी में बैठा है, अतिथि गृह में बैठा है — नरों में, श्रेष्ठ में, ऋत में, व्योम में बैठा है, जल-जात, गौ-जात, ऋत-जात, पर्वत-जात — वही ऋत है।' यास्क इसे सूर्य-किरणों, परमात्मा, परम ज्योति के अनेक रूपों में व्याख्यायित करते हैं — 'हंस' वह है जो त्याग करता है, 'परमहंस' परमात्मा है जो सूर्य-किरणों से सर्वत्र निवास करता है।
श्लोक 13.45
त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात् ॥ त्र्यम्बको रुद्रः । तं त्र्यम्बकं यजामहे । सुगन्धिं सुष्ठुगन्धिं पुष्टिवर्धनं पुष्टिकारकमिव । उर्वारुकमिव फलं बन्धनादारोधनान्मृत्योः सकाशान्मुञ्चस्व मां कस्मादित्येषापरा भवति
tryambakaṁ yajāmahe sugandhiṁ puṣṭivardhanam | urvārukamiva bandhanānmṛtyormukṣīya māmṛtāt || tryambako rudraḥ | taṁ tryambakaṁ yajāmahe | sugandhiṁ suṣṭhugandhiṁ puṣṭivardhanaṁ puṣṭikārakamiva | urvārukamiva phalaṁ bandhanādārodhanānmṛtyoḥ sakāśānmuñcasva māṁ kasmādityeṣāparā bhavati
यह प्रसिद्ध महामृत्युंजय मन्त्र है: 'हम त्र्यम्बक (रुद्र) का यजन करते हैं, जो सुगन्धित है, पुष्टि बढ़ाने वाला है; जैसे ककड़ी अपने बन्धन से मुक्त होती है, वैसे ही मुझे मृत्यु से मुक्त करो, अमृतत्व से वंचित न रखते हुए।' त्र्यम्बक रुद्र का नाम है। इसके बाद अगली ऋचा है।
श्लोक 13.46
जातवेदसे सुनवाम सोम॑मरातीयतो नि दहाति वेदः । स नः पर्षदति दुर्गाणि विश्वा नावेव सिन्धुं दुरितात्य॒ग्निः ॥ जातवेदस इति जातमिदं सर्वं सचराचरं स्थित्युत्पत्तिप्रलयन्यायेन जातवेदस्यां वैव जातवेदसेऽर्चाय सुनवाम सोममिति । प्रसवायाभिषवाय सोमं राजनममृतम् । अरातीयतो यज्ञार्थमनिस्मो निर्दहति निश्चयेन दहति भस्मीकरोति । सोमो दददित्यर्थः । स नः पर्षदति दुर्गाणि विश्वानि दुर्गमानि स्थानानि नावेव सिन्धुम् । नावा सिन्धुं यथा यः कश्चित्कर्णधारो नावा सिन्धोः स्यन्दमानानां नदीं जलदुर्गां महाकुलां तारयति दुरितात्यग्निरिति दुरितानि तारयति । तस्यैषापरा भवति
jātavedase sunavāma somamarātīyato ni dahāti vedaḥ | sa naḥ parṣadati durgāṇi viśvā nāveva sindhuṁ duritātyagniḥ || jātavedasa iti jātamidaṁ sarvaṁ sacarācaraṁ sthityutpattipralayanyāyena jātavedasyāṁ vaiva jātavedase'rcāya sunavāma somamiti | prasavāyābhiṣavāya somaṁ rājanamamṛtam | arātīyato yajñārthamanismo nirdahati niścayena dahati bhasmīkaroti | somo dadadityarthaḥ | sa naḥ parṣadati durgāṇi viśvāni durgamāni sthānāni nāveva sindhum | nāvā sindhuṁ yathā yaḥ kaścitkarṇadhāro nāvā sindhoḥ syandamānānāṁ nadīṁ jaladurgāṁ mahākulāṁ tārayati duritātyagniriti duritāni tārayati | tasyaiṣāparā bhavati
इस ऋचा में (पहले भी उद्धृत) कहा गया है: 'जातवेदा के लिए हम सोम निचोड़ें, वह शत्रुओं को जला देता है; वह हमें सभी दुर्गम स्थानों से पार ले जाए, जैसे नौका नदी को पार कराती है, अग्नि दुरितों से पार कराता है।' यहाँ 'जातवेदस्' को समस्त उत्पन्न (चर-अचर) विश्व की स्थिति-उत्पत्ति-प्रलय की दृष्टि से समझाया गया है।
श्लोक 13.47
इदं तेऽन्याभिरसमानमद्भिर्याः काश्च सिन्धुं प्र वहन्ति नद्यः । सर्पो जीर्णामिव त्वचं जहाति पापं सशिरस्कोऽभ्युपेत्य ॥ इदं तेऽन्याभिरसमानाभिर्याः काश्च सिन्धुं पतिं कृत्वा नद्यो वहन्ति । सर्पो जीर्णामिव सर्पस्त्वचं त्यजति । पापं त्यजन्ति । आप आप्नोतेः । तासामेषा भवति
