पूर्वखण्ड — आचारकाण्ड · अध्याय 215
देवादि-पितृ-तर्पण
श्लोक 1 (garuda.1.215.1)
ब्रह्मोवाच । तर्पणं सम्प्रवक्ष्यामि देवादिपितृतुष्टिदम्
brahmovāca tarpaṇaṁ sampravakṣyāmi devādipitṛtuṣṭidam
ब्रह्मा ने कहा — अब मैं देवताओं, ऋषियों और पितरों को तृप्त करने वाला तर्पण-विधान कहूँगा।
श्लोक 2 (garuda.1.215.2)
ओं मोदास्तृप्यन्ताम् । ओं प्रमोदास्तृप्यन्ताम् । ओं सुमुखास्तृप्यन्ताम् । ओं दुर्मुखास्तृप्यन्ताम् । ओं विघ्नास्तृप्यन्ताम् । ओं विघ्नकर्तारस्तृप्यन्ताम् । ओं छन्दांसि तृप्यन्ताम् । ओं वेदास्तृप्यन्ताम् । ओं ओषधयस्तृप्यन्ताम् । ओं सनातनस्तृप्यताम् । ओं इतराचार्यास्तृप्यन्ताम् । ओं संवत्सरःसावयवस्तृप्यताम् । ओं देवास्तृप्यन्ताम् । ओं अप्सरसस्तृप्यन्ताम् । ओं देवान्धकास्तृप्यन्ताम् । ओं सागरस्तृप्यन्ताम् । ओं नागास्तृप्यन्ताम् । ओं पर्वतास्तृप्यन्ताम् । ओं सरिन्मनुष्या यक्षास्तृप्यन्ताम् । ओं रक्षांसि तृप्यन्ताम् । ओं पिशाचास्तृप्यन्ताम् । ओं सुपर्णास्तृप्यन्ताम् । ओं भूतानि तृप्यन्ताम् । ओं भूतग्रामाश्चतुर्विधास्तृप्यन्ताम् । ओं दक्षस्तृप्यताम् । ओं प्रचेतास्तृप्यताम् । ओं मरीचिस्तृप्यताम् । ओं आत्रिस्तृप्यताम् । ओं अङ्गिरास्तृप्यताम् । ओं पुलस्त्यस्तृप्यताम् । ओं पुलहस्तृप्यताम् । ओं क्रतुस्तृप्यताम् । ओं नारदस्तृप्यताम् ! ओं भृगुस्तृप्यताम् । ओं विश्वामित्रस्तृप्यताम् । ओं रैवतस्तृप्यताम् । ओं चाक्षुषस्तृप्यताम् । ओं महातेजास्तृप्यताम् । ओं वैवस्वतस्तृप्यताम् । ओं ध्रुवस्तृप्यताम् । ओं धवस्तृप्यताम् । ओं अनिलस्तृप्यताम् । ओं प्रभासस्तृप्यताम्
oṁ modāstṛpyantām oṁ pramodāstṛpyantām oṁ sumukhāstṛpyantām oṁ durmukhāstṛpyantām oṁ vighnāstṛpyantām oṁ vighnakartārastṛpyantām oṁ chandāṁsi tṛpyantām oṁ vedāstṛpyantām oṁ oṣadhayastṛpyantām oṁ sanātanastṛpyatām oṁ itarācāryāstṛpyantām oṁ saṁvatsaraḥsāvayavastṛpyatām oṁ devāstṛpyantām oṁ apsarasastṛpyantām oṁ devāndhakāstṛpyantām oṁ sāgarastṛpyantām oṁ nāgāstṛpyantām oṁ parvatāstṛpyantām oṁ sarinmanuṣyā yakṣāstṛpyantām oṁ rakṣāṁsi tṛpyantām oṁ piśācāstṛpyantām oṁ suparṇāstṛpyantām oṁ bhūtāni tṛpyantām oṁ bhūtagrāmāścaturvidhāstṛpyantām oṁ dakṣastṛpyatām oṁ pracetāstṛpyatām oṁ marīcistṛpyatām oṁ ātristṛpyatām oṁ aṅgirāstṛpyatām oṁ pulastyastṛpyatām oṁ pulahastṛpyatām oṁ kratustṛpyatām oṁ nāradastṛpyatām ! oṁ bhṛgustṛpyatām oṁ viśvāmitrastṛpyatām oṁ raivatastṛpyatām oṁ cākṣuṣastṛpyatām oṁ mahātejāstṛpyatām oṁ vaivasvatastṛpyatām oṁ dhruvastṛpyatām oṁ dhavastṛpyatām oṁ anilastṛpyatām oṁ prabhāsastṛpyatām
