स्वर्ग खण्ड · अध्याय 37
वाराणसी के तीर्थों की सूची
श्लोक 1 (padma.3.37.1)
नारद उवाच । अन्यानि च महाराज तीर्थानि पावनानि तु । वाराणस्यां स्थितानीह संशृणुष्व युधिष्ठिर ।
nārada uvāca anyāni ca mahārāja tīrthāni pāvanāni tu vārāṇasyāṁ sthitānīha saṁśṛṇuṣva yudhiṣṭhira
नारद जी ने कहा — हे महाराज युधिष्ठिर! वाराणसी में स्थित अन्य पावन तीर्थों के विषय में भी सुनो।
श्लोक 2 (padma.3.37.2)
प्रयागादधिकं तीर्थं प्रयागं परमं शुभम् । विश्वरूपं तथा तीर्थं तालतीर्थमनुत्तमम् ।
prayāgādadhikaṁ tīrthaṁ prayāgaṁ paramaṁ śubham viśvarūpaṁ tathā tīrthaṁ tālatīrthamanuttamam
प्रयाग से भी बढ़कर तीर्थ यह परम शुभ (स्थानीय) प्रयाग है; तथा विश्वरूप तीर्थ और अनुपम तालतीर्थ —
श्लोक 3 (padma.3.37.3)
आकाशाख्यं महातीर्थं तीर्थं चैवार्षभं परम् । सुनीलं च महातीर्थं गौरीतीर्थमनुत्तमम् ।
ākāśākhyaṁ mahātīrthaṁ tīrthaṁ caivārṣabhaṁ param sunīlaṁ ca mahātīrthaṁ gaurītīrthamanuttamam
आकाश नामक महातीर्थ, और परम आर्षभ तीर्थ; सुनील महातीर्थ, और अनुपम गौरी-तीर्थ —
श्लोक 4 (padma.3.37.4)
प्राजापत्यं तथा तीर्थं स्वर्गद्वारं तथैव च । जंबुकेश्वरमित्युक्तं धर्माख्यं तीर्थमुत्तमम् ।
prājāpatyaṁ tathā tīrthaṁ svargadvāraṁ tathaiva ca jaṁbukeśvaramityuktaṁ dharmākhyaṁ tīrthamuttamam
प्राजापत्य तीर्थ, तथा स्वर्गद्वार भी; जंबुकेश्वर नामक तीर्थ, और उत्तम धर्म नामक तीर्थ —
श्लोक 5 (padma.3.37.5)
गयातीर्थं परं तीर्थं तीर्थं चैव महानदी । नारायणपरं तीर्थं वायुतीर्थमनुत्तमम् ।
gayātīrthaṁ paraṁ tīrthaṁ tīrthaṁ caiva mahānadī nārāyaṇaparaṁ tīrthaṁ vāyutīrthamanuttamam
गया नामक परम तीर्थ, और महानदी तीर्थ; परम नारायण-तीर्थ, और अनुपम वायु-तीर्थ —
श्लोक 6 (padma.3.37.6)
ज्ञानतीर्थं परं गुह्यं वाराहं तीर्थमुत्तमम् । यमतीर्थं यथापुण्यं तीर्थं संमूर्तिकं शुभम् ।
jñānatīrthaṁ paraṁ guhyaṁ vārāhaṁ tīrthamuttamam yamatīrthaṁ yathāpuṇyaṁ tīrthaṁ saṁmūrtikaṁ śubham
परम गुह्य ज्ञान-तीर्थ, और उत्तम वाराह-तीर्थ; यथापुण्य यम-तीर्थ, और शुभ संमूर्तिक तीर्थ —
श्लोक 7 (padma.3.37.7)
अग्नितीर्थं महाराज कलशेश्वरमुत्तमम् । नागतीर्थं सोमतीर्थं सूर्यतीर्थं तथैव च ।
agnitīrthaṁ mahārāja kalaśeśvaramuttamam nāgatīrthaṁ somatīrthaṁ sūryatīrthaṁ tathaiva ca
हे महाराज! अग्नि-तीर्थ, और उत्तम कलशेश्वर; नाग-तीर्थ, सोम-तीर्थ, और सूर्य-तीर्थ भी —
श्लोक 8 (padma.3.37.8)
पर्वताख्यं महागुह्यं मणिकर्ण्यमनुत्तमम् । घटोत्कचं तीर्थवरं श्रीतीर्थं च पितामहम् ।
parvatākhyaṁ mahāguhyaṁ maṇikarṇyamanuttamam ghaṭotkacaṁ tīrthavaraṁ śrītīrthaṁ ca pitāmaham
पर्वत नामक महागुह्य तीर्थ, और अनुपम मणिकर्णिका; श्रेष्ठ घटोत्कच-तीर्थ, और श्री-तीर्थ, और पितामह-तीर्थ —
श्लोक 9 (padma.3.37.9)
गंगातीर्थं तु देवेशं ययातेस्तीर्थमुत्तमम् । कापिलं चैव सोमेशं ब्रह्मतीर्थमनुत्तमम् ।
gaṁgātīrthaṁ tu deveśaṁ yayātestīrthamuttamam kāpilaṁ caiva someśaṁ brahmatīrthamanuttamam
देवेश गंगा-तीर्थ, और उत्तम ययाति-तीर्थ; कापिल तीर्थ, सोमेश, और अनुपम ब्रह्म-तीर्थ —
श्लोक 10 (padma.3.37.10)
तत्र लिंगं पुराणीयं स्थातुं ब्रह्मा यथागतः । तदानीं स्थापयामास विष्णुस्तल्लिंगमैश्वरम् ।
tatra liṁgaṁ purāṇīyaṁ sthātuṁ brahmā yathāgataḥ tadānīṁ sthāpayāmāsa viṣṇustalliṁgamaiśvaram
वहाँ एक पुरातन लिंग है; जब ब्रह्मा वहाँ स्थापित करने आए, तब उससे पहले ही विष्णु ने उस ऐश्वर लिंग को स्थापित कर दिया था।
श्लोक 11 (padma.3.37.11)
तत्र स्नात्वा समागम्य ब्रह्मा प्रोवाच तं हरिम् । मयानीतमिदं लिंगं कस्मात्स्थापितवानसि ।
tatra snātvā samāgamya brahmā provāca taṁ harim mayānītamidaṁ liṁgaṁ kasmātsthāpitavānasi
वहाँ स्नान करके पास आकर ब्रह्मा ने हरि से कहा — यह लिंग मेरे द्वारा लाया गया था, फिर तुमने इसे क्यों स्थापित कर दिया?