idaṁ te'nyābhirasamānamadbhiryāḥ kāśca sindhuṁ pra vahanti nadyaḥ | sarpo jīrṇāmiva tvacaṁ jahāti pāpaṁ saśirasko'bhyupetya || idaṁ te'nyābhirasamānābhiryāḥ kāśca sindhuṁ patiṁ kṛtvā nadyo vahanti | sarpo jīrṇāmiva sarpastvacaṁ tyajati | pāpaṁ tyajanti | āpa āpnoteḥ | tāsāmeṣā bhavati
इस ऋचा में कहा गया है: 'यह तेरे लिए अन्य जलों से भिन्न है, जो नदियाँ सिन्धु को पति बनाकर बहाती हैं; जैसे सर्प पुरानी केंचुली त्यागता है, वैसे ही वे पाप को शिर सहित त्यागकर आगे बढ़ती हैं।' 'आप' (जल) 'प्राप्ति' धातु से है।
श्लोक 13.48
शतं जीव शरदो वर्धमानः शतं हेमन्ताञ्छतमु वसन्तान् । शतमिन्द्राग्नी सविता बृहस्पतिः शतायुषा हविषेमं पुनर्दुः ॥ शतं जीव शरदो वर्धमानः । इत्यपि निगमो भवति । शतमिति शतं दीर्घमायुः । मरुतो मां वर्धयन्ति । शतमेव शतमात्मानं भवति । शतमनन्तं भवति । शतमैश्वर्यं भवति । शतमिति शतं दीर्घमायुः
śataṁ jīva śarado vardhamānaḥ śataṁ hemantāñchatamu vasantān | śatamindrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemaṁ punarduḥ || śataṁ jīva śarado vardhamānaḥ | ityapi nigamo bhavati | śatamiti śataṁ dīrghamāyuḥ | maruto māṁ vardhayanti | śatameva śatamātmānaṁ bhavati | śatamanantaṁ bhavati | śatamaiśvaryaṁ bhavati | śatamiti śataṁ dīrghamāyuḥ
इस ऋचा में दीर्घायु की कामना है: 'बढ़ते हुए सौ शरद् जीओ, सौ हेमन्त, सौ वसन्त; इन्द्राग्नी, सविता, बृहस्पति सौ आयु वाले हविष्य से इसे पुनः प्रदान करें।' 'शत' दीर्घ आयु के अर्थ में — 'शत' का अर्थ है अनन्त, ऐश्वर्य, आत्म-सम्पन्नता।
श्लोक 13.49
मा ते राधाँसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् । विश्वा च न उप मिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ मा च ते धनानि मा च ते कदाचन सरिषुः सर्वाणि प्रज्ञानान्युपमानय । मनुष्यहितोऽयमादित्योऽयमात्मा । अथैतदनुप्रवदति । अथैनं महान्तमात्मानमेषर्ग्तणः प्रवदति । वैश्वकर्मणो देवानां नु वयं जाना नासदासीन्नो सदासीत्तदानीम् । इति च । सैषात्मजिज्ञासा । सैषा सर्वभूतजिज्ञासा । ब्रह्मणः सार्ष्टिं सरूपतां सलोकतां गमयति य एवं वेद । नमो ब्रह्मणे । नमो महते भूताय । नमो यास्काय । ब्रह्मशुक्लमतीय ब्रह्मशुक्लमसीय
mā te rādhām̐si mā ta ūtayo vaso'smānkadā canā dabhan | viśvā ca na upa mimīhi mānuṣa vasūni carṣaṇibhya ā || mā ca te dhanāni mā ca te kadācana sariṣuḥ sarvāṇi prajñānānyupamānaya | manuṣyahito'yamādityo'yamātmā | athaitadanupravadati | athainaṁ mahāntamātmānameṣargtaṇaḥ pravadati | vaiśvakarmaṇo devānāṁ nu vayaṁ jānā nāsadāsīnno sadāsīttadānīm | iti ca | saiṣātmajijñāsā | saiṣā sarvabhūtajijñāsā | brahmaṇaḥ sārṣṭiṁ sarūpatāṁ salokatāṁ gamayati ya evaṁ veda | namo brahmaṇe | namo mahate bhūtāya | namo yāskāya | brahmaśuklamatīya brahmaśuklamasīya
इस अन्तिम ऋचा में कहा गया है: 'तुम्हारे धन और सहायताएँ हमें कभी न ठगें, हे वसो; हे मानुष, सब वसुओं को हमारे लिए, प्रजाओं के लिए, समर्पित करो।' यह आदित्य और आत्मा — मनुष्य-हितकारी — दोनों के लिए कहा गया है। इसके बाद प्रसिद्ध नासदीय सूक्त उद्धृत है: 'हम विश्वकर्मा देवताओं की उत्पत्ति जानें — न असत् था, न सत् था उस समय।' यह आत्म-जिज्ञासा है, यह सर्व-भूत-जिज्ञासा है। जो इसे इस प्रकार जानता है, वह ब्रह्म के साथ सार्ष्टि, सरूपता और सलोकता प्राप्त करता है। 'ब्रह्म को नमस्कार। महान् भूत को नमस्कार। यास्क को नमस्कार। ब्रह्म-शुक्ल को प्राप्त होकर, ब्रह्म-शुक्ल हो जाओ।' इस प्रकार परिशिष्ट, और इसके साथ सम्पूर्ण निरुक्त, समाप्त होता है।