ॐ — मोद, प्रमोद, सुमुख, दुर्मुख, विघ्न और विघ्नकर्ता गण तृप्त हों; छन्द, वेद और औषधियाँ तृप्त हों; सनातन तथा अन्य आचार्य तृप्त हों; अंगों सहित संवत्सर (वर्ष) तृप्त हो; देवगण, अप्सराएँ, देवान्धक, सागर, नाग, पर्वत, नदियाँ-मनुष्य-यक्ष, राक्षस, पिशाच, सुपर्ण, भूत और चार प्रकार के भूत-गण तृप्त हों; दक्ष, प्रचेता, मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु, नारद, भृगु, विश्वामित्र, रैवत, चाक्षुष, महातेजा, वैवस्वत, ध्रुव, धव, अनिल और प्रभास तृप्त हों।
श्लोक 3 (garuda.1.215.3)
नीवीती । ओं सनकस्तृप्यताम् । ओं सनन्दनस्तृप्यताम् । ओं सनातनस्तृप्यताम् । ओं कपिलस्तृप्यताम् । ओं आसुरिस्तृप्यताम् । ओं वोढुस्तृप्यताम् । ओं पञ्चशिखस्तृप्यताम् । ओं मनुष्याणां कव्यवाहस्तृप्यताम् । ओं अनलस्तृप्यन्ताम् । ओं सोमस्तृताम् । ओं यमस्तृप्यताम् । ओं अर्यमातृप्यताम्
nīvītī oṁ sanakastṛpyatām oṁ sanandanastṛpyatām oṁ sanātanastṛpyatām oṁ kapilastṛpyatām oṁ āsuristṛpyatām oṁ voḍhustṛpyatām oṁ pañcaśikhastṛpyatām oṁ manuṣyāṇāṁ kavyavāhastṛpyatām oṁ analastṛpyantām oṁ somastṛtām oṁ yamastṛpyatām oṁ aryamātṛpyatām
यज्ञोपवीत को गले में डालकर — ॐ — सनक, सनन्दन, सनातन, कपिल, आसुरि, वोढु, पंचशिख तृप्त हों; मनुष्यों में कव्यवाह (पितृ-अग्नि) तृप्त हो; अनल, सोम, यम और अर्यमा तृप्त हों।
श्लोक 4 (garuda.1.215.4)
प्राचीनावीती । ओं अग्निष्वात्ताः पितरस्तृप्यन्ताम् । ओं सोमपाः पितरस्तृप्यन्ताम् । ओं बर्हिषदः पितरस्तृप्यन्ताम् । यमाय नमः । धर्मराजाय नमः । मृत्यवे नमः । अन्तकाय नमः । वैवस्वताय नमः । कालाय नमः । सर्वभूतक्षयाय नमः । औदुम्बराय नमः! दध्नाय नमः । नीलाय नमः । परमेष्ठिने नमः । वृकोदराय नमः । चित्राय नमः । चित्रगुप्ताय नमः
prācīnāvītī oṁ agniṣvāttāḥ pitarastṛpyantām oṁ somapāḥ pitarastṛpyantām oṁ barhiṣadaḥ pitarastṛpyantām yamāya namaḥ dharmarājāya namaḥ mṛtyave namaḥ antakāya namaḥ vaivasvatāya namaḥ kālāya namaḥ sarvabhūtakṣayāya namaḥ audumbarāya namaḥ! dadhnāya namaḥ nīlāya namaḥ parameṣṭhine namaḥ vṛkodarāya namaḥ citrāya namaḥ citraguptāya namaḥ
यज्ञोपवीत को उलटा कर — ॐ — अग्निष्वात्त, सोमपा और बर्हिषद पितर तृप्त हों; यम, धर्मराज, मृत्यु, अन्तक, वैवस्वत, काल, सर्वभूतक्षय, औदुम्बर, दध्न, नील, परमेष्ठी, वृकोदर, चित्र और चित्रगुप्त को नमस्कार।
श्लोक 5 (garuda.1.215.5)
ब्रह्मादिस्तम्बपर्यन्तं जगत्तृप्यतु । ओं पितृभ्यः स्वधा नमः । ओं पितामहेभ्यः स्वधा नमः । ओं प्रपितामहेभ्यः स्वधा नमः । ओं मातृभ्यः स्वधानमः । ओं पितामहीभ्यः स्वधा नमः । ओं प्रपितामहीभ्यः स्वधा नमः । ओं मातामहेभ्यः स्वधा नमः । ओं प्रमातामहेभ्यः स्वधा नमः । ओं वृद्धप्रमातामहेभ्यः स्वधानमः तृप्यतामिति । उदीरतामवर उत्परासो उन्मध्यमाः पितरः सोम्यासः । असुंय ईयुरवृका ऋतज्ञास्तेनोऽवन्तुपितरोहवेषु । गोत्रोच्चारणेन प्रथमाञ्जलिः पितुः । ओं अङ्गिरसो नः पितरोदृ । अथर्वाणोभृगवःदृ । तेषां वयं सुमतौ यज्ञियानां अपि भद्रे सौमनसे स्याम । ओं आयन्तु नः पितरः सौम्यासोग्निष्वात्ताः पथिभिर्देवयानैः । अस्मिन्यज्ञे स्वधया मदन्तोऽधिब्रुवन्तु तेऽवन्त्वस्मान्