श्लोक 12 (padma.3.37.12)
तमाह विष्णुस्त्वत्तोऽपि रुद्रे भक्तिर्दृढा मम । तस्मात्प्रतिष्ठितं लिगं नाम्ना तव भविष्यति ।
tamāha viṣṇustvatto'pi rudre bhaktirdṛḍhā mama tasmātpratiṣṭhitaṁ ligaṁ nāmnā tava bhaviṣyati
विष्णु ने उससे कहा — तुमसे भी अधिक, रुद्र में मेरी दृढ़ भक्ति है; इसलिए यह प्रतिष्ठित लिंग तुम्हारे ही नाम से जाना जाएगा।
श्लोक 13 (padma.3.37.13)
भूतेश्वरं तथा तीर्थं तीर्थं धर्मसमुद्भवम् । गंधर्वतीर्थं सुशुभं वाह्नेयं तीर्थमुत्तमम् ।
bhūteśvaraṁ tathā tīrthaṁ tīrthaṁ dharmasamudbhavam gaṁdharvatīrthaṁ suśubhaṁ vāhneyaṁ tīrthamuttamam
भूतेश्वर तीर्थ भी, और धर्म से उत्पन्न तीर्थ; अत्यंत शुभ गंधर्व-तीर्थ, और उत्तम वाह्नेय-तीर्थ —
श्लोक 14 (padma.3.37.14)
दौर्वासिकं व्योमतीर्थं चंद्रतीर्थं युधिष्ठिर । चिंतांगदेश्वरं तीर्थं पुण्यं विद्याधरेश्वरम् ।
daurvāsikaṁ vyomatīrthaṁ caṁdratīrthaṁ yudhiṣṭhira ciṁtāṁgadeśvaraṁ tīrthaṁ puṇyaṁ vidyādhareśvaram
हे युधिष्ठिर! दौर्वासिक, व्योम-तीर्थ, और चंद्र-तीर्थ; चिंतांगदेश्वर तीर्थ, और पुण्य विद्याधरेश्वर —
श्लोक 15 (padma.3.37.15)
केदारतीर्थमुग्राख्यं कालंजरमनुत्तमम् । सारस्वतं प्रभासं च रुद्रकर्णह्रदं शुभम् ।
kedāratīrthamugrākhyaṁ kālaṁjaramanuttamam sārasvataṁ prabhāsaṁ ca rudrakarṇahradaṁ śubham
उग्र नामक केदार-तीर्थ, और अनुपम कालंजर; सारस्वत, प्रभास, और शुभ रुद्र-कर्णह्रद —
श्लोक 16 (padma.3.37.16)
कोकिलाख्यं महातीर्थं तीर्थं चैव महालयम् । हिरण्यगर्भं गोप्रेक्षं तीर्थं चैवमनुत्तमम् ।
kokilākhyaṁ mahātīrthaṁ tīrthaṁ caiva mahālayam hiraṇyagarbhaṁ goprekṣaṁ tīrthaṁ caivamanuttamam
कोकिल नामक महातीर्थ, और महालय तीर्थ; हिरण्यगर्भ, गोप्रेक्ष, और यह अनुपम तीर्थ भी —
श्लोक 17 (padma.3.37.17)
उपशांतं शिवं चैव व्याघ्रेश्वरमनुत्तमम् । त्रिलोचनं महातीर्थं लोकार्कं चोत्तराह्वयम् ।
upaśāṁtaṁ śivaṁ caiva vyāghreśvaramanuttamam trilocanaṁ mahātīrthaṁ lokārkaṁ cottarāhvayam
उपशांत, और शिव स्वयं, और अनुपम व्याघ्रेश्वर; त्रिलोचन महातीर्थ, और उत्तर नामक लोकार्क —
श्लोक 18 (padma.3.37.18)
कपालमोचनं तीर्थं ब्रह्महत्याविनाशनम् । शुक्रेश्वरं महापुण्यमानंदपुरमुत्तमम् ।
kapālamocanaṁ tīrthaṁ brahmahatyāvināśanam śukreśvaraṁ mahāpuṇyamānaṁdapuramuttamam
ब्रह्महत्या का नाश करने वाला कपालमोचन तीर्थ; महापुण्य शुक्रेश्वर, और उत्तम आनंदपुर —
श्लोक 19 (padma.3.37.19)
एवमादीनि तीर्थानि वाराणस्यां स्थितानि वै । न शक्यं विस्तराद्वक्तुं कल्पकोटिशतैरपि ।
evamādīni tīrthāni vārāṇasyāṁ sthitāni vai na śakyaṁ vistarādvaktuṁ kalpakoṭiśatairapi
इस प्रकार के अनेक तीर्थ वाराणसी में स्थित हैं; इन्हें सैकड़ों करोड़ कल्पों में भी विस्तार से कहना संभव नहीं है।