Skip to main content

चतुर्थांश · अध्याय 23

मगध के भावी राजा

अध्याय 22अध्याय-सूचीअध्याय 24

श्लोक 1 (vishnu.4.23.1)

मागधानां बार्हद्रथानां भविष्याणामनुक्रमं कथयामि ।

māgadhānāṁ bārhadrathānāṁ bhaviṣyāṇāmanukramaṁ kathayāmi

अब मैं मगध के बार्हद्रथ भावी राजाओं का क्रम बताता हूं।

श्लोक 2 (vishnu.4.23.2)

अत्र हि वंशे महाबला जरासंधप्रधाना बभूवुः ।

atra hi vaṁśe mahābalā jarāsaṁdhapradhānā babhūvuḥ

इस वंश में जरासंध प्रमुख महाबली राजा हुए।

श्लोक 3 (vishnu.4.23.3)

जरासंधसुतात्सहदेवात्सोमापिः, तस्मात्श्रुतवान्, तस्याप्ययुतायुः, ततश्च निरमित्रः तत्तनयः सुक्षत्रः, तस्मादपि बृहत्कर्मा, ततश्च सेनजित्, तस्माच्च श्रुतंजयः, ततो विप्रः, तस्य च पुत्रः शुचिनामा भविष्यति । तस्यापि क्षेम्यः, ततश्च सुव्रतात्धर्मः, ततः सुश्रमः, ततो दृढसेनः, ततः सुमतिः, तस्मात्सुबलः, तस्य सुनीतो भविता । ततः सत्यजित्, सत्यजितो विशजित्, तस्यापि रिपुंजयः पुत्रः, इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ।

jarāsaṁdhasutātsahadevātsomāpiḥ, tasmātśrutavān, tasyāpyayutāyuḥ, tataśca niramitraḥ tattanayaḥ sukṣatraḥ, tasmādapi bṛhatkarmā, tataśca senajit, tasmācca śrutaṁjayaḥ, tato vipraḥ, tasya ca putraḥ śucināmā bhaviṣyati tasyāpi kṣemyaḥ, tataśca suvratātdharmaḥ, tataḥ suśramaḥ, tato dṛḍhasenaḥ, tataḥ sumatiḥ, tasmātsubalaḥ, tasya sunīto bhavitā tataḥ satyajit, satyajito viśajit, tasyāpi ripuṁjayaḥ putraḥ, ityete bārhadrathā bhūpatayo varṣasahasramekaṁ bhaviṣyanti

जरासंध के पुत्र सहदेव से सोमापि, उससे श्रुतवान्, उसका भी अयुतायु, फिर निरमित्र, उसका पुत्र सुक्षत्र, उससे भी बृहत्कर्मा, फिर सेनजित्, उससे श्रुतंजय, फिर विप्र, उसका पुत्र शुचि नामक होगा। उसका भी क्षेम्य, फिर सुव्रत से धर्म, फिर सुश्रम, फिर दृढसेन, फिर सुमति, उससे सुबल, उसका सुनीत होगा। फिर सत्यजित्, सत्यजित् से विशजित्, उसका भी पुत्र रिपुंजय — ये सभी बार्हद्रथ राजा एक हजार वर्षों तक राज्य करेंगे।

अध्याय 22अध्याय-सूचीअध्याय 24