brahmādistambaparyantaṁ jagattṛpyatu oṁ pitṛbhyaḥ svadhā namaḥ oṁ pitāmahebhyaḥ svadhā namaḥ oṁ prapitāmahebhyaḥ svadhā namaḥ oṁ mātṛbhyaḥ svadhānamaḥ oṁ pitāmahībhyaḥ svadhā namaḥ oṁ prapitāmahībhyaḥ svadhā namaḥ oṁ mātāmahebhyaḥ svadhā namaḥ oṁ pramātāmahebhyaḥ svadhā namaḥ oṁ vṛddhapramātāmahebhyaḥ svadhānamaḥ tṛpyatāmiti udīratāmavara utparāso unmadhyamāḥ pitaraḥ somyāsaḥ asuṁya īyuravṛkā ṛtajñāsteno'vantupitarohaveṣu gotroccāraṇena prathamāñjaliḥ pituḥ oṁ aṅgiraso naḥ pitarodṛ atharvāṇobhṛgavaḥdṛ teṣāṁ vayaṁ sumatau yajñiyānāṁ api bhadre saumanase syāma oṁ āyantu naḥ pitaraḥ saumyāsogniṣvāttāḥ pathibhirdevayānaiḥ asminyajñe svadhayā madanto'dhibruvantu te'vantvasmān
ब्रह्मा से लेकर तृण-पर्यन्त सम्पूर्ण जगत् तृप्त हो — ॐ पिता-पितामह-प्रपितामह को स्वधा नमस्कार, माता-पितामही-प्रपितामही को स्वधा नमस्कार, मातामह-प्रमातामह-वृद्धप्रमातामह को स्वधा नमस्कार, वे तृप्त हों। 'नीचे, ऊपर और मध्य के सोमप्रिय पितर उठें' — इस ऋचा का पाठ करते हुए, गोत्रोच्चारण के साथ पिता को प्रथम अंजलि दी जाती है। 'हमारे अंगिरस, अथर्वन् और भृगु पितर...' इत्यादि यज्ञ-योग्य उन पितरों की सुमति में हम रहें — ऐसा कहते हुए, 'हमारे सौम्य अग्निष्वात्त पितर देवयान मार्गों से आएँ, इस यज्ञ में स्वधा से आनन्दित होकर हमारे लिए बोलें और हमारी रक्षा करें' — यह प्रार्थना है।
श्लोक 6 (garuda.1.215.6)
ओं ऊर्जं वहन्तीरमृतं घृतं पयः कीलालं परिस्नुतं स्वधा स्थ तर्पयत मे पितॄन् । ओं पितृभ्यः स्वधा नमः । ओं पितामहेभ्यः स्वधा नमः । ओं प्रपितामहेभ्यः स्वधान नमः । ओं मातामहेभ्यः स्वधा नमः । ओं प्रमातामहेभ्यः स्वधा नमः । ओं वृद्धप्रमातामहेभ्यः स्वधा नमः । पितामहस्यदृ । ओं अक्षन्पितरो अमीमदन्त पितरो अमी तृप्यन्तः पितरः शुं(स्व) धध्वं पिबेह पितरोऽपि वानत्रयांश्च विश्रयांश्च भवनपवित्रत्वा रथपति ते जातवेदाः स्वधाभिर्यज्ञं सुकृतं जुपस्व । ओं णदुवाता ऋतायते मधु क्षरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीर्मधुनक्तमुतोषसो मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता मधु मान्नो वनस्पतिर्मधुभामस्तु सूर्यो माध्वीर्गावो भवन्तु नः
oṁ ūrjaṁ vahantīramṛtaṁ ghṛtaṁ payaḥ kīlālaṁ parisnutaṁ svadhā stha tarpayata me pitṝn oṁ pitṛbhyaḥ svadhā namaḥ oṁ pitāmahebhyaḥ svadhā namaḥ oṁ prapitāmahebhyaḥ svadhāna namaḥ oṁ mātāmahebhyaḥ svadhā namaḥ oṁ pramātāmahebhyaḥ svadhā namaḥ oṁ vṛddhapramātāmahebhyaḥ svadhā namaḥ pitāmahasyadṛ oṁ akṣanpitaro amīmadanta pitaro amī tṛpyantaḥ pitaraḥ śuṁ(sva) dhadhvaṁ pibeha pitaro'pi vānatrayāṁśca viśrayāṁśca bhavanapavitratvā rathapati te jātavedāḥ svadhābhiryajñaṁ sukṛtaṁ jupasva oṁ ṇaduvātā ṛtāyate madhu kṣaranti sindhavaḥ mādhvīrnaḥ santvoṣadhīrmadhunaktamutoṣaso madhumatpārthivaṁ rajaḥ madhu dyaurastu naḥ pitā madhu mānno vanaspatirmadhubhāmastu sūryo mādhvīrgāvo bhavantu naḥ
ॐ — 'बल, अमृत, घी, दूध और मधुर रस को धारण करने वाली हे स्वधा! मेरे पितरों को तृप्त करो' — पिता-पितामह-प्रपितामह और मातामह-प्रमातामह-वृद्धप्रमातामह को स्वधा नमस्कार। ॐ — 'पितर तृप्त होकर आनन्दित हुए, वे तृप्त पितर यहाँ पीएँ और बल दें'... 'हवा मधु बहाती है, नदियाँ मधु बहाती हैं, औषधियाँ हमारे लिए मधुर हों, रात्रि और उषा मधुर हों, आकाश हमारे लिए मधुर हो, वनस्पति मधुर हो, सूर्य मधुर हो, गौएँ हमारे लिए मधुर हों' — यह प्रार्थना है।
श्लोक 7 (garuda.1.215.7)
प्रपितामहस्याञ्जलिदानम् । ओं नमो वः पितरो रसाय नमो वः पितरः शुष्माय नमो वः पितरो जीवाय नमो वः पितरः स्वधायै नमो वः पितरो घोराय नमो वः पितरो मन्यवे । नमो वः पितरो गृहान्न पितरो दत्तः । नमो वः पितरो दध्मे तद्वः पितरो वासः । मातामहानां त्रिरञ्जलिदृ । ततो मात्रादीनान्दृ
prapitāmahasyāñjalidānam oṁ namo vaḥ pitaro rasāya namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro jīvāya namo vaḥ pitaraḥ svadhāyai namo vaḥ pitaro ghorāya namo vaḥ pitaro manyave namo vaḥ pitaro gṛhānna pitaro dattaḥ namo vaḥ pitaro dadhme tadvaḥ pitaro vāsaḥ mātāmahānāṁ trirañjalidṛ tato mātrādīnāndṛ
प्रपितामह के लिए अंजलि-दान — ॐ — 'हे पितरो, तुम्हारे रस को नमस्कार; हे पितरो, तुम्हारे बल को नमस्कार; हे पितरो, तुम्हारे जीवन को नमस्कार; हे पितरो, तुम्हारी स्वधा को नमस्कार; हे पितरो, तुम्हारे घोर रूप को नमस्कार; हे पितरो, तुम्हारे क्रोध को नमस्कार। हे पितरो, तुम्हें नमस्कार — घरों में जो दिया गया वह तुम्हें प्राप्त हो; हे पितरो, तुम्हें नमस्कार — यह वस्त्र तुम्हारे लिए है।' मातामहों के लिए तीन अंजलि, फिर माता आदि के लिए भी।
श्लोक 8 (garuda.1.215.8)
ये चास्माकं कुले जाता अपुत्रा गोत्रिणो मृताः । ते तृप्यन्तु मया दत्तं वस्त्रनिष्पीडनोदकम्
ye cāsmākaṁ kule jātā aputrā gotriṇo mṛtāḥ te tṛpyantu mayā dattaṁ vastraniṣpīḍanodakam
हमारे कुल में जो निपुत्र और गोत्रविहीन होकर मरे हैं, वे मेरे द्वारा दिए गए वस्त्र-निष्पीड़ित जल से तृप्त हों।